सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८१८ कथासरित्सागर

८१८ कथासरित्सागर
यद्यपि त्वं न ब्रूषे नेच्छन्त्यपा तथाप्यहम्।
ब्रवीमि विबुधं हृदं जनानां निहूते कथम्॥१०५॥
स तादृगस्या भार्यायास्तवोत्पन्नो महागदः।
विना वानरहृत्पद्मयूषं न शममेति यः॥१०६॥
इत्युक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत्।
कष्टं वानरहृत्पद्मं कुतः सम्प्राप्नुयामद्दम्॥१०७॥
सख्यं करोमि यद्ग्राहं कपेस्तत्किं ममाहितम्।
सख्या किमथवा भार्या प्राणेभ्योऽप्यधिकप्रिया॥१०८॥
इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः।
तदहंनेष्याम्यखण्डं ते कपिं किं दूयसे प्रिये॥१०९॥
इत्युक्त्वा स ययौ तस्य मित्रस्य निकटं कपेः।
कथाप्रसङ्गमूत्पाद्य तमवमबदत् कपिम्॥११०॥
अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया।
तदहि तत्र गच्छावो विध्यमायकमप्यहः॥१११॥
भुज्यते यन्न नान्योन्यं गृहमभ्येत्य निर्गलम्।
प्रहृष्यन्तं न दाराश्च कतव तन्न सौहृदम्॥११२॥
इति प्रतार्य जलधाववतार्याविस्रम्भ्य च।
वानरं शिशुमारस्तं गन्तुं प्रवृवृत्तश्च सः॥११३॥
गच्छन्तं तं स दृष्ट्वा च वानरश्चकिताकुलम्।
सखेऽन्यादृगमद्य त्वां पश्यामीति स पृष्टवान्॥११४॥
निबन्धेनापि पृच्छन्तं मत्वा हस्तस्थितं च तम्।
प्लवङ्गमं जगादेव शिशुमारो जडाशयः॥११५॥
अस्वस्था मे स्थिता भार्या सा च पश्याद्ययापि माम्।
यावत् कपिहृत्पद्मं तनाद्य विमनाः स्थिता॥११६॥
श्रुत्वैतस्य वचस्तस्य कपिः प्राज्ञा व्यचिन्तयत्।
हन्तेतदवमानानां पापनाहमहामुना॥११७॥
अहो स्त्रीशब्धगात्राणां मित्रद्रोहस्यमुद्यतः।
किं वा स्त्रीणां स्वमांसानां नूनमन्ता न गर्हति॥११८॥
इति सञ्चिन्त्य च प्राह शिशुमारं स वानरः।
यद्येवं तत्स्वयत्नश्च किं नास्त प्रथमं मगे॥११९॥