कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१४२ कथासरित्सागर
१४२ कथासरित्सागर
तैरागते तदह्नाने समं स सचिवान्वितः।
निशि सूर्यप्रभः प्रायाच्चन्द्रपादाचलं प्रति॥१९८॥
गच्छतां च क्रमात्तेषामुत्तस्थुर्मार्गरोधिनः।
यक्षगुह्यककूष्माण्डा विघ्ना नानायुधोद्यताः॥१९९॥
कांश्चिदस्त्रैर्विमोह्यैतान् कांश्चित् संस्तभ्य विद्यया।
चन्द्रपादगिरिं तं ते प्रापुः सूर्यप्रभादयः॥२००॥
तत्रत्यां तद्गुहाद्वारप्राप्तानां शाङ्करा गणाः।
एत्य प्रवर्त्त रुरुधुर्विचित्रविकृताननाः॥२०१॥
एतैः सह न योद्धव्यं कुप्येद्धि भगवान् हरः।
तस्मादष्टसहस्रेण तमद्य परव स्तुमः॥२०२॥
येनैव ते प्रसीदन्ति तद्गणा इत्यबोचत।
स सुवासकुमारस्तानथ सूर्यप्रभादिकान्॥२ ३॥
ततस्तथेति सर्वे त तथैव हरमस्तुवन्।
स्वामिस्तुतिप्रसन्नाश्च तान् वदन्ति स्म ते गणाः॥२०४॥
मुक्तेयं भो गुहास्माभिर्गृहीतास्यां महौषधीः।
सूर्यप्रभेण त्वेतस्यां न प्रवेष्टव्यमात्मना॥२०५॥
प्रभासः प्रविशत्वेतामेतस्य सुगमा ह्यसौ।
एतद्गणवचः सर्वे ते तथेत्यनुमेनिरे॥२ ६॥
ततः प्रविशतस्तस्य प्रभासस्य तदैव सा।
गुहा बद्धान्धकारापि सुप्रकाशा किमप्यभूत्॥२०७॥
उत्थाय च महाघोररूपा अप्यत्र राक्षसाः।
चत्वारः किङ्करा ऊचुः प्रणताः प्रविशेति तम्॥२०८॥
अथ प्रविश्य संगृह्य दिव्याः सप्ताौषधीः स ताः।
प्रभासो निर्गतः सूर्यप्रभाय निखिला ददौ॥२ ९॥
महाप्रभावाः सप्तैताः सिद्धाः सूर्यप्रभश्च ते।
ओषध्य इति तत्कालं गगनादुदगाद्वाक्॥२१०॥
सञ्जातहर्षा मुदिताः सूर्यप्रभाद्याः सर्वे एव ते।
स्वसैन्यमाययुः क्षिप्रं सुमेर्वास्पदमाश्रितम्॥२११॥
तत्रापृच्छत् सुनीतोऽथ तं सुवासकुमारकम्।
मुने सूर्यप्रभं हित्वा प्रभासः किं प्रवेशितः॥२१२॥