कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१ १२ कथासरित्सागर
१ १२ कथासरित्सागर
इति स वणिजि तस्मिन्नात्मवृत्तान्तमुक्त्वा
गतवति चरितार्थे चन्द्रसारे प्रणम्य।
अभवदतिविनम्रो वत्सराजात्मजेऽस्मिन्
स किल रुचिरदेवो दृष्टमाहात्म्यदृष्टः ॥११२॥
प्रादाच्च तां स्वभगिनीमुपचारवृत्ति-
मारुम्ब्य युक्तिमनुरागहताय तस्मै।
प्राम्बिसितां सुसदृशीं स जयेन्द्रसेनां
सद्यः करण्डुसुरगोत्तमयुग्मयुक्ताम् ॥११३॥
स च तामादाय बधूं साश्ववरां रुचिरदेवमामन्त्र्य।
नरवाहनदत्तः स्वां कौशाम्बीमाययौ नगरीम् ॥११४॥
तस्यामास्त च विहरन्नन्दितवत्सेश्वरस्तया सहितः।
अन्याभिश्च स सुखितो देवीभिर्मदनमञ्जुकाद्याभिः ॥११५॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
वेताललम्बके प्रथमस्तरङ्गः।
समाप्तश्चायं वेताललम्बक एकादशः।