न्याय दर्शन (वात्स्यायन भाष्य सहित)

न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
DevanagariSanskritpublished410 pages
Page 89 of 410
Read in contextPage 89
१३. सू० ] छलप्रकरणम् ७१
'अहो खल्वसौ ब्राह्मणो विद्याऽऽचरणसम्पन्नः' इत्युक्ते कश्चिदाह—'सम्भ-
वति ब्राह्मणे विद्याऽऽचरणसम्पत्' इति । अस्य वचनस्य विघातोऽर्थविकल्पो-
पपत्त्याऽसम्भूतार्थकल्पनया क्रियते—यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति
व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्नः । यद्वि-
वक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् । यथा—ब्राह्मणत्वं विद्याचरण-
सम्पदं क्वचिदाप्नोति, क्वचिदत्येति । सामान्यनिमित्तं छलं सामान्यच्छलमिति ।
अस्य च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in