कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१२ कथासरित्सागर
१२ कथासरित्सागर
कृशीभूतोऽस्मि रजकस्यास्य भारं वहन् सदा।
इत्युक्तवन्तं च खरं तमुवाच स जम्बुकः ॥१३३॥
इह किं वहसि क्लेशमेहि त्वां प्रापयाम्यहम्।
वनं स्वगसुखं यत्र खरीभिः सह वर्धसे ॥१३४॥
तच्छ्रुत्वा स तथेत्युक्त्वा गर्दभो भोगलोलुपः।
वनं सिंहस्य तस्यागात्तेन गोमायुना सह ॥१३५॥
तं च दृष्ट्वैव तस्येत्य पृष्ठतो गर्दभस्य सः।
सिंहो ददौ कराघातं प्रागवैक्लव्यदुर्बलम् ॥१३६॥
स तेन वीक्षितस्त्रस्तः पलाय्य सहसा खरः।
आगच्छन्तं च तं सिंहोऽन्वपतद्विह्वलाकुलः ॥१३७॥
सिंहस्त्वसिद्धकार्यः स्वां त्वरितं प्राविशद् गुहाम्।
ततस्तं जम्बुको गन्त्री सोपालम्भमभाषत ॥१३८॥
न हतो गर्दभोऽप्येष पराक्रम्येत त्वया प्रभो।
हरिणादिवधे का सद्वात्ता तव भविष्यति ॥१३९॥
तच्छ्रुत्वा सोऽब्रवीत् सिंहो यथा वेत्सि तथा पुनः।
तमानय खरं तावत् सञ्जो भूत्वा निहन्म्यहम् ॥१४०॥
इति स प्रेषितस्तेन पुनः सिंहेन जम्बुकः।
गत्वा खरं तमवदद् विद्रुतं किं भवानिति ॥१४१॥
अहं सत्त्वेन केनापि ताडितोऽत्रेति वादिनम्।
तं च भूयः स गोमायुर्विहस्य खरमब्रवीत् ॥१४२॥
मिथ्यैव विभ्रमो दृष्टस्त्वया न त्वत्र तादृशम्।
सत्त्वमस्ति सुखं ह्यत्र वसाम्यहमपीदृशम् ॥१४३॥
तदेहाव मया साकं तन्निर्बाधिसुखं वनम्।
इति वञ्चनया मूढस्तत्रागात् स खरः पुनः ॥१४४॥
आगतं तं च दृष्ट्वैव स निर्गत्य गुहामुखात्।
निपत्य पृष्ठे व्यबधीदुपारिवारितं खरम् ॥१४५॥
निकृत्य गर्दभं तं च स्थापयित्वा च रक्षकम्।
तस्यै व जम्बुकं भ्रान्तं सिंहः स्नातुं जगाम सः ॥१४६॥
तत्कालं जम्बुकस्तस्य स मायावी खरस्य तत्।
भक्षयामास हृदयं कर्णौ पाप्यात्मतृप्तये ॥१४७॥