Skip to content
SarvaKosh
Back to the archive

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

About this granth

Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.

This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.

The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.

पादित कर चुके हैं ॥ ४४ ॥

Page 273
Page 273 scan

४५. सू० ] बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम् २५५
व्यक्तम् । प्रत्यर्थनियता हि बुद्धयः, तदिदमव्यक्तग्रहणं देशितं क्व विषये बुद्धय-
नवस्थानकारितं स्यादिति !
धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः ।
धर्मिणः खल्वर्थस्य समानाश्च धर्माः, विशिष्टाश्च; तेषु प्रत्यर्थनियता नाना-
बुद्धयः । ता उभय्यो यदि धर्मिणि वर्तन्ते तदा व्यक्तं ग्रहणं धर्मिणमभिप्रेत्य ।
यदा तु सामान्यग्रहणमात्रं तदाऽव्यक्तं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 274
Page 274 scan

२५६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
नवस्थानं ग्राह्यानवस्थानं च, प्रत्यर्थनियतत्वाद् बुद्धीनाम्, यावन्ति प्रदीपार्चींषि
तावत्यो बुद्धय इति । दृश्यते चात्र व्यक्तं प्रदीपार्चिषां ग्रहणमिति ॥ ४५ ॥
बुद्धेः शरीरगुणव्यतिरेकपरीक्षाकरणम् [ ४६-५५ ]
चेतना शरीरगुणः; सति शरीरे भावात्, असति चाभावादिति ?—
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ४६ ॥
सांशयिकः सति भावः। स्वगुणोऽप्सु

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

४९. सू० ] बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम् २५७

Page 275
Page 275 scan

४९. सू० ] बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम् २५७
संस्कारानुपपत्तिर्भवति । यथाविधे शरीरे चेतना गृह्यते, तथाविध एवात्यन्तोपरम-
श्चेतनाया गृह्यते । तस्मात् संस्कारवदित्यसमः समाधिः ।
अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्याद् ? द्रव्यान्तरस्थं वा ? उभयस्थं
वा ? तन्न; नियमहेत्वभावात् । शरीरस्थेन कदाचिच्चेतनोत्पद्यते, कदाचिन्नति
नियमे हेतुर्नास्तीति । द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते, न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 276
Page 276 scan

२५८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु पाकजोत्पत्तिर्दृश्यते; पूर्वगुणैः
सह पाकजानामवस्थानस्याग्रहणात् । न च शरीरे चेतनाप्रतिद्वन्द्विसिद्धौ सहानव-
स्थायि गुणान्तरं गृह्यते, येनानुमीयेत तेन चेतनाया विरोधः । तस्मादप्रतिषिद्धा
चेतना यावच्छरीरं वर्त्तेत ! न तु वर्त्तते, तस्मान्न शरीरगुणश्चेतना इति ॥ ४९ ॥
२. इतश्च न शरीरगुणश्चेतना;

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

५५. सू० ] बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम् २५९

Page 277
Page 277 scan

५५. सू० ] बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम् २५९
त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ५२ ॥
इन्द्रियाश्रयत्वं शरीरलक्षणम् । त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतन-
भूतं शरीरम्, तस्मान्न केशादिषु चेतनोत्पद्यते । अर्थकारितस्तु शरीरोपनिबन्धः
केशादीनामिति ॥ ५२ ॥
३. इतश्च न शरीरगुणश्चेतना;
शरीरगुणवैधर्म्यात् ॥ ५३ ॥
द्विविधः शरीरगुणः—अप्रत्यक्षश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 278
Page 278 scan

२६० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
अप्रत्यक्षत्वाच्चेति । यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यमतिवर्तन्ते,
तथा रूपादिदैधर्म्याच्चेतना न द्वैविध्यमतिवर्तेत यदि शरीरगुणः स्यादिति !
अतिवर्तते तु, तस्मान्न शरीरगुण इति ।
भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्यारम्भो विशेषज्ञापनार्थः । बहुधा
परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति ॥ ५५ ॥
मनःपरीक्षाप्रकरणम् [ ५६-५९ ]
परीक्षिता बुद्धिः, मनसः इदानीं परीक्षाक्रमः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

५८. सू० ] मनःपरीक्षाप्रकरणम् २६१

Page 279
Page 279 scan

५८. सू० ] मनःपरीक्षाप्रकरणम् २६१
न; युगपदनेकक्रियोपलब्धेः ? ॥ ५७ ॥
अयं खल्वध्यापकोऽधीते, व्रजति, कमण्डलुं धारयति, पन्थानं पश्यति, शृणो-
त्यरण्यान् शब्दान्, बिभेति, व्याललिङ्गानि बुभुत्सते, स्मरति च गन्तव्यं स्थानी-
यमिति क्रमस्याग्रहणाद्युगपदेताः क्रिया इति प्राप्तं मनसो बहुत्वमिति ? ॥५७॥
अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् ॥ ५८ ॥
आशुसञ्चारादलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 280
Page 280 scan

२६२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
आत्मप्रत्यक्षत्वात् । अथापि दृष्टश्रुतानर्थान् चिन्तयतः क्रमेण बुद्धयो वर्त्तन्ते, न
युगपत्-अनेनानुमातव्यमिति । वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्ति-
त्वात्क्रमस्याग्रहणम् । कथम् ? वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं
भवति, श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति,
पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच्च वाक्यं
व्यवस्यति,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६०. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६३

Page 281
Page 281 scan

६०. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६३
पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानमीप्सितावाप्तिश्च,
सर्वे च शरीराश्रया व्यवहाराः । तत्र खलु विप्रतिपत्तेः संशयः—किमयं पुरुष-
कर्मनिमित्तः शरीरसर्गः ? आहोस्विद् भूतमात्रादकर्मनिमित्त इति ?—श्रूयते
खल्वत्र विप्रतिपत्तिरिति ।
तत्रेदं तत्त्वम्—
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ६० ॥
पूर्वशरीरे या प्रवृत्तिर्वाग्बुद्धिशरीरारम्भलक्षणा तत्पूर्वकं कर्मोक्तम्, तस्य
फलं तज्जनितौ धर्माधर्मौ,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ? ॥ ६१ ॥

Page 282
Page 282 scan

२६४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
शरीरमपि पुरुषार्थक्रियासमर्थमुत्पद्यमानम् पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य
उत्पद्यत इति ॥ ६० ॥
अत्र नास्तिक आह—
भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ? ॥ ६१ ॥
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिका-
ञ्जनप्रभृतयः पुरुषार्थकारित्वादुपादीयन्ते, तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः
शरीरमुत्पन्नं पुरुषार्थकारित्वादुपादीयते इति ? ॥ ६१

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६५. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६५

Page 283
Page 283 scan

६५. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६५
सत्त्वस्य गर्भवासानुभवनीयं कर्म, पित्रोश्च पुत्रफलानुभवनीये कर्मणो मातृ-
गर्भाश्रये शरीरोत्पत्ति भूतेभ्यः प्रयोजयन्तीत्युपपन्नं बीजानुविधानमिति ॥ ६३ ॥
तथाऽऽहारस्य ॥ ६४ ॥
उत्पत्तिनिमित्तत्वादिति प्रकृतम् । भुक्तम् पीतम् = आहारः तस्य पक्तिनिर्वृत्तं
रसद्रव्यम् मातृशरीरे चोपचिते बीजे गर्भाशयस्थे बीजसमानपाकम्, मात्रया
चोपचयो बीजे यावद्व्यूहसमर्थं सञ्चयः इति । सञ्चितं चार्वुदमांसपेशी-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 284
Page 284 scan

२६६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
सति च भवतीत्यनुपपन्नो नियमाभाव इति, कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्ति-
हेतुषु नियमः स्यात् । न ह्यत्र कारणाभाव इति ॥ ६५ ॥
अथापि—
शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥ ६६ ॥
यथा खल्विदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातु-
नां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च
कोष्ठगानां वातपित्तकफानां च मुखकण्ठहृदयामाशयपक्वाशायाधःस्रोतसां च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६७. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६७

Page 285
Page 285 scan

६७. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६७
तस्यैवोपभोगायतनं शरीरमुत्पाद्य व्यवस्थापयति । तदेवम् ‘शरीरोत्पत्तिनिमित्त-
वत्संयोगनिमित्तं कर्म' इति विज्ञायते । प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना
संयोगं प्रचक्ष्महे इति ॥ ६६ ॥
एतेनानियमः प्रत्युक्तः ॥ ६७ ॥
योऽयमकर्मनिमित्ते शरीरसर्गे सत्यनियम इत्युच्यते, अयं शरीरोत्पत्ति-
निमित्तवत् संयोगोत्पत्तिनिमित्तं कर्मेत्यनेनानियमः प्रत्युक्तः । कस्तावदयं
नियमः ? यथैकस्यात्मनः शरीरं तथा सर्वेषामिति नियमः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 286
Page 286 scan

२६८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
सर्वं सर्वात्मनां प्रसज्येत ! न त्विदमित्थम्भूतं जन्म, तस्मान्नाकर्मनिमित्ता शरी-
रोत्पत्तिरिति ।
उपपन्नश्च तद्वियोगः, कर्मक्षयोपपत्तेः । कर्मनिमित्ते शरीरसर्गे तेन शरीरे-
णात्मनो वियोग उपपन्नः । कस्मात् ? कर्मक्षयोपपत्तेः । उपपद्यते खलु कर्मक्षयः ।
सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतु कर्म कायवाङ्मनोभिर्न करोति
इत्युत्तरस्यानुपचयः, पूर्वोपचितस्य विपाकप्रतिसंवेदनात्प्रक्षयः । एवं प्रसवहेतोर-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

६८. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६९

Page 287
Page 287 scan

६८. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २६९
भूतानि न शरीरमुत्पादयन्तीत्युपपन्नः शरीरवियोगः' इति, एवं चेन्मन्यसे ?
पुनस्तत्प्रसङ्गोऽपवर्गे। पुनः शरीरोत्पत्तिः प्रसज्यते इति। या चानुत्पन्ने शरीरे
दर्शनानुत्पत्तिरदर्शनाभिमता, या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिरदर्शन-
भूता--नैतयोर्दर्शनयोः क्वचिद्विशेष इत्यदर्शनस्यानिवृत्तेरपवर्गे पुनः शरीरो-
त्पत्तिप्रसङ्ग इति ।
चरितार्थता विशेष इति चेत् ?
न; करणाकरणयोरारम्भदर्शनात् १। चरितार्थानि भूतानि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 288
Page 288 scan

२७० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
कर्मविपाकसंवेदनं दर्शनमिति । तददृष्टकारितमिति कस्यचिद्दर्शनम्-अदृष्टं
नाम परमाणूनां गुणविशेषः क्रियाहेतुः, तेन प्रेरिताः परमाणवः सम्मूर्च्छिताः
शरीरमुत्पादयन्तीति ? तत्र मनः समाविशति स्वगुणेनादृष्टेन प्रेरितम् । समनस्के
शरीरे द्रष्टुरुपलब्धिर्भवतीति ?
एतस्मिन् वै दर्शने गुणानुच्छेदात् पुनस्तत्प्रसङ्गोऽपवर्गे । अपवर्गे शरीरो-
त्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेदत्वादिति ॥ ६८ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

७२. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २७१

Page 289
Page 289 scan

७२. सू० ] अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् २७१
पुनर्जन्म । भूतमात्रात्तु कर्मनिरपेक्षाच्छरीरोत्पत्तौ कस्य क्षयाच्छरीरपातः प्राय-
णमिति-प्रयाणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः । यादृच्छिके तु प्रायणे
प्रायणभेदानुपपत्तिरिति ॥ ७० ॥
पुनस्तत्प्रसङ्गोऽपवर्ग इत्येतसत् माधित्सुराह—
अणुश्यामतान्नित्यत्ववदेतत् स्यात् ? ॥ ७१ ॥
यथा अणोः श्यामता नित्या अग्निसंयोगेन प्रतिविद्धा न पुनरुत्पद्यते, एवम-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 290
Page 290 scan

२७२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
शरीरोत्पत्ति समादधानस्याकृताभ्यागमप्रसङ्गः । अकृते सुखदुःखहेतौ कर्मणि
पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत । ओमिति ब्रुवतः प्रत्यक्षानुमाना-
गमविरोधः ।
प्रत्यक्षविरोधस्तावद्—भिन्नमिदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं
सर्वशरीरिणाम् । को भेदः ? तीव्रं मन्दं चिरमाशु नानाप्रकारमेकप्रकार-
मिति एवमादिर्विशेषः । न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न
चासति हेतुविशेषे फलविशेषो दृश्यते । कर्मनिमित्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

७२. सू० ] अदृष्टनिष्पाद्यत्वप्रकरणम् २७३

Page 291
Page 291 scan

७२. सू० ] अदृष्टनिष्पाद्यत्वप्रकरणम् २७३
चेदं यत्नमन्तरेण चेतनानां सुखदुःखव्यवस्थानम्, तेनापि चेतनगुणान्तरव्यव-
स्थाकृतेन भवितव्यमित्यनुमानम् । तदेतदकर्मनिमित्ते सुखदुःखयोगे विरुध्यते
इति । तच्च गुणान्तरमसंवेद्यत्वाददृष्टं विपाककालनियमाच्चाव्यवस्थितम् ।
बुद्ध्यादयस्तु संवेद्याश्चापवर्गिणश्चेति ।
अथागमविरोधः—बहु खल्विदमार्षमृषीणामुपदेशजातमनुष्ठानपरिवर्जना-
श्रयमुपदेशफलं च । शरीरिणां वर्णाश्रमविभागेनानुष्ठानलक्षणा प्रवृत्तिः, परि-
वर्जनलक्षणा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् [ १-२ ]

Page 292
Page 292 scan

अथ चतुर्थोऽध्यायः
[ प्रथममाह्निकम् ]
प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् [ १-२ ]
मनसोऽनन्तरा प्रवृत्तिः परीक्षितव्या । तत्र खलु यावद्धर्माधर्माश्रयशरीरादि
परीक्षितम्, सर्वा सा प्रवृत्तेः परीक्षैत्याह—
प्रवृत्तिर्यथोक्ता¹ ॥ १ ॥
तथा परीक्षितेति ॥ १ ॥
प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्ताम् ? इत्यत आह—
तथा दोषाः ॥ २ ॥
परीक्षिता इति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in