सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

१००४ कथासरित्सागर

१००४ कथासरित्सागर
सन्द्वेश्यामि तथा तत्र यथैतत्तव सेत्स्यति।
इत्युक्त्वा मां स सम्मान्य शिखरो व्यसृजद् गृहम्॥५२॥
अन्येद्युश्च स तां कन्यामारोप्य सपरिच्छदाम्।
यानपात्रेऽम्बुमार्गेण प्राहिणोत्सिंहलान् प्रति ॥५३॥
अथ यावदहं तत्र गन्तुमिच्छामि सोत्सुकः।
तावद्विद्युन्निपातोप्रा वार्ता तत्रोदमूर्छियम्॥५४॥
शिखरस्य सुता यन याता प्रवहणेन तत्।
मग्नमब्धौ न चैकोऽपि तत उत्तीर्णवानिति॥५५॥
तद्वाह्णाशवास्त्या भग्नधैर्यः प्रवहणाकुलः।
अह्रं सद्यो निरालम्ब न्यपतं शोकसागरे॥५६॥
वहैराश्वास्यमानश्च चित्तमाशाभिराक्षिपन्।
अकार्षं निश्चयं ज्ञातुं तद्दीपगमने मतिम्॥५७॥
अथ राजप्रियोऽप्यर्थैस्तैस्तस्तृषितोऽपि सन्।
आरुह्याम्बुनिधौ पोतं गन्तुमारब्धवानहम्॥५८॥
गच्छतश्च महाशब्दो मुञ्चन्धाराक्षरावलीः।
उदतिष्ठन्नमाकस्माद् घोरो वारिदतस्करः॥५९॥
तद्वायुना विरुद्धेन विधिनेव बलीयसा।
उत्क्षिप्योत्क्षिप्य च मुहुर्भग्नं मे वहनं ततः॥६०॥
मग्नेऽम्बुधौ परिजने धने च विधियोगतः।
एकं प्रापि महत्काष्ठं पतितन सता मया॥६१॥
तेन प्रसारितेनेव धात्रा सपदि बाहुना।
शनैर्वतिवशादम्बु पुलिनं प्राप्तवानहम्॥६२॥
तत्राधिरुह्य दुःखार्त्तो निन्दंश्चैवमशङ्कितम्।
स्वप्नलब्धमहं प्रापं तटोपान्तच्युतस्मितम्॥६३॥
तद्विश्रयाच्च निकटे ग्रामं कूलाप्तनाविकम्।
प्रीतवस्त्रयुगोऽज्याक्षमम्ब्विवाहृतम मनाक्॥६४॥
ततो दिशमजानानो दयिताविरही भ्रमन्।
दृष्टवानस्मि सिकताधिवसिक्तभूतां मुवम्॥६५॥
विचरन् मुनिकन्यायां तस्यां चाद्राक्षमग्रतः।
कन्यां लिङ्गार्चनव्यग्रां वनपद्मपि शोभिनीम्॥६६॥