मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 158, कुल 804 में से
संदर्भ में पढ़ें१०६ मीमांसादर्शनम् [ सू०
तदेवात्र प्रवृत्तिविज्ञानशब्देनोक्तम् । तन्मात्रेण शब्दभावनोपयुज्यते प्रवर्तेऽहमिति
विज्ञानं यावता प्रवर्त्स्यन्त्योत्पाद्यते, तावन्मात्रेण पर्यवस्यति नातिरिक्त मपेक्षत इत्यर्थः ।
तच्चार्थसत्तानपेक्षात्प्राशस्त्यज्ञानमात्रात्सिद्ध्यतीति दर्शयितुं नार्थेनेत्युक्तम् । केचित्तु
प्रकृतोपयोगानुसारेणैवं व्याचक्षते । तत्प्रवृत्त्यङ्गभूतप्राशस्त्यविज्ञानमात्रेण सोपयुज्यते ।
प्रवृत्त्युत्पादे समर्था भवतीति ।
नन्वेवं सत्युपाख्यानवत्स्वर्गयागादिसाध्यसाधनभावसङ्कीर्त्तनस्यापि प्रवर्त्तनोपाय-
मात्रत्वापत्तेरसत्यता स्यादत आह-अर्थात्मिकायां त्विति । उपाख्यानानामपुरुषार्थो-
पयिकत्वेन वेदस्य तत्राव्यापारात्प्रमाणान्तरानुपलब्धेश्चासत्यत्वं ज्ञातम् । साध्यसाधनभावे
तु वेदस्य व्यापाराभावे निष्फलत्वापत्तेरतुल्यत्वम् । वेदप्रतीतस्यापि तु प्रत्यक्षविरोधे
असत्यता स्यात् न त्वसावस्तीत्यविसंवादग्रहणेनोक्तम् । शब्दभावनायामपीतिकर्त्तव्यताभूत-
प्राशस्त्यज्ञानोपायमात्रे कस्मिंश्चिद्विसंवादः, न तु पुरुषप्रवृत्तिविधिज्ञानप्राशस्त्यज्ञानरूपे
साध्यसाधनेतिकर्त्तव्यतांशे । अर्थभावनायां त्वितिकर्त्तव्यतोपायेऽपि द्रव्यदेवतादौ न
विसंवाद इति सर्वत्रेत्यनेनोक्तम् ।
एतदेव प्रश्नपूर्वकं विवृण्वन्नाह-अथेति । उत्तरमाह-सुतरामिति । स्वार्थसत्यत्वेन
तात्पर्यशङ्कायां स्तुतिपरत्वान्निश्चयादिति भावः । एतदेवोपपादयति-काममिति । इति
ब्रवीतीतिकरणोऽर्थवादगताभिधानप्रकारनिर्देशार्थः । अनेन वपोत्खननादिना प्रकारेण
गुणवन्तमर्थं ब्रवीतीत्यर्थः । नन्वर्थसत्तानपेक्षप्राशस्त्यज्ञानमात्रात् प्रवृत्तावनासक्तेनापि
प्रवृत्तिः स्यात् । अत आह-ततश्चेति । नन्विष्टानिष्टप्राप्तिपरिहारहेतुत्वादाजादेरनतिक्रम-
णीयत्वं स्यात् वेदस्य, तत्कथम् ? अत आह-वेदश्चेति । इष्टानिष्टसाधनबोधकत्वाद्वेदोऽप्य-
नतिक्रमणीय इति भावः । ततः किमिति चेदत आह-तेनेति । येन कारणेन वेदः प्रमाणम्,
तेन कारणेन तदनुरूपं व्यवहर्त्तव्यमित्यर्थः । प्राशस्त्याप्राशस्त्यज्ञानयोरसत्योपायकत्वेना-
सत्यत्वादनादरमाशङ्क्योपायासत्यत्वेऽपि वेदकृतत्वेनानयोः सत्यत्वं दर्शयितुम्-प्रवृत्ती-
त्याद्युक्तम् । ये इह विधेयनिषेधार्थविषये प्राशस्त्याप्राशस्त्यज्ञाने भवतः, ते वेदेनोत्पादिते
यस्मात्; तस्मात्तदनुरूपमिति यस्माच्छब्दाध्याहारेण योज्यम् । ज्ञानोत्पत्तौ विप्रतिपत्तिं
निराकर्त्तुम्-स्वसंवेद्यत्वमुक्तम् । वेदादरणीयत्वाय प्रवृत्तिनिवृत्त्यनुग्राहकत्वाभिधानम् ।
अनुग्राहकत्वोपपादनाय पुंग्रहणम्, न चैतदलौकिकमित्याह-लोकेऽपीति । प्रवर्त्त्याभिप्रेत-
सौभाग्याद्यपेक्षया वपाभक्षणादिक्रियाफलस्य मेधादेः फलान्तरत्वामभिधानम् । तदित्यव्ययं
पञ्चम्यर्थे नियोगं परामृशति, तस्मान्नियोगात्प्रवृत्तः क्रियाश्रयं तन्निमित्तं मेधादिफलं
प्राप्नोतीत्यर्थः । ननु सौभाग्यादेरपारमार्थिकत्वं यो न जानाति, स एव प्रवर्त्तताम् । यस्तु
प्ररोच्यमानः स्वाभिप्रेतफलासत्यत्वं जानाति, स कथं तदुद्देशेन प्रवर्त्तत इति । तदाह-
यद्यपि चेति । तदसत्यत्वेऽपि आप्ताभिप्रेतफलानुमानेन प्रवर्त्तत इत्यर्थः । तत्प्रकृते योज-
यति-एवमिति । ननु यदि प्ररोचनावगतफलानुसारेण न प्रवृत्तिः, किमुद्दिश्य तर्हि प्रवृत्ति-