मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
८ ] प्रथमाध्याये द्वितीयपादः ८९
च शब्देन भैक्षाचरणगुरुशुश्रूषाऽधश्शय्यादयो गृह्यन्ते, ते सर्वे सर्वस्मिन् वायुर्वे
क्षेपिष्ठेत्येवं जातीयके वायव्यं श्वेतमित्यादिविधिवाक्यैः तुल्यमाद्रियन्ते आदर-
णेनानुष्ठातृभिरनुष्ठीयन्त इत्यर्थः, भवत्वध्ययनानुग्राहकधर्माणामर्थवादेष्वप्यादरः
तथापि कथमानर्थक्यपरिहारः तत्राह-अविघ्नार्थमिति-
'अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टमीपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९० मीमांसादर्शनम् [ सू०
न च निष्प्रयोजनस्याविघ्नेन कार्यं वरं तादृशस्य विघ्नमेवोत्पन्नं येन
क्लेशोऽपि तावन्न स्यात् । यतस्ते सप्रयोजनैर्विधिवाक्यैस्तुल्यमेवाऽऽद्रियन्ते ।
तेनावश्यं तद्वदेव प्रयोजनवन्त्यपीति । नियमस्मृतेश्च वेदमूलत्वाद्द्वेदकृत एवाय-
मादरः । स च प्रयोजनवत्त्वाहते नोपपद्यत इति, प्रयोजनवत्त्वमपि सामान्येना-
नुमायाऽर्थाद्वा कल्पनैकदेशत्वाद् १.४.२४ सूत्र इति । सामर्थ्यतोऽर्थवादानां
स्तुतिर्नाम प्रयोजनविशेषो लभ्यते । स्मरणं च दृढमित्येतेदेवाऽऽह ।
अथ वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं
इत्यादिना धर्म्मजातस्य सम्प्रदायार्थत्वस्मरण।दित्यर्थः पुरुषार्थत्वं तु निष्प्रमाणक-
मित्याह—स्वर्गादिति । नन्वध्ययनस्वरूपे, तत्कार्ये च ग्रहणे धर्म्मजातस्यानुपयोगात्तत्पूर्व्व-
कज्योतिष्टोमादिकर्म्माङ्गत्वं भविष्यत्यत आह—न चास्येति । एतच्च द्वादशाधिकरण-
सिद्धमुक्तं तत्र ह्याध्यायानध्ययनाय द्वादशाध्यायाधिकरणार्थं संग्रहादिधर्म्मजातस्याध्ययन-
प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं
भावयेदित्यध्ययननियमस्याना रभ्य विहितस्याप्यध्ययन जनितज्ञानोपस्थापितज्ञेयकर्म्माङ्गतया
सामर्थ्योपबृंहितेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९२ मीमांसादर्शनम् [ सू०
साम्प्रदायिकशब्दो वा धारणाऽध्ययनपरतयानेन भाष्येण व्याख्यायत इत्याह-अत
वेति । यत्त्वस्मिन्व्याख्याने पुरुषाधीनप्रामाण्यप्रसङ्गादित्यादिना दूषणं पूर्वसूत्रव्याख्योप-
क्रमेऽभिहितम्, तत्परिहरति-सम्भाव्यते चेति । पूर्वोक्तमध्ययनविधिप्रमाणकं सर्वस्य यदस्य
प्रयोजनवदर्थपर्यवसायित्वमेतत्सूत्राऽढं कर्तुमध्ययनविधिपरतया साम्प्रदायिकशब्दं स्वयं
व्याचष्टे-तुल्यं चेति । उनयोरपि व्याख्यायोरतत्सूत्रोक्तस्य सामान्योपयोगस्य पूर्वसूत्रोक्त-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९ ] प्रथमाध्याये द्वितीयपादः ९३
परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे—
अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः,
तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो-
दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः
अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९४ मीमांसादर्शनम् [ सू०
अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्था-
नुष्ठानेन सम्बध्यते, प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः ।
अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः, अप्राप्तं चानुपपत्तिमित्यपरः,
तत्रास्मद्व्याख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरः तत्रास्मत्पक्षे
विज्ञायेति ॥ ९ ॥
न्या० सू०-सूत्रद्वयेनैव सिद्धान्तसिद्धेरुत्तरसूत्रानर्थक्यमाशङ्क्य पूर्वपक्षनिराकरण-
परतया सामान्यतो व्याचष्टे— उक्तेति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः ९५
करते तब इन अर्थवादों से रोदन, अपनी वपा का छेदन, दिङ्मोह, स्तेय या मिथ्या-
वादन आदि कर्तव्य के रूप में बोधित होते । तभी पूर्वपक्षी के द्वारा कथित दोष सङ्गत
होता और शास्त्रदृष्टविरोध का कथन सङ्गत होता । किन्तु रोदन आदि अर्थवाद के शब्दों
का अर्थ मात्र होता है । इस प्रकार अर्थवाद के अर्थ अविवक्षित हैं, क्योंकि, अर्थवाद
स्वार्थ में तात्पर्य रहित है । इसलिए, जिस रूप में अर्थवाद वाक्यों की सप्रयोजनता का
निर्देश पूर्वक
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९६ मीमांसादर्शनम् [ सू०
पुराऽस्य संवत्सरादसति रोदने कथं रोदनं भवतीति ? तदुच्यते । गुणवादस्तु ।
गौणा एते शब्दाः । रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद्यदरोदीदित्युच्यते ।
वर्णसारूप्यान्निन्दन्नश्रुप्रभवमप्यश्रुप्रभवमित्याह । निन्दन्नेव च धनत्यागे दुःख-
दर्शनात्पुराऽस्य संवत्सराद् गृहे रोदनं भवतीत्याह ।
तथा यः प्रजाकामः पशुकामो वा स्यात्स एतं प्राजापत्यं तूपरमालभेत
इत्याकाङ्क्षितत्वादस्य विधेः शेषोऽयं स आत्मनो वपामुदक्खिददिति । कथं
गुणवादः । इत्थं नाम,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसूत्रं योजयितुं पृच्छति—अथेति । यद्यविवक्षितस्वार्थाः सोरोदीदित्येवमादयो
१० ] प्रथमाध्याये द्वितीयपादः ९७
अनासक्तोऽर्थः तत्र हेतुस्ततः इति जायते दृश्यते यत इति शेषः । ततः किम् ?
अत आह—अभिजनेति । एतदेव दृष्टान्तेनोपपादयति—यथेति । काश्मीरशब्दो
जनपदविशेषवाची, एवमिति । वेतसशाखया वकाभिश्चाग्निं विकर्षति, आपो
वै शान्ताः, शान्ताभिरेवास्य शुचं शमयति इति श्रूयते । तदा वेतसावकयोः
विधेयत्वेन स्तुत्यङ्गत्त्वम् तदर्थैवापां स्तुतिरिति निश्चयाच्छान्ताभिरिति सहयोग-
तृतीयाश्रयेणाद्भिः सहचरितो वेतसावकारूपो विकारः प्रकृतिगुणेन शान्तत्वा-
दस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९८ मीमांसादर्शनम् [ सू०
हेतुत्वेन निर्देशादुपपत्तिरेवेयमित्यर्थः । सोपपत्तिकस्य निन्दावाक्यस्य निषेध-
वाक्यैकवाक्यत्वम् दर्शयितुम् पुनर्निषेधवाक्यं पठति—तस्मादिति । तच्छब्दस्यो-
पपत्तिकनिन्दापरामर्शकः सापेक्षत्वेनैकवाक्यत्वं निगमयति—एवमिति । ततश्च
विध्येकवाक्यत्वादर्थवादत्वोपपत्तिरिति भावः । साकाङ्क्षत्वमङ्गीकृत्योपकारा-
भावेन विध्येकवाक्यत्वमाक्षिपति—कथमिति । यद्यपि निन्दानिषेधयोरेवेह
साकाङ्क्षत्वेनोपकारकत्वेन चैकवाक्यत्वं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः ९९
वपोत्खननवाक्येऽपि द्वेधा सूत्रं योजयितुं विध्येकवाक्यत्वं तावदाह-तथेति ।
रोदनवाक्यस्य निषेधशेषत्वदृष्टान्तार्थस्तथाशब्दः 'स आत्मन' इत्यादि तूपरमा-
लभेतेत्यस्य विधेश्शेषः तेनाकाङ्क्षितत्वादिति योजना ।
ननु कथमस्य विध्यपेक्षितार्थविषयत्वम्, येन तदाकङ्क्षितत्वं स्यादिति
चोदयति—कथमिति । सूत्रेणोत्तरमाह—इत्थं नामेति । विशिष्टफलत्वादिदं कर्म.
स्वावयवोत्कर्तनेनापि कृतम्, तत्कर्तव्यं धनसामादिनेति किमु वक्तव्यमित्यर्थः ।
तामग्नौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०० मीमांसादर्शनम् [ सू०
वपाशब्दस्यालम्बनमाह—स इत्यादिना । वायोः प्रजापतेर्वृष्टिवर्पामध्यवर्ती
सारविषयत्वाद्वपाशब्दस्य वायुमध्यवर्तित्वात् तद्धेतुकत्वाच्च वृष्टेः तथाकाशस्य
वायुर्वपा । अवकाशाभावे वायोरप्रवृत्तेस्तन्मध्यवर्तित्वाद्वयुरहितस्यापवरका-
काशस्यो दुःखोत्पादकत्वेन तत्सारत्वाच्च । तथादित्यस्य रश्मिर्वपा रश्मेरा-
दित्यावयवत्वेन तन्मध्यवर्तित्वाद्राश्म्यायत्तत्वेन प्रकाशस्य सारत्वाच्चेत्यर्थः ।
तामग्नावित्यस्यालम्बनमाह-तामग्नावित्यादिना । तत्रापि यथाक्रमं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः १०१
नन्वेवं ‘दिशो न प्राजानन्’ इति दिङ्मोहाभिधानस्य सालम्बनत्वेऽपि पथ्यां
स्वस्तिमयजन् प्राचीमेव दिशं प्राजानन्, अग्निना दक्षिणा, सोमेन प्रतीचीम्,
सवित्रोदीचीम्, दित्योर्ध्वमिति दितेर्दिग्भेदज्ञापकत्वोक्तेः किमालम्बनमत आह—
अवधारणेति । अवधारणार्थमवकाशदानमवधारणावकाशदानम्, आदिशब्देन
तत्फलप्रणिधानविचारावुक्तौ, प्रायणीयायां हि दर्शपूर्णमासविकृतौ प्रायः
प्राकृतान्यभ्यस्तान्येव कर्माण्येव क्रियन्ते, ततश्च तत्समय
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०२ मीमांसादर्शनम् [ सू०
एवं वपोत्खननादिवाक्ययोजना। स्वात्मवपोत्कर्तनेनापि हि विशिष्टप्रयोज-
नार्थं कर्माणि क्रियन्ते, किमुत बाह्यधनत्यागेनेति स्तुतिः। यथा नेत्रमप्युद्धृत्यायं
ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति। वृत्तान्तपर्यवसायी च वेदस्तत्र
प्रामाण्यमप्रतिपद्यमानः स्तुतौ सत्यत्वान्नान्यत्रान्वेषणमर्हतीति निष्प्रयोजनो-
पाख्यानसत्यतया नार्थेन। शब्दभावनाङ्गं वार्थवादाः। सा च प्रवृत्तिविज्ञान-
मात्रेणैवोपयुज्यते, नार्थेन। अर्थात्मिकायां तु सर्वत्राविसंवादः सिद्ध एव।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः १०३
गमेन पशूनामभावात्स्वमाहात्म्येनाऽऽत्मन एव पशुरूपमभिनिर्माय वपोत्खननादि
कृतवान्, ततोऽसमाप्त एव कर्मणि तूपरः पशुरुत्थित इतीदृशमिदं कर्म प्रत्या-
सन्नफलम् । एवं च महता यत्नेन प्रजापतिना चरितमिति सर्वं सत्यमेव । प्रति-
सृष्टि चर्तुलिङ्गन्यायेन तुल्यनामप्रभावव्यापारवस्तुत्पत्तेर्नानित्यताप्रसङ्ग इति ।
कर्मसु कौशलेन दीव्यन्तीति देवा ऋत्विजः, ते देवयजनाध्यवसानान्तरं
दर्शपूर्णमासयोरनभ्यस्तं सौमिकं कर्मराशिमालोक्य कथमविदितं करिष्याम
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०४ मीमांसादर्शनम् [ सू०
रोदननिमित्तस्य शब्दस्य दर्शनादित्यादिनोक्तस्तत्सिद्धिकरत्त्वादिः प्रकारविशेषो यावत्त-
त्सिद्धिसूत्रे वक्ष्यमाणतया नालोच्यते, तावच्छुद्धेनेवेति तावच्छब्दस्यार्थः । स्तेनाद्युदाहरणे-
ष्वपि तर्हि सूत्रान्तरानर्थक्यं स्यादत आह—शेषेति ।
ननु तत्सिद्धिसूत्रेण गुणवादप्रकारविशेषनिरूपणे स्तेनाद्युदाहरणेष्वपि शुद्धस्य गुणवाद-
सूत्रस्य स्तुत्यसम्भवपरिहारसामर्थ्यादिनिरूपणे वा रोदनाद्युदाहरणेष्वप्यसामर्थ्यात्किं कृतेयं
व्यवस्थेति आह—तत्रेति । यद्यपि तत्सिद्ध्यादीनां षण्णामेव गौणवृत्तिप्रकारत्वात्सर्व-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः १०५
लम्बनाभिधानपरतया पुनरेतदेव सूत्रं योजितम् । तद्व्याचष्टे-गुणवादश्चेति । अरोदीदित्य-
स्यालम्वनप्रतिपादनार्थं रुद्र इत्यादिभाष्यं व्याचष्टे — रुद्रशब्देति । रोदिते रोदनार्थंस्वा-
द्रक्प्रत्ययस्य च कर्त्रर्थत्वाद्रोदनकर्तृवाची रुद्रशब्दो व्याकरणादवगम्यते । तस्य च त्वमग्ने
रुद्रो असुरो महो दिव इत्यादावग्नौ प्रयोगदर्शनाद्रुद्रो वा एष यदग्निरिति चार्थवाददर्शना-
द्रुद्रमग्नि द्विजाः प्राहुरिति—चारण्यकपर्वणि 'कुमारसम्भवोपाख्यानदर्शनात् । प्रस्तरे
यजमानकार्यकर्तृत्ववत्तत्कार्यकारित्वेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०६ मीमांसादर्शनम् [ सू०
तदेवात्र प्रवृत्तिविज्ञानशब्देनोक्तम् । तन्मात्रेण शब्दभावनोपयुज्यते प्रवर्तेऽहमिति
विज्ञानं यावता प्रवर्त्स्यन्त्योत्पाद्यते, तावन्मात्रेण पर्यवस्यति नातिरिक्त मपेक्षत इत्यर्थः ।
तच्चार्थसत्तानपेक्षात्प्राशस्त्यज्ञानमात्रात्सिद्ध्यतीति दर्शयितुं नार्थेनेत्युक्तम् । केचित्तु
प्रकृतोपयोगानुसारेणैवं व्याचक्षते । तत्प्रवृत्त्यङ्गभूतप्राशस्त्यविज्ञानमात्रेण सोपयुज्यते ।
प्रवृत्त्युत्पादे समर्था भवतीति ।
नन्वेवं सत्युपाख्यानवत्स्वर्गयागादिसाध्यसाधनभावसङ्कीर्त्तनस्यापि प्रवर्त्तनोपाय-
मात्रत्वापत्तेरसत्यता स्यादत
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये द्वितीयपादः १०७
रिति तन्नाह—यत्त्विति । परस्तादनुष्ठानोत्तरकालं यत्फलं भविष्यति, तत् विधेरुपगतमिति¹
विध्याश्रयं तत्प्रमाणकमित्यर्थः । उपसंहरति—तस्मादिति । प्रमाणान्तरेष्वपेक्षितार्थ-
लाभेनोपायासत्यत्वं व्यवहारं दर्शयतीत्याह—न हीति । शुक्तिकामदृष्टं सत्यं पारमा-
र्थिकं रजतं येन स तथोक्तः, विफलारम्भताभिसन्धानम् । अथालम्बनसद्भावात्तत्र व्यव-
हारसिद्धिः, तदत्रापि समानमित्याह—शुक्तिकावत्त्विति । कथं पुनरनुखिन्नायामित्यस्यैव
चोद्यस्येह निरालम्बनान्वाख्यानासम्भवाभिप्रायकत्वं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०८ मीमांसादर्शनम् [ सू०
स्वमतेन व्याख्यानम्
स्वमतेन व्याख्यातुं प्रतिजानीते—अत इति । सृष्ट्यादिविषयमेतदुपाख्यानं व्याख्यातुं
तदनङ्गीकारादनुपपत्तिमशङ्क्याह— मन्त्रेति । वस्तुवृत्त्या सृष्टिप्रलयाभावेऽपि मन्त्रादि-
व्याख्यालम्बनत्वेनोपायमात्रतया तदङ्गीकरणमिति भावः । व्याख्यानमाह - तत्रेति ।
आत्मनः पशुरूपनिर्माणशक्तिद्योतनार्थं योगिग्रहणं पुण्यकर्मणामेव मन्वादीनां सृष्ट्यादावु-
द्भवः पुराणादिष्वभ्युपगम्यते । यद्वा पुण्यस्यैव कर्म्मणः फलदानायोद्भवः ।
'अरोगः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें