सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

४२४ कथासरित्सागर

४२४ कथासरित्सागर
प्रियङ्करश्च विरथां विरथं रथनाशतः।
एकखड्गप्रहारेण करोति स्माश्रर्मं द्विधा ॥२४॥
छिन्ने धनुषि निक्षिप्तनकुशेन हृदि क्षतम्।
हतवान्सर्वदमनो हेलयातिबलं रणे ॥२५॥
ततो धुरन्धरं तं च स कुञ्जरकुमारकः।
अस्त्रप्रत्यस्त्रयुद्धेन चकार विरथं मुहुः ॥२६॥
मुहुर्विक्रमशक्तिश्च तस्मै रथमडौकयत्।
ररक्ष सङ्कटे च षाप्यस्त्रैरस्त्राणि वारयन् ॥२७॥
स कुञ्जरकुमारोऽथ धावित्वा महतीं शिलाम्।
क्रुद्धो विक्रमशक्तेर्दाक् चिक्षेप स्यन्दनोपरि ॥२८॥
गते विक्रमशक्तौ च चूर्णितस्यन्दनं ततः।
तयैव शिलया तं स धुरन्धरमचूर्णयत् ॥२९॥
सूर्यप्रभ प्रयुक्तोऽपि सहात्र श्रुतशर्मणा।
विरोचनवचक्रोग्राञ्जघानैकैकुषा दसम् ॥३०॥
तत्क्रोधावश्विनौ देवौ युद्धायापतितौ शरैः।
सुनीथः प्रतिजग्राह तेषां युद्धमभून्महत् ॥३१॥
स्थिरबुद्धिश्च संग्रामे शक्त्या हत्वा पराक्रमम्।
वसुभिस्तद्वधक्रुद्धैः सहाष्टाभिरयुध्यत ॥३२॥
विरथीकृतमात्रं च प्रभासो वीक्ष्य मर्दनम्।
वामोदररणासक्तोऽप्येकनेत्रेणवधीत् ॥३३॥
प्रकम्पनोऽस्त्रयुद्धेन हत्वा तेजःप्रभं युधि।
युयुधे तद्वधक्रुद्धेनाग्निना सह साप्रतम् ॥३४॥
धूमकेतोश्च समरे यमदंष्ट्रं निजघ्नुषः।
कुपितेन यमेनामूत्सह् युद्धं सुदारुणम् ॥३५॥
चूर्णयित्वा स शिलया सिंहदंष्ट्रः सुरोपमम्।
समं निर्ऋतिना युद्धे तद्बषामर्षशालिना ॥३६॥
कालचक्रोऽपि चक्रेण चक्रे वायुबलं द्विधा।
अयुध्यत च तत्कोपाञ्ज्वलन्ता वायुना सह ॥३७॥
स्पैर्नागाद्विवृक्षाणां महामायो विमोहदम्।
कुबेरदत्तं हतवांस्तार्क्ष्यबन्ध्यामिरुद्ययत् ॥३८॥