Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages
Page 648Permalink
३९२किरातार्जुनीयम्

मल्लि०— च्युत इति। शरा एव अर्थो धनं तस्मात्। च्युते भ्रष्टे तस्मिनिषुषौ निषङ्गे सहसा झटिति। ध्वस्तार्थसारेऽकाण्डे नष्टधनसारे बन्धाविव तत्काले मोघो वितथः प्रणयः प्रीतिर्यस्य सः। तत्कालकृतव्यर्थप्रार्थनः। पूर्वं कृतार्थ एवेति भावः। स पाणिः। निर्वाय्यतां कृतज्ञत्वापवादाहित्यं कामयत इति निर्वाय्यताकामः। 'शौल्बिकामिभक्ष्याचरिभ्यो णः' स इवेत्युत्प्रेक्षा। 'आभिमुख्यं प्रपेदे। यथा कश्चित्कृतज्ञस्तत्कालेऽकृतोपकारमपि बन्धुं पूर्वोपकारस्मरणात्पुनः पुनरनुबध्नाति तद्वदित्यर्थः॥ ३७॥

हिन्दी— वाणरूप धनवाले परन्तु वाणशून्य उस तरकशमें जैसे धनरूप सारसे शून्य बन्धुमें पहले कृतार्थ होकर उस समय व्यर्थ प्रार्थना वाला बन्धुकी तरह होकर भी अवचनीयता चाहनेवाले पुरुषके समान तरकशके सम्मुख बढ़ गया॥ ३७॥

आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः॥ ३८॥

मल्लि०— आघट्टयामासेति। अस्य मुनेः। अग्रं चासावङ्गुलिश्चेत्यग्राङ्गुलिः 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदात्' इति वामनः। विधेयमार्गे कर्त्तव्यान्वेषण उत्सुकस्य प्रवृत्तस्य गां भुवं जिगीषोर्नयिकस्य मतिर्बुद्धिर्नयंः षाड्गुण्यं प्रयोग उपायस्तौ नयप्रयोगाविव तूणौ निषङ्गो सावेगं ससम्भ्रमम्। 'इष्टानिष्टागमाज्ञाने आवेगश्चित्तसंभ्रमः' इति शाश्वतः। गतागताभ्यां यातायाताभ्यामावापोद्वापाभ्यां वाऽऽघट्टयामास। अन्यत्र तु— वितर्कयामास। शरग्रहणाय पुनः पुनस्तूणयोः पाणि व्यापारायामासेत्यर्थः।

हिन्दी— इस मुनि (अर्जुन) का अंगुलिका अग्रभाग कर्त्तव्यके अन्वेषणमें उत्सुक पृथिवीको जीतनेकी इच्छा करनेवालि नायककी बुद्धि जैसे नीति और प्रयोग बारंबार वितर्क करती है उसी तरह तरकशमें वेगके साथ बारम्बार पड़ने लगा॥ ३८॥

बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ।
युगान्तसंशुष्कजलो विजिह्वः पूर्वापरौ लोक इवाम्बुराशी॥ ३९॥

मल्लि०— बभारेति। शून्याकृतिरिष्टनाशास्तिस्तेजस्करूपोऽर्जुनः। तौ वीतमहेषुजालौ वीतानि गतानि महेषुजालानि ययोस्तौ महेषुधी महानिषङ्गो

सप्तदशः सर्गः ३१३

Page 649Permalink

सप्तदशः सर्गः ३१३

विजिह्वः शून्यो लोको युगान्ते संशुष्कजलो ! 'शुषः कः' इति निष्ठातकारस्य ककारः । पूर्वापराम्वुराशी समुद्राविव बभार ॥ ३९ ॥

हिन्दी—बाणनाशके कारण तेजसे शून्य आकारवाले अर्जुनने विशाल बाण-समूह से शून्य दोनों तरकशोंको जैसे शून्य लोक प्रलयकालमें सूखे जलवाले पूर्व समुद्र और पश्चिम समुद्रको धारण करता है उसी तरह धारण किया ॥ ३९ ॥

तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयाऽनुतेपे ।
स्वमापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ ४० ॥

मल्लि०—तेनेति । पार्थस्तयोस्तूणयो रिक्ततया हेतुना यथाऽनुतेपे शुशोच तथा तेनानिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच । तथा हि—सन्तः स्वमापदं प्रोज्झ्य विसृज्य विपत्तिमग्नमुपकारिणां पक्षं वर्गं शोचन्ति । स्वव्यसनापेक्षया परकीयव्यसनमेव सतामनुतापकमित्यर्थः ॥ ४० ॥

हिन्दी—अर्जुन उन तरकशोंके बाणशून्य होनेसे जिस तरह शोक किया उस तरह बाणोंके क्षयरूप अपशकुनसे शोक नहीं किया, क्योंकि सज्जनलोग अपनी आपत्तिका परवाह न कर उपकारियोंके पक्षका शोक करते हैं ॥ ४० ॥

प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिदार्यः ॥ ४१ ॥

मल्लि०—प्रतीति । प्रतिक्रियायै विधुरः प्रतिकर्तुमसमर्थः 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । अर्जुनस्य स हस्तः पाणिः । पराङ्मुखत्वेऽपि तत्काल-वैमुख्येऽपि कृतोपकारात्तस्मात्तूणीमुखान्मित्रकुलादार्यः साधुः कृतज्ञ इव । 'आर्यः साधुकुलिनयौः' इति विश्वः । कृच्छ्रेण महाकष्टेन विश्लेषमियाय । गौरादित्वात् 'तूण' शब्दान्ङीष् ॥ ४१ ॥

हिन्दी—प्रतिकार करनेमें असमर्थ अर्जुनका वह हाथ पराङ्मुख होनेपर भी पहलेके उपकारी तरकशके मुखसे कृतज्ञ सज्जन पहलेके उपकारी मित्रसे जैसे कष्टसे वियोगको प्राप्त करता है उसी तरह कष्टसे वियुक्त हो गया ॥ ४१ ॥

अथ युग्मेनाह—

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव ।
संभावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ ४२ ॥

Page 650Permalink
३९४किरातार्जुनीयम्

मल्लि०—पाश्चादिति । तदानीं भर्तुः स्वामिनः । कर्तरि षष्ठी । पश्चात्क्रिया पृष्ठतः करणं तूणयुगस्योपकारिणीव उपकारिकेव जज्ञे । जाता । तथा हि—संभावनायां स्वयोग्यतायाम् । अधरीकृतायामफलीकृतायां पत्युः स्वामिनः पुरोऽग्र आसितव्यमासितं स्थितिः । बहुलग्रहणाद्भावे तव्यप्रत्ययः । साहसं न क्षमं न योग्यम् भर्त्रा संभावितस्यावसरेऽनुपकर्तुरनुजीविनस्तत्साम्मुख्यमनुचितमित्यर्थः ॥ ४२ ॥

हिन्दी—उस समय स्वामी (अर्जुन) को पीछे रखना तरकशोंके लिए उपकारके समान हो गया क्योंकि अपनी योग्यताके निष्फल होनेपर स्वामीके आगे रहना ऐसा साहसयोग्य नहीं होता है ॥ ४२ ॥

तं शंभुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ ४३ ॥

मल्लि०—तमिति । शंभुराक्षिप्तानि आाहतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता वादी गुरुभिर्दोषैर्निग्रहस्थानैरिव लोहैर्लोहमयैः शरैर्मर्मसु निस्तुतोद व्यथयामास ॥ ४३ ॥

हिन्दी—शिवजीने महान् बाणसमूहसे ताडित अर्जुनको तत्त्व विचारके बीच-में प्रतिवादीको निग्रह-स्थानरूप दोषोंसे निरुत्तर कर देता है उसी तरह लोहमय बाणोंसे मर्मस्थानोंमें पीड़ित कर दिया ॥ ४३ ॥

जहार चास्मादचिरेण वर्म ज्वलन्मणियोतितहैमलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ ४४ ॥

मल्लि०—जहारेति । किञ्च, अस्मान्मुनेः । अचिरेण शीघ्रं ज्वलद्भिर्मणिभिर्द्योतिता हैम्यः सौवर्ण्यो लेखा यस्य तत्तथोक्तं वर्म कवचम् । चण्डो मरुत् पवनः पतङ्गात् सूर्यात् । एकनीलं केवलकृष्णवर्णम् । 'एके मुख्यान्यकेवलाः' इत्यमरः । तडित्वतस्तडिद्युक्तस्याम्बुदस्य खण्डमिव जहार । तदा भगवन्मायया मुक्तकञ्चुको मुनिर्मेघनिर्मुक्तः सूर्य इव दिदीपे इति भावः ॥ ४४ ॥

हिन्दी—फिर शिवजीने उस मुनि (अर्जुन) के सुप्रदीप्त रत्नोंकी कान्तिसे चमकती हुई सुवर्ण रेखावाले कवचको जैसे प्रचण्ड वायु सूर्यसे बिजलीसे युक्त केवल कृष्णवर्णवाले मेघके खण्डको दूर कर देता है उसी तरह दूर कर दिया ॥ ४४ ॥

Page 651Permalink

सप्तदशः सर्गः
३९५

विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ ४५ ॥

मल्लि०—विकोशेति । सोऽर्जुनः । तनुं त्रायत इति तनुत्रं वर्म । ‘आतोऽनुपसर्गे कः’ इति कप्रत्ययः । तेन विना विकोशः । कोशादुद्धृतो निर्धौततनुः शाणोल्लीढमूर्तिः । ततो विशेषणसमासः । तस्य विकोशनिर्धौततनोर्महासेर्महाखड्गस्य तथा त्वचि विच्युतायां सत्यां फणावतश्च मुक्तकञ्चुकस्याहेश्च प्रतिद्विपे प्रतिगज आबद्धरुषो बद्धकोपस्य समक्षं प्रतिगजस्याग्रे आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च ॥ ४५ ॥

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ॥ ४६ ॥

मल्लि०—विबोधितस्येति । घनानां ध्वनिना गर्जितेन विबोधितस्य । शैलरन्ध्रात् कंदरात् । अपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च । तथा, निरस्तधूमस्य गतधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे । एतेनास्य तीक्ष्णत्ववैरनिर्यातित्वरणदुर्मदत्वमनस्वित्वतेजस्वित्वान्युक्तानि । अत्र रुचिमिव रुचिमिति सादृश्याक्षेपादसंभवद्वस्तुसम्बन्धी निदर्शनालंकारो मालया संसृष्टः ॥ ४६ ॥

हिन्दी—वे अर्जुन कवचके बिना कोष ( मियान ) से निकाले गये और शाणसे विशुद्धरूप वाले विशाल खड्गकी ओर केंचुली च्युत होनेपर सर्पकी और प्रतिद्वन्द्वी हाथीमें क्रुद्ध मुखके आवरणसे रहित हाथीकी, मेघोंके गर्जनसे जगाये गये पहाड़ की गुफासे निकले हुए सिंहकी एवम् धूएँसे रहित अग्निकी शोभासे युक्त हो गये ॥ ४५-४६ ॥

अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्त तदीयकृच्छ्रे ।
महीं गतो ताविषुषी तदानीं विवव्रतुश्चेतनयेव योगम् ॥ ४७ ॥

मल्लि०—अचित्ततायामिति । तदानीं कवचपतनसमये महीं गताविषुषी निषङ्गो अचित्ततायामप्यचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्तां योग्याम् । नाम किल । अकिंचित्करत्वादिति भावः अनूर्ध्वतामवाङ्मुखत्वं प्राप्य चेतनया प्राणिसाधारणज्ञानेनेव योगं संबन्धं विवव्रतुरिवेत्युत्प्रेक्षा । अचेतनत्वेऽप्यवाङ्मुखत्वाद्विचेतनधर्मयोगादिति भावः ॥ ४७ ॥

हिन्दी—उस समय जमीनपर पड़े हुए ( युग्म ) तरकशोंने अचेतन होनेपर

Page 652Permalink
३१६किरातार्जुनीयम्

भी अपने स्वामी अर्जुनको विपत्तिमें योग्य नीचे मुखवाले होकर चेतनासे संबंध-का विवरण किया ॥ ४७ ॥

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोलिखलेख ॥ ४८ ॥

**मल्लि०—**स्थितमिति । विशुद्धे निर्मले नभसि सत्त्वे सत्त्वगुणे स्थितं तपोवीर्यमयेन तपोवीर्याभ्यामायतेन धाम्ना तेजसा युक्तं तमर्जुनम् । ईशस्त्वष्टा विश्वकर्मा विवस्वन्तं सूर्यमिवाजस्रं निरन्तरं शस्त्राभिघातैः शस्त्रकर्षणैः उल्लिखेख ततक्ष ॥ ४८ ॥

**हिन्दी—**निर्मल आकाशमें स्थित तपस्या और पराक्रमसे आये हुए तेजसे युक्त सूर्यको जैसे विश्वकर्माने छोल दिया था वैसे ही निर्मल, सत्त्वगुणमें स्थित, तपस्या और पराक्रमसे प्राप्त तेजसे युक्त अर्जुनको शिवजीने शस्त्रोंके प्रहारोंसे छोल डाला ॥ ४८ ॥

संरम्भवेगोञ्झितवेदनेषु गात्रेषु बाधिर्यमुपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लोहस्तिरस्कार इवात्ममन्युः ॥ ४९ ॥

**मल्लि०—**संरम्भेति । संरम्भवेगेन संभ्रमातिशयेन उज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यं स्तैमित्यमुपागतेषु सत्सु न गणिता इषुराशयो येन तस्य अगणितेषु-राशेर्मुनेर्जुनस्य आत्ममन्युः स्वकोपो लोहस्य विकारो लोहः कार्ष्णायसः तिर-स्क्रियते आच्छाद्यतेऽनेनेति तिरस्कारः कञ्चुक इव बभूव । रोषवशान्न किंचित्प्रहार-दुःखमज्ञासीदित्यर्थः । क्रोधैकवर्मणां वीराणां किमन्यैर्लोहभारैरिति भावः ॥ ४९ ॥

**हिन्दी—**अतिशय शीघ्रताके कारण दुःखके अनुभवसे रहित अंगोंके बधिरता और निश्चलताको प्राप्त करनेपर भी बाणसमूहका परवाह न करनेवाले मुनि (अर्जुन) का अपना क्रोध लोहमय कवचके समान हो गया ॥ ४९ ॥

अथ युग्मेनाह—

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पाष्णिघातैः ॥ ५० ॥

**मल्लि०—**तत इति । ततोऽनन्तरम् । अनुपूर्वो पूर्वमनुगतो गोपुच्छाकारो आयतो दीर्घो वृत्तो वर्तुलो च बाहू यस्य स श्रीमान् शोभावान् क्षरल्लोहितदिग्धदेहः स्रवद्रुधिरलिप्तगात्रः । पाष्णिघातैश्चरणतलाघातैः । 'तदग्रन्थी घुटिके गुल्फो स्त्रियां

सप्तदशः सर्गः। ३९७

Page 653Permalink

सप्तदशः सर्गः। ३९७

पाष्णिंरघस्तयोः' इत्यमरः । 'क्षितिं विधुन्वन् प्रक्रम्ययश्चिव वेगेनास्कन्द्याभिद्रुत्य विमुक्तनादः सोऽर्जुनः ॥ ५० ॥

**हिन्दी—**तब पूर्वालुङ्गत गोपुच्छके आकारवाले दीर्घ और गोल बाहुओंसे युक्त, शोभासम्पन्न, गिरते हुए रुधिरसे लिप्त शरीरवाले और चरणतलोंके आघातोंसे पृथिवीको मानों कम्पित करते हुए वेगसे दौड़कर गर्जन करते हुए ॥ ५० ॥

साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शंभुं विभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिभेभः ॥ ५१ ॥

**मल्लि०—**साम्यमिति । मघोन इन्द्रस्य अशनिना वज्रेण सह साम्यं गतेन वज्रकल्पेन शशाङ्कस्य खण्डं शकलं तस्येवाकृतिर्यस्य । तद्वदमित्यर्थः पाण्डुरं च । तद्वदेवेति भावः । तेन शशाङ्कखण्डाकृतिपाण्डुरेण वपुषा शंभुं विभित्सुर्भेत्तुमिच्छुः सन् । महानिभो गजो विषाणेन दन्तेन स्तम्बमिव जघान ॥ ५१ ॥

**हिन्दी—**इन्द्रके वज्रकी समानताको प्राप्त, चन्द्रखण्डकी आकृतिवाले (टेढ़े) और सफेद धनुसे शिवजीको भेदन करनेकी इच्छा करते हुए अर्जुनने जैसे विशाल हाथी दाँतसे खम्भेपर प्रहार करता है उसी तरह प्रहार किया ॥ ५१ ॥

रयेण सा संनिदधे पतन्ती भावोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ ५२ ॥

**मल्लि०—**रयेणेति । रयेण वेगेन पतन्ती सा चापयष्टिर्भवस्य संसारस्योद्भव उत्पत्तिर्या स्मात्तेन भवोद्भवेन ईश्वरेण पर ओजसि परमे ज्योतिषि स्थितेन जह्नुना राजर्षिणा समुद्धताऽत्युत्कटाऽनेकमार्गा त्रिस्रोताः सिन्धुर्गङ्गेवात्मनि सनिदधे सम्यङ् निहिता । अन्तर्निधायितेत्यर्थः ॥ ५२ ॥

**हिन्दी—**वेगसे पड़ती हुई अर्जुनकी उस धनुयष्टिको शिवजीने अपनी परम-ज्योतिमें स्थित राजर्षि जह्नुने जैसे गङ्गाजीको अपनेमें विलीन किया था उसीतरह अपने आपमें विलीन कर दिया ॥ ५२ ॥

विकार्मुकः कर्मसु शोचनीयः परिच्युतोदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ ५३ ॥

**मल्लि०--**विकार्मुक इति । विकार्मुको भग्नचापोऽत एव परिच्युतोदार्यो दानवर्जित उपचारः सत्कार इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्योऽपूज्यश्च सत्त्वावष्टम्भेन भिन्नचित्तत्वाच्च सोऽर्जुनः शूलभृता शिवेन सहेलं

Page 654Permalink
३९८किरातार्जुनीयम्

यथा तथाऽदूरपार्श्वेरतिगाढप्रहारैः पत्रिभिः शरैर्दूरमत्यन्तं विक्षिक्षिपे नुन्नः ॥५३॥

हिन्दी—नष्ट धनुवाले अत एव दानसे रहित सत्कार कर्मके समान युद्धकर्ममें और अन्य कर्ममें शोचनीय और अपूज्य अर्जुनको शिवजीने अनायास ही अत्यन्त गाढ प्रहारवाले बाणोंसे दूर फेंक दिया ॥ ५३ ॥

उपौढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ ५४ ॥

मल्लि०—उपोढेति । उपोढमासन्नं कल्याणफलमस्त्रलाभरूपं स्वर्गादिकं च यस्य स वीरव्रतमाहवादिनिवृत्तिरूपं तीव्रं तपश्च अभिरक्षन् पालयन् पुण्यो यो रण एवाश्रमस्तत्र तिष्ठतीति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तो मुनिरर्जुनः कश्चित्तपस्वी च तैः शिवस्य महादेवस्य । इषुभिः शरैः । जपोपवासैरिव तेपे तप्तः । तपतेः कर्मणि लिट् ॥ ५४ ॥

हिन्दी—अस्त्रलाभरूप कल्याणफल और स्वर्ग आदि जिनका निकट हो था; वीरव्रतरूप तीव्र तपस्याकी रक्षा करते हुए पुण्य युद्धरूपआश्रममें स्थित इन्द्रियको वशमें किये हुए अर्जुन कोई तपस्वीकी तरह शिवजीके बाणोंसे मानों जप-उपवास से संतप्त हुए ॥ ५४ ॥

ततोऽप्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः ।
तेजःश्रियामाश्रयमुत्तमासि साक्षादहंकारमिवाललम्बे ॥ ५५ ॥

मल्लि०—तत इति । ततश्चापान्तर्धानान्तरम् । सोऽर्जुनोऽप्रभूमिं विपदि गन्तव्यस्थानम् । शरणमित्यर्थः । अन्यै परैः । अतिदुस्तरं दुरतिक्रमं तेजः श्रियां प्रतापसंपदामाश्रयम् । हेतुमित्यर्थः। उत्तमासिं महाखड्गम् । 'सन्महत्-' इत्यादिना समासः । साक्षादहंकारं सविग्रहमभिमानमिवाललम्भे जग्राह ॥ ५५ ॥

हिन्दी—तब अर्जुनने विपत्तिमें गन्तव्य स्थानके समान शरण देनेमें उपयुक्त, औरोंसे अतिशय दुस्तर प्रतापसम्पत्तियोंके आश्रयरूप विशाल तलवारको प्रत्यक्ष अहङ्कारके समान अवलम्बन किया ॥ ५५ ॥

शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिनेव ॥ ५६ ॥

मल्लि०—शरानिति । अनवद्यकर्माऽगर्हाकर्मा । 'अवद्यपण्य-' इत्यादिना

सप्तदशः सर्गः। ३९९

Page 655Permalink

सप्तदशः सर्गः। ३९९

निपातः। शरानवद्यन् खण्डयन् वीरो निस्त्रिंशभृता खड्गयुक्तेन हस्तेन सार्कंशुना आर्कंशुसहितेन ऊर्मिणा तरङ्गेण वारिधिरिव दोप्तो दीपितः सोऽर्जुनः प्रनिवार-मार्गैः म्लुङ्गिणां गतिभेदैश्चित्रं यथा तथा चचार ॥ ५६ ॥

**हिन्दी—**अनिन्द्य कर्मवाले शिवजीके कर्मवाले शिवजीके बाणोंको खण्डित करते हुए वीर अर्जुन खड्ग लिये हुये हाथसे सूर्य किरणायुक्त तरङ्गसे समुद्रके समान प्रदीप्त होकर अनेक प्रकारके गति भेदोंसे भिन्नरूपसे विचरण करने लगे ॥ ५६ ॥

यथा निजे वर्त्मनि भाति भाभिश्चायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीपु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ ५७ ॥

**मल्लि०—**यथेति । भामिर्दीप्तिभिरुपलक्षितः । 'स्युः प्रभाद्युतिस्त्वड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । सहस्ररश्मिरर्को यथा निजे वर्त्मनि नभसि छायामयः प्रतिविम्बरूपः सन्, अप्सु स्पष्टद्विमूर्तिर्भाति तथा सोऽर्जुनो नभसि आकाशे रणस्थलीषु च स्पष्टे द्वे मूर्ती यस्य स स्पष्टद्विमूर्तिः सन् भूतैर्गणैर्ददृशे दृष्टः । यथैकोऽर्को नभस्यप्सु चानेक इव दृश्यते तथा सोऽपि दिवि भुवि चाशुसंचाराद्यौगपद्य भ्रमादेवेकोऽप्यनेक इव गणैर्दृष्ट इत्युत्प्रेक्षा ॥ ५७ ॥

**हिन्दी—**दीप्तियोंसे उपलक्षित जैसे सूर्य अपने मार्ग आकाशमें प्रतिबिम्बरूप होकर जलमें स्पष्ट दो मूर्तियोंसे युक्त होते हैं उसी तरह युद्ध-स्थलमें दो मूर्तियोंसे युक्त अर्जुनको प्रमथगणोंने देखा ॥ ५७ ॥

शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ ५८ ॥

**मल्लि०—**शिवेति । शिवेन प्रणुन्नः क्षिप्तस्तेन शिलीमुखेन त्सरुप्रदेशात् मुष्टिप्रदेशमवधि कृत्वा । 'त्सरुः खड्गादिमुष्टौ स्यात्' इत्यमरः । अपवर्जिताङ्गो लूनविग्रहोऽसि खड्गः । तस्यार्जुनस्य पाणेः करात् । घनस्य मेघस्य वप्रात्तटात् । वैद्युतसंबन्ध्यग्निरिव ज्वलन् पपात ॥ ५८ ॥

**हिन्दी—**शिवजीसे प्रक्षिप्त उस बाणसे खंगमूंठको लेकर कटे हुए अवयववाला वह खंग अर्जुनके हाथसे मेघतटसे बिजलीकी आगकी तरह चमकता हुआ गिर पड़ा ॥ ५८ ॥

Page 656Permalink
४००किरातार्जुनीयम्

आक्षिप्तचापावरणेपुजालश्छिन्नोत्तमासिः स मृधेष धूतः ।
रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥ ५९ ॥

मल्लि०— आक्षिप्तेति । आक्षिप्तान्यपहृतानि चापावरणेपुजालानि धनुर्वर्म-बाणसमूहा यस्य स छिन्नोत्तमासिलूनमहाखङ्गो मृधे रणे । ‘मृधमास्कन्दनं सङ्ख्यम्’ इत्यमरः । अवधूतो निरस्तः सोऽर्जुन उत्सावितमुत्पाटितमुद्यानं यस्य स भूमेः प्रदेशो भूमिभाग इव रिक्तः शून्यः प्रकाशो निःसंबाधश्च । दृश्य इति यावत् । बभूव ॥ ५९ ॥

हिन्दी— अर्जुनके धनु; कवच और बाणसमूह अपहृत होनेसे छिन्न विशाल तलवार छिन्न होनेसे अर्जुन शस्त्र-शून्य होकर उद्यानके काटे जानेपर पृथ्वीके प्रदेशके समान शून्य तथा भीड़से रहित हो गया ॥ ५९ ॥

स खण्डनं प्राप्य परादमर्षवान् भुजाद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिमुष्णपादपां द्रवेतरेषां पयसामिवाश्मनाद् ॥ ६० ॥

मल्लि०— स इति' । परात् परस्माच्छत्रोः । ‘पूर्वादिभ्यो नवभ्यो वा’ इति विकल्पात्स स्मादादेशः । खण्डनं भङ्गं प्राप्य, अमर्षवान् सोऽर्जु नो भुजद्वितीयो भुजमात्रसहायः सन्नपि विजेतुमिच्छया द्रवेभ्य इतराणि तेषां कठिनानां पयसामिव करकाणामिवेत्यर्थः । अश्मनां संबंधिनों परिमुष्णा भग्ना पादपा सा तां वृष्टि ससर्ज । अश्मभिर्जघानेत्यर्थः ॥ ६० ॥

हिन्दी— शत्रुसे पराजय पाकर क्रुद्ध होकर अर्जुन बाहुमात्रका सहारा लेकर भी जीतनेकी इच्छासे ओलोंको समान पेड़ोंको तोड़नेवाली पत्थरोंकी वृष्टि करने लगे ॥ ६० ॥

नीरन्ध्रं परिगमिते क्षयं पृथक्त्वैर्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थनितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ ६१ ॥

मल्लि०— नीरन्ध्रमिति । शिलाविताने शिलाजाले भूतानामधिपतिना शिवेन पृथक्त्वैर्गुणैः क्षयं परिगमिते नीते सति । इन्द्रसूनुरर्जुन उच्छ्रायेणोत्सेधेन स्थगित-माच्छादितं नभो दिशामन्तरालं च येन तन्नीरन्ध्रं सान्द्रम् । रोहन्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः । क्षितौ रुहा वृक्षास्तेषां जालं चिक्षेप प्रेरयामास । ‘उच्छ्रायं गमितवति’ इति प्रामादिकः पाठः ॥ ६१ ॥

सप्तदशः सर्गः | ४०१

Page 657Permalink

सप्तदशः सर्गः | ४०१

हिन्दी—पत्थरोंके समूहके शिवजीके बाणोंसे क्षय किये जानेपर अर्जुन ऊँचाई-से आकाश और दिङ्मण्डलोंको आच्छादित करनेवाले गाउ वृक्षसमूहको फेंकने लगे ॥ ६१ ॥

निःशेषं शकलितवल्कलाङ्गसारैः
कुर्वद्भिर्भुवमभितः कषायचित्राम् ।
ईशानः सकुसुमपल्लवैर्नगैस्ते-
रातेने बलिमिव रङ्गदेवताभ्यः ॥ ६२ ॥

मल्लि०—निःशेषमिति । ईशानः शिवः । शानच्प्रत्ययः । निःशेषं यथा तथा शकलितानि वल्कलानि त्वचोऽङ्गानि शाखाः सारो मज्जा च येषां तैर्भुवमभितः कषायो यो रागः । स्वरसेन रञ्जनमिति यावत् । 'रागे क्वाथे कषायोऽस्त्री' इति वैजयन्ती । तेन चित्रां विचित्रवर्णां कुर्वद्भिः सकुसुमपल्लवैस्तैर्वृक्षै रङ्गे रणरङ्गे या देवतास्ताभ्यो बलिं पूजामिव । आतेने ॥ ६२ ॥

हिन्दी—शिवजीने निःशेषरूपसे वल्कल, शाखाएं और मज्जाको खण्डित करने वाले और पृथिवीको चारों ओरसे रागसे विचित्र करनेवाले फूलों और पल्लवों-से युक्त वृक्षोंसे युद्धरूप रङ्गस्थलमें मानों देवताओंकी पूजा कर दिया ॥ ६२ ॥

उन्मज्जन्मकर इवामरापगाया
वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्या-
माजघ्ने विषमविलोचनस्य वक्षः ॥ ६३ ॥

मल्लि०—उन्मज्जन्निति । गाण्डीवी अर्जुनः । उन्मज्जन्नुत्तरन् मकरो जलग्रहविशेषोऽमरापगाया गङ्गाया इव बाणनद्या बाणप्रवाहद्वेगेन प्रतिमुखमभिमुखम् । एत्यागत्य कनकशिलानिभम् । 'कनक' ग्रहणं काठिन्यातिशयद्योतनार्थम् । विषमविलोचनस्य त्र्यम्बकस्य वक्षो हृदयं भुजाभ्यामाजघ्ने ताडितवान् । अत्रात्मनेपदं विचार्यम् । 'आङो यमहनः' इत्यत्राकर्मकाधिकारात् । 'स्वाङ्गकर्मकाच्च' इति वक्तव्यत्वात् । न च शिवस्य प्रतिमुखमित्यन्वयात् कनकशिलानिभं कनकनिकषतुल्यं श्यामं स्ववक्ष आजघ्न इत्यर्थ इति वाच्यम्, अनौचित्याचरणात् । न हि युद्धाय संनद्धा निपुणा अपि मल्लाः स्ववक्षस्ताडनमाचरन्ति, किं तु स्वभुजास्फालनम् । किञ्च,

२६ कि०

Page 658Permalink

४०२ | किरातार्जुनीयम्

अनन्तरं वक्ष्यमाणभवकर्तृकाविनयसहनरोधाङ्क एवैत्यन्वयस्याव्यवधानाच्च पूर्वेण दूषितत्वात् । अतः व्याकरणान्तराद् द्रष्टव्यम् । केचित्तु 'त्र्यम्बकस्य वक्षः प्राप' इत्यध्याहारं स्वीकृत्यात्मकर्मकत्वादात्मनेपदमाहुः ॥ ६३ ॥

हिन्दी—अर्जुनने गङ्गाके वेगसे पार करते हुए घड़ियालके समान बाणरूप नदीके प्रवाहसे वेगसे सम्मुख आकर सुवर्ण शिलाके सदृश शिवजीके वक्षःस्थलमें अपनी भुजाओंसे ताडन किया ॥ ६३ ॥

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्यो-
रसुगममरिसैन्यैरङ्कमभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनो-
रविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ ६४ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तदशः सर्गः ।


मल्लि०—अभिलषत इति । कीर्तिलक्ष्म्योरुपायं साधनभूतम् । अरिसैन्यैरसुगमं दुरासदं विक्रममभिलषतः । सूनुपक्षे—यत्किञ्चिन्महत्फलं प्रार्थयमानस्येत्यर्थः । अत एव, अङ्कमन्तिकमभ्यागतस्योत्सङ्गमारूढस्य च पाण्डवस्याविनयं स्मरारिः । अनेन भक्तवात्सल्यमेव सहनकारणमिति सूच्यते । शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य । कुतः । एक एक सूनुस्तस्य एकसूनोरविनयं जनक इव सेहे सोढवान् ॥ ६४ ॥

इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां सप्तदशः सर्गः समाप्तः ।


हिन्दी—कीर्ति और लक्ष्मीके साधनभूत शत्रुसैन्यसे दुष्प्राप्य पराक्रमका अभिलाष करते हुए अत एव सम्मुख आये हुए अर्जुनकी ढिठाईको शिवजीने जैसे गोदमें बैठे हुए किसी उत्तमवस्तुकी प्रार्थना करनेवाले शैशवमें अतिशय प्रिय एकमात्र पुत्रके अविनय (ढिठाई) को पिता सहन करता है उसी तरह सहन कर लिया ॥ ६४ ॥

किरातार्जुनीयकाव्यके अनुवादमें सत्रहवाँ सर्ग पूरा हुआ ।

Page 659Permalink

अष्टादशः सर्गः

तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुषे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैग्वि मुष्टिभिः ॥ १ ॥

मल्लि०—तत इति । ततो मुष्टिनियुद्धानन्तरम् । उदग्रे महति द्विरदे गज इव भीमे भुजावेव आयुधे यस्य तथाभूते रणमुपेयुषि मुनौ शंकरः स्वयमपि सबाणधि सतूर्णं धनुरपास्य त्यक्त्वा मुष्टिभिर्घनैर्लोहमुद्गरैरिव प्रतिजघान । प्राङ्मुनिकृता-घातस्य प्रतिघातं कृतवानित्यर्थः । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः' । इति वैजयन्ती । 'घनस्तु लोहमुद्गरे' इति विश्वः ! यद्यपि 'मुष्टि' शब्दः 'मुष्ट्या तु बद्धया । सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' । इत्यमरः । इत्युभयथा प्रयोगाद् द्विलिङ्गस्तथाप्यत्रोपमानसारूप्यात् पुंलिङ्गो ग्राह्यः । द्रुतविलम्बितं वृत्तम् ।

हिन्दी—तब ऊँचे हाथोके समान भयंकर हस्तरूप आयुधवाले तथा युद्धभूमिमें प्राप्त तपस्वी (अर्जुन) को शिवजीने तरकशके साथ धनुको छोड़कर लोहमुद्गरके समान मुष्टियोंसे प्रत्याघात किया ॥ १ ॥

हरपृथासुतयोर्ध्वनिरुत्पतन्भृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभूतः ॥ २ ॥

मल्लि०—हरेति । हरपृथासुतयोः शिवाजुनयोर्भृदु निबिडं यथा तथा संव-लिताः संघटिता अङ्गुलयो येषां ते । मुष्टिकृता इत्यर्थः । तेषु पाणिषु जात-स्तथोक्तः । स्फुटन्तीनां विदलन्तीनामनल्पशिलानामारव इव दारुणो भीषणो ध्वनिरुत्पतन् उदगच्छन् दरीभूतो गिरेर्दारीषु गुहासु प्रतिननाद प्रतिदध्वान ॥ २ ॥

हिन्दी—शिवजी और अर्जुनके दृढ़तापूर्वक संघटित अंगुलियोंसे युक्त हाथोंमें उत्पन्न, विदलित होते हुए बड़े पत्थरोंकी आवाजके समान भयंकर ध्वनि प्रकट होती हुई पर्वतकी गुफाओंमें प्रतिध्वनित होने लगी ॥ २ ॥

शिवभुजाहतिमिश्रपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमा ॥ ३ ॥

Page 660Permalink
४०४किरातार्जुनीयम्

मल्लि०--- शिवेति । कपिध्वजः शिवस्य भुजाहतिभिर्मुष्टिघातैर्भिन्ना विदीर्णा याः पृथ्वो महत्यः क्षतयः प्रहारा व्रणास्ताः सुखमिवानुबभूव । दुःखकरीरपीति भावः । क्षतिदुःखं नाजीगणदित्यर्थः । ननु दुःसहदुःखवेगेषु कथमगणनेत्यत्राह—क इति । क इव नाम को नु खलु सत्त्ववता सत्त्वाधिकानां बृहन्मनसां तेजस्विनाम् । अनुकृतेरनुकरणस्यापि क्षमो भवेत् । मनस्विनां चरितं नटवदनुकर्तुमपि न कश्चिदीष्टे, तस्याचरणं तु दूरापास्तमिति भावः । रौद्ररसाविष्टमनसां मनस्विनां कुतः सुखदुःखगणनेति भावः ॥ ३ ॥

हिन्दी—अर्जुनने शिवजीके मुष्टिप्रहारोंसे विदीर्ण विशाल व्रणोंको सुखके समान अनुभव किया, बलसे अधिक, तेजस्वियोंका कौन अनुकरण मात्र करनेमें भी समर्थ है ? ॥ ३ ॥

व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ ४ ॥

मल्लि०—व्रणेति । व्रणमुखेभ्यश्च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलासदृशं भुजान्तरं वक्षो यस्य स तथोक्त उमापतिरभिनवमौषसरागं सन्ध्यारागं बिभर्तीति तथोक्तेन जलधरेण समानं तुल्यं यथा तथा बभौ वित्यूपमा ॥ ४ ॥

हिन्दी—व्रणके मुखोंसे गिरे हुए रुधिरके कणोंसे व्याप्त पर्वतके तटके समान वक्षःस्थलवाले शिवजी नये सन्ध्यारागको धारण करनेवाले मेघके समान शोभित हो गये ॥ ४ ॥

उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव साह्यमहीभृतः पृथुनि रोधसि सिन्धुमहॉर्मयः ॥ ५ ॥

मल्लि०—उरसीति । शूलभृतः शिवस्य । उरसि प्रहिताः प्रयुक्ता अर्जुनस्य मुष्टयः पृथुनि विशाले साह्यमहीभृतः सह्याद्रे रोधसि तटे भृशरयास्तीव्रवेगाः सिन्धोः समुद्रस्य महोर्मय इव मुहुः प्रतिहतिं ययुः ॥ ५ ॥

हिन्दी—शिवजीके वक्षःस्थलमें अताडित अर्जुनकी मुष्टियां साह्यपर्वतके विशाल तटमें तीव्र वेगवाली समुद्रकी बड़ी-बड़ी तरंगोंके समान प्रत्याघातको प्राप्त हुईं । ५ ।

निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥ ६ ॥

अष्टादशः सर्गः

Page 661Permalink

अष्टादशः सर्गः
४४२

**मल्लि०—**निपतित इति । अयुगानि चक्षूंषि यस्य तस्य अयुगचक्षुषस्त्रिलोचनस्य । आयते दीर्घे अरत्नियुगे अरत्न्योर्बद्धमुष्ट्योर्हस्तयोर्युगे युग्मे । 'मुष्ट्या तु बद्धया । सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' इत्यमरः । प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः । शिरोधरायामिति अधिशिरोधरमधिकंधरं समं युगपन्निपतिते सति । किरीटिनाऽर्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि । 'संख्ययाव्ययासन्न—' इत्यादिना बहुव्रीहिः । चतुरोऽच्प्रकारे, 'त्र्युपाभ्यामुपसंख्यानम्' इति समासान्तोऽच्प्रत्ययः । तेषु त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम् । भावे लिट् ॥ ६ ॥

**हिन्दी—**शिवजीके दीर्घ दो बद्धमुष्टियोंवाले हाथोंके गर्दनपर पड़नेपर अर्जुन मानो मदसे तीन चार पगोंमें घूर्णित नेत्रोंसे युक्त होकर स्खलित हो गये ॥ ६ ॥

अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ ७ ॥

**मल्लि०—**अभिभवेति । अभिभवेनोक्तरूपेण परिभवेन उदित उत्पन्नो यो मन्युः क्रोधस्तेन विदीपितः प्रज्वलितः सोऽर्जुनो भृशं जवं समभिसृत्य समभिद्रुत्य ओजसा बलेन शशिकलाभरणस्येन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह ॥ ७ ॥

**हिन्दी—**नये परिभवसे उत्पन्न क्रोधसे प्रदीप्त किये गये अर्जुनने वेगके बलसे शिवजीके पास जाकर उनके दोनों हाथोंको अपने दोनों हाथोंसे वियुक्त कर पकड़ लिया ॥ ७ ॥

प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥ ८ ॥

**मल्लि०—**प्रववृते इति । अथ महाहवे महारण मल्ल्योर्बलीयसोः । 'मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि' इति विश्वः । गुरू भुजावेव आयुधं तेन गर्वितयोस्तयोः शिवार्जुनयोः करणानि करचरणबन्धनान्येव शृङ्खलानि तेषां संकलना संघटना तया गुरुर्दुस्तरस्तस्याऽचलस्य हिमाद्रेः संचलनं कम्पस्तस्याहरण आरोपकः । कर्तरि ल्युट् । रणः प्रववृते प्रवृत्तः ॥ ८ ॥

**हिन्दी—**तब महायुद्धमें अधिक बलशाली, विशाल बाहुरूप आयुधसे गर्वित शिवजी और अर्जुनके कर चरणरूप शृङ्खलाओंके संघटनासे दुस्तर हिमालयको कम्प और आरोपण करनेवाला युद्ध होने लगा ॥ ८ ॥

Page 662Permalink
४०६किरातार्जुनीयम्

अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमनेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः॥९॥

**मल्लि०—**अयमिति। अयं पुरोवर्ती पुमान्। असौ भगवान् प्रसिद्धो द्वैपायनः तदुक्तम्—'इदमः प्रत्यक्षरूपं समीपोतरवर्ति चैतदो रूपम्। अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्' इति। उत पाण्डवः। अयं हि तिष्ठदवस्थायां द्रष्टृणां संशयो वेदितव्यम्। अथ पतनावस्थायामाह—मुनिनाऽवाक् अधः स्थितमुत शशिमौलिना अनेन देवेन नु समधिरूढमुपरि स्थितमथ जिष्णुना स्विदर्जुनेन वा समधिरूढमित्येवम् इत्येवं गणैः प्रमथैर्वेगवशान्मुमुहे भ्रान्तम्। 'मुह वैचित्त्ये'। भावे लिट् ॥ ९॥

**हिन्दी—**ये भगवान् (शिवजी) हैं अथवा वह तपस्वी (अर्जुन)। क्या तपस्वी (अर्जुन) नीचे रहा अथवा भगवान् शिवजी नीचे रहे। शिवजी ऊपर रहे वा तपस्वी ऊपर रहा, इस प्रकार वेगके कारण प्रमथगणोंको मोह (भ्रम) हुआ ॥ ९॥

प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतो।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥१०॥

**मल्लि०—**प्रचलिते इति। असहिष्णुना तयोर्भारमसहमानेन भूभृता शैलेन अभावभयाद्विनाशभयादिव मुहुर्वृषश्च कपिश्च ध्वजे ययोस्तयोर्वृषकपिध्वजयोः प्रचलिते चलने सति चलितं प्रचेले। आस्थिते तूष्णीमवस्थाने स्थितं तथैव तस्मिन् विनमिते सम्यगाक्रमणे सति नतं नम्रीभूतम्। अनामीति यावत् उन्नतावुन्नते सति उन्नतमुदनामि। सर्वत्र भावे क्तः ॥ १० ॥

**हिन्दी—**शिवजी और अर्जुनको भार सहनेमें असमर्थ होता हुआ (इन्द्रकील) पर्वत मानों विनाशके भयसे दोनोंके चलनेपर स्वयम् चलता था, उनके स्थिर होनेपर यह भी स्थिर हो जाता था, उनके झुक जानेपर वह भी झुक जाता था, उनके उठ जानेपर वह भी उठ जाता था ॥ १० ॥

करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः।
चरणपातनिपातितरोधसः प्रससृपुः सरितः परितः स्थलीः ॥११॥

**मल्लि०—**करणेति। करणानि करचरणबन्धविशेषास्तान्येव शृङ्खलानि तेभ्यो निःसृतयोः। मुहुस्त्यक्तबन्धयोरित्यर्थः। कृतो भुजध्वनिर्भुजास्फोटशब्दो यस्मिन्कर्मणि तत्तथा वल्गु सुन्दरं च यथा तथा विवल्गतोरुत्प्लवमानयोस्तयोः

अष्टादशः सर्गः | ४०७

Page 663Permalink
अष्टादशः सर्गः४०७

पार्थयोश्चरणपातः पादक्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः
परितः स्थलीषु प्रसस्रुः प्रसृताः । 'अभितः परितः—' इत्यादिना द्वितीया ।
'जानपद-' इत्यादिनाऽकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः
स्थलानि प्रभञ्जयन्तीत्यर्थः । एतेन तयोर्भार उक्तः ॥ ११ ॥

हिन्दी—हाथों और पैरोंके वन्धनसे छूटे हुए, नाल ठोककर सुन्दर रूपसे
उछलते हुए उन शिवजी और अर्जुनके चरणोंसे आहत तटवाली नदियाँ उस
स्थानके चारों ओर बहने लगीं ॥ ११ ॥

वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोरचरणानमितक्षितिनिजगृहे तिसृणां जयिनं पुराम् ॥ १२ ॥

मल्लि०—वियतीति । वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां
जयिनं त्रिपुरान्तकम् । 'जिदृक्षो—'त्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणा-
भ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्य, अन्तरा मध्ये-
मार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरा-
भ्यां जग्राहेत्यर्थः ॥ १२ ॥

हिन्दी—अन्तरिक्षमें वेगसे उछले हुए त्रिपुरविजयी शिवजीके दोनों पैरोंको
जमीनको झुकाते हुए अर्जुनने वेगसे सम्मुख जाकर मार्गके बीचमें पकड़
लिया ॥ १२ ॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १३ ॥

मल्लि०—विस्मित इति । तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः
सविस्मयः कर्मणां क्षयकरः । मोक्षप्रदः इत्यर्थः । परः पुमान् हरोऽवनौ क्षितौ
क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः । अक्लममक्लान्तं
तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिश्लिषेत्यर्थः । रथोद्धता वृत्तम् ॥ १३ ॥

हिन्दी—अर्जुनके चरणग्रहणरूप उस कर्मसे उस क्षणमें आश्चर्ययुक्त होकर
कर्मोंका क्षय करनेवाले अर्थात् मोक्ष देनेवाले परमपुरुष शिवजीने अर्जुनको जमीन-
पर पटकनेकी इच्छा करके और ग्लानिरहित उनको छातीसे आलिङ्गन कर पीस
डाला ॥ १३ ॥

Page 664Permalink

४०८
किरातार्जुनीयम्

तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो ! निजमेव सत्त्वमुपकारि सताम् ॥ १४॥

**मल्लि०—**तपसेति । भगवान् देवः । अस्यार्जुनस्य विपुलसत्त्वतया बहुसत्त्व-संपदा धैर्यसंपत्त्येति यावत् । यथा मुदं ययौ तथा तपसा मुदं न ययौ । तथा हि—सतां गुणसंहतेस्तपःसेवादिगुणसंघातात् समतिरिक्तम्‌अतिशयितं निजं सत्त्वमेवेष्टकार्यमुपकारकमहो ! प्रमिताक्षरा वृत्तम् ॥ १४ ॥

**हिन्दी—**भगवान् (शिवजी) अर्जुनके प्रचुर बल सम्पत्ति होनेसे जिस तरह प्रसन्न हुए उस तरह उनकी तपस्यासे प्रसन्न नहीं हुए, जैसे कि सज्जनोंका तपस्या और सेवा आदि गुणसमूहसे अतिरिक्त अपना बल ही उपकार करनेवाला होता है ॥ १४ ॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १५ ॥

**मल्लि०—**अथेति । अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसीन्दुलेखया विराजितं शोभितम् अतिमनोहरं सुन्दरं स्ववपुर्दधतं किरातरूपं विहाय निजविग्रहं दधानं हरमुदीक्ष्य पाण्डवो ननाम प्रणतवान् । अपरवक्त्रं वृत्तम्—'अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ' । इति लक्षणात् ॥ १५ ॥

**हिन्दी—**तब बर्फके समान सफेद भस्मसे भूषित, शिरपर चन्द्रकलासे शोभित अतिशय सुन्दर अपने शरीरको धारण करते हुए शिवजीका दर्शन कर पाण्डव-(अर्जुन) ने प्रणाम किया ॥ १५ ॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्नसि वृषभगतिरुपाययौ विस्मयम् ॥ १६ ॥

**मल्लि०—**सहेति । वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सहशरधिभ्यां वर्तत इति सहशरधि सनिषङ्गम् । 'वोपसर्जनस्य' इति विकल्पात् 'सह' शब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमपि खड्गं च तथैव पश्यन् विस्मयमुपाययौ । क्वचित्तु 'वृषभगतिम्' इति पाठः । तत्र वृषभगतिं शिवं न पश्यन् विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्—'प्रमुदितवदना भवेन्नौ ररौ' । इति लक्षणात् ॥ १६ ॥

अष्टादशः सर्गः । ४०९

Page 665Permalink

अष्टादशः सर्गः । ४०९

हिन्दी—वृषभके समान गतिवाले अर्जुन उस समय तरकशोंसे युक्त अपने धनु (गाण्डीव) को तथा पहलेकी तरह कवचधारी विशाल अपने शरीरको और पहलेके समान स्थापित अपने खड्गको देखते हुए आश्चर्ययुक्त हो गये ॥ १६ ॥

सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः ।
विमलरुचिभृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥ १७ ॥

मल्लि०—सिषिचुरिति । अम्बुवाहाः शनैरवनिं सिषिचुरुक्षांचक्रुः । दिवोऽन्तरिक्षाच्चित्रं विचित्रं सुरकुसुमं मन्दारकुसुमानि । जातावेकवचनम् । इयायाजगाम । अनाहतस्याताडितस्य दुन्दुभेः । जातावेकवचनम् । ध्वनिः विमलरुचि प्रसन्नमखिलं नभो भृशमानशे व्याप । अताडिता एव दुन्दुभयो नेदुरित्यर्थः । सर्वमिदमस्य सर्वलोकहितार्थित्वादिति वेदितव्यम् ॥ १७ ॥

हिन्दी—मेघ धीरे-धीरे पृथिवीको सेचन करने लगे, अन्तरिक्षसे विचित्र मन्दारपुष्प गिरने लगे, ताडन किये बिना भेरीकी आवाजने निर्मल कान्तिवाले समूचे आकाशको व्याप्त कर डाला ॥ १७ ॥

आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैद्यौराचिता तारकितेव रेजे ॥ १८ ॥

मल्लि०—आसेदुषामिति । गोत्रभिद इन्द्रस्य । अनुवृत्त्याऽनुसरणेन । आसेदुषामासन्नानां भुवनत्रयस्य गोपायकानां रक्षकाणां लोकपालादीनाम् । 'गुपूधूपे-' त्यादिनाऽऽयप्रत्ययः । तदन्ताण्ण्वुल् । रोचिष्णवः प्रकाशनशीला रत्नावलयो येषां तैः । 'अलंकृञि-'त्यादिनेष्णुच्प्रत्ययः । विमानैः पुष्पकैराचिता व्याप्ता द्यौस्तारकिता संजाततारकेव रेजे । उत्प्रेक्षालंकारः ॥ १८ ॥

हिन्दी—इन्द्रका अनुसरण कर रहनेवाले, तीनों लोकोंकी रक्षा करनेवाले लोकपाल आदियोंके चमकनेवाली रत्न पंक्तियोंसे युक्त विमानोंसे व्याप्त आकाश उदित ताराओंसे युक्तके समान शोभित हुआ ॥ १८ ॥

हंसा बृहन्तः सुरसद्मवाहाः संह्लादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणेव्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १९ ॥

मल्लि०—हंसा इति । बृहन्तो महान्तः सुरसद्मानि विमानानि वहन्तीति सुरसद्मवाहाः । कर्मण्यण् । संह्लादीनि निह्लादीनि मुखराणि कण्ठाभरणानि

Page 666Permalink
४१०किरातार्जुनीयम्

किङ्किण्यो येषां ते । पतन्तो धावन्तो हंसाः प्रयत्नेन विकीर्यमाणविक्षिप्यमाणैः अग्रपक्षैः पक्षाग्रैः । व्योम्नः परिष्वङ्गमलिङ्गनं चक्रुरिवेत्युत्प्रेक्षा ॥ १९ ॥

हिन्दी--विमानोंको ढोनेवाले, आवाज करनेवाली किङ्किणियोंसे युक्त बड़े-बड़े हंस उड़ते हुए हंस प्रयत्नसे फैलाये जानेवाले पंखोंके अग्रभागोंसे आकाशका आलिङ्गन कर रहे हैं क्या ? ऐसी प्रतीति हो रही थी ॥ १९ ॥

मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य संतानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ २० ॥

मल्लि०--मुदितेति । अथ मरुद्वायुः जलदे मेघ इव वृषे निषेदिवांसमुपविष्टमीश्वरं मुदिता मधुलिहो भृङ्गा याभिस्ता वितानीकृता उल्लोचाकाराः कृताः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । सांतनिकीः संतानकुसुमविकाराः स्रजः मन्दारमाला इत्यर्थः । 'संतान' शब्दाद्विकारार्थे ठक् । 'संतानः कल्पवृक्षश्च' इत्यमरः । उपरि वितत्य विस्तार्य । उपसुखयांबभूव प्रह्लादयामास ॥ २० ॥

हिन्दी--तब वायुने मेघके समान बैलपर चढ़े हुए शिवजीको भौरोंको प्रसन्न करनेवाली, चंदर्वाके समान की गई, सन्तान वृक्षके फूलोंकी मालाओंको फैलाकर प्रसन्न किया ॥ २० ॥

कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ २१ ॥

मल्लि०-कृतधृतीति । अभिन्नरोमोद्गमैरविरलरोमाञ्चैर्गणपतिभिः प्रमथमुख्यैरुच्चकैः परिवन्दितेन साधु साधु इति संस्तुतेन । 'वदि अभिवादनस्तुत्योः' । कर्मणि क्तः । हरेः सूनुनाऽर्जुनेन तपसि कृतं फलं भगवत्साक्षात्कारलक्षणं येन तस्मिन् । कृतफले सतीत्यर्थः । कृतधृति कृतसंतोषं यथा तथा फलज्यायसी फलाधिकेति वक्ष्यमाणा स्तुतिर्जगदे कथिता ॥ २१ ॥

हिन्दी-अविरल रोमाञ्चोंसे युक्त मुख्य प्रमथोंसे उच्च स्वरसे स्तुति किये गये अर्जुन तपस्यामें फलके उत्पन्न होनेपर सन्तोषकर फलसे अधिक स्तुति करने लगे ॥ २१ ॥

शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः ।
जितमृत्यवोऽजित ! भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥२२॥

अष्टादशः सर्गः

Page 667Permalink

अष्टादशः सर्गः

मल्लि०—शरणमिति। हे अजित अपराजित ! हे भव ! अतिकारुणिकमति-
दयालुम्। 'तदस्य प्रयोजनम्' इति ठक्। भक्तिगम्यं भक्तिमात्रसुलभं भवन्तं शरणं
रक्षकमधिगम्य जितमृत्यवो विगतमरणाः। अमरा भूत्वेत्यर्थः। जनाः ससुरासुरस्य
जगतो भय आपदि स्वयं रक्षितारो भवन्ति। 'शरणं गृहरक्षित्रोः' इति विश्वः।
प्रमिताक्षरा वृत्तम् ॥ २२ ॥

हिन्दी—किसीसे पराजित न होनेवाले हे शिवजी ! अत्यन्त दयालु भक्तिसे
सुलभ आपको रक्षक पाकर मृत्युको जीतकर भयके समयमें देवताओं और दैत्योंसे
युक्त लोकको शरण देनेवाले हो जाते हैं ॥ २२ ॥

विपदेति तावदवसादकरी न च कामसंपदभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश ! न नतिः क्रियते ॥ २३ ॥

मल्लि०—विपदेति । हे ईश ! यावत्तव नतिः प्रणामो न क्रियते । पुरुषेणेति
शेषः। तावदेव एकं पुरुषमेकाकिनं सन्तमवसादकरी क्षयकरी विपदेति प्राप्नोति ।
कामसंपत् मनोरथसंपच्च नाभिकामयते नेच्छति पुरुषाश्चान्ये लोकास्तमेकं पुरुषं
तव स्तुतिमकुर्वाणं न नमन्ति न वशे वर्तन्ते । नानिष्ठनिवृत्तिर्नापीष्टप्राप्तिरित्यर्थः ।
यदा तु त्वां प्रणमन्ति तदैव सर्वं लभ्यते इति भावः ॥ २३ ॥

हिन्दी—हे ईश्वर ! पुरुष जबतक आपको प्रणाम नहीं करता है तबतक
सहायहीन उसको क्षय करनेवाली विपत्ति प्राप्त हो जाती है । मनोरथसम्पत्ति
भी उस पुरुषको नहीं चाहती है । अन्यपुरुष भी अपनी स्तुति न करनेवालेके वशमें
नहीं रहते हैं ॥ २३ ॥

संसेवन्ते दानशीला विमुक्त्यै संपश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥२४॥

मल्लि०—संसेवन्त इति । दानं शीलं स्वभावो निजधर्मो येषां ते दानशीलाः ।
त्वामेवोद्दिश्य दानं कुर्वन्त इत्यर्थः । 'तस्माद्दानं परमं वदन्ति' इति श्रुतेरिति
भावः । कुतः । यतो जन्मदुःखं संपश्यन्तोऽनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय
संसेवन्ते । भवन्तमिति शेषः । न च तच्चित्रम्, किंतु आनतेभ्यः प्रणम्रेभ्यो
निःसङ्गो निःस्पृहस्त्वं यत् फलसि फलं ददासि । तेषां फलार्थित्वादिति भावः ।
यत् केवलं निरुपाधिकं कारुण्यं करुणा । स्वार्थे ष्यञ् । 'कारुण्यं करुणा घृणा'