सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

७ ] प्रथमाध्याये तृतीयपादः ३५९
तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि
नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते ।
विरोधो नास्तीतिकथनं
यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना ।
अपि च—
शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता ।
सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम् ॥ ३०५
अतदङ्गेन हि तुल्यकक्ष्येण व्यवधानं भवति, न सर्वपदार्थेन ।
वेदं कृत्वा यदा वेदिमकृत्वाऽऽचामति क्षुते ।
वेदिमेव करोतीति स वक्तुं शक्यते तदा ॥ ३०६
वेदिरेव ह्यनाचम्य कुर्वतो विगुणी भवेत् ।
तामेव सगुणां कर्तुं शुद्ध्यै न व्यवधास्यते ॥ ३०७
इममेवार्थमभिप्रेत्य भाष्यकारेणोक्तं न चैवंजातीयका अर्थाः पदार्थानां व्यव-
धातारो भवन्तीति । इतरथा ह्यङ्गप्रधानार्थत्वेनाश्रीयमाणे शून्यहृदयवचन-
मेवैतत्स्यात् ।
तस्मादाचमनादीनां क्रतुभिः संग्रहे सति ।
पश्चात्प्राप्तक्रमेयत्ताकालशास्त्रविरोधिता ॥ ३०८
भाष्यकारोक्तोदाहरणाक्षेपः
नन्विदं यज्ञोपवीतमुदाहर्तव्यम् । दर्शपूर्णमासदिषु ‘उपव्ययते देवलक्ष्ममेव
तत्कुरुते (२-५-११) इति क्रत्वङ्गप्रत्यक्षविधानात् । तथा काठके चानारभ्यवाद-
विधिना सर्वयज्ञगतयजनयाजनसम्बन्धः, अध्यापनाध्ययनसम्बन्धश्च श्रूयते । प्रसृतेन
वै यज्ञेन देवा स्वर्गं लोकमायन्नप्रसृतेनासुरानपराभावयन् । प्रसृतो ह वै
यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनुपवीतिनो यद्वै किं च ब्राह्मणो यज्ञोपवीत्यधीते
यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्या
२-२—इति’
तथाऽऽचमनविधिरपि ‘दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचम्य,
द्विः परिमृज्य, दर्भाणां महदुपस्तीर्योपस्थं कृत्वा, प्राङ्मुख उपविश्य, स्वाध्यायम्-
धीयीत’ इति । यद्यपि ब्रह्मयज्ञप्रकरणे श्रूयते तथाऽपि वेदोच्चारणसंबन्धात्तद-
ङ्गत्वेनापि तावज्जायमानं सर्वयज्ञानां मन्त्रवत्प्रयोगित्वात्तदङ्गं भवति । तथा
च “न सोमेनोच्छिष्टा भवन्ति” इति प्राप्ताचमनप्रतिषेधार्थमेवावधार्यते ।

सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि

३६० मीमांसादर्शनम् [ सू०
दक्षिणाचारत्वं तु—
यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना ।
तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९
“यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये
देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्-
कायोग्यमित्यनुदाहरणानि । तस्मान्नैव तदधिकरणान्तरम् ।
वेदाविरुद्धशाक्यादिवचसामप्रामाण्यनिरूपणम् ।
सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
वेदविहितं न बाधते, शिष्टान्वा वेदविदो न कोपयति । विहाराराममण्डलकरण-
वैराग्य-ध्यानाभ्यासाऽहिंसा-सत्यवचन-दम-दान-दयादि, तद्बुद्धादिभाषितं प्रमाणे-
नाविरुद्धमिति चेत् ?
न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाऽष्टादश वा विद्यास्थानानि
धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि, वेदोपवेदाङ्गोपाङ्गाष्टादशधर्मसंहिता-
पुराणशास्त्रशिक्षा-दण्डनीतिसंज्ञकानि, । न च तेषां मध्ये बौद्धार्हतादिग्रन्थाः
स्मृताः गृहीता वा ।
प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् ।
यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥ ३१०
तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयम्, अन्यकविकृतं वा
श्लोकम्, सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यात् कश्चिदपि धर्मार्थं प्रतिपद्येत ।
वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ।
नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ ३११
तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः ।
वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥ ३१२
तथा च “मनोर्ऋचः सामिधेन्यो भवन्ति” इत्यस्य विधेर्वाक्यशेषे श्रूयते
“मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजतायै” इति प्रायश्चित्ताद्युपदेशवचनं
पापव्याधेर्भेषजम् ।
न वैतच्छ्रुतिसामान्यमात्रं नित्येऽपि संभवात् ।
यज्ञेऽध्वर्युँरिव ह्यस्ति मनुर्मन्वन्तरे सदा ॥३१३
प्रतिमन्वन्तरं चैवं १स्मृतिरन्या विधीयते ।
स्थिताश्च मनवो नित्यं कल्पे कल्पे चतुर्दश ॥ ३१४
१. श्रुतिरन्येति पाठः ।

७ ] प्रथमाध्याये तृतीयपादः ३६१
तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः ।
तदुक्तिज्ञापनाच्चेदो नानित्यऽतो भविष्यति ॥ ३१५
प्रतियज्ञं भवन्त्यन्ये सर्वदा षोडशर्त्विजः ।
आदिमत्त्वं च वेदस्य न तच्चरितबन्धनात् ॥ ३१६
उक्तं च—यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भाति युगादिषु ॥ इति । ३१७
इतिहासपुराणं च कृत्रिमत्वेन निश्चिते ।
यथाऽप्यकृत्रिमे वेदे तद्विद्यात्वेन संमतम् ॥ ३१८
एवं ह्युपनिषत्सूक्तम्—“ऋग्वेदं भगवोऽध्येमि, यजुर्वेदम्, सामवेदम्, अथर्ववेदं
चतुर्थमितिहासं पुराणं पञ्चमम्” (छा० उ० ७.१ इति) । तेन प्रतिकल्प-मन्वन्तर-
युगनियतनित्यऋषिनामाभिधेयकृत्रिमविद्यास्थानकारा ये वेदेऽपि मन्त्रार्थवादेषु
श्रूयन्ते, तत्प्रणीतान्येव विद्यास्थानानि धर्मज्ञानाङ्गत्वेन संमतानि । तथा च
ऋग्वेदादिविहितयज्ञाङ्गभ्रंशप्रायश्चित्तविशेषानभिधाय 'यज्ञविज्ञात इति ।' प्राय-
श्चित्तान्तरं विदधत् त्रैविद्यवृद्धस्मृतिविहितविनष्टोद्देशेनैव विदधातीति गम्यते ।
अन्यथा हि प्रत्यक्षवेदविहितं सर्वं विज्ञातमूलविशेषत्वादविज्ञातमूलत्वेनानभिधेय-
मेव स्यात् । यदि च स्मर्यमाणवेदमूलग्रन्थनिबन्धनानामविज्ञातवेदविशेषपूर्वकत्वे-
नापि स्थितानां प्रामाण्यं नाऽऽश्रीयेत, तथा सति नैवाविज्ञातमूलं किंचिद्यज्ञे क्रियत
इति, तद्विनष्टप्रायश्चित्तविधिर्नैवोपपद्येत ।
तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् ।
अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः ॥ ३१९
यथैवाऽन्यायविज्ञाताद्वेदाल्लेख्यादिपूर्वकात् ।
शूद्रेणाधिगताद्वापि धर्मज्ञानं न संमतम् ॥ ३२०
तथाऽतिक्रान्तवेदोक्तमर्यादाव्यवहारिणाम् ।
संवादिष्वपि वाक्येषु नेष्यते धर्महेतुता ॥ ३२१
स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतवः ।
कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति ॥ ३२२
यथा कृतककर्पूरसुवर्णादिषु दीयते ।
यद्वीजं तदपि व्यक्तमग्राह्यत्वात्प्रलीयते ॥ ३२३
तेन कर्मानुरूप्यसामान्यतो दृष्टार्थापत्तिबलात्तदभिप्रायकल्पितधर्माभासमध्य-
पतितं सन्मूलमप्यहिंसादि श्वदृतिनिक्षिप्तक्षीरवदनुपयोग्यविश्रम्भणीयं च ।
तन्मात्रोपलब्धं भवतीत्यवश्यम्, यावत्परिगणितधर्मशास्त्रेभ्यो नोपलभ्यते, तावद-
ग्राह्यं भवति ।

३६२ मीमांसादर्शनम् [ सू०
यदा शास्त्रान्तरेणैव सोऽर्थः स्पष्टोऽवधार्यते ।
तदा तेनैव सिद्धत्वादितरस्यादनर्थकम् ॥ ३२४
तस्माद्यावत्परिगणितवेदादिशाख्यव्यतिरिक्तनिबन्धनं तद्धर्मप्रमाणत्वेन नापे-
क्षितव्यमिति ।
सदाचारप्रामाण्याधिकरणम् ।
यत्त्वेतत् । ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’, इति । सूत्रम् ।
अत्र सदाचारानुदाहृत्य त्रिवर्गसिद्ध्यर्थं विचार्यते । तद्विपरीतसंकीर्णव्यव-
हारिषु शिष्टेष्वपथ्यकारिवैद्यातुरवद्विस्रम्भणीयचरितत्वात्संभाव्यमानवेदमूलत्वाच्च
धर्मसंशयं दर्शयित्वा “धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यम्” इति पूर्वः पक्षः
क्वचिच्च “विरोधे त्वनपेक्ष्यम्” इत्येतन्न्यायानुसारेण । सदाचारेषु हि दृष्टो
धर्मव्यतिक्रमः, साहसं च महतां प्रजापतीन्द्रवसिष्ठविश्वामित्रयुधिष्ठिरकृष्णद्वैपायन-
भीष्मधृतराष्ट्रवासुदेवार्जुनप्रभृतीनां बहूनामद्यतनानां च । प्रजापतेस्तावत्प्रजापति-
रुषसमभ्यैत्स्वां दुहितरमित्यगम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रमः । इन्द्र-
स्यापि तत्पदस्थस्य च नहुषस्य परदारानियोगाद्धर्मव्यतिक्रमः । तथा वसिष्ठस्य
पुत्रशोकार्तस्य जलप्रवेशात्मत्यागसाहसम् । विश्वामित्रस्य चाण्डालयाजनम् ।
वसिष्ठवत्पुरूरवसः प्रयोगः। कृष्णद्वैपायनस्य गृहीतनैष्ठिकब्रह्मचर्यस्य विचित्र-
वीर्यदारेष्वपत्योत्पादनप्रसङ्गः । भीष्मस्य च सर्वाश्रमधर्मव्यतिरेकेणावस्थानम् ।
अपत्नीकस्य च रामवत्क्रतुप्रयोगः । तथाऽन्धस्य धृतराष्ट्रस्येज्या पाण्डुवर्जितैर्ध-
नैरित्यनधिकृतक्रिया । तथा युधिष्ठिरस्य कनीयोऽर्जितभ्रातृजायापरिणयनमाचार्य-
ब्राह्मणवधार्थमनृतभाषणं च । वासुदेवार्जुनयोः प्रतिषिद्धमातुलदुहितृरुक्मिणी-
सुभद्रापरिणयनम्, उभौ मध्वासवक्षीबाविति सुरापानाचरणम् ।
अद्यतनानामाचाराक्षेपः
अद्यत्वेऽप्यहिच्छत्रमथुरानिवासिब्रााह्मणीनां सुरापानम् । केसर्यश्वाश्वतरखरो-
ष्ट्रोभयतोदद्वानप्रतिग्रहविक्रयव्यवहारभार्यापत्यमित्रसहभोजनाद्युदीच्यानाम् । मातृ-
लदुहितृद्वाहासान्दीस्थभोजनादीनि दाक्षिणात्यानाम् । मित्रस्वजनोच्छिष्टस्पृष्ट-
भोजनं सर्ववर्णपरस्परस्पृष्टताम्बूलादनतदवसानानाचमननिर्णेजकधौतगर्दभारूढ-
वस्त्रपरिधानब्रह्महत्यातिरिक्तमहापातककार्यपरिहरणादीन्युभयेषाम् । अतिस्थूलानि
प्रतिपुरुषजातिकुलावस्थितसूक्ष्मस्वधर्मव्यतिक्रमणानि त्वनन्तभेदानि सर्वत्र
विगानहेतुदर्शनानि च प्रायेणैव संभ्रन्तीति, नैवंजातीयकमिश्रसदाचारधर्मत्वा-
ध्यवसानसंभवः ।
किं च—के शिष्टा ये सदाचाराः सदाचाराश्च तत्कृताः ।
इतीतरेतराधीननिर्णयत्वादनिर्णयः ॥ ३२५

७ ] प्रथमाध्याये तृतीयपादः ३६३
आत्मतुष्टेः प्रामाण्याक्षेपः
ननु—सदाचारप्रमाणत्वं मन्वादिभिरपि स्मृतम् ।
आत्मतुष्टिः स्मृतान्यैस्तैर्धर्मे सा चानवस्थिता ॥ ३२६
यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयहीनक्रियानुष्ठायिनामात्मतुष्टिरपि
विचित्त्रैव भवति ।
तथा हि—कस्यचिज्जायते तुष्टिरशुभेऽपि हि कर्मणि ।
शाक्यस्येव कुहेतूक्तिर्वेदब्राह्मणदूषणे ॥ ३२७
तथा—पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः ।
तेभ्य एव हि यज्ञेभ्यः शाक्या क्रुध्यन्ति पीडिताः ॥ ३२८
तथा—शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः ।
स्वमातुलसुतां प्राप्य दाक्षिणात्यस्तु तुष्यति ॥ २२९
अन्ये तु सव्यलीकेन मनसा तन्न कुर्वते ।
ततश्चानवस्थितत्वाद्यथैवाऽऽत्मनस्तुष्टिरेव चेत्येतन्मनुवचनं कथमप्यन्यथा
नेतव्यम् । एवमाचारश्चैव साधूनामित्येतदपीति ।
स्वयमज्ञातमूलाश्च शिष्टाचारप्रमाणताम् ।
वदन्तोऽपि न शोभन्ते स्मृतिकारास्ततोऽधिकाः ॥ ३३०
स्मृतिकारवचनार्थो हि शिष्टैराचरितव्यः शिष्टत्वाय । अन्यथा हि तदनपेक्षाः
स्वातन्त्र्येण व्यवहरमाणा दुष्टा भवेयुः, न शिष्टाः ।
न च तेषां श्रुतिमूलं व्यवहारस्य दृश्यते ।
यदि च स्यात्परोक्षाऽपि स्मर्येतैव ह्यसौ ध्रुवम् ॥ ३३१
तस्मान्निर्मूलत्वादपेक्षाणि शिष्टाचरणानीति प्राप्ते ।
सिद्धान्तः
अभिधीयते—“अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ।”
दृष्टकारणहीनानि यानि कर्माणि साधुभिः ।
प्रयुक्तानि प्रतीयेरन्धर्मत्वेनेह तान्यपि ॥ ३३२
शरीरस्थितये यानि सुखार्थं वा प्रयुञ्जते ।
अर्थार्थं वा न तेष्वस्ति शिष्टानामेव धर्मधीः ॥ ३३३
धर्मत्वेन प्रपन्नानि शिष्टैर्यानि तु कानिचित् ।
वैदिकैः कर्तृसामान्यात्तेषां धर्मत्वमिष्यते ॥ ३३४

३६४ मीमांसादर्शनम् [ सू०
प्रदानानि जपो होमो मातृयज्ञादयस्तथा ।
शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५
कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः ।
प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६
अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया-
प्रमाणं न शास्त्रादृते किंचिदस्ति ।
स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः
प्रमाणमिति (आपस्तम्ब-धर्म-सूत्रम्), वेदाविरुद्धानामाचाराणां सामान्यतः
प्रामाण्यमनुमन्यन्ते । तथाऽनध्यायाधिकार ऊर्ध्वं भोजनादुत्सव इति देशनगरोत्सव-
प्रामाण्याश्रयणम् । वेदेऽपि च महाव्रते प्रेङ्खमारुह्य होता शंसतीत्येतद्वाक्यशेषे
श्रूयते । यदा वै प्रजा मह आविशन्ति, प्रेङ्खं तह्र्यारोहन्तीति । महःशब्द-
वाच्योत्सवप्रसिद्धिरनूदिता ।
यत्तु परिमितशास्त्रप्रमेयत्वादद्धर्माधर्मयोरिह च तदसंभवादित्युक्तम् । तद्वेद-
मूलत्वानुमानात्पूर्ववदेव प्रत्याख्येयम् । न च स्मृतिर्निर्मूला, विस्तरवचनानामपि
प्रपाठकमात्रेणोपसंहारात्, किमुत संक्षेपवचनस्य । शक्यं च स्मृत्यनुरूपमेव वेद-
वचनमनुमातुम् ।
तथा हि—शिष्टैराचर्यमाणानां सतां गोदोहनादिवत् ।
फलसंबन्धमप्राप्तं बोधयच्छास्त्रमर्थवत् ॥ ३३७
न हि तदेवैकं शास्त्रप्रमाणकम्, यस्य स्वरूपमपि तत एवावगन्तव्यम् । अनेका-
कारस्य हि प्रमेयस्य कश्चिदेवाऽऽकारः केनचित्प्रमाणेन् प्रमीयते । तत्र प्रत्य-
क्षाद्यवगतेऽप्याचारस्वरूपे दधिगोदोहनादिवत्फलसंबन्धः शास्त्रेणावगम्यते । यागा-
दिष्वपि च नैवं स्वरूपज्ञानेन शास्त्रमपेक्षितम्, फलसंबन्धमात्रस्यैवातीन्द्रियत्वेन
तदपेक्षितत्वात् । अतो न नामोपलक्षणमन्तरेण शास्त्रं प्रवृत्तमुपलभ्य शिष्टाः
प्रवृत्ताः सर्वकालं तु शिष्टव्यवहार-शास्त्रयोरवियोगाद् व्यवहारादेवोद्धृत्य केचि-
त्स्वर्गादिसाधनत्वेन नियम्यमानः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञा-
यन्ते । तेषां चाऽऽर्यावर्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षणं वेदेनापि सरस्वतीवि-
नशनप्लक्षप्रस्रवणादिवदुपात्तमिति शक्यमनुमातुम् ।
अन्योन्याश्रयत्वशङ्कानिरासौ
ननु शास्त्रार्थकारित्वाच्छिष्टत्वं गम्यते यदा ।
शिष्टत्वेन च शास्त्रोक्तिरित्यन्योन्याश्रयं भवेत् ॥ ३३८
नैव तेषां सदाचारनिमित्ता शिष्टता मता ।
साक्षाद्विहितकारित्वाच्छिष्टत्वे सति तद्वचः ॥ ३३९

७ ] प्रथमाध्याये तृतीयपादः ३६५
प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि
धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव।
तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः।
पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४०
तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः। स्मृति-
रप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः।
यत्तु हेत्वन्तरं दृष्ट्वा वेदमूलनिवारणम्।
प्रत्यक्षवेदमूलेऽपि तद् दृष्टैस्तदकारणम् ॥ ३४१
वेदेऽपि हि बहून्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्त इति, न तावता वेदमू-
लत्वाभावः।
यानि तु म्लेच्छादिसमानानि नियतानियताक्रियान्तराण्यर्थसुखसाधनकृषि-
सेवा-वाणिज्यादीनि मिष्टान्नपान-मृदुशयनासनरमणीयगृहोद्यानालेख्यगीतनृत्यगन्ध-
पुष्पादिकर्माणि प्रसिद्धानि, तेषु नैव कस्यचिद्धर्मत्वाशङ्काऽस्तीति न तत्सा-
मान्पतोदृष्टेनेतरनिराक्रियोपपत्तिः। केषांचिद्वा धर्मत्वाभ्युपगमान्न सर्वेषामेव
तत्प्रसङ्गः।
किं तु—देवब्राह्मणपूजादि यत्तेषामपि किंचन।
तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् ॥ ३४२
लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यते।
कश्चित्तु प्राणिसामान्यप्राप्तस्तैरपि संगतः ॥ ३४३
तत्र यः कार्यरूपेण शिष्टानेवानुवर्तते।
स एव केवलो धर्मो नेतरः प्राणिमात्रगः ॥ ३४४
आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम्
एतेन वैदिकानन्तधर्मधीसंस्कृतात्मनाम्।
आत्मतुष्टेः प्रमाणत्वं प्रसिद्धं धर्मशुद्धये ॥ ३४५
तथैव बहुकालाभ्यस्तवेदतदर्थज्ञानाहितसंस्काराणां वेदनियतमार्गानुसारि-
प्रतिभानां नोन्मार्गेण प्रतिभातं संभवतीत्याश्रित्योच्यते—“यदेव किंचनानूचा-
नोऽभ्यूहत्यार्षं तद्भवतीति”। वैदिकवासनाजनितत्वाद् वेद एव स भवति।
आत्मतुष्टेः प्रामाण्योपसंहारः
तथा हि-यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ।
यज्जायते तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ॥ ३४६

१६६ मीमांसादर्शनम् [ सू०
एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविभिनिरूपितम् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ इति । ३४७
अनेकैर्दृष्टांन्तरैरात्मतुष्टेः प्रामाण्यसमर्थनम्,
बहुदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथंचिद्धर्मकरणरूपात्मतुष्टिरन्यत्र
संभवतीति, धर्मत्वेनाभ्यनुज्ञायते ।
यद्वा शिष्टात्मतुष्टीनां वचनादेव धर्मता ।
पुण्यकृद्ध्यानवत्तस्मादाचारेष्वपि सा तथा ॥ ३४८
तथा वा वरदानादौ देवताराधनोद्भवे ।
तद्वक्ष्यसि स मन्त्रस्ते विषघ्न इति मन्त्रिते ॥ ३४९
लोकः स्मरति तं मन्त्रं विषापहरणादिषु ।
तथा वा सर्पसिद्धान्ते नकुलो यां किलौषधिम् ॥ ३५०
दन्तैर्गृह्णाति तामाहुः समस्तविषहारिणीम् ।
यथा वा यां भुवं कश्चिदध्यावसति पुण्यकृत् ॥ २५१
तत्संपर्कपवित्रत्वात्सेव्यते पुण्यकारणम् ।
तथाऽऽचारात्मतुष्ट्यादिधर्म्मं धर्ममयात्मनाम् ॥३५२
वेदोक्तमिति निश्चित्य ग्राह्यं धर्मबुभुत्सुभिः ॥ ३५३ इति ।
पूर्वपक्षे उदाहृतानां क्रमेण परिहारवर्णनम्
यत्तु प्रजापतिरुषसमभ्यैत्स्वां दुहितरमहल्यायां मैत्रेय्यामिन्द्रो जार आसी-
दित्येवमादिदर्शनादितिहासदर्शनाच्च शिष्टाचारेषु धर्मातिक्रमं पश्यद्भिः शिष्टाचार-
प्रामाण्यं दुरध्यवसानमिति ।
तत्रोच्यते—
श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति ।
मनुष्यप्रतिषेधाद्वा तेजोबलवशेन वा ॥ ३५४
यथा वा न विरुद्धत्वं तथा तद्गमयिष्यति ॥ ३५५
प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्यते । स चारुणोदयवे-
लायामुषमुद्यन्नभ्येत्, सा तदागमादेवोपजायत इति, तद्दुहितृत्वेन व्यपदिश्यते ।
तस्यां चारुणकिरणाख्यबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचारः । एवं समस्ततेजाः
परमेश्वर्यनिमित्तेन्द्रशब्दवाच्यः सवितैवाऽहनि लीयमानतया रात्रेरहल्याशब्द-
वाच्यायाः क्षयात्मकजरणहेतुत्वाज्जीर्यत्यस्मादनेनैवोदितेनेत्यादित्य एवाहल्याजार
इत्युच्यते । न तु परस्त्रीव्यभिचारात् ।

७ ] प्रथमाध्याये तृतीयपादः ३६७
नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा-
चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा-
वासप्रभावलाभः ख्यात एव ।
वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् ।
तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६
यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु
काम-क्रोध-लोभ-मोह-शोकादिहेतुत्वेनोपलभ्यते, स यथाविधि-प्रतिषेधं वर्तिष्यते ।
ते । विश्वामित्रस्यापि यद्रागद्वेषपूर्वकमपि तपोबलारूढस्य चरितम्, तत् सर्वं बलवतः
पथ्यमित्यनेन न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तरकालं वा
पापविशुद्धिं प्रायश्चित्तैः प्रतिकुर्वाणस्य जीर्यत्यपि । मन्दतपसां गजेरिव महावट-
काष्ठादिभक्षणमात्मविनाशायैव स्यात् ।
द्वैपायनस्यापि, “गुरुनियोगादपतिरपत्यलिप्सुर्देवराद् गुरुप्रेरितादृतुमतीयात्”
इत्येवमागमान्मातृसंबन्धभ्रातृजायापुत्रजननं प्राक्कृत-पश्चात्करिष्यमाणतपोबलेन
नातिदुष्करम् । अन्योऽपि यस्तादृक्कृतपोबलो निर्वहेत् स कुर्यादेव ।
रामभीष्मयोस्तु स्नेहपितृभक्तिवशात् विद्यमानधर्ममात्रार्थदारयोरेवं साक्षाद्-
व्यवहितापत्यकृतपितृऋण्योपयोगसिद्धिः, हिरण्मयसीताकरणं लोकापवादभिया
त्यक्तसीतागतानृशंस्याभावशङ्कानिवृत्त्यर्थम् ।
भीष्मश्च— भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वे तेनैव पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ३५७
इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपितृनॄणत्वः केवलयज्ञार्थपत्नीसंबन्ध आसी-
दित्यर्थापत्त्यानुक्तमपि गम्यते ।
यो वा पिण्डं पितुः पाणौ विज्ञातेऽपि न दत्तवान् ।
शास्त्रातिक्रमाद्भीतो यजेतैकाक्यसौ कथम् ॥ ३५८
धृतराष्ट्रोऽपि व्यासानुग्रहादाश्चर्यपर्वणि पुत्रदर्शनवत्क्रतुकालेऽपि दृष्टवानेव ।
शापानुग्रहसमर्था महर्षयः श्रूयन्ते । तद्यथैव तद्वचनादसावन्धो जातो विज्ञायते,
तथा यज्ञानुष्ठानवचनात्तावति काले दृष्टवानित्यर्थापत्त्या सुज्ञानम् ।
यद्वा, “यजदेवपूजासंगति करणदानेषु” इति दानार्थ एवायं यजिर्भविष्यति ।
ऋतुफलसमानि च दानतपश्चरणादीन्यपि श्रूयन्ते । तत्कारणात्क्रतुक्रियोपचारः ।
या चोक्ता पाण्डुपुत्राणामेकपत्नीविरुद्धता ।
साऽपि द्वैपायनेनैव व्युत्पाद्य प्रतिपादिता ॥ ३५९
योवनस्थैव कृष्णा हि वेदिमध्यात्समुत्थिता ।
सा च श्रीः श्रीश्च भूयोभिर्भुज्यमाना न दुष्यति ॥ ३६०

१९८ मीमांसादर्शनम् [ सू०
अत एव चोक्तम्—
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः ।
महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति ।
न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन
कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं
प्रमाणभूतः सन्नेवं वदेत् ।
अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य एकत्वेनोपचरिता इति व्यव-
हारार्थपत्त्या गम्यते ।
यद्वा नार्जुनस्यैव केवलस्य भविष्यति ।
साधारणा प्रसिद्धिस्तु निश्छिद्रत्वाय दर्शिता ॥ ३६१
यथा युधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव रजस्वलावेषं सुपुत्रकस्य
धृतराष्ट्रस्यायश उत्पादयितुमात्मानं प्रख्यापयितुं द्रौपदी कृतवती, तथैव केवला-
र्जुनभार्याया एव सत्याः श्रीत्वं च जनेनाविदितं परस्परं संघाताविशयं च
भेदप्रयोगानवकाशार्थं दर्शयितुम्, साधारण्यप्रख्यापनमित्येवमादिविकल्पैः सुपरि-
हरत्वाद्रागलोभकृतव्यवहारस्य च शिष्टैरेव धर्मत्वेनापरिग्रहस्योक्तत्वादनुपालम्भः ।
तथा द्रोणवधाऽङ्गभूतानृतवादे ‘प्रायश्चित्तं कामकृतेऽप्येक’ इत्येवमन्तेऽप्यश्व-
मेधः प्रायश्चित्तत्वेन कृत एवेति, न तस्य सदाचारत्वाभ्युपगमः ।
यत्तु वासुदेवार्जुनयोर्मद्यपान-मातुलदुहितृपरिणयनं स्मृतिविरुद्धमुपन्यस्तम्,
तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः ।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत ॥ इति । ३६२
मधु-सीध्वोस्तु क्षत्रियवैश्ययोर्नैव प्रतिषेधः, केवलब्राह्मणविषयत्वात्, मद्यं
ब्राह्मणस्य’ इति वचनात् ।
यदप्येतत्—गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥ इति । ३६३
एतदपि ब्रह्मवादिशब्दस्य तच्छील-तद्धर्म-तत्साधुकारित्वनिमित्तत्वात्प्रवचना-
श्रयणेन ब्रूञ्वदत्योरेकार्थत्वात्प्रब्रूयाद् ब्राह्मणस्त्वेवामिति नियमाद्यस्यैव प्रवचनम्,
स एव तच्छीलः तद्धर्मः तत्साधुकारो वा भवति । तस्माद् ब्राह्मणा एव ब्रह्म-
वादिनः । तथा च मद्यसामान्यप्रतिषेधाऽङ्गनिन्दार्थवादेऽभिहितम् ।
अकार्यमन्यत्कुर्याद्धि ब्राह्मणो मदमोहितः ॥ इति ।

७ ] प्रथमाध्याये तृतीयपादः १६९
सुरानिषेधे उक्तस्यार्थस्य संक्षेपः
तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि-
भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव
स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य-
विरुद्धम् ।
लिङ्गोपन्यासः
तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । 'यन्माल्यमासीत्तत्पश्चात्पर्याहृत,
सुरा वै माल्यम्, ततो राजन्यमसजत, तस्माज्ज्वायाइच स्नुषा च श्वशुरश्च
सुरां पीत्वा विलपन्तश्चाऽऽसते । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न
पिबेत्पाप्मना न संसृज्या इति, तदेतदेतल्लक्षत्क्षत्रियो ब्राह्मणं ब्रूयान्नैनं सुरा पीता
हिनस्ति, य एवं विद्वान्सुरां पिबति' इति । मधुसीधुविवक्षयैतत् ।
मातुलदुहितृपरिणयस्य समाधानम्
यत्तु मातुलदुहितृपरिणयनं तयोस्तन्मातृष्वस्त्रीयादिसम्बन्धव्यवधानेऽपि
भ्रात्रादिव्यवहारादविरुद्धम् । यद्यपि वासुदेवस्वसेति सुभद्रा ख्याता, तथाऽप्युत्पत्तौ
वलदेववासुदेवयोरेकानशायाश्च निजत्वान्वाख्यानान्मातृष्वस्त्रीया सुभद्रा तस्य
मातृपितृष्वस्त्रीया दुहिता वेति परिणयनाभ्यनुज्ञानद्विज्ञायते ।
वासुदेवाङ्गजाया च कौन्तेयस्य विरुध्यते ।
न तु व्यवेतसम्बन्धमभवे तद्विरुद्धता ॥ ३६४
येन ह्यन्यत्रैवमुक्तम्—
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ३६५
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति ।
स कथं सर्वलोकादर्शभूतः सन् विरुद्धमाचारं प्रवर्तयिष्यति । एतेन रुक्मिणी-
परिणयनं व्याख्यातम् ।
आधुनिकानामापरिहारोपपादनम्
यत्त्वद्यतनानामाहिच्छत्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां
मातुलदुहितृविवाहादि स्मृतिविरुद्धमुपन्यस्तम् ।
तत्र केचित्तावदाहुः । स्मृत्याचारयोरितरेतरनिरपेक्षवेदमूलत्वेन तुल्यबल-
त्वाद्द्विहितप्रतिषिद्धविकल्पानुष्ठानाश्रयणाददोष इति । तत्त वक्ष्यमाणबलाबल-
विभागादयुक्तम् ।
२४

३७० : मीमांसादर्शनम् [ सू०
अन्ये त्वेवमाहुः—
सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया ।
आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६
येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।
त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७
तथा मनुनाऽप्युक्तम्—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥ ३६८
येषां तु यः पित्रादिभिरेवार्थो नाऽऽचरितः स्मृत्यन्तरप्रतिषिद्धश्च ते तं परि-
हरन्त्येव । अपरिहन्तो वा स्वजनादिभिः परिह्रियन्ते । ननु गौतमेनाऽऽम्नाय-
विरुद्धानामाचाराणामप्रमाण्यमुक्तम् ।
आह—
यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता ।
स्मृतिराम्नायशब्देन न तु वेदवदुच्यते ॥ ३६९
न त्वेतदपि युक्तं स्मृतिग्रन्थेऽप्याम्नायशब्दप्रयोगात् । स्मार्तधर्माधिकारे हि
शङ्खलिखिताभ्यामुक्तम् 'आम्नायः स्मृतिधारकः' इति । ग्रन्थकारगतायाः स्मृते-
स्तत्कृतग्रन्थाम्नायः स्मृतिग्रन्थाध्यायिनां स्मृतिधारणार्थत्वेनोक्तः । ततश्च
मन्वादिवाक्यप्रतिषिद्धाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं तु
बौधायनेन स्मृतिविरुद्धदुष्टाचारोदाहरणान्येव प्रयच्छता निराकृतम् । दृष्टका-
मादिहेत्वन्तरदर्शनान्न विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वोपपत्तिः ।
आह केन वा ब्राह्मणीनां सुरापानं प्रतिषिद्धम् ?
उच्यते—तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इत्यनेन
पुंलिंगस्य विवक्षा अस्मिन्न वेति विचारः
ननु पुंलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते ।
सुरापानमतो नात्र स्मृत्याचारविरुद्धता ॥ ३७०
उच्यते—हननप्रतिषेधेऽपि भवेत्पुंस्त्वं विवक्षितम् ।
तथा पुंस्त्ववदेकत्वविवक्षाऽपि प्रसज्यते ॥ ३७१
अहत्वा कंचिदेकैकं ततश्च स्यात्कृतार्थता ।
एकेन च सुरापानेऽवर्जिते पूर्ववद्भवेत् ॥ ३७२
आह यत्तावदेकत्वविवक्षागतमुच्यते ।
प्रत्येकव्यक्तिसंबन्धाज्जातेर्वा तन्न दुष्यति ॥ ३७३

७ ] प्रथमाध्याये तृतीयपादः ३७१
एकैकस्या एव हि ब्राह्मणव्यक्तेर्यथाप्रसक्तवधपानयोः प्रतिषेधात् । विवक्ष्य-
माणमपि तावदनूद्यमानत्वादन्नक्रियाविशेषणं वा संभवति, किमुत यदा जातिगते-
कत्वानुवाद एवायं विज्ञायते । आह । हननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्य-
मानत्वात्सुरापाने च कर्तृत्वेनोपादीयमानत्वात्स्वर्गकामोदुम्बरीसमानार्थयजमान-
वत्तुल्यविवक्षाविवक्षयोरप्रसङ्गादुदाहरणवैषम्यम् ।
तथा हि—यो ब्राह्मण इति ह्यक्ते हननप्रतिषेधतः ।
ब्राह्मणे प्रतिषेधे वा लिङ्गं नान्यद्विधीयते ॥ ३७४
प्रतिषेधविधिपरो हि विधायकः शुद्धवधप्रतिषेधासंभवाद् ब्राह्मणजातिमात्र-
विशिष्टवधप्रतिषेधं विधाय निवृत्तव्यापारो यदि लिङ्गमपरं ब्राह्मणे वधे प्रतिषेधं
वा विदध्यात्, ततः प्रत्ययावृत्तिलक्षणवाक्यभेदप्रसङ्गः ।
विधिप्रतिषेधयोर्नामात्यन्तभेद इति वादिनां मतम्
येषां तु विधिप्रतिषेधौ नामात्यन्तभिन्नौ वेदवाक्यार्थी, तेषां प्रत्ययसम्बन्धानु-
गृहीतशक्तिरभावमात्रामिधानादभ्यधिकलब्धव्यापारो नञ्विध्यर्थमपि द्वेषार्थप्राप्तं
पूर्वोक्तन्यायविवक्षितब्राह्मणविशिष्टहननाविशिष्टं चानूदितं प्रतिषिध्य चरितार्थो न
लिङ्गमपरं ब्राह्मणवधविधिषु शक्नोत्यनावर्तमानः प्रतिषेद्धुमिति, श्रूयमाणमपि
लिङ्गप्रतिषेधं प्रत्यनुपयुज्यमानत्वादविवक्षितं भवति ।
मतभेदेन वाक्यार्थवर्णनम्
एषा ह्यत्र वचनव्यक्तिर्यत्—क्रोधादिवशेन ब्राह्मणं हन्यात्, ब्राह्मणो वा
हन्तव्यस्तन्नेति । विध्येकत्वपक्षे पुनरीदृशी वाक्ययोजना—यद ब्राह्मणहननं तन्न
कुर्यादिति, यो वा ब्राह्मणस्तं न हन्यादिति ब्राह्मणविशिष्टहननप्रतिषेधविधिः
शुद्धोदिदृष्टब्राह्मणविषयवधप्रतिषेधविधिर्वेति ।
सर्वथा ब्राह्मणोद्देशान्नेह मुच्यामहे वयम् ।
न चोद्दिष्टस्य शक्येते लिङ्गसंख्ये विवक्षितुम् ॥ ३७५
ब्राह्मणः सुरां न पिबेत्, न पेया ब्रह्मवादिभिरिति निमित्त-देश-काल-फल-
संस्कार्यार्नुपादेयपञ्चकव्यतिरेकादेकत्राऽऽख्यातप्रत्ययोपात्तगुणीभूतोपादीयमानसँ-
ख्यापरिच्छेद्यत्वयोग्यसाधनांशविशेषणत्वेनोपादानात्, इतरत्र च तृतीयाविभक्ति-
श्रुतिवचनं विवक्षितलिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् ।
अतश्चाप्रतिषिद्धत्वान्नैव स्त्रीणां विरुध्यते ।
सुरापानमहिच्छत्रब्राह्मण्यस्तेन कुर्वते ॥ ३७६

३७२ मीमांसादर्शनम् [ सू०
उद्देश्यविशेषणस्याविवक्षोपपादनम्
नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते ।
ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७
नोपादेयत्वमेवैकं कारणत्वेन संमतम् ।
विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८
अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते ।
तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९,
यदि हि ब्राह्मणः सुरां पिवेदित्ययमवान्तरवाक्यार्थः प्राक्प्रतिषेधसम्बन्धा-
द्विधिबुद्धिमवस्थापयेत् ततो गुणत्वोपादेयत्वविधिसमवायान्न ब्राह्मणपदे किंचिद-
विवक्षितं नाम स्यात् ।
यतस्तु रागमोहादेः सुरापानं प्रसज्यते ।
ब्राह्मणादेरतस्तस्मिन्न कश्चिद्विधिसंभवः ॥ ३८०
प्रतिषेधोपसंहारिमहावाक्यतिरस्कृता ।
नावान्तरविधेः शक्तिः प्रादुरस्ति कथंचन ॥ ३८१
तेनेहापि यत्सुरां ब्राह्मणः पिबेन्नेति वा वचनं व्यज्यते । यो ब्राह्मणः स
न सुरां पिबेदिति वा सुराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्या-
वृत्त्या ब्राह्मणोऽनुगृह्यत इति, नास्य पानं प्रतिषेधं वा प्रतिविधेयत्वोपपत्तिः ।
लोके चैतद्यथाप्राप्तं पानं स्त्रीपुंसकर्तृकम् ।
प्रतिषेधपरे वाक्ये तदवस्थमनूद्यते ॥ ३८२
न च भो ब्राह्मणः पिबेदित्यनूदितम् । स च पुमानिति विधिव्यापाराद्विना
लिङ्गविवक्षाऽत्रकल्पते ।
न चास्य लिङ्गसंबन्धः केवलः संनिधीयते ।
न पानप्रतिषेधाद्धि विधिरन्यत्र गच्छति ॥ ३८३
ततश्चोभयत्राप्यविवक्षितलिङ्गसंख्यत्वं सिद्धम् ।
नन्वेवं सति ब्राह्मणस्त्रीवधेऽपि पुंब्राह्मणवधवद् ब्रह्महत्याऽस्तीति, यदात्रेयीया-
मेव केवलायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते ।
उच्यते—ब्राह्मणस्त्रीवधे को वा ब्रह्महत्यां निषेधति ।
प्रायश्चित्तान्तरे तस्या स्त्रीत्वमात्रनिबन्धनम् ॥ ३८४
न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते, पुंवधेऽपि लघुतर-
प्रायश्चित्तविधिदर्शनेन ब्रह्महत्यादोषाभावप्रसङ्गात्, तस्मान्न वाचनिकप्रायश्चित्ता-

७ ] प्रथमाध्याये तृतीयपादः ३७३
ल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशङ्कितव्यम् । सुरापाने पुनः प्रायश्चित्त-
विशेषोऽपि न कश्चिदाम्नात इति, दूरादपाकृतत्वादस्त्येवास्य स्मृत्या सह
विरोधः । याऽपि चाऽऽपस्तम्बस्मृतिवचनात्तुल्यबलत्वाशङ्का भवेत् साऽपि ।
“तस्माद् ब्राह्मणः सुरां न पिबति” इत्येतेन प्रत्यक्षश्रुतिविधिना निराकृतेति नेवं-
विधाचारप्रामाण्यमाशङ्कितव्यम् ।
इति वार्त्तिकमतेन सदाचारप्रामाण्याधिकरणम्
अथ वा सदाचारप्रमाणत्वप्रतिपादनार्थं सूत्रद्वयेनाप्येतदेकमधिकरणं व्याख्या-
तव्यम् । इह यावन्ति कृष्णमृगसंचारगोपलक्षितार्यावर्त्तनिवासिचतुर्वर्ण्याचरणानि
तान्युदाहृत्य चिन्त्यते--
धर्मबुद्ध्या यदार्याणां चरित्रमुपलभ्यते ।
किं तथैव प्रमाणं तदथ वा निष्प्रमाणकम् ॥ ३८५ इति ।
कुतः संशयः ?
उच्यते—स्मृतिवत्कर्तृसामान्यात्प्रमाणत्वेन गम्यते ।
अनिबन्धनतायास्तु भवेदप्यप्रमाणकम् ॥ ३८६
ननु च स्मृतिकारैरेवैतत्प्रामाण्यमभ्युपगतं “तद्विदां च स्मृतिशीले”
“आचारश्चैव साधूनाम्” “यस्मिन्देशे य आचारः स सदाचार उच्यते” । अतश्च
तत्प्रामाण्यादेव सिद्धम् । न । मूलाभावाहेतुदर्शनातिरेकात् । शाखान्तरगतवेद-
वाक्यदर्शनमूलानि हि स्मरणोपनिबन्धनानि प्रमाणत्वेनाऽधिगतानि ।
ननु सदाचारदर्शनात्तन्मूलमात्रप्रवृत्तस्मरणानां मूलान्तरानुमानसभवः ।
यथैव च वयं तेषां द्रष्टारः केवलं तथा ।
स्मृतिकारास्ततो नैषां गम्यते मूलदर्शनम् ॥ ३८७
यदि हि तैर्मूलान्यश्रोष्यन्त ततो यथैवान्यानि स्मरणानि निबद्धानि, तथैवै-
तान्यपि निबद्धान्येवाभविष्यन्नतस्तु स्वयमुपलब्धानुरूपमनिबध्य परप्रत्ययेनैव
सदाचाराः प्रमाणमित्याहुः । अतो न दृष्टमूलत्वेनाध्यवसातुं शक्यमिति विचा-
र्यते । तत्र पूर्वाधिकरणद्वयबलेन प्रामाण्यं प्रतिज्ञायते, कर्तृसामान्याद्विधिस्मृतिवि-
रोधरहितत्वाच्च ।
न हि केचित्सदाचाराः श्रौतस्मार्तविरोधिनः ।
अतस्तुल्यकारित्वात्प्रामाण्येनावधारिताः ॥ ३८८
स्मृतिकाराभ्यनुज्ञानं महदन्यच्च कारणम् ।
तेषामज्ञातमूलानां न ह्यनुज्ञोपपद्यते ॥ ३८९ इति ।

३७४ मीमांसादर्शनम् [ सू०
तदपाकुर्वन्नाह—
न शास्त्रपरिमाणत्वादधर्माधर्मस्थितेरमी ।
शिष्टाचाराः प्रमाणत्वं लभन्ते शब्दवर्जिताः ॥ ३९०
शास्त्रपरिमेयत्वं तावत्परिमाणशब्दवाच्यं धर्माधर्मयोरवस्थितम्, परिमितानि
च शास्त्राणि वेदोपवेदादीनि । न च तेषां मध्ये सदाचारशास्त्रं किंचिदस्ति । न च
सदाचारः स्वयमेव शास्त्रम् । नापि तद्दर्शनम्, अनुष्ठानं वा, अत्यन्तपरायत्त-
त्वात्प्रमेयत्वाच्च । स्मृतेस्त्वेतद्विषायाया निर्मूलत्वमुक्तमेव ।
किं च मूलं भवेदेकमनेकमिति चिन्तिते ।
नैव द्विविधमित्येतदनुमातुं हि शक्यते ॥ ३९१
न तावद्देशजातिकुलभेदाद्भिन्नानामपरिमितस्वरूपाणामनेक श्रुतिमूलत्वम् ।
न हीदृशी श्रुतिर्यं तान् सर्वाचारान् ग्रहीष्यति ।
शब्दाभिधेययोस्तेषां व्यक्त्याकृत्योरसंभवात् ॥ ३९२
यावदाचारं हि वेदवाक्यानि कल्पयतां वेद एवैकः कल्पयितव्यः । एकस्य
तु वाक्यस्य नैव कस्यचिदपरिमिताचारविधायित्वमवकल्पते । यत आचाराः प्रव-
र्तेरन् । न च धर्मसूत्रकारैस्तदेव दृष्ट्वाऽऽचार-प्रामाण्यमुपनिबद्धम् । शेष-धर्मस्मृति-
वाक्यतुल्यनिबन्धनप्रसङ्गात् न ऽऽचारदर्शनोत्तरकालप्रवृत्ता स्मृतिस्तेषां मूलं
भवति । मूलमूलिबलाबलबिपर्ययप्रसङ्गात् ।
अतः परिमितं शास्त्रमनुमातुं यतोऽर्हति ।
नाऽऽचाराणां च तन्मूलं बहूनामित्यमूलता ॥ ३९३
न च स्मृतिस्वरूपाऽपि श्रुतिरत्रानुमीयते ।
आचाराणामतत्पूर्वप्रसङ्गात्सविपर्ययात् ॥ ३९४
शिष्टाचारः प्रमाणमिति हि श्रुतावनुमीयमानायामाचारः प्रथमं सिद्धो
भवेत्तत्पूर्विका श्रुतिः ।
न त्वाचारस्य सा मूलमिति निर्मूलता पुनः ।
शास्त्रपरिमाणत्वादिति वा परिमिते ह्यर्थे शास्त्रं प्रवर्तेत । अपरिमितत्वा-
दाचाराणामुच्छास्त्रत्वमिति ।
परिमितार्थविषयत्वाद्वा शास्त्रस्य, 'अप्राप्ते शास्त्रमर्थवत्' जै. सू. (६।२।४)
इति ।
दृश्यमानान्यहेतुत्वान्नात्र शास्त्रप्रमाणता ।
तस्मादर्थसुखाङ्गत्वान्नाऽऽचारेष्वस्ति धर्मता ॥ ३९५

७ ] प्रथमाध्याये तृतीयपादः ३७५
वैश्यानां सेवकानां वा वैद्यानां नगरेषु वा ।
चरित्राणां यथा चार्थसुखाङ्गत्वं तथाऽस्त्विह ॥ ३९६
तस्माच्छ्रुतिस्मृती एव प्रमाणे धर्मगोचरे ।
शीलाचारात्मतुष्टीनां गोष्ठीहास्यादितुल्यता ॥ ३९७
इति द्वितीयं वर्णकम्
अथ तृतीयं वर्णकम्
यद्वा सूत्रत्रयेणाप्येतदेवाधिकरणं व्याख्यातव्यम् । इहाऽऽर्यावर्तनिवासि-
शिष्टाचारानेवोदाहृत्य पूर्ववत्प्रामाण्याप्रामाण्यसन्देहे शिष्टाकोपेऽविरुद्धमिति सिद्धा-
न्तस्तावदुपक्रम्यते ।
तथा हि—शिष्टं यावच्छ्रुतिस्मृत्योस्तेन यन्न विरुध्यते ।
तच्छिष्टाचरणं धर्मे प्रमाणत्वेन गम्यते ॥ ३९८
यदि शिष्टस्य कोपः स्याद्विरुध्येत प्रमाणता ।
तदकोपात्तु नाऽऽचारप्रमाणत्वं विरुध्यते ॥ ३९९
( इति वर्णकतादिसहितं शिष्टाकोपाधिकरणम् ॥ ७ ॥ )
न्या० सु०—सूत्रमवधिद्वयेन पूर्वपक्षनिराकरणार्थतयाऽवतारयति—तदुच्यत इति । पूर्वं-
पक्षोक्तविरोधाङ्गीकरणेन प्रमाणबलावलात् प्रमेयबलाबलबलीयस्त्वमात्रेण सिद्धान्ते पूर्वाऽ-
वधिः पूर्वा समाप्तिः विरोधाभावसिद्धान्ते द्वितीयेति व्यवस्थार्थो वाशब्दः ।
ननु भाष्यकृता अस्योत्तरसूत्रावयवत्वेन पठितत्वात्कथमेतत्सूत्रशेषत्वमित्याशङ्कयाह—
अनन्तरेति । विप्रतिपत्तिशब्दोपात्तस्य विरोधस्यैतदवगताया अभावोक्तेर्विरुद्धत्वेनानन्तर-
सूत्रेऽनुपयुज्यमानत्वाद्विरोधाभावसिद्धान्तपक्षे चेह सूत्रे पूर्वपक्षसूत्रोक्तविरोधाभावस्यावश्य-
वचनीयत्वादित्यर्थः । ननूत्तरसूत्रेऽपि यवादिशब्दानां साधारणत्वे प्रियङ्गवादिद्रव्यकार्ये
विकृतावूहितयवादिशब्दप्रयोगाविरोधप्रतिपादनार्थत्वेनोपयोगो भविष्यतीत्याशङ्कयाह—
उपयोगेति । सकृत्पठितस्यापि व्याख्यानवेलायामुच्चारणानुकृतिः = अनुषङ्गः ।
सकृदुच्चरितस्यैवोभयशेषतया व्याख्याने तन्त्रत्वम् । आद्यावधिना विरोधेऽपि प्रमेयबला-
बलबलीयस्त्वेन सिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं व्याचष्टे—अपि चेति ।
प्रयुक्तानि प्रतीयेरन्निति सूत्रावयवस्य शिष्टैरनुष्ठितानाचमनादीनाद्रियेरन्नित्येवं व्याख्या-
नार्थं प्रमाणपदमुत्तरार्द्धेन व्याख्यातम् । विरुद्धताशब्देन बाध्यतोक्ता । श्लोकं व्याचष्टे—
विरोधेति ।
प्रमाणबलाबलबलीयस्त्वाभिप्रायं नन्वित्यादिशङ्काभाष्यं व्याचष्टे—इयत्तेति । प्रमेय-
बलाबलबलीयस्त्वाभिप्रायं नैष दोष इति सिद्धान्तभाष्यं व्याचष्टे—पदार्थेति । पूर्वपक्षा-
भिप्रायं विवृणोति—उच्यत इति । श्लोकं व्याचष्टे—प्रमेयेति ।

३७६ मीमांसादर्शनम् [ सू०
नन्वापाततः प्रतीयमानमपि प्रमेयबलाबलं प्रमाणाधीनत्वात्प्रमेयसिद्धेः पश्चादालोच्य-
मानेन प्रमाणबलाबलेन वाधिष्यत इत्याशङ्क्याह—येषामिति । ननु श्रुतिविरोधिन्याः
स्मृतेर्भ्रान्त्यादिमूलत्वेनाप्रामाण्यादाचमनादेस्तत्प्रमेयत्वानुपपत्तेः कथं बलीयस्त्वमित्या-
शङ्क्याह—नित्यमेवेति । विरोधेऽपि श्रुत्यनुमानप्रतिबन्धाभावेन भ्रान्त्यादिमूलत्वायोगाद्
बलवद्विरोधापेक्षमुपक्रमविरुद्धोपसंहारवत्, तदनुरोधवृत्तित्वेनाश्रुतत्वमात्रं स्मृतेर-
प्रामाण्यम्, न चाचमनादिस्मृतेर्बलवद्विरोधोऽस्ति, वलवत्प्रमेयावष्टम्भेन स्मृतेर्दोर्बल्याभावा-
दित्याशयः ।
इममेवाभिप्रायं विवृणोति -- न चेति । हिशब्दार्थे चशब्दः । ननु श्रुतिप्रमेयक्रमादि-
वाधे श्रुतिबाधापत्तेः तस्याश्चाप्रमादपाठत्वेन बाधायोगाद्गत्या स्मृतिरेव बाधनीया स्यादि-
त्याशङ्क्याह—न चेति । अबाधे कारणमाह—तानवेति । न हि प्रमेयबलीयस्त्वमात्रेण
स्मृतिः श्रुतिं बाधितुं शक्नोति, श्रुतिकल्पनव्याक्षेपेषु गततेजस्त्वादित्यर्थः । प्रमेयबलीय-
स्त्वस्य तर्हि क उपयोग इत्यपेक्षायामाह—एतदेवेति । प्रमेयबलीयस्त्वेन स्मृतेरबाध्यत्वमात्रं
भवति, न तु श्रुतिबाधकत्वमित्यर्थः ।
द्वितीयावधिना विरोधाभावसिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं तात्पर्यतस्ताव-
द्वयाचष्टे—युगपदिति । नन्वयुगपत्प्राप्तानामपि श्रुतिलिङ्गादिविनियोज्यानां पदार्थानां
विरोधप्रदर्शनान्न युगपत्प्राप्तिरेव विरोधे हेतुरित्याशङ्क्य, तुल्यकार्ययोरित्युक्तम् । इह तु
करणोपकारसाधनपदार्थप्रयोगावच्छेदकत्वेन क्रमादीनां पदार्थगुणत्वाभिधानेनैव तुल्यकार्यत्वं
निरस्तम् । युगपत्प्राप्तिरप्यत एव न सम्भवतीति, द्वयमपि—नास्तीत्युक्तम् । ननु वैदिक-
पदार्थप्राप्त्युत्तरकालीनानामपि क्रमादीनामाचमनादिभिः स्मार्तैः पदार्थैः सह यौगपद्या-
द्विरोधो भविष्यतीत्याशङ्क्याह—कालेति । प्रयोगावस्थायां क्रमाद्यपेक्षा, स च सकलपदार्थ-
प्राप्त्युत्तरकालभावीत्याशयः ।
इदानीमवयवशो भाष्यं व्यचिख्यासुः क्रमविरोधनिरासभाष्यं तावद् व्याचष्टे—प्राप्तेषु
हीति । इयत्तावधारणस्याविहितत्वेनोपायान्तरेणाविस्मरणसिद्धावनादरणीयत्वात्तद्बाधे वेद-
विरोधशङ्का मन्दत्वाद्भाष्यकृतोपेक्षितेति, स्वयंशब्देन सूचयन्स्वयमियत्ताविरोधं परिहरति-
परिमाणमिति । इयत्तायाः क्रमवत्पदार्थाश्रितत्वसूचनार्थंस्तदनन्तरं विरोधपरिहारः ।
कालस्य तु स्वतन्त्रत्वात्पदार्थप्रयोगावच्छेदकत्वमात्रेण पदार्थधर्मत्वाभिधानं श्लोकं
व्याचष्टे—न केनचिदिति । यदि शब्देन ध्यानाद्युपायान्तरसम्भवः सूचितः । तथेति काल-
विरोधपरिहारभाष्यं व्याचष्टे—कालोऽपि चेति ।
ननु यद्यपि प्रधानसाहित्यं शैघ्र्यं च स्मार्तैः सह यादृशं सम्भवति, तादृशाङ्गीकर-
णादविरोधस्तथापि पूर्वाह्नादिकालातिक्रमो भूयिष्ठाङ्गानुष्ठाने दुर्वार एवेत्याशङ्क्याह—
कालो हीति । प्रधानस्यैव साक्षाद्विहितः कालः । स च प्रयोगाङ्गत्वात्प्रयोगस्य च साङ्ग-
प्रधानविषयत्वात् प्रधानद्वाराङ्गेषु प्राप्नोतीति प्रधानस्य स्वकालसम्पादनमादृत्याङ्गेषु

७ ] प्रथमाध्याये तृतीयपादः ३७७
यथासम्भवं सम्पाद्यमानो न विरुद्ध्यत इत्याशयः । साहित्यसम्पत्तिं विवृणोति—अङ्गैरिति।
आशुत्वमपि सर्वाङ्गसहितस्यैवेति तुल्यन्यायत्वादुक्तं भवति । उपसंहरति—तस्मादिति ।
विरोधनिऱासे, तेष्विति सूत्रावयवं द्वेधा योजयति—इतीति । क्रमादीनामाचमनाद्यन-
पेक्षत्वेऽप्याचमनादेः, स्वतन्त्रपदार्थत्वाभावे नाभ्यवधायकत्वाद्विरोधाभावप्रतिपादनार्थमपि
चेति भाष्यं व्याचष्टे - अपि चेति । आचान्तेन कर्त्तव्यमित्यादिकर्त्तव्यमात्रोद्देशने विधाना-
त्सर्वस्याचमनादेरङ्गप्रधानार्थतेत्याशयः । न चाङ्गस्य व्यवधायकत्वमस्त्यतुल्यकक्षत्वा-
दित्याह—अतदङ्गेन हीति । अव्यवधानमेव दर्शयति—वेदमिति । कृत्वेत्यनेन ।
'क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।
कर्मस्थ एषु नाचामेदक्षिणं श्रवणं स्पृशेत् ॥ इति
स्मृतिपर्यालोचनया पदार्थमध्येऽनाचमनं सूचितम् । कथमाचमने कृते वेदिः कृता
भवतीत्याशङ्क्याह—वेदिरैवेति । नन्वङ्गप्रधानार्थस्याप्याचमनस्य हस्तावनेजनादिवत्सर्वादौ
सकृत्कृतस्य सर्वोपकारकत्वात्कथमन्तरा नाचमने वैगुण्यमित्याशङ्क्यानरासार्थत्वेन भाष्य-
गतं शौचशब्दं व्याख्यातुं शुद्धयेत्युक्तम् । शुचिना कर्त्तव्यमिति शुद्धेरपि कर्माङ्गत्वेन
विधानात् क्षुताद्यापादिताशुद्धिनिवृत्तौ वैगुण्यं स्यादिति भावः । नन्वल्यकालत्वेनाप्य-
व्यवधायकत्वोपपत्तेः प्रधानार्थत्वमात्रेण निराकाङ्क्षस्याङ्गार्थतापि किमित्यङ्गीकृतेत्या-
शङ्क्य नाल्पकालत्वमात्रेणाव्यवधायकत्वं भवतीत्यभिप्रायेण परिहरति—इममेवेति ।
तस्मादित्यपसंहारभाष्यमविरोधसिद्धान्ताभिप्रायेण व्याचष्टे—तस्मादिति ।
एवं यथाभाष्यमधिकरणं व्याख्याय, उदाहरणानि प्रत्यक्षश्रुतिदर्शनेन दूषयति —
नन्विहेति । आदिशब्दो दर्शपूर्णमासविकृतिष्वस्य विधेरतिदेशतः प्राप्त्यर्थः । नन्वस्यो-
त्तरीयवासो विन्यासविशेषविधानार्थत्वात् त्रिसूत्रनवतन्तुकत्रिवृद्ग्रन्थियज्ञोपवीतविधायकत्वं
नास्तीशङ्क्य, वाक्यान्तरं दर्शयति—तथेति । सर्वकर्मार्थतायाऽनारभ्यविधित्वोपन्यासः ।
आचमनविधिं दर्शयति—तथेति । नन्वस्य ब्रह्मयज्ञप्रकरणपाठाद्दर्शपूर्णमासादिष्वा-
चमनविधायकत्वं न सम्भवतीत्याशङ्क्याह यद्यपीति । ब्रह्मयज्ञे पूर्वंगृहीतस्वाध्यायाध्यय-
नस्य कल्पसूत्राधिकरणे कर्माभ्यासानुसन्धानं विध्यर्थश्चानुगम्यत इत्यत्र प्रयोगप्रांशुभावो-
पयोगिकर्मानुसन्धानप्रयोजनकत्वस्य वक्ष्यमाणत्वेन तदनुसन्धानस्य च लोकावगतशक्त्यनु-
सारेणाध्ययनसंस्कृतैरक्षरैः क्रियमाणस्यादृष्टार्थाचमनाद्यनपेक्षत्वादाचमनस्य नापूर्व लक्षणार्थं
प्रकरणापेक्षास्तीति प्रकरणानादरेण वाक्यात्स्वाध्यायाध्ययनमात्राङ्गत्वप्रतीतेः । सर्वयज्ञेषु
च मन्त्ररूपस्वाध्यायाध्ययनसद्भावात्तद्द्वारेणाचमनस्य सर्वयज्ञाङ्गत्वमवसीयते । अध्यय-
नस्य त्वदृष्टार्थत्वेऽपि तत्संस्कार्याणामक्षराणां क्रत्वपेक्षितनियमाद् दृष्टोपयोगिवेदसम्पत्त्यर्थं-
क्रमस्वरविशेषवदाचमनाद्यपेक्षा न विरुध्यते । यथैव प्रत्यक्षस्यापि यूपादेरदृष्टोपयोगिरूपं
प्रमाणान्तरागोचरत्वात्तदर्थं विहितक्षणादिसकलसंस्कारसमुदायजन्यत्वेनावसीयमानमेकसंस्कार-
वैकल्येऽपि नोत्पद्यते, तथा वेदस्याप्यदृष्टोपयोगिरूपम् ।

३७८ मीमांसादर्शनम् [ सू०
'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥'
इत्यादिवाक्यपर्यालोचनया तदर्थविहितसकलधर्मसम्पाद्यमवसीयते अतोऽलौकिकरूपा-
नभ्युपगमे च वेदवाक्यानामपि लौकिकत्वानपायाल्लौकिकवैदिकव्यपदेशभेदो निरालम्बनः
स्यात् । तस्मादाचमनस्य वेदत्वसम्पादनार्थत्वाद्वाक्येन प्रकरणं बाधित्वा सर्वस्मिन्वेदकार्ये
प्राप्तिरिति श्रौतत्वान्न स्मार्तोदाहरणत्वमिति भावः । तावच्छब्देन च दर्शपूर्णमासप्रकरणे
पठितः 'स वै व्रतमुपैष्यन्नन्तराहवनीयं च गार्हपत्यं चोपविश्याप आचामतीत्याचमनविधिः
ऋत्वङ्गाचमनविधानार्थः सूचितः । नन्वस्तु नामेदं सर्वयज्ञाङ्गमाद्यमाचमनम्, प्रयोगान्तः-
पाति तु नैमित्तिकमिह क्रमविरोधित्वेनोदाहर्त्तव्यम् । तच्च प्रत्यक्षश्रुतिविहितं नास्तीत्या-
शङ्क्य प्रयोगान्तःपातिनैमित्तिकाचमनप्रापकं लिङ्गं दर्शयति—तथा चेति ।
दक्षिणाचारत्वप्रापकस्यापि वैदिकस्य लिङ्गस्य दर्शनात्तदपि नेहोदाहर्त्तव्यमित्याह—
दक्षिणेति । साक्षाद्विधिना यत्र विषये सव्यस्याञ्जलेर्वा चोदना, तस्मादेव विषयाद्दक्षिणा-
चारत्वं निवर्त्तेत अन्यत्र तु विषये तद्दक्षिणाचारत्वस्य निवर्त्तनं नाशक्यतेऽपीत्यर्थः ।
किमिति नाशक्यते इत्यपेक्षिते मनसि कृतं लिङ्गमुद्भावयति—यथा वा इति । प्रागु-
दक्प्रवणं देवयजनम्, प्रत्यक् दक्षिणाप्रवणं श्मशानकरणं यथा वै दक्षिणतः पाणिरेव देव-
यजनम्, यथा वै सव्यस्तथा श्मशानकरणमिति देवयजनस्य यज्ञभूमेः प्रागुदक्प्रवणत्वं विहि-
तमौचित्येन स्तोतुं दक्षिणः पाणिरुपमानं कृतम् । तदेव यजनवद्दक्षिणस्य पाणेर्यज्ञाङ्गत्वे
सत्यवकल्पते, नान्यथेत्यर्थः ।
नन्वनारभ्य विहितस्यापि यज्ञोपवीतस्यायज्ञरूपेषु दविहोमादिषु प्राप्तेस्तेष्वपि वा
कथञ्चिदङ्गत्वेन मन्त्रोच्चारणवत्त्वेन वा प्राप्तिसम्भवेऽप्यानुषङ्गिकप्रयोगप्राशुभावोपयोगि-
कर्मानुसन्धानप्रयोजनत्वेऽपि ब्रह्मयज्ञस्याहरहःस्वाध्यायमधीयीतेति नित्यत्वश्रुतेरकरणे
च प्रायश्चित्तस्मरणाददृष्टार्थत्वावधारणेनादृष्टार्थोपायापेक्षितवात्तत्प्रकरणपठितस्याचमनस्यात्य-
न्ताप्राप्तौ वाक्येन कथञ्चित्प्राप्तावपि प्रयोगारम्भे कृतस्य तत्प्रयोगान्तर्वर्त्तिसमस्तमन्त्रोच्चार-
णोपकारकत्वेन प्रतिमन्त्रमनावृत्तेरन्तराले प्राप्यभावेन क्रमादिविरोधित्वान्न सोमेनोच्छिष्टा
भवन्तीत्यस्य च स्मृतिप्राप्ताचमनप्रतिषेधार्थत्वेनाप्युपपत्तेर्यथा वै दक्षिणः पाणिरित्यस्य च
यज्ञाङ्गभूतदक्षिणहस्तविध्याक्षेपकत्वे यथासव्यस्तथश्मशानकरणमित्यस्यापि प्रेतकर्माङ्ग-
भूतसव्यहस्तविध्याक्षेपकत्वापत्तेराचारविरोधप्रसङ्गात्स्मृत्याचारप्राप्तदक्षिणहस्तोपमार्थत्वोप-
पत्तेर्विध्याक्षेपकत्वाभावात् क्रमादिविरोधे प्रत्यक्षाचमनादिविध्यभावाञ्चोदाहरणदूषणं युक्त-
मित्याशङ्क्याह—तेनेति । क्रमादेः प्रयोगाङ्गत्वात्प्रयोगस्य चाचारपर्यन्तप्रमाणप्रापित-
पदार्थविषयत्वात्सकलपदार्थप्राप्त्युत्तरकालभावित्वेन विरोधपूर्वकपक्षयोगात्स्मृतेश्च यथाश्रुत-
मूलनिश्चये प्रामाण्याभावेनाचमनादेस्तत्प्रमेयत्वायोगान्निश्चये वा प्रमाणदौर्बल्यानुपपत्तेः
प्रमेयबलाबलेन प्रमाणबलाबलबाधसिद्धान्तायोगादनुदाहरणतेत्याशयः ।