कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१८२ कथासरित्सागर
१८२ कथासरित्सागर
गणयित्वा दशायनि पदानि नय मामितः।
ततः स प्रययावेव पदानि गणयन्नलः॥३४५॥
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृण्वहे।
अष्टौ नव दशेत्युक्तवन्तमुक्तिच्छलेन तम्॥३४६॥
नलं स्कन्धस्थितो नागो रुकाटान्ते ददंश सः।
तेन ह्रस्वभुजः कृष्णो विरूपः सोऽभवत्क्षणम्॥३४७॥
ततोऽवतार्य स्कन्धात्तं स राजा पृष्टवानहिम्।
को भवान् का कृता चेयं त्वया मे प्रत्युपक्रिया॥३४८॥
एतमब्रूषथ श्रुत्वा स नागः प्रत्युवाच तम्।
राजन् कार्कोटनामानं नागराजमवेहि माम्॥३४९॥
दंशो गुणाय च मया दत्तस्ते तच्च वेत्स्यसि।
गूढवासे च वैरूप्यं महतां कार्यसिद्धये॥३५०॥
गृहाण चाग्निशौचाख्यमिदं वस्त्रयुगं मम।
अनेन प्रावृतेनैव स्वं रूपं प्रतिपत्स्यसे॥३५१॥
इत्युक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके गते।
नलस्तस्माद्वनाद् गत्वा क्रमेण प्राप कोशलान्॥३५२॥
कोशलाधिपतेस्तत्र ऋतुपर्णस्य भूपतेः।
स ह्रस्वबाहुनामा सन् सूदत्वं शिश्रिये गृहे॥३५३॥
भोजनानि च यत्तस्य चक्रे दिव्यरसानि सः।
तेन प्रसिद्धिं प्रापात्र रसविज्ञानतस्तथा॥३५४॥
तत्रस्थे ह्रस्वबाह्वाख्ये नले तस्मिन् कदाचन।
विदर्भराजचारपु षेष्वेकोऽत्र किलाययौ॥३५५॥
ह्रस्वबाहुरितीहास्ति स्वविचारबहिर्ययोः।
नलतुल्यो नलः सूद इति चारोऽत्र सोऽशृणोत्॥३५६॥
नलं सम्भाव्य तं बुद्ध्या चास्थाने नृपतेः स्थितम्।
युक्त्या स तत्र गत्वैतां पपाठार्या प्रभूदिताम्॥३५७॥
'बालां बने प्रसुप्तां नृशंस सन्त्यज्य कुमुदिनीकान्ताम्।
प्राप्यवाम्बरखण्डं चन्द्रावुदयः क्व यातोऽसि'॥३५८॥
तच्छ्रुत्वोन्मत्तवाक्यार्थं तमन्या अवजज्ञिरे।
सूदच्छद्मस्थितस्त्वत्र स नलः प्रत्युवाच तम्॥३५९॥