कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
४६८ कथासरित्सागर
४६८ कथासरित्सागर
पटे यथावल्लिखितां समादाय मदाकृतिम्।
एताभ्यां सह भिक्षुभ्यां द्वीप मुक्तिपुरं व्रज॥१२४॥
तत्र रूपधराख्यस्य राज्ञस्तद्दुहितुस्तथा।
युक्त्या रूपलतायाश्च मदाकारं प्रवर्धय॥१२५॥
पश्य किं स नृपस्तो मे ददाति तनयां न वा।
तां च रूपलतां चित्रे लिखिला त्वमिहानय॥१२६॥
एवमुक्त्वाभिलेक्ष्य स्वं रूपं चित्रपटे स तम्।
सभिक्षुकं चित्रकरं द्वीप सं प्राहिणोन्नृपः॥१२७॥
ते च क्रमान्चित्रकरश्रमणाः प्रस्थितास्ततः।
प्रापुः पत्नपुरं नाम नगरं वारिधेस्तटे॥१२८॥
ततः प्रवहणारूढा गत्वैवाम्बुधिवर्त्मना।
ते तं मुक्तिपुरद्वीपमवापुः पञ्चमेऽहनि॥१२९॥
तत्र चित्रकरो गत्वा राजद्वारि स चीरिकाम्।
मम चित्रकरस्तुल्यो नान्योऽस्तीत्युदसम्भयत्॥१३०॥
तद् बुद्ध्वैव समाहूतो राज्ञा रूपधरेण सः।
प्रविश्य राजभवनं तं प्रणम्य व्यजिज्ञपत्॥१३१॥
पृथ्वीं भ्रान्त्वा मया देव न दृष्टश्चित्रकृत्समः।
तद्देवासुरमर्त्यानामालिखामि क्रमादिश॥१३२॥
तच्छ्रुत्वानाय्य नृपतिः स तां रूपलतां पुरः।
इमामालिख्य मत्पुत्रीं वद्येत्येत्याविशत् तम्॥१३३॥
ततः कुमारिकत्त स चित्रकृद्राजकन्यकाम्।
आलिख्य वर्धयामास तद्रूपामेव तां पटे॥१३४॥
अथ रूपधरो राजा तुष्टो मत्वा विचक्षणम्।
पृच्छति स्म स तं चित्रकरं जामातृलिप्सया॥१३५॥
भद्र पृथ्वी त्वया भ्रान्ता तद् ब्रूहि यदि कुत्रचित्।
रूपे मद्दुहितुस्तुल्या दृष्टा स्त्री पुरुषोऽपि वा॥१३६॥
इत्युक्तस्तन राज्ञा स चित्रकृत्प्रत्युवाच तम्।
नैतत्तुल्या मया दृष्टा नारी नाप्यथवा पुमान्॥१३७॥
एकस्तु पृथ्वीरूपाख्यः प्रतिष्ठाने महीपतिः।
दृष्टः समोऽस्यास्तेनेपा युज्यते यदि साधु तत्॥१३८॥
प्रथम काण्ड ४१९
(नोट: इस पृष्ठ का मूल पाठ अत्यधिक धुंधला/खंडित (heavily degraded/pixelated) होने के कारण केवल शीर्ष भाग “प्रथम काण्ड ४१९” के अतिरिक्त शेष पंक्तियों के अक्षर स्पष्ट रूप से पठनीय नहीं हैं।)