कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
७४ कथासरित्सागर
७४ कथासरित्सागर
अवाप च स वासरैः कतिपयैर्गृहं श्वशुरं
बिदर्भविषयाश्रितं तदथ कुण्डिनाख्यं पुरम् ।
समुचितमिति तत्र च श्वशुरसत्कृतः कानिचित्
दिनान्यभजत स्थितिं तनयदारसेनायुतः ॥२३४॥
प्रस्थाय सतश्च शनैः कनकपुरं प्राप्तवान्निजं नगरम् ।
पौरवधूजन नयन विचरोत्सुकैः पीयमान इव ॥२३५॥
अविशच्च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः ।
उत्सव इव विग्रहवान् प्रमोषशोभान्वितो नृपतिः ॥२३६॥
अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् ।
सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ॥२३७॥
वध्वा तया सह सुतेन च तेन बद्ध
नित्योत्सवः पुनरदृष्टवियोगदुःखः ।
निष्कण्टकं कनकवर्धनरेश्वरोऽथ
भूमण्डलं सञ्चतुरन्तमिव शशास ॥२३८॥
इति गोमुखतः स्वमन्त्रिमुख्यादुचिरां तत्र कथामिमां निशम्य ।
नरवाहनदत्तराजपुत्रः सवरूङ्कारवतीयुतस्तुतोष ॥२३९॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीसम्बके -
पञ्चमस्तरङ्गः ।
षष्ठस्तरङ्ग
नरवाहनदत्त कथा (पूर्वानुवृत्ता)
ततः स गोमुखाख्यात कथातुष्टः प्रियासखः ।
दृष्ट्वा सकोपविकृतिं मरुभूतिं सधीर्र्यया ॥१॥
नरवाहनदत्तस्तं निजगादानुरञ्जयन् ।
मरुभूते त्वमप्येकां किं नाख्यासि कथामिति ॥२॥
ततः स बाढमाख्यामीत्युक्त्वा तुष्टेन चेतसा ।
समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ॥३॥