सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

कथासरित्सागर

कथासरित्सागर
तथेति स तदा गत्वा नलशङ्कया तयार्थितः ।
ऋतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ ॥४०५॥
सत्यं ब्रूहि नलो राजा यदि त्वं सूदरूपभृत् ।
चिन्ताब्धिमग्नां पारं मां प्रापयाश्वेत्युवाच सा ॥४०६॥
तच्छ्रुत्वा स नलः स्नेहहर्षदुःखप्रपाकुलः ।
अवाङ्मुखः प्राप्तकालं सामुवाचाथगद्गदम् ॥४०७॥
स एवास्मि नलः सत्यं पापः कुलिशकर्कशः ।
त्वां संतापयता येन व्यामोहादनलायितम् ॥४०८॥
इत्युक्तवान्स पृष्टोऽभूद्दमयन्त्या तया नलः ।
यद्येवं तद्वैरूप्यत्वं कथं प्राप्तो भवानिति ॥४०९॥
ततः स तस्यै स्वोदन्तं नलः कृत्स्नमवर्णयत् ।
कार्कोटकस्यादारभ्य कलिंनिर्गमनावधिम् ॥४१०॥
तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः ।
प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ॥४११॥
दृष्ट्वा नलं पुनरवाप्तनिजाभिरामरूपं तमाशु विकसद्वदनारविन्दा ।
मत्राश्रुभिः शमितदुःखदवानलेव हर्षं कमप्यनुपमं दमयन्त्यवाप ॥४१२॥
बुद्धा च तत्परिजनात्प्रमदप्रवृत्तावागत्य तत्र सहसा स विदर्भराजः ।
भीमो नलं समभिनन्द्य कृतानुम्पूजं महोत्सवमयं स्वपुरं चकार ॥४१३॥
हृष्टता हृदि भीमभूपुजा कृतसत्कृत्युपचारसत्क्रियः ।
ऋतुपर्णनृपोऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ॥४१४॥
अथ निषधनरेश्वरो निजं कलिघोरात्म्यविजृम्भितं नलः ।
श्वशुराय स तत्र वर्णयन्नवसत् प्राप्तसमासक्तं सुखम् ॥४१५॥
गत्वाल्पैरेव दिनैस्ततः स निषधान्सैन्यैः सह स्वाशुरै-
रद्यामानजितं विधाय विनतं तं पुष्कराख्यं पुनः ।
धर्मात्मा धृतसंविभागमगुजं देहाद् गतद्वापरं
राज्यं स्वं दमयन्त्यवाप्तिसुखितो भेजे यथावन्नलः ॥४१६॥
इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः ।
राजसुतां बन्धुमतीं प्रोषितपतिकांमुवाच तां भूयः ॥४१७॥
एवं भुवि महान्तो विपद्य दुःखं भजन्ति कल्याणम् ।
अनुभूयास्तमनं किल दिनकृत्प्रमुखा व्रजन्त्युदयम् ॥४१८॥