Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages
Page 472Permalink

२१४ | किरातार्जुनीयम्

त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्—'रसै रुद्रै-श्छिन्ना यमनसभलागः शिखरिणी'ति लक्षणात् ॥ ६३ ॥

इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ।

●

हिन्दी—इस प्रकार कठोर तपस्यासे इन्द्रकी आराधना करके शत्रुओंके वधसे प्राप्त होनेको योग्य राजलक्ष्मीका अभिलाष करनेपर उद्वेगयुक्त अर्जुनके मनसे उपलक्षित और प्रार्थनाके भङ्गसे नष्ट कान्तिवाली अप्सराएँ गन्धर्वोंके साथ अपने स्थान (स्वर्ग) को चली गईं ॥ ६३ ॥

इति किरातार्जुनीये महाकाव्ये दशमः सर्गः ।

●

एकादशः सर्गः

अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १ ॥

मल्लि०—अथेति । अथ अप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः । नन्द्यादित्वाल्ल्युप्रत्ययः । तयाऽप्सरोम्लाधुकतया अमर्षाद् द्विषद्द्वेषात्निसर्गाच्च या जितेन्द्रियता तयाऽऽगन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते हृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम । अत्रामर्षनिसर्गयोजितेंद्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥ १ ॥

हिन्दी—तब गन्धर्व और अप्सराओंके लौटकर आनेके बाद इन्द्रदेव शत्रुओंके प्रति विद्वेषसे और स्वभावसे भी अर्जुन जितेन्द्रिय होनेसे प्रसन्न होकर अर्जुनके आश्रममें आये ॥ १ ॥

मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तं किराध्वना ॥ २ ॥

एकादशः सर्गः २१५

Page 473Permalink

एकादशः सर्गः २१५

मल्लि०—मुनिरूप इति । मुने रूपमिव रूपं यस्य स मुनिरूपः । मुनिवेष-
धारीत्यर्थः । इन्द्रोऽनुरूपेण दर्शनप्रदानयोग्येनेत्यर्थः । सूनुना पुत्रेणार्जुनैन पुरोऽग्रे
ददृशे दृष्टः । कथंभूतः । वयो यौवनादिकमतीतो वृद्धः । 'द्वितीया श्रिते—'त्या-
दिना द्वितीयासमासः । द्राघीयसाऽतिदीर्घेण । 'प्रियस्थिर'—त्यादिना दीर्घ-
शब्दस्य द्राघादेशः । अध्वना । अध्वगमनेनेत्यर्थः । परिक्लान्तः परिश्रान्तः ।
किलेत्यलीके । 'किल संभाव्यवार्त्तयोः । हेत्वरुच्योरलीके न' इति हेमचन्द्रः ।
वृद्ध एव दूराध्वश्रान्त इव स्थित इत्यर्थः । 'इव' इति पाठे स्पष्टार्थः ॥ २ ॥

हिन्दी—मुनिका वेष लिये हुए तथा बहुत दूर मार्गमें गमन करनेसे थके-मांदेसे
वृद्ध इन्द्रदेवको पुत्र अर्जुनने सामने देखा ॥ २ ॥

जटानां कीर्णया केशौः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥ ३ ॥

मल्लि०—जटानामिति । परितः सितैः केशौः कीर्णया व्याप्तया जटानां संहत्या
समूहेनोपलक्षितः । अत एव, इन्दुकरैः पृक्तया युक्तया संध्ययोपलक्षितोऽह्नः पर्यन्तो
दिनान्त इव स्थितः । तस्याप्युपपरिणतरूपत्वाद् वृद्धोपमानत्वम् । जटानां संहत्ये-
त्युक्तत्वात् संध्यासाम्यम् ॥ ३ ॥

हिन्दी—चारों ओरसे सफेद केशोंसे व्याप्त जटासमूहसे युक्त अतएव चन्द्र-
किरणोंसे युक्त सन्ध्यासे उपलक्षित दिनके अवसान कालके समान इन्द्रदेवको पुत्र
अर्जुनने देखा ॥ ३ ॥

विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।
प्रालेयावतस्तिम्लानपलाशाम्बुज इव ह्रदः ॥ ४ ॥

मल्लि०—विशदेति । पुनश्च विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने वलिता-
पाङ्गे वलिमत्प्रान्ते लोचने यस्य स तथोक्तः । 'अपाङ्गो नेत्रयोरन्तो' इत्यमरः ।
पामादित्वाल्लोमादिसूत्रेण वलच्प्रत्ययः । प्रालेयावततया हिमंसंहत्या म्लानपलाशानि
म्लान्तदलानि अब्जानि यस्मिन्स ह्रद इव स्थितः ॥ ४ ॥

हिन्दी—जरासे सफेद भौंहोंसे व्याप्त नेत्रोंवाले इन्द्रदेवको अर्जुनने हिमसमूह-
से मुरझाये हुए पत्तोंवाले कमलोंसे युक्त तालाबके समान देखा ॥ ४ ॥

आसक्तभरनीकाशैरङ्गैः परिकृशोरपि ।
साधूनः सद्वृत्तिष्व्येव प्रायो यष्ट्यावलम्बितः ॥ ५ ॥

Page 474Permalink
२१६किरातार्जुनीयम्

मल्लि०—ग्रासङ्केति। पुनश्च, परिकृशंः परिशीर्णैरपि, आसक्तभरनीकाशैः भराक्रान्तसदृशैः । सभारवद्गुरुभवद्भिरित्यर्थः । 'हरूः काशे' इति दीर्घः। बहुभिः उपलक्षितः। कार्श्यादलघून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एव आधूनः औदरिकः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः। आङ्पूर्वाद्धाञ्स्तेः क्तः। 'उदात्तोऽनुनासिके च' इत्यूठादेशः । 'दिवाऽविजिगीषायाम्' इति निपात्यम् । सदगृहिण्याऽनुकूलकलत्रेण इव प्रायः प्राचुर्येण यष्ट्याऽवलम्बनदण्डेन । अवलम्बितो धारितः । न तु स्वशक्त्येति भावः ॥ ५ ॥

हिन्दी—दुबले होने हुए भी भारसे आक्रान्तके समान अङ्गोंवाले अतएव जीतनेको इच्छासे रहित खाली पेट भरना ही चाहनेवाले अतएव अनुकूल पत्नीके समान प्रायः दण्डका अवलम्बन करनेवाले इन्द्रदेवको पुत्र अर्जुनने देखा ॥ ५ ॥

गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥ ६ ॥

मल्लि०—गूढ इति। वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दाऽन्तरितमूर्तिः । अंशुमानिव लोकाभिभाविना लोकव्यापिना धाम्ना तेजसा । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । राजन् दीप्यमानो ददृशे इति पूर्वेण संबन्धः ॥ ६ ॥

हिन्दी—शरीरसे प्रच्छन्न रूपवाले होकर भी थोड़ेसे मेघोंसे व्यवहित मूर्तिवाले सूर्यके समान लोकको व्याप्त करनेवाले तेजसे प्रकाशित होते हुए इन्द्रको अर्जुनने देखा ॥ ६ ॥

जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ७ ॥

मल्लि०—जरतीमिति । जरतीं जीर्णाम् । 'जीना जीर्णा जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणोऽपि दधदपि अप्राकृताऽलोकसामान्या आकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताऽभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः । अत्र 'उरःप्रभृतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव 'लक्ष्मी' शब्दस्योरःप्रभृतिषु पाठात् । 'शेषाद्विभाषा' इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं

Page 475Permalink

एकादशः सर्गः २१७

-ससाध्वसमिव चकार। तेजस्विदर्शनाद्भयं भवति। यत्तु न दुःखजनकं तस्यामानुष-
त्वादिति सूचयितुम् 'इव' शब्दः ॥ ७ ॥

हिन्दी — जीर्ण शरीरका धारण करते हुए भी अलौकिक आकारवाले इन्द्रने आश्रमसीमाका आक्रान्त करके आश्रमको भयभीत-सा कर दिया ॥ ७ ॥

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ८ ॥

मल्लि० — अभित इति। पृथासूनुरर्जुनः। तम् इन्द्रम्। अभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्याप्तः। स्तृणातेः कर्मणि लिट्। 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्वजातसम्बन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह -- अविज्ञात इति। बन्धौ सुहृदि। अविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि स्निह्यतीत्यर्थः ॥ ८ ॥

हिन्दी — पृथापुत्र (अर्जुन) इन्द्रके प्रति स्नेहसे व्याप्त हो गये, क्योंकि बन्धुके अपरिचित होनेपर भी मन हठात् स्नेह करता है ॥ ८ ॥

आतिथेयीमथासाद्य सुतादपचितिं हरिः।
विश्रभ्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ९ ॥

मल्लि० — आतिथेयीमिति। अथ हरिरिन्द्रः सुतादर्जुनात्। आतिथेयीम्। अतिथिषु साध्वीम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' अपचितिं पूजाम्। आसाद्य प्राप्य 'पूजा नमस्याऽपचितिः' इत्यमरः। विष्टरे आसने। 'ऋदोरप्' इति स्तृणातेरप्रत्ययः। 'वृक्षासनयोर्विष्टरः।' इति षत्वम्। विश्रभ्य नाम विश्रभ्य किल। श्रममपनीयेत्यर्थः। इति वक्ष्यमाणप्रकारां भारतीं व्याजहार उक्तवान्। 'व्याजहार उक्तिर्लपितम्' इत्यमरः ॥ ९ ॥

हिन्दी — तदनन्तर इन्द्रने पुत्र (अर्जुन) से अतिथिसत्कार पाकर आसनमें विश्राम कर अर्जुनके प्रति ऐसी वाणीको प्रकाश किया ॥ ९ ॥

त्वया साधु समारम्भि नवे वयसि यत्तपः।
ह्रियते विषयैः प्रायो वर्पीयानपि मादृशः ॥ १० ॥

मल्लि० — त्वयेति। त्वया साधु समारम्भि सम्यगुपक्रान्तम्। रभेः कर्मणि लुङ्। कुतः। यद् यस्मात्। नवे वयसि यौवने। तपश्चर्यत इति शेषः। तथा

Page 476Permalink
२१८किरातार्जुनीयम्

हि—अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । 'प्रियस्थिरे--'त्यादिना 'वृद्ध' शब्दस्य वर्षादेशः । प्रायो विषयैर्हियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥ १० ॥

हिन्दी — 'हे वत्स ! नई उम्रमें जो तपस्या कर रहे हो, यह तुमने उत्तम कार्यका आरम्भ किया है, क्योंकि मेरे समान अत्यन्त वृद्ध पुरुष भी विषयोंसे प्रायः खींचा जाता है ॥ १० ॥

अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यादित्याशयेनाह—

श्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११ ॥

मल्लि०—श्रेयसीमिति । तवाकृतिर्मूर्तिः । रम्येति शेषः । श्रेयसीं श्रेष्ठां गुणसंपदं तपःसमारम्भरूपां संप्राप्ता । अतो न निष्फलेति भावः । न च स्वाकारा गुणाढ्याश्च कियन्तो न सन्तीति वाच्यमित्याह—लोक इति । लोके रम्यता रम्याकारता सुलभा हि, गुणार्जनं गुणसंपादनं दुर्लभम्, त्वयि तूभयं संपद्यत इति हेम्नः परमामोदः इति भावः ॥ ११ ॥

हिन्दी—( हे वत्स ! ) तुम्हारे आकारने श्रेष्ठ गुणसम्पत्तिको प्राप्त कर लिया है, क्योंकि लोकमें सुन्दर आकार सुलभ है, पर गुणका उपार्जन करना दुर्लभ है ॥ ११ ॥

यदुक्तम् 'त्वया साधु समारम्भि' ( श्लो० १० ) इति, तदेव साधुत्वं संसारनिःसारताख्यापनाय युग्मेनोपपादयति—

शरदम्बुधरच्छायागत्त्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १२ ॥

**मल्लि—**शरदिति । यौवनश्रियस्तावत् शरदम्बुधरच्छाया इव गत्वर्यश्चञ्चलाः 'गत्वरश्च' इति क्वरबन्तो निपातः । 'टिड्ढाणञ्—'त्यादिना ङीप् । विषयाः शब्दादयस्तु आपातरम्यास्तत्कालरमणीयाः । 'तदात्वे पातः आपातः' इति वैजयन्ती । पर्यन्तेऽवसाने परितापयन्ति दुःखं कुर्वन्तीति तथोक्ताः ॥ १२ ॥

हिन्दी—( हे वत्स ! ) यौवनकी शोभा शरत् ऋतुके मेघकी छायाके समान चञ्चल हैं, विषय ( शब्द स्पर्श आदि ) उसी समय ( भोगकाल ) में ही रमणीक हैं परन्तु परिणाममें दुःख उत्पन्न करनेवाले हो जाते हैं ॥ १२ ॥

Page 477Permalink

एकादशः सर्गः | २१९


अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १३ ॥

मल्लि०— अन्तक इति । किंच, संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनः प्राणिनः । 'प्राणी तु चेतनो जन्मी' इत्यमरः । व्रीह्यादित्वादिनिः । अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा । प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंमिश्रतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम् 'काकमांसं शुनोच्छिष्टं [ दुर्गन्धं कृमिसंकुलम् । श्लेष्मपक्वं सुरासिक्तम् ] स्वल्पं तदपि दुर्लभम् ।' इति न्यायादिति भावः । इति उक्तहेतोः । त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादृश इति शेषः । 'भव्यं सुखे शुभे चापि भव्यवद्योग्यभाविनोः इति विश्वः । 'भव्यगेये-'त्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । 'उदोऽनूर्ध्वकर्मणि' इत्यात्मनेपदम् ॥ १३ ॥

हिन्दी— (हे वत्स !) निरन्तर आपत्तिवाले प्राणीका यमराज प्रतिरोध करनेवाला है, इस कारणसे त्यागके योग्य संसारमें तुम-सा योग्यजन मुक्तिके लिए उद्योग करता है ॥ १३ ॥

संप्रति प्रशंसापूर्वकं स्वाभिसन्धि दर्शयति —

चित्तवानसि कल्याणी यत्त्वां मतिरूपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ १४ ॥

मल्लि०— चित्तवानिति । चित्तवान् प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यत् यतः, त्वां कल्याणी साध्वी । 'बह्वादिभ्यश्च' इति ङीष् । मतिरूपस्थिता संगता । किंतु केवलमेकं यथा तथा विरुद्धो वेषो मे मनः संदेहयति संशययुक्तं करोति । यद्वा—वेषः केवलम् । वेष एवेत्यर्थः । 'केवलः कृत्स्न एके च केवलं चावधारिते' । इत्युभयत्रापि शाश्वतः ॥ १४ ॥

हिन्दी— (हे वत्स !) तुम प्रशस्त चित्तवाले हो, जो कि तुमको कल्याणमयी बुद्धि उपस्थित हो गई है; परन्तु तुम्हारा ( परस्पर ) विरुद्ध वेष ही मेरे मनको सन्देहयुक्त कर रहा है ॥ १४ ॥

वेषविरोधमेवाह—

युयुत्सुरिव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ १५ ॥

Page 478Permalink

२२० | किरातार्जुनीयम्

मल्लि०—युयुत्सुनेति। युयुत्सुनेव योद्धुमिच्छुनेव त्वया। युधेः सन्नन्तादुः प्रत्ययः। किमिदं कवचं वर्म। आमुक्तमर्पितम्। तत्र को विरोध इत्यत्राह—यस्मात् तपस्विनः केवले एके। कवचाद्यसहचरिते इति यावत्। ते च ते अजिने वल्कले च। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः। वसत आच्छादयन्ति। अतस्तपस्विनस्ते कवचधारणं विरुद्धमित्यर्थः॥ १५॥

हिन्दी—(हे वत्स!) लड़नेकी इच्छा करनेवालेके समान तुमने इस कवचको क्यों धारण किया है? क्योंकि तपस्वी पुरुष तो केवल मृगचर्म और वल्कलको धारण करते हैं॥ १५॥

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः॥ १६॥

मल्लि०—प्रपित्सोरिति। किं च, मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। 'सनि मीमे—'त्यादिनेसादेशः। अत्र 'लोपोऽभ्यासस्य' इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे गतस्पृहस्य निःस्पृहस्य। अतो नात्मरक्षार्थं धनुर्धारणं युक्तमित्यर्थः। नापि परहिंसार्थमित्याह—भूतानां जन्तूनाम्। 'क्ष्मादौ जन्तौ च भूतानि' इति वैजयन्ती। 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मसंज्ञायां 'कर्तृकर्मणोः कृति—' इति कर्तरि षष्ठी। अनभिद्रुहोऽहिंसकस्य। 'सत्सूद्विषे—'त्यादिना क्विप्। ते तव महेषुधी महानिषङ्गौ भीमं त्रासजनकं धनुश्च। न समर्थयते शममित्युत्तरेणान्वयः। 'समर्थयतः' इति वचनविपरिणामः कार्यः॥ १६॥

हिन्दी—(हे वत्स!) मुक्ति पानेकी इच्छा करनेवाले अतः शरीरमें निःस्पृह और प्राणियोंका द्रोह न करनेवाले तुम्हारे ये तरकश और भयंकर धनु (शान्तिका समर्थन नहीं करते हैं)॥ १६॥

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः।
असिस्तव तपःस्थस्य न समर्थयते शमम्॥ १७॥

मल्लि०—भयंकर इति। तथा, मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः। 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः। 'अरुर्द्विष—'त्यादिना मुमागमः। असिः खड्गः। तपसि तिष्ठतीति तपःस्थः। तपश्चरन्नित्यर्थः। 'सुपि स्थः' इति कप्रत्ययः। तस्य, तव शमं शान्तिं न समर्थयते न संभावयति। किं शान्तस्य शस्त्रेणेति भावः॥ १७॥

Page 479Permalink

एकादशः सर्गः २२१

हिन्दी—(हे वत्स !) मृत्युके दूसरे बाहुके समान प्राणियोंको भयंकर तुम्हारी तलवार शान्तिका समर्थन नहीं कर रही है ॥ १७ ॥

नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह—

जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ १८ ॥

मल्लि०—जयमिति । अत्रभवान् पूज्य इत्यर्थः । ‘इतरेभ्योऽपि दृश्यन्ते’ इति प्रथमार्थे प्राग्दिशीयस्त्रल्प्रत्ययः । सुप्सुपेति समासः । ‘त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवानपि’ इति यादवः । अरातिषु शत्रुपु विषये जयमभिलाषुको जयमिच्छुः । ‘लषपते—’त्यादिनोकञ्प्रत्ययः । ‘न लोके--’त्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । ‘नूनं तर्केऽपि निश्चये’ इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गम् । आयुधं क्व । क्षमावन्तः शान्ताः तपोधनाः क्व । क्रोधशान्त्योविरोधात् तत्कार्ययोः शस्त्रतपसोरप्येकत्रासङ्गतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥ १८ ॥

हिन्दी—(हे वत्स !) पूजनीय आप निश्चय ही शत्रुओंमें विजयका अभिलाष करते हैं, क्योंकि क्षमावाले तपस्वीलोग कहाँ और क्रोधका चिह्नस्वरूप हथियार कहाँ ? ॥ १८ ॥

तपसो जयार्थत्वे दोषमाह—

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ १९ ॥

मल्लि०—य इति । यः पुमान् । निश्चितं श्रेयो निःश्रेयसं मुक्तिः । ‘अचतुरे—’त्यादिना समासान्तो निपातः । ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्’ इत्यमरः । निःश्रेयसं कुर्वन्तीति निःश्रेयस्करीः । निःश्रेयसहेतूनित्यर्थः । ‘कृञो हेतुताच्छील्यानुलोम्येषु’ इति हेत्वर्थे टप्रत्ययः । टित्त्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । ‘उदर्कः फलमुत्तरम्’ इत्यमरः । अत एव मूढः स पुमान् । ग्लानिरेव दोषस्तं छिन्दन्तीति ग्लानिदोषच्छिदः पिपासाहारिणीः । क्विप् । स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति । ‘णाविष्ठवद्भावे विन्मतोर्लुक्’ इति मतुपो लुक् । महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्बुनः पङ्कसङ्करवत् प्रेक्षावद्भिर्गर्हित इत्यर्थः । अत्र ‘यत्तपसो वधोदर्का—

Page 480Permalink
२१२किरातार्जुनीयम्

करणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्' इति वाक्यार्थे वाक्यान्तरसमारोप-प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः ॥ १९ ॥

**हिन्दी—**जो पुरुष मोक्ष करनेवाली क्रियाओंको हिंसाका कारण बनाता है वह मूर्ख म्लानिरूप दोषको हटाने निर्मल जलको कीचड़वाला बना देता है ॥१९॥

नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तत्पसतदर्थत्वे को दोषस्तत्राह—

मूलं दोषस्य हिंसादेरर्थकामो स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ २० ॥

**मल्लि०--**मूलमिति । हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । 'आदि'-शब्दात् अनृतस्तेयादीनां संग्रहः । दोषस्य अवगुणस्य मूलं कारणभूतौ । 'स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम्' । इति भावः । अर्थकामो मा स्म पुषो नोपचिनुष्व । 'स्मोत्तरे लङ् च' इति लङ् । 'पुषादी-'त्यादिना च्लेरङादेशः । हि यस्मात्, तौ अर्थकामो तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारौ उपप्लवौ हिंसादिप्रवर्त्तकत्वादन्तको । अतः पुरुषार्थपरिपन्थिनाच्चैतौ न पुरुषार्थावित्यर्थः ॥ २० ॥

हिन्दी—( हे वत्स ! ) हिंसा आदि दोषके कारणस्वरूप अर्थ और कामको मत बढ़ाओ, क्योंकि वे (अर्थ और काम) मोक्षके साधनस्वरूप तत्त्वज्ञानके दुःखसे हटाये जानेवाले नाशक हैं ॥ २० ॥

मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम्, तत्रार्थस्य दुःखनिदानत्वादप्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति—

अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः ।
उदन्वानिव सिंधूनामापदामेति पात्रताम् ॥ २१ ॥

**मल्लि०--**अभिद्रोहेणेत्यादि । भूतानामभिद्रोहेण हिंसया गत्वरीरस्थिराः श्रियः संपदोऽर्जयन् जनः । उदकमस्तीति उदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । सिंधूनां नदीनामिव आपदां विपदां पात्रतां मूलत्वम् एति । २१।

**हिन्दी—**जो पुरुष प्राणियोंकी हिंसासे अस्थिर सम्पत्तिका उपार्जन करता है वह जैसे नदियोंका आश्रय समुद्र होता है वैसे ही आपत्तियोंका आश्रय हो जाता है ॥ २१ ॥

एकादशः सर्गः २२३

Page 481Permalink

एकादशः सर्गः २२३

आपत्पात्रतामेव व्यनक्ति—

या गम्याः सत्सहायानां, यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदामिव संपदाम् ॥ २२ ॥

मल्लि०— या इति। याः संपदः सत्सहायानां विद्यमानसाधनानामेव पुंसां गम्याः, प्राप्याः। विपदोऽपि सत्सहायानामेव गम्याः। निस्तीर्या इत्यर्थः। 'कृत्यानां कर्तरि वा' इति षष्ठी। यासु सतीषु खेदः रक्षणादिक्लेशः। विपत्सु स्वत एवेति विशेषः। यतो याभ्यः संपद्भ्यो भयम्। अनेकानर्थमूलत्वादिति भावः। विपद्भ्यस्तु स्वरूपत एवेति भावः। किं बहुना, विपदामिव तासां संपदां संबन्धि न किम्। अस्तीति शेषः। यद्दुःखाय न भवति। सर्वं दुःखावहमेवेति भावः। यदाहुः—'अर्थानामर्जने दुःखमर्जितानां च रक्षणे। नाशे दुःखं, व्यये दुःखं, धिगर्थं दुःखभाजनम्।' इति। अतो हेया इति भावः। अत्र 'यन्न दुःखाये'त्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात्तासां किमपि पूर्ववाक्ये तच्छब्दोपादानं नापेक्षते। तदेतत्काव्य-प्रकाशे स्पष्टम् ॥ २२ ॥

हिन्दी— जो संपत्तियां सहायवालोंसे ही पाई जानेवाली हैं, जिनके रहने पर रक्षण आदि क्लेश होता है, जिन ( सम्पत्तियों ) से भय उत्पन्न होता रहता है वैसी विपत्तियोंके समान सम्पत्तियोंका कौन-सा विषय ऐसा है, जो कि दुःखके लिए नहीं हो ॥ २२ ॥

दुरासदानरीनूग्रान् धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ २३ ॥

मल्लि०— दुरासदानीति। किंच, दुरासदान् दुष्प्रापान्। विश्वासाज्जन्म यस्यास्तस्याः। जन्मोत्तरपदत्वात् व्यधिकरणो बहुव्रीहिः। धृतेः संतोषस्य। उग्रानरीन्। धनिकस्य सर्वत्रानाश्वाससंभवाद्विश्रम्भसुलभशङ्कानित्यर्थः। भुज्यन्त इति भोगास्तान् भोगान् धनानि। आहेयान् अहिषु भवान्। 'दृतिकुशिकेलशिशवस्त्य-हेर्ढञ्' । भोगान् फणानिव। 'भोगः सुखे घने चाहेः शरीरफणयोरपि' । इत्युभय-त्रापि विश्वः। अध्यास्य अधिष्ठाय। आपत् विपत्। न दुर्लभा। आशीविषमूह-मिव नेच्छन्तमेव भोगिनं पुमांसं बलादापदोऽनुसंदधतीत्यर्थः ॥ २३ ॥

हिन्दी— दुःखसे पाये जाने वाले विश्वाससे उत्पन्न सन्तोषके भयङ्कर शत्रुरूप

Page 482Permalink

२२४ | किरातार्जुनीयम्

भोगोंको जो कि तृणोंके कणोंके समान है, उनका आश्रय करनेसे आपत्ति दुर्लभ नहीं अर्थात् सुलभ होती है ॥ २३ ॥

इतोऽपि श्रियो हेया इत्याह—
नान्तरज्ञाः श्रियो जातु, प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ २४ ॥

**मल्लि०—**नेति । श्रियः संपदो जातु कदाचित् । अन्तरज्ञा नीचानीचविशेषाभिज्ञा न भवन्ति । अत एव, आसां श्रियां प्रियैर्न भूयते । न ताः कुत्राप्यनुरज्यन्तीत्यर्थः । नन्वयं स्त्रीदोष इति चेत्तत्राह—मूढा अमी जनाः तासु अननुरक्तास्वपि स्त्रीषु आसक्ताः । स्त्रीष्विव श्रीष्वननुरक्तास्वनुरागः पुंसामेवायं दोष इत्यर्थः । विरुद्धं हि तास्वेव सर्वेषामासक्तिरित्यर्थान्तरं न्यस्यति—वामेति । जन्तवो वामशीला वक्रस्वभावा हि । स्वभावस्य दुर्वारत्वादिति भावः ॥ २४ ॥

**हिन्दी--**सम्पत्तियाँ कभी भी 'यह नीच है यह उदार है' ऐसे भेदको जानकार नहीं होती हैं, कोई भी पुरुष इनका प्रिय नहीं होता है, मूढ पुरुष ही इनमें आसक्त होते हैं, क्योंकि प्राणीलोग वक्र स्वभाववाले होते हैं ॥ २४ ॥

यदुक्तम्—'नान्तरज्ञाः श्रियः' ( श्लो० २४ ) इति, तदेव भङ्ग्यन्तरेणाह—
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव संपदः ॥ २५ ॥

**मल्लि०--**क इति । यत् संपदोऽशीलेषु दुःशीलेषु विषये चञ्चला अस्थिराः। न तद्विरुद्धमुच्यते, यतः चञ्चला इति । अतः स्तुतिविषये तत्र कोऽपवादः का निन्दा किन्तु क्षुद्राः संपदः साधुवृत्तानपि विक्षिपन्त्येव जहत्येव । तदेव तासां निन्दापदमित्यर्थः । तस्मादर्थो न पुरुषार्थ इति संदर्भार्थः ॥ २५ ॥

**हिन्दी--**सम्पत्तियाँ दुःशील जनोंमें चञ्चल होती हैं इस स्तुतिके विषयमें क्या निन्दा है ? किन्तु क्षुद्र सम्पत्तियाँ सच्चरित्र जनोंको भी छोड़ ही देती हैं ॥२५॥

ननु नार्थमहमर्थये, किन्तु वीरधर्ममनुपालयन् वैरनिर्यातनिमिच्छामीत्याह, यद्यपि तदपि परपीडात्मकत्वादयुक्तमिति श्लोकचतुष्टयेनाचष्टे—
कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ २६ ॥

**मल्लि०—**कृतवानिति । शत्रास्मद्दृष्टान्तेनैव परपीडातो निवर्तितव्यमित्याशये-

एकादशः सर्गः २२५

Page 483Permalink

एकादशः सर्गः २२५

नाह – अप्रियैरनिष्टवस्तुभिः संयोग इव प्रियैरिष्टवस्तुभिः सह विप्रयोगो विरहोऽन्यदेहेषु स्वस्यैव देहान्तरेषु अतीतानागतेष्विति शेषः । मनो विधुरं दुःखितं कृतवान् कर्ता करिष्यति च । भविष्ये लुट् । तद्वर्तमाने चानुभूयत इति शेषः । इष्टनाशो दुःखहेतुरिति सर्वत्रापि त्रैकालिकसिद्धमिति श्लोकार्थः ॥ २६ ॥

**हिन्दी—**अप्रियों (अनिष्ट वस्तुओं) से संयोगके समान प्रियों (इष्ट वस्तुओं) से वियोगने अपने अन्य शरीरोंमें मनको दुःखित किया है और करेगा भी ॥ २६ ॥

संप्रतीष्टसमागमस्य सुखहेतुत्वमाह—

शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ २७ ॥

**मल्लि०—**शून्यमिति । प्रियसमागम इष्टजनसंयोगे सति शून्यं रिक्तमपि आकीर्णतां संपूर्णताम्, एति । समृद्धिमिव ? प्रतीयत इत्यर्थः । व्यसनं विपदपि उत्सवैस्तुल्यम् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । विप्रलम्भो वञ्चना । प्रतारणमिति यावत् । सोऽपि लाभाय । किं बहुना, प्रियसङ्गस्य सर्वावस्थास्वपि सुखमेवेत्यर्थः ॥ २७ ॥

**हिन्दी—**प्रियजनके समागममें शून्य भी परिपूर्ण हो जाता है और विपत्ति भी उत्सवोंके समान प्रतीत होती है प्रतारण भी लाभके लिए हो जाती है ॥२७॥

पुनः प्रकारान्तरेण विप्रयोगस्य दुःखहेतुत्वमाह—

तदा रम्याप्यरम्याणि, प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ २८ ॥

**मल्लि०—**तदेति । तदा रम्याण्यपि अमनोहराणि भवन्ति । किं बहुना, प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किंच, तदा सबन्धुः सन्नपि, एकाकी असहाय एव । 'एकादाकिनिच्चासहाये' इत्याकिनिच्प्रत्ययः । यदा इष्टेन रहितो भवति तदा सर्वमसह्यमिति ॥ २८ ॥

**हिन्दी—**इसके विपरीत जब प्रियसे रहित (वियुक्त) होता है तब सुन्दर पदार्थ भी असुन्दर हो जाते हैं। प्रीतिके विषय प्राण भी कण्टक-सा हो जाता है, उस समय बन्धुओंके साथ रहता हुआ भी अकेला-सा हो जाता है ॥ २८ ॥

१५ कि०

Page 484Permalink

२२६ | किरातार्जुनीयम्

युक्तः प्रमाद्यसि, हितादपेतः परितप्यसे ।
यदि नेच्छात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥

**मल्लि०—**युक्त इति । किंच, युक्तः, हितेनेति शेषः । हितेनेष्टेन युक्तः सन् प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह—यदीति । पीडा बाधः स्वस्य च नेष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्मदृष्टान्तेन परपीडातो निवर्त्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥ २९ ॥

हिन्दी—( हे वत्स ! ) हितसे युक्त होकर बहुत ही प्रसन्न होते हो, परन्तु हितसे रहित होकर सन्तप्त हो जाते हो, इसलिए तुम दुःख भोगना नहीं चाहते हो तो अन्य जनमें आसक्त मत बनो ॥ २९ ॥

अथ देहास्थैर्याश्रद्धया च परपीडा न कार्येत्याह—

जन्मिनोऽस्य स्थितिं विद्वाँल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं, न्यायाधारा हि साधवः ॥ ३० ॥

**मल्लि०--**जन्मिन इति । अस्य जन्मिन उत्पत्तिधर्मकस्य शरीरिणः । व्रीह्यादित्वादिनिः । स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मधर्मत्वादेव चञ्चलामनित्यामित्यर्थः । चलतेः पचाद्यच् । ‘चरिचलिपत्तिवदीनां वा द्वित्वमभ्यासस्यात्वं सद्येति वक्तव्यम्’ इति द्वित्वः । अभ्यासस्यागागमश्च । विद्वान् । जानन्नित्यर्थः । ‘विदेः शतुर्वसुः’ इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयदित्यर्थः । ‘स्मोत्तरे लङ् च’ इति लङ् । ‘लुङि च’ इति हनो वधादेशः । ‘शेषे प्रथमः’ इति प्रथमपुरुषः । हि यस्मात् साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न स्यादिति भावः । ‘न्यायाचाराः’ इति पाठे न्यायमाचरन्तीति तथोक्ताः । कर्मण्यण् ॥ ३० ॥

**हिन्दी—**इस जन्मवाले ( प्राणी ) की स्थितिको लक्ष्मीकी तरह चञ्चल ( अस्थिर ) जानते हुए तुम न्याय्य ( न्यायसे युक्त ) विषयका नाश मत करो, क्योंकि सज्जनलोग न्यायका अवलम्बन करनेवाले होते हैं ॥ ३० ॥

Page 485Permalink

एकादशः सर्गः। २२७

तर्हि किं मे कर्तव्यं तत्राह—
विजहीहि रणोत्साहं, मा तपः साधु नीनशः।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ! ॥ ३१ ॥

मल्लि०—विजहीहीति। हे तपोधन ! रणोत्साहं रणोद्योगम्। लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहस्तं विजहीहि त्यज। 'आ च हौ' इतीकारः। साधु समीचीनम्। निःश्रेयसकरत्वादिति भावः। तपो मा नीनशो न नाशय। नश्यतेर्ण्यन्तान्माङ्‌योगेदाशिषि लुङ् अडागमनिषेधश्च किन्तु जन्मन उच्छेदं साधयितुमित्यर्थः। शान्त एधि। विजिगीषानिवृत्तो भवेत्यर्थः। 'हुश्झल्भ्यो हेर्धिः' धिः। 'ध्वसोरेद्धावभ्यासलोपश्च' इत्येकार इति ॥ ३१ ॥

हिन्दी—(हे तपस्विन् !) युद्धमें उत्साहको छोड़ दो, उत्तम तपस्या नष्ट मत करो, जन्मका उच्छेद (नाश) करनेके लिए अर्थात् मोक्षको प्राप्त करनेके लिए शान्त बनो ॥ ३१ ॥

अथ सर्वथा मे विषयकण्डूतिर्न निवर्तत इत्याशङ्क्य तर्ह्यन्तःशत्रुविजयेन विधीयतां तदपनोद इत्याह—
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ३२ ॥

मल्लि०—जीयन्तामिति। दुर्जया अजय्याः। चक्षुरादयो देहे वर्तमाना रिपवो जीयन्ताम्। यस्मात् तेषु अन्तःशत्रुषु जितेषु सत्सु त्वयाऽयं कृत्स्नो लोको जितो ननु। किमुतान्ये शत्रवस्तदन्तर्गता इत्यर्थः। जितेन्द्रियस्येन्द्रियार्थानिःस्पृहस्य निर्भरवैरानुदयाद्विजयव्यपदेशः ॥ ३२ ॥

हिन्दी—(हे वत्स !) नहीं जीते जानेवाले शरीरमें वर्तमान नेत्र आदि शत्रुओंको जीत लो, क्योंकि उन शत्रुओंको जीतनेपर समस्त लोकको तुम जीत जाओगे ॥ ३२ ॥

अजितेन्द्रियस्यानिष्टमाचष्टे—
परवानर्थसंसिद्धौ, नीचवृत्तिरपत्रपः।
अविधेयेन्द्रियः पुंसां गौरिवेति विधेयताम् ॥ ३३ ॥

मल्लि०—परवानिति। अर्थसंसिद्धौ भव्यवहारार्दिस्वार्थसाधके परवान् पराधीनः। 'परतन्त्रः पराधीनः परवान्' इत्यमरः। नीचवृत्तिः कर्षणावहनादि-

Page 486Permalink
२२८किरातार्जुनीयम्

कृष्टकर्मा । अपत्रपो निर्लज्जोऽविधेयेन्द्रियोऽजितेन्द्रियः पुमान् गोर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्यतामिति यावत् । 'विधेयो विनयग्राही वचने स्थित आश्रवः' । इत्यमरः । एति प्राप्नोति । उपमालंकारोऽयम्—'प्रकृतयोरैक-साधर्म्यात् श्लेषे तु शब्दमात्रसाधर्म्यम्' इति ॥ ३३ ॥

हिन्दी—प्रयोजनकी सिद्धिके लिए पराऽधीन, नीच कर्म करनेवाला, लज्जासे रहित और इन्द्रियोंको वशमें नहीं करनेवाला पुरुष बैलके समान अन्य पुरुषोंका वशवर्ती हो जाता है ॥ ३३ ॥

न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम्, किन्तु अपारमार्थिकत्वादपीत्याह—

श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी ।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम् ॥ ३४ ॥

मल्लि०—श्व इति । अधुना भवा अधुनातनी इदानींतनी । 'सायंचिर-'मित्यादिना ट्युप्रत्ययः । सुखसंवित्तिः सुखानुभवः श्वः परेऽहनि त्वया स्मरणीया । न त्वनुभवनीया । इति हेतोः । काम्यन्त इति कामा विषयास्तान् स्वप्नोपमान् स्वप्नतुल्यान् । मत्वाऽवास्तविकान्निश्चित्य तदङ्गतां तच्छेषत्वं मा गा न गच्छ । 'इणो गा लुङि' इति गादेशः ॥ ३४ ॥

हिन्दी—(हे वत्स ! ) इस समय हुए सुखके अनुभवको दूसरे दिन तुम्हें स्मरण (याद) करना चाहिए, इस कारणसे शब्द स्पर्श आदि विषयोंको स्वप्नके समान निश्चय करके विषयोके अधीन मत बनो ॥ ३४ ॥

अतो हेयाः कामा इत्याह—

श्रद्धेया विप्रलब्धारः, प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ३५ ॥

मल्लि०—श्रद्धेया इति । श्रद्धातुमर्हा श्रद्धेया विश्वसनीयतया विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा, प्रीणयन्तीति प्रियाः प्रीतिजनकाः । 'इगुपधे-'त्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किञ्च, त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयत्नेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि प्रसिद्धशत्रवः । वैधर्म्यादिति भावः । यत्र श्रद्धेयत्वादीनां विप्रलम्भकत्वादीनां चैकत्र विरोधो विषयस्वाभाव्येन समाधीयत

Page 487Permalink

एकादशः सर्गः
२२९

इति विरोधाभासोऽलंकारः । तेन च कामानां प्रसिद्धशत्रुवैधर्म्यं व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ३५ ॥

हिन्दी — शब्द स्पर्श आदि विषय विश्वसनीय होकर भी प्रतारक (ठगनेवाले) होते हैं, प्रीतिजनक होकर भी अप्रिय करनेवाले होते हैं, पुरुषको छोड़कर जाते हुए भी दुखसे छोड़े जानेवाले होते हैं, अतः ये (विषय) कष्टजनक शत्रु (दुश्मन) हैं ॥ ३५ ॥

तर्हि किं कर्तव्यमित्याशङ्क्योपसंहरन्नाह —
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ३६ ॥

मल्लि० — विविक्त इति । विविक्ते विजने । 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' । इत्यमरः । जह्नुकन्यया गङ्गया भूयो भूयिष्ठं पुनः पुनर्वा । 'भूयः पुनः पुनः ख्यातं भूतार्थे पुनरव्ययम्' इति विश्वः । प्लाविते सिक्ते । 'पाविते' इति पाठे पवित्रीकृत इत्यर्थः । अस्मिन्नगे इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति । संनिकृष्टा भविष्यतीत्यर्थः । 'पुरा पुराणे निकटप्रबन्धातीतभाविषु' । इति विश्वः । उदायुधो गृहीतशस्त्रो मा भूः । शस्त्रं विमुञ्चेत्यर्थः ॥ ३६ ॥

हिन्दी — एकान्त अथवा पवित्र गङ्गाजीसे वारंवार सेचन किये गये इस इन्द्रकील पर्वतमें तुम्हें मुक्ति समीप आयेगी शस्त्र लेनेवाले मत बनो ॥ ३६ ॥

व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ३७ ॥

मल्लि० — व्याहृत्येति । मरुतां पत्यौ देवेन्द्रे, इति वाचं व्याहृत्य उक्त्वा, अवस्थिते सति तूष्णीं स्थिते सति । अथ कपिध्वजोऽर्जुनः प्रश्रयगम्भीरं विनयमधुरम् । 'विनयप्रश्रयौ समौ' इति यादवः । वच उवाच उक्तवान् ॥ ३७ ॥

हिन्दी — ऐसा वाक्य कह कर देवराज इन्द्रके मौन धारण करने पर अर्जुनने विनयसे गम्भीर ऐसा वचन कहा ॥ ३७ ॥

किमुवाचेत्यपेक्षायां चतुर्भिरिन्द्रवाक्यमुपश्लोकयन्नाह —
प्रसादरम्यमौजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विश्र्वद्गति निराकुलम् ॥ ३८ ॥

मल्लि० — प्रसादेति । प्रसादोऽत्र प्रसिद्धार्थपदत्वं तेन रम्यम् । 'प्रसिद्धार्थ-

Page 488Permalink

२३० | किरातार्जुनियम्

पदत्वं यत्स प्रसादो निगद्यते' । इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभूयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः । लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षम् आकाङ्क्षावतां कदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थः । अनुपस्कारं अध्याहारदोषरहितम् । विष्वग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थम् । अत एव निराकुलमसंकीर्णार्थम् ॥ ३८ ॥

हिन्दी—( हे महोदय ! ) प्रसिद्ध अर्थवाले पदोंसे रमणीय, प्रचुर समासोंयुक्त, प्रचुर अर्थोंवाला, विस्तर दोषसे रहित, आकाङ्क्षावाले पदोंसे सहित, अध्याहार दोषसे रहित और समस्त अर्थोंका प्रतिपादक ॥ ३८ ॥

न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयाऽन्येषामाम्नायवचनोपमम् ॥ ३९ ॥

**मल्लि०—**न्यायेति । पुनः, न्यायेन युक्त्या निर्णीतसारत्वान्निर्णीततत्त्वार्थत्वाद्धेतोः, आगमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदाढर्यादेवं प्रतीयते वस्तुतस्तु शास्त्रसिद्धार्थमेवेति 'इव' शब्दार्थः । किञ्च, अन्येषां प्रतिवादिनाम् । अप्रकम्प्यतया अनुमानादिभिरबाध्यत्वात्प्रत्याख्याततया आम्नायवचनोपमम् । वेदवाक्यसदृशमित्यर्थः ॥ ३९ ॥

**हिन्दी—**युक्तिसे सारका निर्णय करनेसे शास्त्रके विषयमें अपेक्षा न रखनेवाला (स्वतन्त्रके समान ), अनुमान आदिसे बाध्य न होनेसे वेदवाक्यके समान। ३९॥

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूजितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥ ४० ॥

**मल्लि०—**अलङ्घ्यत्वादिति । अन्यैर्जनैरलङ्घ्यत्वाद् अनुल्लङ्घनीयत्वात् । क्षुभितोदन्वदूजितम् उद्वेलार्णवोद्गम्भीरम् । औदार्याद्युक्तिविशेषत्वात् । श्लाघ्यविशेषणत्वाद्वा । तदुक्तं दण्डिना—'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र—त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः अन्यत्र—अणिमादिसमृद्धेः ऋषेर्मुनेश्चित्तमिव शान्तं सौम्यम् ॥ ४० ॥

**हिन्दी—**अन्य जनोंसे लंघनीय न होनेसे क्षुब्ध समुद्रके समान गम्भीर, युक्ति विशेष और प्रयोजन सम्पत्तिके कारण ऋषिके चित्तके समान सौम्य ॥ ४० ॥

एकादशः सर्गः २११

Page 489Permalink

एकादशः सर्गः २११

इदमीदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ४१ ॥

मल्लि० — इदमिति । इदमीदृग्गुणोपेतं यथोक्तगुणयुक्तम् । इदमपपदाद् दृशेः क्विप् । 'इदंकिमोरिशकी' इतीशादेशः । लब्धे प्राप्तेऽवसरसाधने कालोपायौ येन तत् प्रियं प्रीतिकरं वाक्यं को वक्ता व्याकुर्यात् व्याहरेत् । यो वक्ता सोऽनीदृगाशय- ईदृग्विधवाशयाम् न भवति । अनुद्विरित्यर्थः । तस्यार्थस्य वक्तुमशक्यत्वादिति भावः ।

हिन्दी — यह ऐसे गुणोंसे युक्त, अवसर और साधनको प्राप्त, प्रीति करनेवाले ऐसे वाक्यका ऐसे आशयसे रहित कौन पुरुष प्रतिपादन करेगा ? ॥ ४१ ॥

एवमिन्द्रवाक्यमुपश्लोक्य नाहमस्योपदेशस्याधिकारोति परिहरति—
न ज्ञातं तात ! यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ४२ ॥

मल्लि० — नेति । हे तात ! अमुष्य तपोरूपस्यास्य मदीययोगस्य पूर्वं चापरं च पूर्वापरे । त एव पौर्वापर्यं कारणं फलं च । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् प्रत्ययः । ते तव न ज्ञातम् । त्वया न ज्ञायत इत्यर्थः । 'मतिबुद्धो-'त्यादिना वर्तमाने क्तः । तद्योगोदेव षष्ठी । कुतः । येन कारणेन मां मुनिभिस्तुल्यं सदृशं धर्मं मोक्षधर्मं शासितुमुपदेष्टुम् । इच्छसि । शासिरयं दुहादित्वाद् द्विकर्मको ज्ञेयः ॥४२॥

हिन्दी — हे तात ! तपस्यारूप इस मेरे प्रयत्नके कारण और फलको आपने नहीं समझा, जिस कारणसे आप मुझे मुनिके समान मोक्षधर्मका उपदेश देना चाहते हैं ॥ ४२ ॥

अथ पौर्वापर्यमज्ञात्वाप्युपदेशे दोषमाह—
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ४३ ॥

मल्लि० — अविज्ञातेति । अविज्ञातः प्रबन्धः पूर्वापरसंगतिर्येन तस्य वाच-स्पतेर्बृहस्पतेरपि । कस्कादित्वात्सः । अथवा—'बह्वपाः पतिपुत्रपृष्ठपारपवपयस्योवेषु' इति सकारः । एतस्मादेव ज्ञापकादलुगिति केचित् । वच उपदेशो नयद्रुहो नीति-विरुद्धकारिणः पुरुषस्य । ईहितमुद्योग इव । अफलतां निष्फलतां गच्छेदित्येव ॥४३॥

हिन्दी — पूर्वापर संगतिको न जाननेवाले बृहस्पतिका भी उपदेश, नीति-विरुद्ध आचरण करनेवाले पुरुषके उद्योगके समान निष्फल हो जाता है ॥ ४३ ॥

Page 490Permalink

२३२ | किरातार्जुनीयम्

ननु सदुपदेशस्य कुतो वैफल्यमित्याशङ्क्य सोऽप्यस्थाने प्रयुक्तश्चेदूषरक्षेत्रे शालिबीजवन्निष्फल एवेत्याशयेनाह—

श्रेयसोऽप्यस्य ते तात ! वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ४४ ॥

मल्लि० — श्रेयस इति । हे तात ! ‘पुत्रे पितरि पूज्ये च तातशब्दं प्रयुञ्जते’ इति । श्रेयसोऽपि हितार्थयोगात्प्रशस्ततरस्यापि । अस्य ते तव वचसो हितोपदेशरूपस्य रात्रेर्विपर्ययो दिवसः स्फुटतारस्य व्यक्ततारकस्य नभस इव भाजनं पात्रं नास्मि । अनधिकारित्वादिति भावः । अत्राह्नो नभोमात्रसम्बन्धसम्भवेऽपि तारासम्बन्धासंभवात्तद्विशिष्टनभःसंबन्धविरोधादुक्तं तारकितस्य नभसो न पात्रमहरिति ॥ ४४ ॥

हिन्दी — हे तात ! जैसे दिन ताराओंसे व्यक्त आकाशका पात्र नहीं होता है, वैसे ही कल्याणकारक होनेपर भी आपके इस हितोपदेशका मैं पात्र नहीं हूँ ॥ ४४ ॥

कुतस्ते मोक्षोपदेशानधिकारित्वम्, किंच, ते तपसः पौर्वापर्यं कथं न वार्य इत्याशङ्क्य तत्सर्वं स्वजात्यादिकथनपूर्वकं निरूपयति—

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादेर्भ्रातुर्ज्येष्ठस्य शासने ॥ ४५ ॥

मल्लि० — क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महापुण्यप्रसूतः, वीरसंतानश्चेत्याह—पाण्डोस्तनय इति । कौन्तेयोऽस्मि, न माद्रेय इत्याह—पार्थ इति । पृथा कुन्ती, तत्सुतः पार्थः । ‘तस्यापत्यम्’ इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह—धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । ‘खचिमुमागम’ इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थः पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुविप्रस्तत्पत्नी पृथा नाम काचित् ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अयं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह—स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः । ‘दायादा ज्ञातिपुत्रयोः’ इति, ‘विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः’ । इति च विश्वः । ‘स्वामीश्वरादि’ सूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः । तैः, प्रास्तस्य राज्यान्निरस्तस्य । वैरिभिर्निर्वासितस्य इत्यर्थः । ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । ‘गुरु...

Page 491Permalink

एकादशः सर्गः । २३१


शब्दादिष्ठन्प्रत्ययः । वृद्धस्य च ज्यादेशः । शासने निदेशे स्थितः । तदाज्ञया तपस्यामीत्यर्थः । अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्फुरतीति भावः । अत एव हिंसेकरसस्य रागद्वेषरुषायितचेतसः कुतो मे मोक्षाधिकार इति तात्पर्य्यार्थः । सार्थविशेषणत्वात्परिकरालंकारः ॥ ४५ ॥

हिन्दी—( हे तात ! ) मैं क्षत्रिय तथा पाण्डु और कुन्तीका पुत्र धनञ्जय ( अर्जुन ) ज्ञातियोंसे राज्यसे हटाये गये बड़े भाई ( युधिष्ठिर ) की आज्ञामें स्थित हूँ ( अतः मेरी तपस्या मोक्षप्राप्तिके लिए नहीं है ) ॥ ४५ ॥

यदुक्तम्—'विरुद्धः केवलं वेषः' ( श्लो० १४ ) इति तत्रोत्तरमाह—

कृष्णद्वैपायनादेशाद्विभर्मि व्रतमीदृशम् ।
भृशमाराधने यतः स्वाराध्यस्य मरुत्वतः ॥ ४६ ॥

**मल्लि०—**कृष्णेति । द्वीपोऽयनं जन्मभूमिर्यस्य स द्वैपायनः, स एव द्वैपायनो व्यासः । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । स एव कृष्णवर्णत्वात् कृष्णद्वैपायनसंज्ञः । तस्यादेशादुपदेशात् । ईदृशम् । विरुद्धवेषमित्यर्थः । व्रतं तपोनियमं बिभर्मि धारयामि । न तु स्वेच्छयेति भावः । अथोपास्यां देवतामाह—भृशमिति । स्वाराध्यस्य सुखमाराध्यस्य । प्रादिसमासः । 'स्वाराधस्य' इति पाठे उपसृष्टात्खल्प्रत्ययः । मरुत्वत इन्द्रस्य । भृशं सम्यक् । आराधने यतः प्रयत्नवानित्यर्थः । तस्य क्षत्रियदैवतत्वादिति भावः ॥ ४६ ॥

**हिन्दी—**मैं व्यासजीकी आज्ञासे ऐसा व्रत कर रहा हूँ, सुखपूर्वक आराधनाके योग्य इन्द्रदेवकी उचित आराधनामें यत्नयुक्त हूँ ॥ ४६ ॥

ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथमरिपरिभवप्राप्तिरित्यत आह—

दुरक्षान्दीव्यता राजा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ४७ ॥

**मल्लि०—**दुरक्षानिति । दुरक्षान् । कपटपाशकै रित्यर्थः । 'दिवः कर्म च' इति करणे कर्मसंज्ञा । दीव्यता क्रीडता । 'आहूतो न निवर्तेत द्यूतादपि रणादपि' । इति शास्त्रात् । न तु व्यसनतयेति भावः । राजा युधिष्ठिरेण राज्यं राष्ट्रम्, आत्मा स्वयं, वयं चत्वारोऽनुजाः, वधूर्भार्या द्रौपदी च, पणतां ग्लहत्वम् । 'पणोऽक्षेष्वाहवेष्वास्तु देवनाः पाशकाश्च ते, इत्यमरः । नीतानि । सर्वं द्यूते राज्ञा हारित-