सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

२१ कथासरित्सागर

२१ कथासरित्सागर
तस्यास्ति निकटे फुल्लनलिनालङ्कृतं सरः।
तत्राहमभवं हंसी पूर्वजन्मनि कर्मतः ॥१५५॥
साहम्प्रधितटाज्जातु तस्मिंश्चन्दनपादपे।
अकार्या राजहंसेन स्वेन भर्त्रा सहारुयम् ॥१५६॥
तत्रालये वसन्त्या म प्रजातान्योतकान्सुतान्।
अकस्मादेत्य बलवान्समुद्रोर्मिरपाहरत् ॥१५७॥
हृतेष्वपत्येष्बोघेन क्रन्दन्त्यहमनश्नती।
आसं शुचाब्धितीरस्थशिवलिङ्गाग्रवर्त्तिनी ॥१५८॥
तत स राजहंसो मामुपेत्य पतिरभ्यधात्।
उत्तिष्ठ किमपत्यानि व्यतीतान्यनुशोचसि ॥१५९॥
अन्यानि नो भविष्यन्ति सर्वं जीवद्भिराप्यते।
इति तद्वाक्यशरेणाहं हृदि विद्धा व्यचिन्तयम् ॥१६०॥
धिगहो पुरुषा पापा बालापत्येष्वपीदृशाः।
निस्नेहा निष्कृपाश्चैव स्त्रीषु भक्तिमतीष्वपि ॥१६१॥
तन्मे किममुना पत्या किं वा देहेन दुःखिना।
इत्यालोच्य हरं नत्वा कृत्वा भक्त्या व्रतं हृदि ॥१६२॥
तत्रैव पुरतस्तस्य पत्युरहं सस्य पश्यतः।
'जातिस्मरा राजपुत्री भूयास जननान्तरे' ॥१६३॥
इति सङ्कल्प्य तत्क्षिप्तं शरीरं जलधौ मया।
ततोऽहं सखि जाताद्य तथाभूतेह जन्मनि ॥१६४॥
पूर्वजातौ च तस्यां तां भर्तुस्तस्य नृशंसताम्।
सस्मरन्त्या न कस्मिंश्चिद्वरे रज्यति मे मनः ॥१६५॥
अतो विवाहं नेच्छामि दैवायत्तमतः परम्।
इत्युक्तं राजसुतया मत्स्रुतायै तया रहः ॥१६६॥
तया मत्स्रुतयाप्येतन्मद्गृहागत्य वर्णितम्।
तदेव ते मया ख्यातं पुत्र यत्पृष्टवानसि ॥१६७॥
तवैष भाविनी भार्या नूनं चैषा नृपात्मजा।
सर्वविद्याधराणां हि भविष्यत्येकवल्लभः ॥१६८॥
महिषीयं समादिष्टा पूर्वं देवेन शम्भुना।
तलक्षणैश्च युक्तं त्वां पश्यामि त्रिलकादिभिः ॥१६९॥

The provided image appears to be completely blank (white page with no text). Therefore, there is no text to transcribe.