मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 151, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये द्वितीयपादः ९९
वपोत्खननवाक्येऽपि द्वेधा सूत्रं योजयितुं विध्येकवाक्यत्वं तावदाह-तथेति ।
रोदनवाक्यस्य निषेधशेषत्वदृष्टान्तार्थस्तथाशब्दः 'स आत्मन' इत्यादि तूपरमा-
लभेतेत्यस्य विधेश्शेषः तेनाकाङ्क्षितत्वादिति योजना ।
ननु कथमस्य विध्यपेक्षितार्थविषयत्वम्, येन तदाकङ्क्षितत्वं स्यादिति
चोदयति—कथमिति । सूत्रेणोत्तरमाह—इत्थं नामेति । विशिष्टफलत्वादिदं कर्म.
स्वावयवोत्कर्तनेनापि कृतम्, तत्कर्तव्यं धनसामादिनेति किमु वक्तव्यमित्यर्थः ।
तामग्नौ प्रागृह्णादिति वाक्योक्तं गुणान्तरमाह—एतच्चेति । एतत् एतादृशं
प्रहृतमात्रायां प्रक्षिप्तमात्रायां ······· 'प्रभूतपश्वादिफलत्वमनेनोक्तमिति हृदयम् ।
इदानीमस्मिन्नुदाहरणेऽन्यथा सूत्रं व्याख्यातुं निरालम्बनस्तुत्यनुपपत्तिं
शङ्कते--कथमिति । पूर्ववत्प्रमाणाभावादनुत्खिन्नायामित्यर्थः, उपलक्षणञ्चैतत्
उत्तरवाक्यानामपि निरालम्बनत्वेन क·······वक्तवाभावस्य यथा सोऽरोदी-
दित्यादीनां गौणोऽर्थ आलम्बनम्, नैव प्रजापतिवपाखननादिवाक्यानां लभ्यते,
तेनार्थान्यत्वात् स्तुतिलक्षणया प्ररोचनानुपपत्तिरित्यभिसन्धिः ।
किमिदमसत्तार्थेन स्तुत्यसंभवचोद्यम् ? किंवा निरालम्बनान्वाख्यानानुपपत्ति-
चोद्यम् ? तत्राद्यं परिहरति--असद्दिति । स्तुत्यर्थेनोपयुज्यत इति शेषः । कुत
इत्यत आह—प्रशंसेति । यद्यर्थवादावगतस्यार्थस्य प्ररोचनहेतुत्वं ततोऽर्थाभावेन
प्राशस्त्यलक्षणाभावात् सा न स्यात् शब्द एव त्ववान्तरव्यापारीकृतार्थ-
प्रत्ययः प्ररोचयति, ततश्च विनाप्यर्थं तत्प्रत्ययेनैव प्राशस्त्यावगमात् प्ररोचना-
सिद्धिरित्यभिसंहितम् ।
ननु प्राशस्त्यवदर्थवादस्यापि गम्यमानत्वात् कथमभावः तत्राह-इह त्विति ।
अर्थवादमात्रोक्तिः प्ररोचनेति वृत्तान्तज्ञानजनितप्राशस्त्याप्राशस्त्यज्ञानाभ्यां
प्ररोचनाद्वेषावित्यर्थः । ततः किम् ? अत आह--तत्रेति । अविवक्षितं वृत्तान्त-
रूपेऽर्थे इति शेषः, नैतद् वृत्तान्तपरमिति यावत्, प्रवृत्त्यादिप्रयोजनत्वात्, प्ररोच-
नादिपरत्वं तु न युक्तमित्याह--वृत्तान्तेति । अन्वाख्यापन इति अन्वाख्यानम् ।
वृत्तान्तरूपेऽन्वाख्याने विधीयमाने=तात्पर्येण प्रतिपाद्यमाने वेदस्यादिमत्तादोषः
आदिमतोऽर्थस्य प्रतिपादनादित्यर्थः, अतश्चाविवक्षितवैवार्थं तज्ज्ञानादेव
प्राशस्त्यसिद्धेः प्ररोचनासिद्धिरिति समुदायार्थः ।
नन्वस्त्वर्थज्ञानमात्रस्य स्तुत्युपयोगित्वम्, निरालम्बनं तु ज्ञानमन्वाख्यानं
वा न संभवतीति द्वितीयं शङ्कते--कथमिति । इदमन्वाख्यानमन्वाख्यायते
क्रियत इत्यर्थः । निरालम्बनत्वमात्रमेवमपि कथञ्चित् परिहर्तुं शक्यमित्युत्तर-
माह—नित्य इत्यादिना । "प्रजापतिर्वा इदमेक आसीत्" इत्यादौ प्रजापतिशब्दः
प्रजा पातीति व्युत्पत्त्या विकल्पेन वाय्वादिवचन इत्यर्थः, स आत्मन इत्यत्र