सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८८० कथासरित्सागर

८८० कथासरित्सागर
महिषमूर्खकथा
कस्यचिन्महिषः कैश्चिद्ग्राम्यैर्ग्रामस्य वाह्यतः ।
नीत्वा वटस्तल भित्त्वावाटे व्यापाय भक्षितः ॥२१३॥
तेन गत्वाथ विज्ञप्तो महिषस्वामिना नृपः ।
ग्राम्यानानाययामास स तान् महिषभक्षकान् ॥२१४॥
तत्समक्ष स राजाग्रे महिषस्वाम्यभाषत ।
तडागनिकटे देव नीत्वा वटतरोरधः ॥२१५॥
एभिर्मे महिषो हत्वा भक्षितः पश्यतो जडैः ।
तच्छ्रुत्वान्येषु तूष्णीकेष्वेको वृद्धमूर्खोऽब्रवीदिदम् ॥२१६॥
तडाग एव नास्त्यस्मिन् ग्रामे न च वटः क्वचित् ।
मिथ्या वक्त्येष महिषः क्व हतो भक्षितोऽस्य वा ॥२१७॥
श्रुत्वैतन्महिषस्वामी सोऽब्रवीद्भास्ति किं वटः ।
तडागश्च स पूर्वस्यां दिशि ग्रामस्य तस्य च ॥२१८॥
अष्टम्यां च स युष्माभिर्भक्षितो महिषाऽत्र मे ।
इत्युक्तस्तेन स पुनर्वृद्धमूर्खोऽब्रवीदिदम् ॥२१९॥
पूर्वा दिगेव नास्त्यस्मद्ग्रामे नाप्यष्टमी तिथिः ।
एतच्छ्रुत्वा हसन् राजा तमाहोत्साह यच्छ्रडम् ॥२२०॥
त्वं सत्यवादी नासत्यं किञ्चिद्वदसि सुम्मम ।
सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ॥२२१॥
एतच्छ्रुत्वा जडोऽब्रवीन्मृते पितरि वत्सरे ।
त्रिभिर्जातोऽस्मि तेनैव शिक्षितोऽस्म्युक्तिपाटवम् ॥२२२॥
तवत्सत्यं महाराज न कदाचिद्वदाम्यहम् ।
भुक्तोऽस्य महिषोऽस्माभिरस्यद्वक्ति मृषाह्यसौ ॥२२३॥
श्रुत्वैतत्सानुगो राजा हासं रोद्धुं स नाशक्तत् ।
निर्यात्य महिषं तस्य तांश्च ग्राम्यानदण्डयत् ॥२२४॥
इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च ।
मौर्घ्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ॥२२५॥
कश्चिद्धरिख गृहिणी षण्ढी मूर्खमभाषत ।
प्रातः पितृगृहं यास्याम्युत्सवेऽस्मि निमन्त्रिता ॥२२६॥