मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 145, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये द्वितीयपादः ९३
परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे—
अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः,
तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो-
दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः
अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन-
दिङ्मोहस्तेयानृतवदनादीनाम् उच्यमानेकल्प्यमाने शास्त्रदृष्टविरोधः स्यात् न
चासौ कल्प्यत इत्यर्थः ।
ननु श्रुतस्यार्थस्य प्रयोजनवत्त्वाय विधिः कल्पनीय इत्याशङ्कयापाकरणार्थं
शब्दार्थस्त्वप्रयोगभूत इतीदं व्याचष्टे शब्दार्थ इति । सूत्रे तुशब्दश्शङ्काव्यावर्त्तकः,
वाच्यार्थविषयोऽर्थशब्दः तेषु सोऽरोदीदित्यादिषु प्रयुज्यतेऽनेनेति व्युत्पत्त्या
प्रयोजन-प्रयोगः, विवक्षितश्चार्थः प्रयोजनं भवतीति लक्षणया प्रयोगशब्देन
विवक्षितत्वमुक्तम् प्रयोगमप्राप्तोऽप्रयोगभूतः अविवक्षित इत्यर्थः ।
एतदुक्तं भवति विवक्षितार्थस्य हि प्रयोगवत्त्वसिद्धयेऽध्याहारादिनानुष्ठान-
कल्पना अयं तु न विवक्षितः, तेन कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेति,
यस्मान्न विधिकल्पना, तस्मान्न शास्त्रदृष्टविरोधादीत्युपसंहारभागं व्याचष्टे—
तस्मादिति ।
स्तेयादिवाक्यं रोदनादिवाक्यस्याप्युपलक्षणं गुणवादस्त्वित्यनेन त्रयोऽर्थाः
सूचिताः । तत्र प्रथमं तावच्छब्दार्थस्त्वप्रयोगभूत इत्यन्तेन विवक्षयार्थभावना-
नुपयोग उक्ते कथं नामोपयोगः इत्यपेक्षायां गुणस्य वाद इति षष्ठीसमासाश्रयणेन
स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्क्ष्यात्यनेन स्मारितम्, तत्रापि स्वार्था-
सत्यत्वे कथं स्तुतिरित्त्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थं-
सत्यत्वानादरोऽप्यनेनाभिधीयते, तथा भवतु स्तुत्यर्थत्वम्, तथापि कथं क्वचित्
विधेयस्तुतिपरत्वम् अविधेयगतायाः स्तुतेः भिन्नविषयत्वादित्यपेक्षायां गौण्या-
वृत्त्याप्यनेनोच्यते ॥ ९ ॥
त० वा०—उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्ति-
र्विधिकल्पनायामुक्ता तामस्मत्पक्षमप्राप्तां मन्यामहे ।
अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः
पाठः । प्रयोगे ह्यनुष्ठाने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने
विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रोतोऽर्थः, स नैव विवक्षितः ।
न चाध्याहारादिभिर्विधिः, किं तर्हि ? स्तुतिमात्रं विवक्षितः । न च तद्विरुध्यते ।
तस्मादुपपद्येत ।