न्याय दर्शन (वात्स्यायन भाष्य सहित)

न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
DevanagariSanskritpublished410 pages
Page 93 of 410
Read in contextPage 93
२०. सू० ] लिङ्गदोषसामान्यप्रकरणम् . ७५
विपरीता कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं
प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः ।
अप्रतिपत्तिस्त्वारम्भविषयेऽप्यारम्भः = परेण स्थापितं वा न प्रतिषेधति,
प्रतिषेधं वा नोद्धरति ।
असमासाच्च नैते एव निग्रहस्थाने इति ॥ १९ ॥
किं पुनर्दृष्टान्तवज्जातिनिग्रहस्थानयोरभेदः ? अथ सिद्धान्तवद्द्भेदः ?
इत्यत आह-
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥
तस्य साधर्म्यवैधर्म्याभ्यां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in