कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
४७४ कथासरित्सागर
४७४ कथासरित्सागर
बाणव्रणगलद्रक्तस्तस्तस्येभं शुशुभेर्दन्।
सधातुनिर्झरोद्गारमञ्जनाद्रि म्व्यडम्बयत् ॥१६९॥
ततो लब्धजयावृत्ते तत्सैन्ये मिलितेऽखिले।
पराभ्य हतशेषास्ते भित्वा दक्ष दिशो ययुः ॥१७०॥
ततो निवृत्तसंग्रामः पृथ्वीरूपो महीपतिः।
स रूपभरदूतेन स्तूयमानपराक्रमः ॥१७१॥
व्रणितानीकविश्राम्य तस्यामेवाटवीभुवि।
विजयी सरसीतीरे दिवसं वसति स्म सम् ॥१७२॥
प्रातस्तत प्रयातम्च स राजा क्रमशो व्रजन्।
तत्राप नगरं वज्रपुरं तीरस्थमम्बुधेः ॥१७३॥
तत्रैकाहं विशश्राम तम्रत्येन महीभुता।
उदारचरिताख्येन रचितोचितसत्क्रियः ॥१७४॥
तेनैवोपहृतैर्यानपात्रैस्तीर्त्वा च सागरम्।
अष्टभिर्दिवसैः प्राप द्वीप मुत्तिपुर स तत् ॥१७५॥
बुद्ध्वा रूपभरस्तच्च राजा हृष्टस्तमभ्यगात्।
मिलन्त स्म च तौ भूपौ कृतकण्ठग्रहौ मिथः ॥१७६॥
ततस्तेन समं पृथ्वीरूपो राजा स तत्पुरम्।
विवेश पौरनारीणां पीयमान इवेक्षणैः ॥१७७॥
तत्र हेमलता राज्ञी स च रूपधरो नृपः।
दृष्ट्वानुहपं दुहितुर्भर्तारं सं ननन्दतुः ॥१७८॥
अथ स्वसम्पदुचितं राज्ञा रूपधरेण सः।
आचाररचितस्वस्तौ पृथ्वीरूपोऽत्र पार्थिवः ॥१७९॥
अम्युद्यतशिरोकाया वेदीमारुह्य शोभनः।
लग्ने रूपलतायाः स सोत्सवः पाणिमग्रहीत् ॥१८०॥
सत्यं श्रुतं त्वया पूर्वमिति वक्तुमिव श्रुतिम्।
प्रापोत्फुल्ला तयोर्दृष्टिरन्योन्यरूपवर्धिनोः ॥१८१॥
रत्नानि छात्रमोशेषु द्वयो रूपधरस्तयोः।
ददौ तथा यथा सैष मन रत्नाकरो जनैः ॥१८२॥
निर्वृत्ते च सुतोद्वाह् पित्रङ्गच्छमणाना तान्।
सम्पूज्य वस्त्राभरणैः सर्वानन्यानपूजयत् ॥१८३॥