Skip to content
SarvaKosh
Back to the archive

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

About this granth

Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.

This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.

The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.

अवयवविपर्यासवचनं न सूत्रार्थः१। कस्मात् ?

Page 86
Page 86 scan

६८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
अवयवविपर्यासवचनं न सूत्रार्थः१। कस्मात् ?
"यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्” ॥
इत्येतद्वचनाद्विपर्यसिनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधर्म्यात् साध्यसाधनं
हेतुलक्षणं न जहाति। अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति ।
'अवयवविपर्यासवचनमप्राप्तकालम्' ( ५. २. ११) इति निग्रहस्थानमुक्तम्,
तदेवेदं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१२. सू० ] छलप्रकरणम् ६९

Page 87
Page 87 scan

१२. सू० ] छलप्रकरणम् ६९
विभागश्च—
तत्त्रिविधम्—वाक्छलम्, सामान्यच्छलम्, उपचारच्छलं चेति ॥ ११ ॥
वाक्छललक्षणम्
तेषाम्—
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥
'नवकम्बलोऽयं माणवकः' इति प्रयोगः। अत्र 'नवः कम्बलोऽस्य' इति वक्तु-
रभिप्रायः। विग्रहे तु विशेषः, न समासे। तत्रायं छलवादी वक्तुरभिप्रायादवि-
वक्षितमन्यमर्थम्—'नव कम्बला अस्येति तावदभिहितं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 88
Page 88 scan

७० वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
विशेषो वक्तव्यः । यस्माद्विशेषोऽर्थविशेषु विज्ञायते—अयमर्थोऽनेनाभिहित इति,
स च विशेषो नास्ति । तस्मान्मिथ्याभियोगमात्रमेतदिति ।
प्रसिद्धश्च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः । 'अस्याभि-
धानस्यायमर्थोऽभिधेयः' इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य ।
प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते, नाप्रयुक्तपूर्वाः । प्रयोगश्चार्थसम्प्रत्ययार्थः,
अर्थप्रत्ययाच्च व्यवहार इति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१३. सू० ] छलप्रकरणम् ७१

Page 89
Page 89 scan

१३. सू० ] छलप्रकरणम् ७१
'अहो खल्वसौ ब्राह्मणो विद्याऽऽचरणसम्पन्नः' इत्युक्ते कश्चिदाह—'सम्भ-
वति ब्राह्मणे विद्याऽऽचरणसम्पत्' इति । अस्य वचनस्य विघातोऽर्थविकल्पो-
पपत्त्याऽसम्भूतार्थकल्पनया क्रियते—यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति
व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्नः । यद्वि-
वक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् । यथा—ब्राह्मणत्वं विद्याचरण-
सम्पदं क्वचिदाप्नोति, क्वचिदत्येति । सामान्यनिमित्तं छलं सामान्यच्छलमिति ।
अस्य च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 90
Page 90 scan

७२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
फलनिर्वृत्तिर्न प्रत्याख्यायते । तदेवं सति वचनविघातोऽसम्भूतार्थकल्पनया
नोपपद्यत इति ॥ १३ ॥
उपचारच्छललक्षणम्
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ १४ ॥
अभिधानस्य धर्मो यथार्थप्रयोगः । धर्मविकल्पः = अन्यत्र दृष्टस्यान्यत्र
प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे¹ । यथा—मञ्चाः क्रोशन्तीति अर्थ-
सद्भावेन प्रतिषेधः—'मञ्चस्थाः पुरुषा क्रोशन्ति, न तु मञ्चाः क्रोशन्ति' ।
का

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१७. सू० ] छलप्रकरणम् ७३

Page 91
Page 91 scan

१७. सू० ] छलप्रकरणम् ७३
च्छन्दतः। यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते ? यथाभूतस्याभ्यनुज्ञा, प्रतिषेधो वा,
न च्छन्दतः। अथ गुणभूतम् ? तदा गुणभूतस्य। यत्र तु वक्ता गुणभूतं शब्दं
प्रयुङ्क्ते, प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति,
न परोपालम्भ इति ॥ १४ ॥
वाक्छलमेवोपचारच्छलम्, तदविशेषात् ? ॥ १५ ॥
न वाक्छलादुपचारच्छलं भिद्यते; तस्याप्यर्थान्तरकल्पनाया

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

लिङ्गदोषसामान्यप्रकरणम् [ १८-२० ]

Page 92
Page 92 scan

७४ वात्स्यायनभाष्यसहिते न्यायदर्शने [१. अ० २. आ०
छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते; किञ्चित्साधर्म्यात् । यथा चायं
हेतुस्त्रित्वं प्रतिषेधति, तथा द्वित्वमप्यभ्यनुज्ञातं प्रतिषेधति; विद्यते हि
किञ्चित्साधर्म्यं द्वयोरपीति । अथ द्वित्वं किञ्चित्साधर्म्यान्न निवर्तते, त्रित्वमपि
न निवर्त्स्यति ॥ १७ ॥
लिङ्गदोषसामान्यप्रकरणम् [ १८-२० ]
जातिलक्षणम्
अत ऊर्ध्वम्—

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

२०. सू० ] लिङ्गदोषसामान्यप्रकरणम् . ७५

Page 93
Page 93 scan

२०. सू० ] लिङ्गदोषसामान्यप्रकरणम् . ७५
विपरीता कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं
प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः ।
अप्रतिपत्तिस्त्वारम्भविषयेऽप्यारम्भः = परेण स्थापितं वा न प्रतिषेधति,
प्रतिषेधं वा नोद्धरति ।
असमासाच्च नैते एव निग्रहस्थाने इति ॥ १९ ॥
किं पुनर्दृष्टान्तवज्जातिनिग्रहस्थानयोरभेदः ? अथ सिद्धान्तवद्द्भेदः ?
इत्यत आह-
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥
तस्य साधर्म्यवैधर्म्याभ्यां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

संशयपरीक्षाप्रकरणम् [ १-७ ]

Page 94
Page 94 scan

अथ द्वितीयोऽध्यायः
[ प्रथमाह्निकम् ]
अत ऊर्ध्वं प्रमाणादिपरीक्षा । सा च ‘विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं
निर्णयः’ ( १. १. ४१ ) इत्यग्रे विमर्श एव परीक्ष्यते—
संशयपरीक्षाप्रकरणम् [ १-७ ]
[ पूर्वपक्षः ]
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ॥ १ ॥
समानस्य धर्मस्याध्यवसात्संशयः, न धर्ममात्रात् ।
अथ वा—‘समानमनयोर्धर्ममुपलभे’ इति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

पादन नहीं कर सकते । और यदि यह अव्यवस्था अपने स्वरूप में व्यवस्थित नहीं है तो

Page 95
Page 95 scan

. ४ . सू० ] संशयपरीक्षाप्रकरणम् ७७
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ ॥
न प्रतिपत्तिमात्रादव्यवस्थामात्राद्वा संशयः, किं तर्हि ? विप्रतिपत्तिमुपल-
भमानस्य संशयः । एवमव्यवस्थायामपीति । अथ वा—अस्त्यात्मेत्येके, नास्त्या-
त्मेत्यपरे मन्यन्ते—इत्युपलब्धेः कथं संशयः स्यादिति । तथोपलब्धिरव्यवस्थिता,
अनुपलब्धिश्चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यत इति ॥ २ ॥
विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ ३

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 96
Page 96 scan

७८ वात्स्यायनभाष्यसहित न्यायदर्शने [२. अ० १. आ०

एवमतादाम्याद्व्यवस्था न भवतीति संशयाभाव इति ॥ ४ ॥
तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ ५ ॥
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्वत्यन्त-
संशयः प्रसज्यते, समानधर्मोपपत्तेरनुच्छेदात् संशयानुच्छेदः । न ह्ययमतद्धर्मा
धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति ॥ ५ ॥
[ सिद्धान्तपक्षः ]
अस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६. सू०] संशयपरीक्षाप्रकरणम् ७९

Page 97
Page 97 scan

६. सू०] संशयपरीक्षाप्रकरणम् ७९
आकाङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था । न चोक्तम्—समानधर्मापेक्ष
इति । समाने च धर्मे कथमाकाङ्क्षा न भवेद्, यद्ययं प्रत्यक्षः स्यात् । एतेन
सामर्थ्येन विज्ञायते—समानधर्माध्यवसायादिति ।
उपपत्तिवचनाद्वा । समानधर्मोपपत्तेरित्युच्यते, न चान्या सद्भावसंवेद-
नादृते समानधर्मोपपत्तिरस्ति । अनुपलभ्यमानसद्भावो हि समानो धर्मो-
ऽविद्यमानवद्भवतीति ।
विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् । यथा लोके

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

ध्यवसायमात्रं संशयहेतुमुपाददीत स एवं वाच्य इति ।

Page 98
Page 98 scan

८० वात्स्यायनभाष्यसहिते न्यायदर्शने [२. अ० १. आ०

विशेषं नोपलभे इति, कथं नु विशेषं पश्येयं येनान्यतरमवधारयेयम्' इति ।
न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति ।
यच्चोक्तम्—'नार्थान्तराध्यवसायादन्यत्र संशयः' इति ? यो ह्यर्थान्तरा-
ध्यवसायमात्रं संशयहेतुमुपाददीत स एवं वाच्य इति ।
यत्पुनेरतत्—'कार्यकारणयोः सारूप्याभावात्' इति ? कारणस्य भावा-
भावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यम् । यस्योत्पादाद्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६. सू० ] संशयपरीक्षाप्रकरणम् ८१

Page 99
Page 99 scan

६. सू० ] संशयपरीक्षाप्रकरणम् ८१
एवमुपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यमिति ।
यत्पुनरेतत्–‘विप्रतिपत्तौ च सम्प्रतिपत्तेः’ इति ? विप्रतिपत्तिशब्दस्य योऽर्थः–
तदध्यवसायो विशेषापेक्षः संशयः, तस्य च समाख्यान्तरेण न निवृत्तिः । समाने-
ऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः, तदध्यवसायश्च विशेषा-
पेक्षः संशयहेतुः । न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशय-
हेतुत्वं निवर्तते । तदिदमकृतबुद्धिसम्मोहनमिति !
यत्पुनः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 100
Page 100 scan

८२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
तावताऽऽत्मानं जहाति, तावता ह्यनुज्ञाताऽव्यवस्था। एवमियं क्रियमाणापि
शब्दान्तरकल्पना नार्थान्तरं साधयतीति।
यत्पुनरेतत्-‘तथाऽत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः’ इति ? नायं समान-
धर्मादिभ्य एव संशयः, किं तर्हि ? तद्विषयाध्यवसायाद् विशेषस्मृतिसहितादित्यतो
नात्यन्तसंशय इति।
अन्यतरधर्माध्यावसायाद्वा न संशय इति ? तन्न युक्तम्; ‘विशेषापेक्षो विमर्शः
संशयः’ इति (१. १. २३) वचनात् । विशेषश्चान्यतरधर्मः, न तस्मिन्नध्यवसी-
यमाने विशेषापेक्षा सम्भवतीति ॥ ६ ॥
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण
प्रतिषिद्धे समाधिर्वाच्य इति।
अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति ॥ ७ ॥
अव्यवस्थास्वरूप में व्यवस्थित रहने के कारण वे अपना अव्यवस्थात्व नहीं छोड़ पातीं ।
इस रूप में पूर्वपक्षी ने भी उनको 'अव्यवस्था' माना है। इसलिये इसकी शब्दान्तर-
कल्पना से भी अर्थान्तर की सिद्धि नहीं हो सकेगी।
यह जो कहा था—'उस धर्म की निरन्तरोपपत्ति से सदा संशय होने लगेगा' ?
इसका उत्तर यह है—केवल समानधर्मादिकों के रहने से ही संशय नहीं होता, अपितु
विशेष धर्मों के स्मृतिसहित तद्विषयक अध्यवसाय से होता है, अतः आत्यन्तिक संशय की
उपपत्ति नहीं बनेगी ।
पूर्वपक्षी ने जो यह कहा था—'किसी एक के धर्माध्यवसाय से संशय नहीं होता' ?
यह भी युक्त नहीं; हम ' 'विशेष धर्म ( के ज्ञान ) की अपेक्षा रखनेवाला विमर्श 'संशय'
होता है" ( १.१.२३ ) ऐसा कह आये हैं । विशेष का मतलब है दो में अन्यतर धर्म,
उसका निश्चय होने पर विशेषापेक्षा नहीं होती ॥ ६ ॥
जहां (जिस प्रमाणादि की परीक्षा में) संशय हो वहाँ वहाँ (वैसी परीक्षा में) इसी
तरह उत्तरोत्तर प्रयोजनादि में परीक्षा-प्रसङ्ग करना चाहिये ॥ ७ ॥
जहाँ जहाँ, शास्त्र या कथा में, संशयपूर्वक परीक्षा का अवसर आये वहाँ वहाँ इस
तरह संशय होने पर प्रतिवादी द्वारा खण्डन करने पर उत्तर देना चाहिये ।
अतः कथाङ्ग होने, तथा सभी प्रमाणादि पदार्थों की परीक्षा में व्यापक होने के
कारण सर्वप्रथम संशय की परीक्षा की गयी है ॥ ७ ॥

११. सू०] प्रमाणसामान्यपरीक्षाप्रकरणम् ८३

Page 101
Page 101 scan

११. सू०] प्रमाणसामान्यपरीक्षाप्रकरणम् ८३
प्रमाणसामान्यपरीक्षाप्रकरणम् [ ८-२० ]
अथ प्रमाणपरीक्षा ।
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ? ॥ ८॥
प्रत्यक्षादीनां प्रमाणत्वं नास्ति, त्रैकाल्यासिद्धेः । पूर्वापरसहभावानुप-
पत्तेरित्यर्थः ॥ ८ ॥
अस्य सामान्यवचनस्यार्थविभागः—
पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः ? ॥ ९ ॥
गन्धादिविषयं ज्ञानं प्रत्यक्षम्, तद्यदि पूर्वम्, पश्चाद् गन्धादीनां सिद्धिः ? नेदं
गन्धादिसन्निकर्षादुत्पद्यत इति ॥ ९ ॥
पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ? ॥ १० ॥
असति प्रमाणे, केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् ? प्रमाणेन खलु प्रमीय-
माणोऽर्थः प्रमेयमित्येतत्सिध्यति ॥ १० ॥
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥ ११ ॥
अब प्रमाण की परीक्षा की जा रही है—
प्रत्यक्ष, अनुमान, उपमान तथा शब्द में प्रामाण्य नहीं बन सकता; क्योंकि प्रमेय
पदार्थ की त्रिकाल (भूत, भविष्यत्, वर्तमान) में सिद्धि नहीं हो पाती ॥ ८ ॥
प्रत्यक्षादिकों में प्रमाणत्व नहीं घटेगा; क्योंकि उनके प्रमेय की त्रिकाल में सिद्धि
नहीं हो सकती; यतः पूर्वोत्तरसामानाधिकरण्य अनुपपन्न होता है ॥ ८ ॥
पूर्वपक्षी के इस सामान्य वचन का अर्थ यों समझें—
प्रमेय से पूर्वकाल में प्रमाण की सिद्धि मानें तो 'इन्द्रियार्थसन्निकर्ष से प्रत्यक्ष होता
है'—यह सिद्धान्ती का प्रत्यक्ष लक्षण नहीं बनेगा ॥ ९ ॥
गन्धादिविषयक ज्ञान ही प्रत्यक्ष है, वह यदि गन्धादि से पूर्वकाल में उत्पन्न होगा
तो उस समय गन्धादि के न रहने से वहाँ सन्निकर्ष किसका बनेगा ? सन्निकर्ष न बनने
से प्रत्यक्ष किसका होगा ? ॥ ९ ॥
गन्धादि प्रमेय के अपर (पश्चात्) काल में इस प्रत्यक्ष को सिद्धि मानें तो 'प्रमाणों
से प्रमेयसिद्धि' यह सिद्धान्त खण्डित हो जायेगा ॥ १० ॥
गन्धादि प्रमेय के समय प्रमाण के न रहने पर प्रमेय किससे प्रमित होगा ? प्रमाण के
सहारे ही प्रमीयमाण अर्थ प्रमेय सिद्ध होता है ॥ १० ॥
यदि उक्त प्रमाण-प्रमेय की एक काल में सिद्धि मानो जाये तो ज्ञान के प्रत्यर्थनियत
होने से उसकी क्रमवृत्ति न हो पायेगी ॥ ११ ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri

Page 102
Page 102 scan

८४ वात्स्यायनभाष्यसहिते न्यायदर्शने [२. अ० १. आ०
यदि प्रमाणं प्रमेयं च युगपद्भवतः, एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि
प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः ।
या इमा बुद्धयः क्रमेणार्थेषु वर्त्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति । व्याघात-
श्च 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' ( १. १. १६ ) इति । एतावांश्च
प्रमाणप्रमेययोः सद्भावविषयः, स चानुपपन्न इति । तस्मात्प्रत्यक्षादीनां प्रमाणत्वं
न सम्भवतीति ।
अस्य समाधिः—उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावा-
नियमाद् यथादर्शनं विभागवचनम् । क्वचिदुपलब्धिहेतुः पूर्वम्, पश्चादुपलब्धि-
विषयः, यथा—आदित्यस्य प्रकाश उत्पद्यमानानाम् । क्वचित्पूर्वमुपलब्धिविषयः,
पश्चादुपलब्धिहेतुः, यथा—अवस्थितानां प्रदीपः । क्वचिदुपलब्धिहेतुरुपलब्धि-
विषयश्च सह भवतः, यथा—धूमेनाग्नेर्ग्रहणमिति । उपलब्धिहेतुश्च प्रमाणम्,
प्रमेयं तूपलब्धिविषयः । एवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथा अर्थो
दृश्यते, तथा विभज्य वचनीय इति । तत्रैकान्तेन प्रतिषेधानुपपत्तिः । सामान्येन
खल्वविभज्य प्रतिषेध उक्त इति ।
यदि प्रमाण तथा प्रमेय की युगपद् सम्भूति मानें तो गन्धादि इन्द्रियार्थों में प्रत्यर्थ-
नियत ज्ञान की भी युगपत् उत्पत्ति माननी पड़ेगी, परन्तु ज्ञान के प्रत्यर्थनियत होने से
उसमें क्रमवृत्तित्व कैसे आयेगा ! तात्पर्य यह है कि जो बुद्धियाँ क्रमशः अर्थ का अवगाहन
करती हैं उनका क्रमवृत्तित्व संभव नहीं है। और 'युगपज्ज्ञानानुत्पाद ही मन का इन्द्रिय-
त्वसाधक हेतु हैं' (१.१.१६) इस मन के लक्षण का भी विरोध होने लगेगा । प्रमाण-
प्रमेय में अस्तित्व यही विषय है, और यही अनुपपन्न होने लगेगा ! अतः प्रत्यक्षादि में
प्रमाणत्व सम्भव नहीं—ऐसा पूर्वपक्षी का मत है ।
समाधान—शास्त्र में उपलब्धि-हेतु और उपलभ्यमान अर्थ का पूर्वकाल या उत्तर-
काल में या एक साथ होना—यह नियम न देखा जाने के कारण दर्शनानुसार ही
विभाग कहा गया है । कहीं उपलब्धि-हेतु पहले रहता है, उपलब्धि-विषय वाद में,
जैसे—उत्पन्न होने वाले पदार्थों के पूर्व सूर्य का प्रकाश । कहीं उपलब्धि-विषय पहले
रहता है, उपलब्धि-हेतु बाद में, जैसे—पहले से उपस्थित पदार्थों के लिए दीपक । कहीं
उपलब्धि-हेतु तथा उपलब्धि-विषय एक साथ रहते हैं, जैसे धूम से अग्नि का ज्ञान ।
उपलब्धि-हेतु है प्रमाण तथा उपलब्धि-विषय है प्रमेय । इस प्रकार प्रमाण-प्रमेय का
पूर्वापरसहभाव नियत न होने के कारण, अर्थ जैसा देखा जाता है उसी तरह विभाग
करके कह दिया जाता है; अतः यहाँ पूर्वपक्षी द्वारा एक एक का नियम मान कर दिये
गये दोष नहीं बन सकते । यों पूर्वपक्षी ने विवेचन न कर सामान्येन जो दोष कहे थे वे
उक्त समाधान से निरस्त कर दिये गये ।

११. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ८५

Page 103
Page 103 scan

११. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ८५
समाख्याहेतोस्त्रैकाल्ययोगात् तथाभूता समाख्या १ । यत्पुनरिदम्—'पश्चात्
सिद्धावसति प्रमाणे प्रमेयं न सिध्यति, प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति
विज्ञायते' इति ? प्रमाणमित्येतस्याः समाख्याया उपलब्धेर्हेतुत्वं निमित्तम्,
तस्य त्रैकाल्ययोगः । उपलब्धिमकार्षीत्, उपलब्धिं करोति, उपलब्धिं करिष्य-
तीति समाख्याहेतोस्त्रैकाल्ययोगात् समाख्या तथाभूता । प्रमितोऽनेनार्थः,
प्रमीयते, प्रमास्यते, इति प्रमाणम् । प्रमितम्, प्रमीयते, प्रमास्यते इति च प्रमेयम् ।
एवं सति—'भविष्यत्यस्मिन् हेतुत उपलब्धिः', 'प्रमास्यतेऽयमर्थः', 'प्रमेयमिदम्'—
इत्येतत् सर्वं भवतीति ।
त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः । यश्चैवं नाभ्यनुजानीयात्
तस्य 'पाचकमानय पक्ष्यति', 'लावकमानय लविष्यति' इति व्यवहारो नोप-
पद्यत इति ।
'प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः' ( २. १. ८) इत्येवमादिवाक्यं
प्रमाणप्रतिषेधः । तत्रायं प्रष्टव्यः—अथानेन प्रतिषेधेन भवता किं क्रियत
समाख्या (संज्ञा-शब्दों) के प्रवृत्तिरूप हेतु से जाति, गुण तथा द्रव्य में त्रैकाल्य-सम्बन्ध
रहना चाहिए, तब समाख्या भी त्रैकाल्यसम्बन्ध रखती है। यह जो कहा था—'पश्चात्-
काल में सिद्धि मानने पर उस समय प्रमाण के न रहने से प्रमेय सिद्ध नहीं होगा, जब
कि प्रमाण से प्रमीयमाण अर्थ ही प्रमेय कहलाता है' ? इसका उत्तर है—'प्रमाण' इस
संज्ञा का निमित्त है—'ज्ञान का कारण होना', यह 'ज्ञान का कारण होना' त्रिकाल-
सम्बन्धी है । 'इसने उपलब्धि की', 'यह उपलब्धि कर रहा है', 'यह उपलब्धि करेगा'
इस प्रकार से 'प्रमाण' संज्ञा त्रैकाल्यसम्बन्धवाली है। अर्थात् 'इससे प्रमेय जाना गया',
'जाना जाता है', 'जानेगा'—इसलिए यह प्रमाण कहलाता है। प्रमेय भी त्रैकाल्य-
सम्बन्ध वाला है—'यह जाना गया', 'जाना जाता है' या 'जाना जायेगा।' ऐसा
त्रैकाल्य-सम्बन्ध होने पर—'इसमें हेतु से उपलब्धि हो जायेगी', 'यह अर्थ को जानेगा'
तथा 'यह जानने योग्य है' यह सब व्यवहार उपपन्न हो जायेंगे ।
त्रैकाल्य-सम्बन्ध न मानने पर समग्र लोकव्यवहार उच्छिन्न होने लगेगा। जो इस
त्रैकाल्यसम्बन्ध को स्वीकार नहीं करता, उसके लिये 'पाचक लाओ, भोजन पकायेगा',
'घास काटनेवाले को लाओ, घास काटेगा'—यह व्यवहार कैसे बनेगा !
पूर्वपक्षी ने यह भी कहा था कि 'त्रिकाल-सम्बन्ध की असिद्धि के कारण प्रत्यक्षादि
में प्रामाण्य नहीं बनेगा' ? उसके उत्तर में पूर्वपक्षी से यह पूछना चाहिये कि यह प्रतिषेध
१. केषुचित्पुस्तकेषु वाक्यमिदं सूत्रत्वेनोपन्यस्तम्, परन्तु निकाये तथाऽप्रसिद्धत्वादस्मा-
भिर्न स्वीकृतम् ।—स० ०

Page 104
Page 104 scan

८६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
इति ? किं सम्भवो निवर्त्यते, अथासम्भवो ज्ञाप्यत इति ? तद्यदि सम्भवो
निवर्त्यते, सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः । अथासम्भवो ज्ञाप्यते,
प्रमाणलक्षणं प्राप्तस्तर्हि प्रतिषेधः, प्रमाणासम्भवस्योपलब्धिहेतुत्वादिति ॥ ११ ॥
किं चातः ?
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥
अस्य तु विभागः । पूर्वं हि प्रतिषेधसिद्धावसति प्रतिषेध्ये किं तेन प्रतिषिध्यते !
पश्चात्सिद्धौ प्रतिषेधाभावादिति । युगपत्सिद्धौ प्रतिषेध्यसिद्धयभ्यनुज्ञानादनर्थकः
प्रतिषेध इति । प्रतिषेधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां
प्रमाणत्वमिति ॥ १२ ॥
कथम् १ ?
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ १३ ॥
'त्रैकाल्यासिद्धेः' इत्यस्य हेतोर्यद्युदाहरणमुपादीयते, हेत्वर्थस्य साधकत्वं
कर के आप क्या करना चाहते हैं ? क्या सम्भव की निवृत्ति कर रहे हैं या असम्भव को
बतला रहे हैं ? यदि सम्भव की निवृत्ति कर रहे हैं तो सम्भव होने पर प्रत्यक्षादि की
निवृत्ति कैसी ! यदि असम्भव बतला रहे हैं तो असम्भव का ज्ञापन कैसा ? क्योंकि आपका
उक्त प्रकारका ज्ञापन भी उक्त प्रमाणों के लक्षण की परिधि में ही आ गया ! आपने ही
तो कहा था कि प्रत्यक्षादि में प्रमाण का असम्भव उपलब्धि का कारण है ! ॥ ११ ॥
इससे क्या हुआ ?
त्रैकाल्य की सिद्धि न बनने से पूर्वपक्षयुक्त प्रतिषेध नहीं बन सकता ॥ १२ ॥
( पूर्वपक्षी को उत्तर देने के लिये ) इस सूत्र का वक्ष्यमाण विभागार्थ कर लेना
चाहिये । प्रस्तुत प्रमाण की सिद्धि होने पर प्रतिषेध्य के न रहने से वह किसका प्रतिषेध
करेगा ? पश्चात् काल में प्रतिषेध्य मानने पर उस समय प्रतिषेध न कर पाने से प्रतिषेध्य
की असिद्धि ही रहेगी । युगपत् (एक काल में) सिद्धि मानने पर पूर्वपक्षी द्वारा प्रतिषेध्य
की स्वीकृति दे देने से उसका प्रतिषेध निरर्थक हो जायेगा । प्रतिषेध-लक्षणार्थक वाक्य
के अनुपपन्न होने से प्रत्यक्षादि में प्रमाणत्व रह ही जायेगा ॥ १२ ॥
कैसे ?
क्योंकि सम्पूर्ण प्रमाणों का निषेध करने से भी प्रतिषेध नहीं बन सकेगा ॥ १३ ॥
यदि 'त्रैकाल्यासिद्धि' हेतु का उदाहरण देने का प्रयत्न करे तो उसमें हेत्वर्थसाधकत्व
१. पदमिदं क्वचित् सूत्रस्यावतरणरूपेण गृहीतम्, क्वचिच्च व्याख्यानरूपेणेत्युभयथापि
समञ्जसमेव प्रतिभाति ।

१५. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ८७

Page 105
Page 105 scan

१५. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ८७
दृष्टान्ते दर्शयितव्यमिति, न च तर्हि प्रत्यक्षादीनामप्रमाण्यम् । अथ प्रत्यक्षादीना-
मप्रामाण्यम् ? उपादीयमानमप्युदाहरणं नार्थं साधयिष्यतीति । सोऽयं सर्वप्रमाणै-
र्व्याहतो हेतुरहेतुः 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' ( १. २. ६) इति ।
वाक्यार्थो ह्यस्य सिद्धान्तः । स च वाक्यार्थः- प्रत्यक्षादीनि नार्थं साधयन्तीति ।
इदं चावयवानामुपादानमर्थस्य साधनायेति । अथ नोपादीयते ? अप्रदर्शितहेत्व-
र्थस्य दृष्टान्ते न साधकत्वमिति निषेधो नोपपद्यते; हेतुत्वासिद्धेरिति ॥ १३ ॥
तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ १४ ॥
प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्यनु-
ज्ञायमाने परवाक्येऽप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते; अविशेषादिति । एवं च
न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति । विप्रतिषेध इति 'वि' इत्ययमुपसर्गः
संप्रतिपत्त्यर्थे, न व्याघाते; अर्थाभावादिति ॥ १४ ॥
त्रै काल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत् तत्सिद्धेः ॥ १५ ॥
किमर्थं पुनरिदमुच्यते ? पूर्वोक्तनिबन्धनार्थम् । यत्तावत्पूर्वोक्तम्- 'उपलब्धि-
दिखाना पड़ेगा । इससे प्रत्यक्षादि का अप्रमाणत्व फिर भी नहीं बनेगा । यदि प्रत्यक्षादि
का अप्रामाण्य ही मान लें तो दिया हुआ उदाहरण अर्थ को सिद्ध न कर सकेगा- इसलिए
वह हेतु हेतु नहीं होगा । अतः यह जिस 'सिद्धान्त का आश्रय लेकर प्रवृत्त है उसका विरोध
करने वाला विरुद्ध' (१.२.६) हेत्वाभास होगा; क्योंकि 'प्रत्यक्षादि प्रमाण अर्थ की सिद्धि
नहीं करते' यह वाक्यार्थ ही पूर्वपक्षी का सिद्धान्त है, और उसके द्वारा यह प्रतिज्ञादि
पांचों अवयवों का ग्रहण भी अर्थसिद्धि के लिये ही करना पड़ता है । यदि इनका ग्रहण
न किया जाय तो अप्रदर्शित हेत्वर्थ की दृष्टान्त में साधकता नहीं बनेगी, तब प्रतिषेध भी
कैसे हो सकेगा; क्योंकि हेतुत्व ही सिद्ध नहीं हुआ ॥ १३ ॥
अवयवाश्रित प्रत्यक्ष आदि को प्रमाण मानने पर समग्र प्रमाणों का प्रतिषेध सिद्ध न
होगा ॥ १४ ॥
प्रतिषेधलक्षणक स्ववाक्य में यदि पूर्वपक्षी उन अवयवों पर आश्रित प्रत्यक्षादि को
प्रमाण मानता है तो सिद्धान्ती के वाक्य में अवयवाश्रितत्व समानता के कारण प्रत्यक्षादि
को प्रमाण मानना पड़ेगा; इस तरह सब प्रमाण प्रतिषिद्ध कहाँ हुए ! 'विप्रतिषेध' शब्द
में 'वि' यह उपसर्ग 'समग्र प्रमाणों के निषेध का यथार्थ ज्ञान' का बोधक है, न कि विरोध
का; क्योंकि 'विरोध' अर्थ मानने का कोई प्रयोजन नहीं है ॥ १४ ॥
ध्वनिरूप शब्द से वाद्ययन्त्र की सिद्धि की तरह प्रमाणरूप कारण को सिद्धि होने से
प्रमाणों में त्रैकाल्य-प्रतिषेध भी नहीं बनेगा ॥ १५ ॥
यह बात पहले ( २. १. ११ में ) कह ही आये, अब फिर क्यों कही जा रही है ?