कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
७२० कथासरित्सागर
७२० कथासरित्सागर
एष नरेन्द्र वनिताहृदये न जातु धूतादृते वसति सत्यकथाल्पोऽपि।
उत्सार्यसाध्यगमनासु सवत्सासु धूयाटबीष्विव रमेत न मूतिकायाम्॥१७६॥
इति मरुभूतयेदमाख्याय स ययावदारुजामकथाम्।
नरवाहनदत्तस्तच्छ्रौषाय जहास गोमुखादियुतः ॥१७७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोशम्भके
प्रथमस्तरङ्गः ।
द्वितीयस्तरङ्गः
राज्ञो विक्रमसिंहस्य कुमुदिकावेश्यायाश्च कथा
एवं वेश्यास्वसद्भावे कथिते मरुभूतिना।
आचख्यौ गोमुखो धीमांस्तद्वत्कुमुदिकाकथाम् ॥१॥
आसीद्विक्रमसिंहाख्यः प्रतिष्ठाने महीपतिः ।
व्यधायि विधिनान्वर्थो यः सिंह इव विक्रमे ॥२॥
यस्येश्वरस्य सुभगा नवीनप्रमदा प्रिया ।
अनुङ्गारतनुर्देवी शशिप्रभेति नामतः ॥३॥
तमेकदा स्वनगरे स्थितं सम्भूय गोत्रजाः ।
पञ्चापा गृहमागत्य राजानं पर्यवेष्टयन् ॥४॥
महाभटो वीरबाहुः सुबाहुः सुभटस्तथा।
नृप प्रतापादित्यश्च सर्वेऽप्येते महाबलाः ॥५॥
तेषु सामादि युञ्जानं निराकृत्य स्वमन्त्रिणम्।
राजा विक्रमसिंहोऽसौ युद्धायैषां विनिर्ययौ ॥६॥
प्रवृत्ते शस्त्रसम्पाते स नृपः सैन्ययोर्द्वयोः ।
शौर्यदर्पावृगजारूढः प्रविवेशाहवं स्वयम् ॥७॥
धनुद्वितीयं दृष्ट्वा तं वक्ष्यस्तं द्विषच्चमूम्।
महाभटाद्याः पञ्चापि राजानोऽभ्यपतन्समाम् ॥८॥
तद्बले च शमं भूयस्यस्मिन्नेप्यभिधावति।
बलं विक्रमसिंहस्य तदतुल्यममन्यत ॥९॥
ततोऽनन्तगुणास्त्वस्ते मन्त्री पार्श्वस्थितोऽब्रवीत्।
भग्नमस्मद्बलं तावज्जयो नास्तीह साम्प्रतम् ॥१०॥