कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
९६ कथासरित्सागर
९६ कथासरित्सागर
ततः प्राप्तो मठे भौटैरन्यैराश्लिष्य तत्स्थितैः ।
क्व गतोऽसीति पृष्टस्तं स्ववृत्तान्तं शशंस सः ॥१९०॥
ततः सर्वे श्रुताश्चर्या भीतास्ते प्रार्थयन्त सम्।
प्रसीद नय तत्रास्मानपि भोजय मोदकान् ॥१९१॥
तच्छ्रुत्वा स तथेत्येतान् युक्तिमुक्त्वापरे दिने ।
तडागोपान्तमनयत् स च तत्राययौ वृषः ॥१९२॥
जग्राह तस्य लाङ्गूलं मुख्यः पाणिद्वयेन सः ।
तस्याप्यगृह्णाच्चरणौ न्यस्तस्तस्यापि चेतरः ॥१९३॥
इत्यन्योन्याङ्घ्रिलग्नैस्तैर्मौटैर्यावच्च शृङ्खला ।
रचिता स वृषस्तावदुत्पपात नभःस्थलम् ॥१९४॥
याति तस्मिंश्च वृषभे लाङ्गलालम्बिभौटके१ ।
मुख्यमेश्रं तमप्राक्षीदेको मौटोऽथ दवत२॥१९५॥
अद्धामाख्याहि नस्तावदथेष्टसुरभा दिवि ।
कियत्प्रमाणा भवता मोदका भक्षिता इति ॥१९६॥
ततो हृष्टामुनन्द्यानो वृषपुच्छं विमुच्य तम् ।
पद्माकारौ करौ कृत्वा संस्प्रिष्टौ मौठनायकः ॥१९७॥
इयत्प्रमाणा इत्याशु यावत्तान प्रतिवक्ति सः ।
तावत्सोऽन्ये च ते सर्वे क्षितिपेत्य विपदिरे ॥१९८॥
वृषः प्रायाच्च कैलास जनो दृष्ट्वा जहास च ।
दोषाय निर्विमर्षैव भौतप्रश्नोत्तरक्रिया ॥१९९॥
श्रुता दुगामिनो मौटाः श्रूयतामपरोऽप्ययम्।
कश्चिद् भौतो विसस्मार मार्ग मार्गान्तरं व्रजन् ॥२००॥
तरोर्नदीतटस्थस्य गच्छास्योपरिवर्त्मना ।
इत्युच्यते स्म पन्थानं परिपृच्छञ्जनेन सः ॥२०१॥
ततस्तस्य तरोः पृष्ठं गत्वास्त्वः स मूर्खधीः ।
एतत्पृष्ठेन मे पन्था उपदिष्टो जनैरिति ॥२०२॥
सत्पृष्ठे सर्पवक्षास्य भरात्पर्यन्तवर्तिनी ।
शाखा ननाम यत्नेन पपातालम्ब्य नैप याम् ॥२०३॥
१ लाङ्गूले=पुच्छे, मालम्बिनः=सम्बद्धानां भौटाः=मूर्खास्तस्यतस्मिन् वृषभविशेषण
२ दैववशादित्यर्थः ।