कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
८१६ कथासरित्सागर
८१६ कथासरित्सागर
ततः स कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम्।
दत्तनिर्वासनैर्वेदहेतुं पप्रच्छ मूषकम्॥८५॥
ततो हिरण्यः स तयोरुभयोः काककूर्मयोः।
शृण्वतोर्निजवृत्तान्तकथामृतामवर्णयत् ॥८६॥
मस्करीमूषकयोः कथा
अहम् महाबिले तत्र नगरासन्नवर्तिनि।
वस राजकुलाद्भारमानीयास्थापयं निधिम्॥८७॥
दृश्यमानेन हारेण तेन जातोर्जस च माम्।
समर्थमन्नाहरणे मूषकाः पर्यवारयन्॥८८॥
अत्रान्तरे च तत्रासीत्कश्चिद्वस्मठिकान्तिके।
परिव्राण्मठिकां कृत्वा नानाभिक्षान्नवृत्तिकः॥८९॥
स भुक्तशेषं भिक्षान्नं नक्तं स्थापयति स्म तत्।
भिक्षाभाण्डस्थमुल्लम्ब्य शङ्कौ² प्रातर्जिघत्सया ॥९०॥
सुप्तस्यात्र च तस्याहं बिलेनान्तः प्रविश्य तत्।
दत्तोर्ध्वंक्रम्यो¹ निशीथमनद्य प्रतियामिनि॥९१॥
कदाचित्सम तस्यागारमुहूर्त् प्रव्राजकोऽपरः।
मुक्तोत्तरं समं तेन कथां रात्रौ स चाकरोत्॥९२॥
तावन्नेतुं प्रवृत्तश्च मयि जर्जरकण सः।
प्रप्राड्व्वादयहस्तकंस्तद्भाण्डं मुहू॥९३॥
कथाभान्तिश्च किमिदं करोषीति स तेन च।
आगन्तुना परिव्राजा पृष्टः प्रवाद तमब्रवीत्॥९४॥
इह मे मूषकः शत्रुरुपद्रोऽद्य सदब यः।
अपि दूरस्थमुत्प्लुत्य नयत्यन्नमितो मम॥९५॥
तं त्रासयामि यस्त्यञ्जर्जरेणाश्मभाजनम्।
इत्युक्तवन्तं प्रव्राजं परिव्राट सोऽभ्रगोऽब्रवीत्॥९६॥
लोभो नामैष जन्तूनां दोषायात्र कथां शृणु।
तीर्थान्यहं भ्रमन् प्रापमेकं नगरमेकदा॥९७॥
१ लोहरीमके सम्बन्धित्वा । २ प्रातःखादितुमिच्छया । ३ कर्दभं कृत्वा ।