Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages
Page 288Permalink

३२ किरातार्जुनीयम्

विग्रहः—रत्नचयैः रहिताः तान् । अपगतानि लताभवनानि यासुस्तास्तथोक्ताः । विगतानि पुलिनानि अम्बुरुहाणि च यासां ताः = विपुलिनाम्बुरुहाः । सरितः वध्व इव ताः = सरिद्वधूः ।

अर्थः—रहितरत्नचयान् = त्यक्तरत्नसमूहान् । शिलोच्चयान् = शिखराणि न दधतम् । अपलताभवनाः = लतागृहरहिताः । दरीभुवः = गुहाप्रदेशान् न दधतम् । विपुलिनाम्बुरुहाः = विगतपुलिनजलरुहाः । सरिद्वधूः = सरिताबालाः = न दधतम् । अकुसुमान् = पुष्परहितान् । महीरुहः = वृक्षान् न दधतम् ।

कोषः—‘दरी तु कन्दरो वा स्त्री देवखातबिले गुहा’ इत्यमरः ।

हिन्दी—इस हिमालय के शिखर रत्नराशियों से रिक्त नहीं हैं। इसकी कन्दरायें लताभवनों से हीन नहीं हैं। इसमें बहनेवाली वधूरूपी नदियाँ पुलिनों तथा कमल पुष्पों से रहित नहीं हैं और न इसमें फल-फूलरहित वृक्ष ही हैं ॥ १० ॥

व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ११ ॥

अन्वयः—अनीरशनैः घनैः अमरलोकवधूजघनैः शनैः व्यथितसिन्धुं दयितरम्यलताबकुलैः फणभृतां कुलैः अभितः ततं विततम् ।

विग्रहः—निर्गताः रशनाः येभ्यस्तैः = नीरशनैः, न नीरशनैरनीरशनैः । अमरलोकानां वध्वः, तासां जघनैः = अमरलोकवधूजघनैः । व्यथिताः सिन्धवः यस्मिंस्तम् = व्यथितसिन्धुम् । दयिताः रम्याः लताबकुलाः = दयितरम्यलताबकुलास्तैः दयितरम्यलताबकुलैः । फणानि बिभ्रतीति फणभृतः, तेषां = फणभृताम् ।

अर्थः—अनीरशनैः = ध्वनिमेखलैः । घनैः = निबिडैः । अमरलोकवधूजघनैः = देवाङ्गनाजघनैः । शनैः = मन्दम् । व्यथितसिन्धुम् = क्षोभितनदोकम् । दयितरम्यलताबकुलैः = प्रियरम्यलताकेसरैः । फणभृतां = सर्पाणां, कुलैः = समूहैः । अभितः = परितः । ततम् = व्याप्तम् । विततम् = विस्तृतम् ।

कोषः—‘विशारदो मद्यगन्धो बकुलः स च केसरः’ इति वैद्यके ।

हिन्दी—इस हिमालय के प्रदेश में बहनेवाली नदियाँ देवाङ्गनाओं के

पञ्चमः सर्गः ३३

Page 289Permalink

पञ्चमः सर्गः ३३

मेखलायुक्त स्थूल जघनों के द्वारा मन्द-मन्द आकुलित रहती हैं अर्थात् उनमें सुरसुन्दरियां जलक्रीड़ा करती हैं। चन्दनादि की प्रिय लताओं और केसर के लिए मतवाले बने हुए साँप झुण्ड के झुण्ड हिमालय के वन में रहते हैं। इस प्रकार यह हिमालय चारो ओर फैला हुआ है ॥ ११ ॥

ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयः ॥ १२ ॥

अन्वयः—अनेकमणिप्रभैः हिमपाण्डुभिः शिखरैः ससुरचापम् अपपयोविशदम् अविचलं ध्वनिसुचितम् अम्बुमुचां चयम् उपबिभ्रतम् ।

विग्रहः—अनेकाः मणिप्रभाः येषां तैः अनेकमणिप्रभैः । हिमेन पाण्डुभिः=हिमपाण्डुभिः । सुरचापेन सहितम्=ससुरचापम् । अपगतं पयः यस्मात् सः=अपपयाः । अपपयाः अत एव विशदश्च तम् = अपपयोविशदम् । ध्वनितेन सूचितम् = ध्वनितसूचितम् । अम्बूवनि मुञ्चन्तीत्यम्बुमुचस्तेषाम् = अम्बुमुचाम् ।

अर्थः—अनेकमणिप्रभैः = बहुमणिप्रभैः । हिमपाण्डुभिः = हिमपीतैः । शिखरैः = सानुभिः । ससुरचापम् = सेन्द्रचापम् । अपपयोविशदम् = निर्जलविशदम् । अविचलं = निश्चलम् । ध्वनितसूचितम् = गर्जितज्ञापितम् । अम्बुमुचाम् = मेघानाम् । चयम् = राशिम् । उपबिभ्रतम् = धारयन्तम् । अत्र सन्देहालङ्कारः ।

कोषः—‘प्रभादृग्विषिखस्त्वङ्भाभाश्छेविद्युतिदीप्तयः’ इत्यमरः ।

हिन्दी—हिमालय के शिखर अनेकों मणियों की कान्ति से युक्त तथा बर्फ के कारण शुभ्रवर्णवाले हैं । उस पर इन्द्रधनुषयुक्त, जल से रिक्त होने के कारण शुभ्रवर्णवाली मेघमालाएँ ढकी रहती हैं । वे मेघमालाएं गर्ज-गर्ज कर अपना परिचय देती हैं ॥ १२ ॥

विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्याया सकलहं सगणं शुचिमानसस् ॥ १३ ॥

अन्वयः—विकचवारिरुहं सकलहंसगणं शुचि मानसं सरः ( दधतम् ) कृतेर्ष्या अगात्मजया सकलहं सगणं शुचिमानसं शिवं च दधतम् ।

विग्रहः—विकचानि वारिरुहाणि सन्ति यस्मिन् तत् = विकचवारिरुहम् ।

३ कि०

Page 290Permalink

३४ | किरातार्जुनीयम्

कलहंसानां गणाः कलहंसगणास्तैः सहितम् = सकलहंसगणम् । कृता ईर्ष्या यया तया = कृतेर्ष्यया । अगस्य आत्मजा, तया = अगात्मजया । कलहेन सहितं = सकलहम् । गणैः सहितम् = सगणं । शुचि मानसं यस्य तम् = शुचिमानसम् ।

अर्थः— विकचवारिरुहम् = विकसितकमलम् । सकलहंसगणम् = कलहंस-युतम् । शुचि = पवित्रम् । मानसं सरः = मानसरोवरं सरः ( दधतम् ) कृतेर्ष्यया = विहितेर्ष्यया । अगात्मजया = पार्वत्या । सकलहं = सविवादम् । सगणम् = सप्रमथम् । शुचिमानसं = पूतमानसम् । शिवम् = शङ्करम् । च दधतम् = धारयन्तम् । अत्र यमकालङ्कारः ।

कोषः— 'कदम्बः कलहंसः स्यात्' इत्यमरः ।

हिन्दी— यह हिमालय पर्वत खिले हुए कमल तथा अनेक प्रकार के हंस-पक्षियों से युक्त मानसरोवर झील को धारण किये हुए हैं । ईर्ष्या-युक्त ( कुपित ) पार्वती जी व भूत-प्रेतादिकों के सहित विशुद्ध मनवाले शङ्कर जी यहाँ निवास करते हैं ॥ १३ ॥

ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ १४ ॥

अन्वयः— दिवम् अभितः ग्रहविमानगणान् ज्वलयता ओषधिजेन कृशानुना अनुक्षपम् उमापतिसेविनः त्रिपुरदाहम् मुहुः अनुस्मरयन्तम् ।

विग्रहः— ग्रहाः च विमानानि च ग्रहविमानानि, तेषां गणान्तान् = ग्रह-विमानगणान् । ओषधिभ्यः जातस्तेन = ओषधिजेन । क्षपा क्षपा = अनुक्षपम् । उमायाः पतिः = उमापतिः, तं सेवन्ते ये तान् = उमापतिसेविनः । त्रयाणां पुराणां समाहारस्त्रिपुरम्, तस्य दाहस्तम् = त्रिपुरदाहम् ।

अर्थः— दिवम् अभितः = दिवोऽभिमुखम् । ग्रहविमानगणान् = चन्द्रादि-देवयानान् । ज्वलयता = प्रदीपयता । ओषधिजेन = तृणविशेषजन्येन, कृशानुना = अग्निना । अनुक्षपम् = प्रतिक्षपम् । उमापतिसेविनः = प्रमथादीन् । त्रिपुरदाहम् = त्रिपुरज्वालनम् । मुहुः = वारंवारम्, अनुस्मरयन्तम् = स्मरयन्तम् । अत्र स्मरणालंकारः ।

कोषः— 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।

हिन्दी— इस हिमालय पर चारो ओर चन्द्रादिग्रहों के विमानों का प्रकाश

Page 291Permalink

पञ्चमः सर्गः
३९

तृणविशेष से उत्पन्न अग्नि से शिव के प्रमथादिगणों को त्रिपुरदाह का बारम्बार स्मरण कराता है। अर्थात् यहाँ वनौषधियों का भण्डार है ॥ १४ ॥

विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।
दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ १५ ॥

अन्वयः—विततशीकरराशिभिः उच्छ्रितैः उपलरोधविवर्तिभिः अम्बुभिः धृतसितव्यजनाम् इव उन्नतसानुसमुद्धतां जाह्नवीम् दधतम् ।

विग्रहः—विततैः शीकराणां राशिभिः = विततशीकरराशिभिः। उपलानां रोधः, उपलरोधः, तेन विवर्तिभिः = उपलरोधविवर्तिभिः । धृतम् सितं व्यजनं यया ताम् = धृतसितव्यजनाम् । उन्नताः सानवः = उन्नतसानवस्तेषु समुद्धता ताम् = उन्नतसानुसमुद्धताम् ।

अर्थः—विततशीकरराशिभिः = विस्तृतशीकरपुञ्जैः । उच्छ्रितैः = उत्पतितैः । उपलरोधविवर्तिभिः = प्रस्तररोधविवर्तिभिः । अम्बुभिः = जलैः । धृतसितव्यजनाम् = गृहीतशुभ्रचामराम् । इव । उन्नतसानुसमुद्धताम् = उच्चपर्वतश्रेणिभागे वहन्तीम् । जाह्नवीम् = जह्नुकन्यां गङ्गाम् । दधतम् = धारयन्तम् । अत्रोत्प्रेक्षालंकारः ।

कोषः—'प्रस्थः सानुरस्त्रियाम्' इत्यमरः ।

हिन्दी—इस हिमालय पर जाह्नवी गंगा बहती है। गङ्गा के प्रवाह में पत्थरों के पड़ जाने से जल टकरा कर विशाल जलकणों के द्वारा झरने फव्वारे के समान ऊर्ध्वगति से बहते लगते हैं। इस प्रकार हिमालय की ऊँची चोटियों पर बहती हुई गङ्गा शुभ्र चामर धारण किये हुए प्रतीत होती है ॥ १५ ॥

अनुचरेण धनाधिपतेरथो नगवलोकनविस्मितमानसः ।
स जगदे वचनं प्रियमादरान्मुखरताऽवसरे हि विराजते ॥ १६ ॥

अन्वयः—अथो धनाधिपतेः अनुचरेण नगवलोकनविस्मितमानसः सः आदरात् प्रियं वचनं जगदे । हि मुखरता अवसरे विराजते ।

विग्रहः—धनानामधिपतिस्तस्य = धनाधिपतेः । अनुचरतीत्यनुचरस्तेन अनुचरेण । नगस्य विलोकनं = नगवलोकनम्, तेन = नगवलोकनेन । विस्मितं मानसं यस्य सः = विस्मितमानसः ।

अर्थः—अथो = अनन्तरम् । धनाधिपतेः = कुबेरस्य । अनुचरेण = यक्षेण ।

Page 292Permalink

३६ | किरातार्जुनीयम्

नगावलोकनेन = पर्वतदर्शनेन। विस्मितमानसः = चकितचेताः। सः = अर्जुनः।
सादरात् = सम्मानात्, प्रियं = प्रियकरं, वचनं = वाक्यम्। जगदे = कथितः।
हि = यतः। मुखरता = अपृष्टभाषित्त्वम्। अवसरे = उचितकाले। विराजते =
शोभते। अत्रार्थान्तरन्यासालङ्कारः।
कोषः—'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इत्यमरः।
**हिन्दी—**तदनन्तर कुबेर के सेवक 'यक्ष' ने पर्वत-शोभा देखने के कारण आश्चर्य-चकित-मन अर्जुन से सादर प्रिय वचनों में कहना आरम्भ किया। क्योंकि अवसर पर बिना पूछे कुछ कहना भी शोभा ही देता है॥ १६॥

अलमेष विलोकितः प्रजानां सहसा संहतिमंहसा विहन्तुम्।
घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः॥ १७॥

**अन्वयः—**हिमगौरैः शिरोभिः घनवर्त्म सहस्रधा कुर्वन् इव एषः अचलाधिपः विलोकितः प्रजानाम् अंहसां संहतिम् सहसा विहन्तुम् अलम्।

**विग्रहः--**हिमेन गौराणि हिमगौराणि तैः = हिमगौरैः। घनानां वर्त्म = घनवर्त्म। अचलानाम् अधिपः = अचलाधिपः (हिमालयः)। विशिष्टतया लोकितः = विलोकितः।

**अर्थः—**हिमगौरैः = हिमशुभ्रैः। शिरोभिः = सानुभिः। घनवर्त्म = मेघमार्गम्। सहस्रधा = सहस्रसंख्यकं। कुर्वन् = विदधत्। इव = समः। एषः = निर्दिष्टः। अचलाधिपः = नगाधिराजः। विलोकितः = दृष्टः। प्रजानां = जनानाम्। अंहसाम् = पापानाम्। संहति = समूहम्। सहसा विहन्तुं = दूरीकर्तुम्। अलम् = समर्थः। अत्रोत्प्रेक्षालङ्कारः।

कोषः—'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः।

**हिन्दी—**हिम-शुभ्र शिखरों से मेघमार्ग को सहस्रधा (हजारो खण्ड) करता हुआ यह हिमालय दर्शनमात्र से ही लोगों के समस्त पापों को सहसा दूर कर देता है॥ १७॥

इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम्।
अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम्॥ १८॥

**अन्वयः—**इह असुतरम् अन्तरम् दुरधिगमैः आगमैः किञ्चिद् एव सततं वर्णयन्ति अतिविपिनं दिग्व्यापिनम् अमुम् परं पुरुषम् इव परं पद्मयोनि वेद!

Page 293Permalink

पञ्चमः सर्गः [३७]

विग्रहः— सुतरं न भवतीत्यसुतरम् । दुःखेन अभिगमः = दुरभिगमः । अत्यन्तं विपिनम् = अतिविपिनम् । पद्मं योनिः यस्य सः = पद्मयोनिः । दिक्षुव्यापिनम् = दिग्व्यापिनम् ।

अर्थः— इह = अस्मिन् पर्वते । असुतरम् = दुस्तरम् । अन्तरम् = मध्यम्, तत्त्वं वा । दुराधिगमैः = दुरारोहैः, दुर्ग्रहैर्वा । आगमैः = शास्त्रैः । किञ्चिद् एव सततं = निरन्तरम् । वर्णयन्ति = कथयन्ति । अतिविपिनम् = अतिगहनम् । दिग्व्यापिनम् = दिक्षु व्याप्तम् । अमुम् = पर्वतम् । परं पुरुषं = परमात्मानम् । इव । परम् = अव्ययम् । पद्मयोनिः = ब्रह्मा । वेद = जानाति । नान्य इति । अत्रोपमायमकयोः संसृष्टिः । क्षमावृत्तम् ।

कोषः— ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः’ इत्यमरः ।

हिन्दी— इस हिमालय पर इसके आन्तरिक तत्त्व का दुर्गम्य पुराणादिकों द्वारा कुछ ही (सीमित) वर्णन किया जाता है । अतिगहन एवं दिशाओं में फैले हुए (व्याप्त) परम पुरुष (ब्रह्म) के समान इस पर्वत को ब्रह्मा जी ही जान सकते हैं, अन्य कोई नहीं ॥ १८ ॥


रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः ।
नयति सन्ततमुत्सुकतामयं धृतिमतो रुपकान्तमपि स्त्रियः ॥ १९ ॥

अन्वयः— अयं रुचिरपल्लवपुष्पलतागृहैः उपलसज्जलजैः जलराशिभिः उपकान्तं धृतिमतीः अपि स्त्रियः सन्ततम् उत्सुकतां नयति ।

विग्रहः— रुचिराणि पल्लवानि पुष्पाणि लतागृहाणि च = रुचिरपल्लवपुष्पलतागृहाणि तैः । उपलसद्भिः जलजैः = उपलसज्जलजैः । जलानां राशयस्तैः जलराशिभिः । कान्तस्य समीपे = उपकान्तम् ।

अर्थः— अयम् = हिमालयः । रुचिरपल्लवपुष्पलतागृहैः = मनोज्ञदलकुसुमलताभवनैः । उपलसज्जलजैः = शोभितकमलैः । जलराशिभिः = सरोवरादिभिः । उपकान्तं = प्रियपार्श्वे । धृतिमतोः = धैर्यवतीः । अपि । स्त्रियः = नारीः । सततं = निरन्तरम् । उत्सुकताम् = औत्सुक्यम् । नयति = प्रापयति । अत्रातिशयोक्तिरलङ्कारः । द्रुतविलम्बितवृत्तम् ।

कोशः— ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः ।

हिन्दी— रुचिर पल्लवों, पुष्पों एवं लतागृहों से तथा कमल से सुशोभित

Page 294Permalink
३८किरातार्जुनीयम्

तड़ागों द्वारा यह हिमालय पर्वत, प्रियतम के पास मानिनी स्त्रियों को भी सदैव उत्सुक बना देता है अर्थात् यथा मानिनी स्त्रियाँ भी अपने प्रियतम के पास पहुँचने पर मान को खोकर प्रिय-मिलन के लिये उत्कण्ठित हो जाती हैं तथैव विरक्त पुरुष भी हिमालय के सौन्दर्य को देख कर अनुरक्त हो जाता है ॥ १९ ॥

सुलभैः सदा नयवताऽयवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥२०॥

अन्वयः—नयवता अयवता सदा सुलभैः निधिगुह्यकाधिपरमैः परमैः धनैः अमुना क्षितिभृता अतिभृता जगती जगती समतीत्य भाति ।

विग्रहः—निधिनां गुह्यकानां च अधिपः=निधिगुह्यकाधिपः, तं रमयन्तीति तैः=निधिगुह्यकाधिपरमैः ।

अर्थः—नयवता=नीतिमन्ता । अयवता=भाग्यवता । सदा=सर्वदा । सुलभैः=सुप्राप्यैः । निधिगुह्यकाधिपरमैः=नवनिधि-कुवेररमैः । परमैः=महद्भिः । धनैः=वित्तैः । अमुना=अनेन । क्षितिभृता=हिमालयपर्वतेन । अतिभृता=पूर्णा सती । जगती=पृथ्वी । जगती=स्वर्गपाताललोको । समतीत्य=अतिक्रम्य । भाति=शोभते । अत्र काव्यलिङ्गस्य यमकेन संसृष्टिः । प्रमिताक्षरावृत्तम् ।

कोषः—'अयः शुभावहो विधिः' इत्यमरः । 'अस्त्री पद्मो महापद्मः शंखो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्व्वश्च निधयो नव' इत्यमरः ।

हिन्दी—नीतिमान् व भाग्यवान् पुरुषों से सदैव सुलभ, नवनिधियों और यक्षाधिप कुबेर के सर्वोत्तम धनों से पूर्ण इस हिमालय के द्वारा पृथ्वी, स्वर्ग तथा पाताल लोकों को भी जीत कर शोभित हो रही है ॥ २० ॥

अखिलमिदममुष्य गौरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥ २१ ॥

अन्वयः—अमुष्य गौरिगुरोः इदम् अखिलं त्रिभुवनम् अपि तुलां न एति मन्ये । यद् एनं जनैः अविदितविभवः भवानीपतिः सदा अधिवसति ॥ २१ ॥

विग्रहः—गौर्याः गुरुः=गौरीगुरुः, तस्य=गौरीगुरोः । त्रयाणां भुवनानां

Page 295Permalink

पञ्चमः सर्गः ३९

समाहार इति त्रिभुवनम्। अविदितो विभवो यस्य सः=अविदितविभवः। भवान्याः पतिः=भवानीपतिः।

**अर्थः—**अमुष्य=अस्य। गौरीगुरोः=गौरीपितुर्हिमालयस्य। इदम्=निदिष्टम्। अखिलं=निखिलं। त्रिभुवनम्=स्वर्गभूपातालत्रिलोकम्। अपि। तुलां=समतां। न एति=न गच्छति। इति मन्ये। यद्=यतः। एनम्=हिमवन्तम्। जनैः=लोकैः। अविदितविभवः=अज्ञातविभवः। भवानीपतिः=शिवः। सदा=सर्वदा। अधिवसति=निवसति। अत्र प्रभावृत्तम्॥ २१॥

कोषः—'उमा कात्यायनी गौरी काली हैमवतीश्वरी' इत्यमरः।

**हिन्दी—**इस गौरीगुरु (पार्वती जी के पिता) हिमालय की तुलना में यह सम्पूर्ण त्रिभुवन भी नही टिक सकता है क्योंकि इसपर भवानीपति शङ्कर जी का निवास है जिनकी महिमा लोग नहीं जान पाते हैं॥ २१॥

वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपेतुमिच्छताम्।
आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः॥ २२॥

**अन्वयः—**वीतजन्मजरसं ब्रह्मणः परं शुचि पदम् उप एतुम् इच्छताम् आगमाद् इव तमोपहात् इतः भवच्छिदः मतयः सम्भवन्ति।

**विग्रहः—**वीते जन्मजरसौ यस्य तत्=वीतजन्मजरसम्। तमः अपहन्तीति तमोपहस्तस्मात्=तमोपहात्। भवं छिन्दन्तीति भवच्छिदः।

**अर्थः—**वीतजन्मजरसम् = निवृत्तजन्मजरसम्। ब्रह्मणः = परमात्मनः। परम्=उत्कृष्टम्। शुचि=पवित्रम्। पदम्=स्थानम्। उपैतुम्=प्राप्तुम्। इच्छताम्=अभिलषताम्। आगमात्=शास्त्राद् इव। तमोपहात्=अज्ञाननिवर्त्तकात्। इतः=हिमाद्रेः। भवच्छिदः=संसारनिवर्तिकाः। मतयः=बुद्धयः। संभवन्ति = जायन्ते। अत्र रथोद्धतावृत्तम्।

कोषः—'ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः' इत्यमरः।

**हिन्दी—**जन्म तथा जरा (बुढ़ापा) से रहित ब्रह्म के परम पवित्र पद को प्राप्त करने (मोक्ष) की अभिलाषावाले पुरुषों के लिये अज्ञाननिवृत्ति करने वाले शास्त्र के समान इस हिमालय पर्वत से ही भवबन्धन से मुक्त होने वाली बुद्धियां उत्पन्न होती हैं अर्थात् मुमुक्षुओं को तत्त्वज्ञान की प्राप्ति इस हिमालय से ही होती है॥ २२॥

Page 296Permalink

४० किरातार्जुनीयम्

दिव्यस्त्रीणां सचरणलाक्षारागा रागापाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥२३॥

अन्वयः—अस्मिन् सचरणलाक्षारागाः निपतितपुष्पापीडाः पीडाभाजः कुसुमचिताः दिव्यस्त्रीणां शय्याः रागापाते साशंसं सुरतविशेषं शंसन्ति।

विग्रहः—चरणलाक्षारागैः सः वर्त्तन्त इति ताः सचरणलाक्षारागाः। निपतिताः पुष्पापीडाः यासु ताः = निपतितपुष्पापीडाः। पीडां भजन्तीति ताः पीडाभाजः। कुसुमैश्चिताः = कुसुमचिताः। आशंसेन सहितं = साशंसम्। दिव्याः स्त्रियः = दिव्यस्त्रियस्तासां = दिव्यस्त्रीणाम्।

अर्थः—अस्मिन् = अत्र हिमालये। सचरणलाक्षारागाः = सपदलाक्षारसाः। निपतितपुष्पापीडाः = भ्रष्टकुसुमशेखराः। पीडाभाजः = विमर्दभाजः, कुसुमचिता = पुष्पव्याप्ताः। दिव्यस्त्रीणाम् = देवाङ्गनानाम्। शय्याः = तल्पानि। रागापाते = रागोद्रेके सति। साशंसम् = सतृष्णम्। सुरतविशेषम् = सुरतवैशिष्ट्यम्। शंसन्ति = सूचयन्ति। अत्र संसृष्टिरलङ्कारः, जलधरमालावृत्तञ्च।

कोषः—'शिखास्वापीडशेखरो' इत्यमरः।

हिन्दी—इस हिमालय पर चरणों में लगाये हुए महावर से रञ्जित मुरझाये हुए फूलोंवाली, विमर्दित तथा फूलों से व्याप्त (युक्त) देवाङ्गनाओं की शय्याएं (तल्प) रागोद्रेक होने पर ललचाती हुई रति के विशिष्ट आनन्द को सूचित करती हैं॥२३॥


गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमोषधयः ॥२४॥

अन्वयः—जगतां महिते अत्र ओषधयः नयशालिनि अधिपतौ श्रिय इव गुणसम्पदा परं महिमानं समधिगम्य ज्वलितुं न विरमन्ति।

विग्रहः—नयः शीलम् अस्येति तस्मिन् = नयशालिनि। गुणानां सम्पद, तया = गुणसम्पदा।

अर्थः—जगतां महिते = जगद्भिः पूजिते। अत्र = अस्मिन् हिमालये। ओषधयः = तृणज्योतींषि। नयशालिनि = नीतिसम्पन्ने। अधिपतौ = राज्ञि। श्रियः = सम्पदः। इव = सदृशम्। गुणसम्पदा = क्षेत्रगुणसम्पत्त्या। परं महिमानम् = प्रकाशसामर्थ्यम्। समधिगम्य = प्राप्य। ज्वलितुम् = प्रकाशितुम्। न विरमन्ति = न विरामं कुर्वन्ति। अविरामं ज्वलन्तीत्यर्थः।

पञ्चमः सर्गः ४१

Page 297Permalink

पञ्चमः सर्गः ४१

कोशः—'ओषध्यः फलपाकान्ताः स्युः' इत्यमरः ।
**हिन्दी—**लोकपूज्य इस हिमालय पर्वत पर ओषधियां क्षेत्र-सम्पत्ति से सदैव परम शक्ति प्राप्त करके उसी प्रकार प्रकाशित होती रहती हैं यथा नीति-सम्पन्न राजा में सम्पदाएँ सन्ध्यावन्दन-पूजन-तर्पणादि गुणों से विकसित होती हैं ॥ २४ ॥

कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ २५ ॥

**अन्वयः—**इह कुररीगणः कृतरवः, तरवः कुसुमानताः, कमलं, सकमलम्, वरणावरणाः सनलदानलदाः सिन्धवश्च करिणां मुदे ।

**विग्रह।—**कुररीणां गणः = कुररीगणः । कुसुमैः आनताः = कुसुमानताः । कमलैः सहितम् = सकमलम् । वरणा आवरणं यासां ताः = वरणावरणाः । अनलं द्यन्तीति = अनलदाः, सनलदाश्च ताः अनलदाः = सबलदानलदाः ।

**अर्थः—**इह = अस्मिन् हिमालये । कुररीगणः = कुररीपक्षिसमूहः कृतरवः = विहितकूजितः । तरवः = द्रुमाः । कुसुमानताः = पुष्पावनताः । कमलं = जलम् । सकमलम् = सजलजम् । वरणावरणाः = वरुणवृक्षावरणाः । सनलदानलदाः = सोशीरसन्तापच्छिदः । सिन्धवः = नद्यः । करिणां = गजानाम् । मुदे = हर्षाय । भवन्तीति शेषः ।

कोषः—'कमलं जलपद्मयोः' इति विश्वः । 'वरणो वरुणः सेतुः तिक्तशाकः कुमारकः' इत्यमरः ।

**हिन्दी—**इस हिमालय पर पक्षिगण कलरव करते रहते हैं, वृक्ष पुष्पभार से झुके रहते हैं और जल अथवा जलाशय कमलों से आच्छन्न रहते हैं। यहाँ वृक्षों से घिरी हुई, उशीर-युक्त तथा सन्ताप मिटा कर शान्ति देनेवाली सरिताएँ हाथियों को प्रसन्न बनाती हैं अर्थात् इन नदियों में हाथी जल-क्रीडाएँ करते हैं ॥ २५ ॥

सादृश्यं गतमपनिद्रचूतगन्धेरामोदं मदजलसेकजं दधानः ।
एतस्मिन् मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥

**अन्वयः—**एतस्मिन् अपनिद्रचूतगन्धैः सादृश्यं गतं मदजलसेकजम् आमोदं दधानः लीनालिः सुरकरिणां कपोलकाषः अकाले कोकिलान् मदयति ।

**विग्रहः—**अपनिद्राणां चूतानां गन्धास्तैः = अपनिद्रचूतगन्धैः । मदजलस्य

Page 298Permalink
४२किरातार्जुनीयम्

सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलानां काषः = कपोलकाषः ।

अर्थः--एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाग्रपुष्पगन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।

कोषः--'आम्रश्चूतो रसालोऽसौ सहकार' इत्यमरः ।

हिन्दी—इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घषित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥

सनाक्ववनितं नितम्बरुचिरं चिरं सुनिनदंनदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाऽधिवसति ॥ २७ ॥

अन्वयः—सनाक्ववनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।

विग्रहः—नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाक्ववनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।

अर्थः—सनाक्ववनितं = साप्सरस्कम् । नितम्बरुचिरं = कतकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।

कोषः—'विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्' । इत्यमरः ।

Page 299Permalink

पञ्चमः सर्गः [४३]

हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी की प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः
  शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनुदश्च सरोजवाताः
  स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥

अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दन-पल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति।

विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम्। हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि। रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः। सरोजानां वाताः = सरोजवाताः। सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः।

अर्थः— अस्मिन् = हिमाद्रौ। श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम्। ओषधयः = तृणज्योतींषि एव। प्रदीपाः = दीपाः। नवानि = नूतनानि। हरिचन्दनपल्लवानि = चन्दनदलानि। एव शय्याः = तल्पानि। रतिश्रमनुदः = सुरतश्रमच्छेदकाः। सरोजवाताः = कमलगंधपवनाः च। सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः। दिवः = स्वर्गम्। स्मर्त्तुम् = स्मरणं कर्त्तुम्। न दिशन्ति। अर्थात् न विस्मारयन्ति।

कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः।

हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएँ हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलविलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥

Page 300Permalink

४२ किरातार्जुनीयम्

सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलालां काषः = कपोलकाषः ।

अर्थः-- एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाम्रपुष्प-गन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।

कोषः--- ‘आम्रश्चूतो रसालोऽसौ सहकार’ इत्यमरः ।

हिन्दी— इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घर्षित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥

सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाधिवसति ॥ २७ ॥

अन्वयः— सनाकवनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।

विग्रहः— नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाकवनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।

अर्थः— सनाकवनितं = साप्सरस्कम् । नितम्बरुचिरं = कटकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।

कोषः— ‘विहायसोऽपि नाकोऽपि द्यौरपि स्यात्तदव्ययम्’ । इत्यमरः ।

Page 301Permalink

पञ्चमः सर्गः । ४३

हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी को प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन्नरतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥

अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दनपल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति ।

विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम् । हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि । रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः । सरोजानां वाताः = सरोजवाताः । सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः ।

अर्थः— अस्मिन् = हिमाद्रौ । श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम् । ओषधयः = तृणज्योतींषि एव । प्रदीपाः = दीपाः । नवानि = नूतनानि । हरिचन्दनपल्लवानि = चन्दनदलानि । एव शय्याः = तल्पानि । रतिश्रमनुदः = सुरतश्रमच्छेदकाः । सरोजवाताः = कमलगन्धपवनाः च । सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः । दिवः = स्वर्गम् । स्मर्त्तुम् = स्मरणं कर्त्तुम् । न दिशन्ति । अर्थात् न विस्मारयन्ति ।

कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः ।

हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएं हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाञ्जलिना करेण ॥

Page 302Permalink
४४किराता॒र्जुनीयम्

**अन्वयः—**ईशार्थं चिराय अम्भसि तपश्चरन्त्याः यादोविलंघनविलोल-विलोचनायाः भवान्याः अग्रकरं भवः श्च्योतन्निदाघसलिलाङ्गुलिना करेण अत्र आलम्बत ।

**विग्रहः—**यादसां विलंघनानि = यादोविलंघनानि, तैः विलोले विलोचने यस्याः तस्याः यादोविलंघनविलोलविलोचनायाः । श्च्योतन्त्यः निदाघसलिलाः अङ्गुलयः यस्य तेन = श्च्योतन्निदाघसलिलाङ्गुलिना ।

**अर्थः—**ईशार्थम् = ईशाय । चिराय = चिरकालम् । अम्भसि = जले । तपश्चरन्त्याः = तपः कुर्वत्याः । यादोविलंघनविलोलविलोचनायाः = जलजन्तु-विघट्टितचकितेक्षणायाः । भवान्याः = पार्वत्याः । अग्रकरं = कराग्रभागं । भवः = शङ्करः । श्च्योतन्निदाघसलिलाङ्गुलिना = स्रवत्स्वेदाङ्गुलिना । करेण = हस्तेन । अत्र = अस्मिन् हिमालये । आलम्बत = गृहीतवान् । अत्र वसन्त-तिलकावृत्तम् ।

कोषः—'यादांसि जलजन्तवः' इत्यमरः ।

**हिन्दी—**भगवान् शिव को पति रूप में प्राप्त करने के लिये पर्याप्त काल तक जल में तपस्या करती हुई, जलजन्तुओं के परिस्फुरण ( उछाल ) से चकित नेत्रों वाली पार्वती जी का हाथ इसी हिमालय पर्वत पर शिवजी ने पकड़ा था । शिवजी के उक्त हाथ की अङ्गुलियों से स्वेद टपक रहा था ॥ २९ ॥

येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्त्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ३० ॥

**अन्वयः—**देवासुरैः येन अपविद्धसलिलः स्फुटनागसद्मा अम्बुनिधिः अमृतं ममन्थे । अहिपतेः व्यावर्तनैः आहिताङ्कः अयं सः मन्दराद्रिः खं व्यालिखन् इव विभाति ।

**विग्रहः—**देवाश्च सुराश्च तैः = देवासुरैः । अपविद्धं सलिलं यस्य सः = अपविद्धसलिलः । स्फुटं नागसद्म यस्मिन् सः = स्फुटनागसद्मा । अम्बूनां निधिः = अम्बुनिधिः । अहीनां पतिस्तस्य = अहिपतेः । आहितः अङ्कः यस्मिन् सः = आहिताङ्कः ।

Page 303Permalink

पञ्चमः सर्गः
४९

**अर्थः—**देवासुरैः = सुरासुरैः। येन = मन्दराद्रिणा। अपविद्धसलिलः = क्षिप्तजलः। स्फुटनागसद्मा = स्फुटपाताललोकः। अम्बुनिधिः = सागरः। अमृतं ममन्थे = मथितम्। अहिपतेः = वासुकेः। व्यावर्तनैः = वेष्टनैः। आहिताङ्कः = कृतचिह्नः। अयम् = निद्दिष्टः। सः = पूर्वोक्तः। मन्दराद्रिः = मन्दराचलः। खम् = आकाशम्। आलिखन् = व्यापारयन्। इव विभाति = शोभते। अत्रोत्प्रेक्षालङ्कारः।

कोषः—'सलिलं कमलं जलम्' इत्यमरः।

**हिन्दी—**जिस मन्दराचल से सुरों तथा असुरों ने अमृत प्राप्त करने के लिए सागर मन्थन किया था। मन्थन करते समय जल के उछलने से पाताल लोक दिखलाई देने लगता था। वह मन्दराचल वासुकि के विवर्तन से चिह्नित होकर मानो आकाशमण्डल का भेदन कर रहा है॥ ३०॥

नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै-
रानीलाभैर्विरचितपरभागा रत्नैः।
ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी
मध्येप्यह्नः स्फटिकरजतभित्तिच्छाया॥ ३१॥

**अन्वयः—**इह अशिशिररश्मेः उस्रैः उच्छ्रायं नीता, आनीलाभैः रत्नैः विरचितपरभागा हंसश्येनी स्फटिकरजतभित्तिच्छाया अह्नः मध्ये अपि मुहुः ज्योत्स्नाशङ्कां वितरति।

**विग्रहः—**अशिशिराः रश्मयः यस्य, तस्य = अशिशिररश्मेः। आनीला आभा येषां तैः = आनीलाभैः। विरचितः परभागो यया सा = विरचितपरभागा। हंस इव श्येनी हंसश्येनी। स्फटिकानां रजतानाञ्च भित्तयः तासां छाया = स्फटिकरजतभित्तिच्छाया। ज्योत्स्नायाः शङ्का, तां = ज्योत्स्नाशङ्काम्।

**अर्थः—**इह = अस्मिन्मन्दराद्रौ। अशिशिररश्मेः = सूर्यस्य। उस्रैः = किरणैः। उच्छ्रायम् = महत्त्वम्। नीता = प्रापिता। आनीलाभैः = असितप्रभैः, रत्नैः = मणिभिः। विरचितपरभागा = रचितापरभागा। हंसश्येनी = हंसश्वेतवर्णा। स्फटिकरजतभित्तिच्छाया = स्फटिकरजतभित्तिकान्तिः। अह्नः मध्ये = मध्याह्ने, अपि। मुहुः = भूयः। ज्योत्स्नाशङ्कां = चन्द्रिकाशङ्काम्। वितरति = जनयति। अत्र भ्रान्तिमदलङ्कारः।

कोषः—'विशदश्वेतपाण्डराः' इत्यमरः।

Page 304Permalink

४६ किराताजुनोयम्

हिन्दी—इस मन्दराचल पर सूर्य की किरणों द्वारा ऊँची उठी हुई, इन्द्र
नील मणियों की प्रभा से प्रतिबिम्बित, स्फटिक पत्थरों व रजत से बनी हुई
दीवार की छाया मध्याह्न काल में भी बारम्बार चाँदनी की शङ्का उत्पन्न कर
देती है ॥ ३१ ॥

दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥ ३२ ॥

अन्वयः—इह मृदु पतता पवनेन कम्पितानि पङ्कजानि ललितविलासिनी-
जनभ्रूगतिकुटिलेषु पयःसु विलासशालि नृत्यं दधत इव ।

विग्रहः—ललितस्य विलासिनीजनस्य भ्रूगतिवत्कुटिलेषु = ललितविलासिनी-
जनभ्रूगतिकुटिलेषु । विलासं शीलमस्तीति तत् = विलासशालि ।

अर्थः—इह = अस्मिन् पर्वते । मृदु = मन्दं । पतता = बहता । पवनेन =
वायुना । कम्पितानि = तरङ्गितानि । पङ्कजानि = कमलानि । ललितविलासिनी-
जनभ्रूगतिकुटिलेषु = सुन्दरीभ्रूगतिवत्कुटिलेषु, 'ईषत्तरंगितेषु' इत्यर्थः । पयःसु =
जलेषु । विलासशालि नृत्यम् = सविलासनृत्यम् । दधत इव = धारयन्ति इव,
सविलासं नृत्यन्तीवम् इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः, पुष्पिताग्रावृत्तञ्च ।

कोषः—'लास्यं नृत्यं च नर्त्तने' इत्यमरः ।

हिन्दी—इस हिमालय पर सुन्दरियों की भौंहों के समान कुटिल गतियुक्त
जल में धीरे-धीरे चलते हुए पवन के द्वारा कमल हिल रहे हैं । जैसे कि वे कम्पित
कमल हाव-भाव सहित नृत्य कर रहे हों ॥ ३२ ॥

अस्मिन्नगृह्णात् पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहोषधिरोधवरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः । ३३।

अन्वयः—अस्मिन् पिनाकभृता अधीरविलोचनायाः ईश्वरायाः आबद्धवेपथुः
विन्यस्तमङ्गलमहोषधिः पाणिः स्रस्तोरगप्रतिसरेण करेण सलीलम् अगृह्णात् ।

विग्रहः—पिनाकं बिभर्तीति पिनाकभृत् तेन = पिनाकभृता । अधीरे विलोचने
यस्यास्तस्याः अधीरविलोचनायाः । आबद्धः वेपथुः यस्मिन् सः = आबद्धवेपथुः ।
विन्यस्तमङ्गलमहोषधिः यस्मिन् सः = विन्यस्तमङ्गलमहोषधिः । स्रस्तः उरग एव
प्रतिसरः यस्य तेन = स्रस्तोरगप्रतिसरेण । लीलया सहितं सलीलम् ।

अर्थः—अस्मिन् = हिमालये । पिनाकभृता = शिवेन । अधीरविलोचनायाः =

पञ्चमः सर्गः ४७

Page 305Permalink

पञ्चमः सर्गः ४७

चकितदृष्टेः । ईश्वरायाः = पार्वत्याः । आवद्धवेपथुः = प्राप्तकम्पः । विन्यस्तमङ्गल-
महौषधिः = धृतशुभयवाङ्कुराद्योषधिः । पाणिः = करः । स्रस्तोरगप्रतिसरेण =
गलितोरगहस्तसूत्रेण । करेण = हस्तेन । सलीलम् = सकौतुकम् । अगृह्णत =
गृहीतः ।
कोषः—'आहुः प्रतिसरो हस्तसूत्रे माल्ये च मण्डने' इति विश्वः ।
हिन्दी—इसी पर्वत पर पिनाकपाणि भगवान् शिव ने अधीर नेत्रोंवाली
पार्वतीजी का कांपता हुआ यवाङ्कुरादि शुभ लक्षणोंवाला हाथ अपने उरग के
समान खिसकते हुए हस्तसूत्रवाले हाथ से सकौतुक पकड़ा था अर्थात् शिवजी ने
यहाँ पार्वतीजी के साथ विवाह किया था ॥ ३३ ॥

क्रामद्भिर्घनपदवोमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः ।
उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् । ३४ ।
अन्वयः—घनपदवीं क्रामद्भिः अनेकसंख्यैः शुचिमणिजन्मभिः तेजोभिः
विभिन्नः पर्यस्यन् इह सप्तसप्तेः उस्राणां निचयः सहस्रसंख्याम् व्यभिचरति इव ।
विग्रहः—घनानां पद्वी, तां घनपदवीम् । शुचिमणिभ्यः जन्म येषां तैः
शुचिमणिजन्मभिः । सहस्रमिति संख्या = सहस्रसंख्या तां = सहस्रसंख्याम् ।
अर्थः—घनपदवीम् = आकाशम् । क्रामद्भिः = व्यश्नुवानैः । अनेकसंख्यैः =
बहुसंख्यैः । शुचिमणिजन्मभिः = पूतस्फटिकजातैः । तेजोभिः = प्रकाशैः । विभिन्नः =
मिश्रः । ( अत एव ) पर्यस्यन् = प्रसर्पन् । इह = पर्वते । सप्तसप्तेः = सूर्यस्य ।
उस्राणां = किरणानाम् । निचयः = निकरः । सहस्रसंख्याम् = दशशतसंख्याम् ।
व्यभिचरति इव = अतिक्रामतीव । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'घनजीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरः ।
हिन्दी—आकाशमार्ग को पार करनेवाले बहुसंख्यक पवित्र मणियों द्वारा
उत्पन्न तेजों से मिला हुआ सूर्य की किरणों का समूह इस पर्वत पर अपनी
'सहस्रसंख्या' को भी पार सा कर रहा है ॥ ३४ ॥

व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः ।
स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ ३५ ॥
अन्वयः--यस्मिन् धनाधिपः पुरां विजेतुः धृतये उच्चगोपुरं पुरं व्यधत्त । स
एष कैलासः उपान्तसर्पिणः विवस्वतः अकालास्तमयं करोति ।

Page 306Permalink

४८ | किरातार्जुनीयम्

विग्रहः-- धनानामधिपः = धनाधिपः । उच्चं गोपुरम् = उच्चगोपुरम् । उपान्ते सर्पतीत्युपान्तसर्पी तस्य = उपान्तसर्पिणः ।

अर्थः-- यस्मिन् = यत्र कैलासे । धनाधिपः = कुबेरः । पुरां विजेतुः = त्रिपुरजेतुः, शिवस्य । धृतये = संतोषाय । उच्चगोपुरम् = उन्नतपुरद्वारम्, पुरम् = अलकाख्यां पुरीम् । व्यधत्त = निर्मितवान् । स एषः = ईदृशः । कैलास = कैलासपर्वतः । उपान्तसर्पिणः = प्रान्तचारिणः । विवस्वतः = रवेः । अकालास्तमयम् = असमयास्तमयम् । करोति = विदधाति ।

कोषः-- 'पुरद्वारं तु गोपुरम्' इत्यमरः ।

हिन्दी-- जिस पर्वत पर कुबेर ने त्रिपुरविजेता भगवान् शिव के सन्तोष के लिए ऊँचे-ऊँचे गोपुरों (फाटकों) वाला नगर निर्मित (स्थापित) किया था । इस प्रकार का यह कैलास पर्वत समीप में पहुँचे हुए सूर्य भगवान् को समय के पूर्व ही अस्त सा कर देता है ॥ ३५ ॥

नानारत्नज्योतिषां सन्निपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धां बद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति ॥ ३६ ॥

अन्वयः--- अमुष्मिन् अन्तःसानु नानारत्नज्योतिषां सन्निपातैः छन्नेषु वप्रान्तरेषु बद्धां बद्धां भित्तिशङ्काम् आवानावान् मातरिश्वा निहन्ति ।

विग्रहः-- नानारत्नानां ज्योतींषि = नानारत्नज्योतींषि, तासां = नानारत्नज्योतिषाम् । भितेः शङ्का ताम् = भित्तिशङ्काम् ।

अर्थः-- अमुष्मिन् = अस्मिन् कैलासे । अन्तःसानुः = शिखरेषु । नानारत्नज्योतिषाम् = अनेकमणिकान्तीनाम् । सन्निपातैः = व्यतिकरैः । छन्नेषु = छादितेषु । वप्रान्तरेषु = कटकान्तरेषु । बद्धां बद्धाम् = अभीक्ष्णबद्धां । भित्तिशङ्काम् = 'भित्तिः' इति सन्देहम् । आवानावान् = अभीक्ष्णमापतन् । मातरिश्वा = पवनः । निहन्ति = निवर्त्तयति । अत्र सन्देहालङ्कारः ।

कोषः-- 'प्रस्थः सानुरस्त्रियाम्' । इत्यमरः ।

हिन्दी-- इस कैलास के शिखरों पर विविध रत्नों के प्रभापुञ्ज से दूहों के अन्तराल आच्छादित होने पर सुदृढ़ दीवार की शङ्का उत्पन्न करते हैं । किन्तु मातरिश्वा (पवन) बार-बार सञ्चरित होकर इस दीवार की शङ्का को दूर कर देता है ॥ ३६ ॥

Page 307Permalink

पञ्चमः सर्गः ४९

रम्या नवद्युतिरपैति न शाद्वलेभ्यः
श्यामीभवन्त्यनुदिनं नलिनीवनानि ।
अस्मिन् विचित्रकुसुमस्तबकाचितानां
शाखाभृतां परिणमन्ति न पल्लवानि ॥ ३७ ॥

अन्वयः—अस्मिन् शाद्वलेभ्यः रम्याः नवद्युतिः न अपैति । नलिनीवनानि अनुदिनं श्यामीभवन्ति । विचित्रकुसुमस्तबकाचितानां शाखाभृतां पल्लवानि न परिणमन्ति ।

विग्रहः—शादाः सन्त्येष्विति = शाद्वलाः, तेभ्यः = शाद्वलेभ्यः । नवा द्युतिः = नवद्युतिः । नलिनीनां वनानि = नलिनीवनानि । दिनं दिनम् = अनुदिनम् । विचित्राणां कुसुमानां स्तवकानि, तैः आचिता विचित्रकुसुमस्तबकाचिताः, तेषां = विचित्रकुसुमस्तबकाचितानाम् । शाखाः बिभ्रतीति शाखाभृतः तेषां = शाखाभृताम् ।

अर्थः—अस्मिन् = अत्र कैलासे । शाद्वलेभ्यः = शष्पेभ्यः । रम्या = रमणीया । नवद्युतिः = नूतनकान्तिः । न अपैति = नापगच्छति । अनुदिनं = दिनंदिनम् । नलिनीवनानि = कमलवनानि । श्यामीभवन्ति न तु शीर्यन्ति पाण्डुरतां वा यान्ति । विचित्रकुसुमस्तबकाचितानां = चित्रितपुष्पस्तवकव्याप्तानाम् । शाखाभृतां = पादपानाम् । पल्लवानि = दलानि । न परिणमन्ति = नैव पीतानि भवन्ति पतन्ति च । अत्र । पर्यायोक्तिरलंकारः ।

कोषः—'शाद्वलः शादहरिते' इत्यमरः ।

हिन्दी - इस कैलास पर हरी घास की रम्य तथा नवद्युति नहीं मिटती है अर्थात् वह सदैव हरी बनी रहती है । यहाँ पुरैन सदैव हरी बनी रहती, पीत अथवा शीर्ण नहीं होती । रंग-बिरंगे फूलों के गुच्छोंवाले पादप कभी पतझड़ नहीं किते हैं । अर्थात् यहाँ सदैव 'बहार' ऋतु बनी रहती है ॥ ३७ ॥

परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः ।
इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ ३८ ॥

अन्वयः—इह परिसरविषयेषु मृगीभिः हरिततृणोद्गमशङ्कया लीढमुक्ताः नवशुककोमलाः मणीनां भासः रविकरसंवलिताः फलन्ति ।

विग्रहः—उद्गमस्य शङ्का = उद्गमशङ्का । हरितानां तृणानामुद्गमशङ्का,

४ कि०