सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८८६ कथासरित्सागर

[header]
८८६ कथासरित्सागर
[/header]

कश्चित्कनकपर्यङ्कमानीयात्र न्यवेशयत् ।
कश्चितस्ततार तस्मिंश्च तूलिकां प्रच्छदोत्तराम् ॥११६॥
केचित् पुष्पाङ्गरागादि पानमाहारमुत्तमम् ।
आनीय स्वापयामासुरेकमेकं तरोस्तले ॥११७॥
ततो वापीतलात्तस्माद्रूपेण जितमन्मथः ।
उदगात्पुरुषः खड्गी दिव्याभरणभूषितः ॥११८॥
तस्मिंस्तत्रासनासीने क्लृप्तमाल्यानुलेपनाः ।
सर्वे परिजनास्तस्यां वाप्यामेव ममज्जिरे ॥११९॥
अथोज्जगार स सुखादेकां भव्याकृतिं प्रियाम् ।
विनीतवेषां मञ्जुस्तमाल्याभरणधारिणीम् ॥१२०॥
द्वितीयां चातिरूपाढ्यां सद्वस्त्राभरणोज्ज्वलाम् ।
ते च भार्ये उभे तस्य पश्चिमा वल्लभा पुनः ॥१२१॥
ततोऽत्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः ।
भर्तुः सपत्न्याश्चाहारं पानं चोपानयत्सती ॥१२२॥
तयोर्भुक्तवतोः सापि बुभुजे सोऽप्य तत्पतिः ।
पर्यङ्कशयनं भेजे तया साकं द्वितीयया ॥१२३॥
अनुभूय रतिक्रीडासुखं निद्रां जगाम सः ।
आद्या च भार्या सा तस्य पादसंवाहनं व्यधात् ॥१२४॥
द्वितीया साप्यनिद्रैव तस्याभूच्छयने प्रिया ।
दृष्ट्वैतत्तौ विप्रपुत्रौ तस्थतुर्धर्तुमिष्व ॥१२५॥
कोऽयं स्यादवतीर्यैतत् पादवाहिकामिमाम् ।
एतस्य किन्न पृच्छावः सर्वे ह्यविकृता अमी ॥१२६॥
अवतीर्याथ तौ यावदाद्यां तामुपसर्पतः ।
ययोधर तयोस्तावद्द्वितीया सा ददर्श तम् ॥१२७॥
उत्थाय शयनात् पत्युः सुप्तस्मोहामघापह्ला ।
तमुपेत्य सुरूपं सा मां भजस्वेत्यभाषत ॥१२८॥
पापे त्वं परदारा मे तथाहं परपूरुषः ।
तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत् पुनः ॥१२९॥
त्वादृशानां भतन्नाह सङ्गता किं भयं तव ।
न चान्यस्यापि पश्यैतद्गृह्णीष्वशतं मम ॥१३०॥