Skip to content
SarvaKosh
Back to the archive

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

About this granth

Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.

This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.

The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.

Page 70
Page 70 scan

५२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
निगमनलक्षणम्
हेत्वपदेशात् प्रतिज्ञाया पुनर्वचनं निगमनम् ॥ ३९ ॥
साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते, 'तस्मादुत्पत्ति-
धर्मकत्वादनित्यः शब्दः' इति निगमनम् । निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहरणो-
पनया एकत्रेति निगमनम् । निगम्यन्ते = समर्थ्यन्ते, सम्बध्यन्ते ।
तत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् —'अनित्यः शब्दः' इति प्रतिज्ञा,
'उत्पत्तिधर्मकत्वात्' इति हेतुः, 'उत्पत्तिधर्मकं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३९. सू० ] न्यायप्रकरणम् ५३

Page 71
Page 71 scan

३९. सू० ] न्यायप्रकरणम् ५३
प्रतिसन्धानाद्, अनुह्वेश्च स्वातन्त्र्यानुपपत्तेः । अनुमानं हेतुः, उदाहरणे सादृश्य-
प्रतिपत्तेः। तच्चोदाहरणभाष्ये १ (१.१.३६) व्याख्यातम् । प्रत्यक्षविषयमुदाहरणम्,
दृष्टेनादृष्टसिद्धेः । उपमानमुपनयः, 'तथा' इत्युपसंहारात्, 'न च तथा' इति
वोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहारसिद्धेः। २सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य-
प्रदर्शनं निगमनमिति ।
इतरेतराभिसम्बन्धोऽपि-असत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन् ।
असति हेतौ कस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 72
Page 72 scan

५४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः,
धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः, साधनभूतस्य धर्मस्य साध्येन
धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः, उदाहरणस्थयोर्धर्मयोः साध्यसाधन-
भावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम् ।
न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

४०. सू० ] न्यायोत्तराङ्गप्रकरणम् ५५

Page 73
Page 73 scan

४०. सू० ] न्यायोत्तराङ्गप्रकरणम् ५५
स्विन्नेत्थमिति । विमृश्यमानयोर्धर्मयोरेकं कारणोपपत्त्या अनुजानाति—सम्भ-
वत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्या स्यात्-एवमेतन्नेतरदिति ।
तत्र निदर्शनम्-योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते तं 'तत्त्वतो भो जानीयं' इति
जिज्ञासते । 'स किमुत्पत्तिधर्मकः ? अनुत्पत्तिधर्मकः ?' इति विमर्शः । विमृश्य-
मानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति-‘यद्य-
यमनुत्पत्तिधर्मकः, ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 74
Page 74 scan

५६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
कथं पुनरयं तत्त्वज्ञानार्थः, न तत्त्वज्ञानमेवेति ? अनवधारणात् । अनुजा-
नात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधारयति, न व्यवस्यति, न निश्चि-
नोति—'एवमेवेदम्' इति ।
कथं तत्त्वज्ञानार्थ इति ? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहभावितात् १
प्रसन्नादनन्तरप्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति ।
सोऽयं तर्कः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

सूत्र में ‘विमृश्य’ का अर्थ है विमर्श करके। यह विमर्श पक्ष-प्रतिपक्ष को नियम से

Page 75
Page 75 scan

४१. सू०] न्यायोत्तराङ्गप्रकरणम् ५७
पक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानो पक्षप्रतिपक्षावित्युच्येते। तयोरन्यतरस्य
निवृत्तिः, एकतरस्यावस्थानमवश्यम्भावि। यस्यावस्थानं तस्यावधारणं निर्णयः।
नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति, एको हि प्रतिज्ञातमर्थं हेतुतः
स्थापयति, प्रतिषिद्धं१ चोद्धरति द्वितीयस्य। द्वितीयेन स्थापनाहेतुः प्रतिषिद्ध्यते,
तस्यैव प्रतिषेधहेतुश्चोद्ध्रियते स निवर्त्तते, तस्य निवृत्तौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 76
Page 76 scan

५८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
‘क्रियावद् द्रव्यम्’ इति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति
तत् क्रियावत्, यस्य न सम्भवति तदक्रियमिति । एकधर्मिस्थयोश्च विरुद्धयोर्धर्म-
योरयुगपद्भाविनोः कालविकल्पः, यथा—तदेव द्रव्यं क्रियायुक्तं क्रियावत्, अनु-
त्पन्नोपरतक्रियं पुनरक्रियमिति ।
न चायं निर्णये

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

कथालक्षणप्रकरणम् [ १-३ ]

Page 77
Page 77 scan

[ अथ द्वितीयमाह्निकम् ]
कथालक्षणप्रकरणम् [ १-३ ]
वादलक्षणम्
तिस्रः कथा' भवन्ति—वादः, जल्पः, वितण्डा चेति । तासाम्—
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न पक्षप्रतिपक्ष-
परिग्रहो वादः ॥ १ ॥
एकाधिकरणस्थौ विरुद्धौ धर्मो पक्षप्रतिपक्षौ, प्रत्यनीकभावाद्-अस्त्यात्मा,
नास्त्यात्मेति । नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा—नित्य आत्मा,
अनित्या बुद्धिरिति । परिग्रहः = अभ्युपगमव्यवस्था । सोऽयं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 78
Page 78 scan

६० वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः । प्रतिषेधे कस्यचिदभ्यनुज्ञा-
नार्थम् ‘सिद्धान्ताविरुद्धः’ इति वचनम् । ‘सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः’
( १. २. ६ ) इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे ।
‘पञ्चावयवोपपन्नः’ इति—‘हीनमन्यतमेनाप्यवयवेन न्यूनम्’ (५. २. १२),
‘हेतूदाहरणाधिकमधिकम्’ (५. २. १३) इति च—एतयोरभ्यनुज्ञानार्थामिति ।
अवयवेषु

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

२. सू० ] कथालक्षणप्रकरणम् ६१

Page 79
Page 79 scan

२. सू० ] कथालक्षणप्रकरणम् ६१
विज्ञायि-इत्येवमर्थं पृथक् प्रमाणतर्कग्रहणमिति ॥ १ ॥
जल्पलक्षणम्
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ २ ॥
यथोक्तोपपन्न इति—प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चाव-
यवोपपन्नः पक्षप्रतिपक्षपरिग्रहः१। छलजातिनिग्रहस्थानसाधनोपालम्भ इति—
छलजातिनिग्रहस्थानैः साधनम्, उपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो
जल्पः।
न खलु वै

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 80
Page 80 scan

६२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
यन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत
एतदिति ?
प्रमाणैः साधनोपालम्भयोश्छलजातिनिग्रहस्थानानामङ्गभावः, स्वपक्ष-
रक्षणार्थत्वात्, न स्वतन्त्राणां साधनभावः। यत्तत्प्रमाणैरर्थस्य साधनं तत्र
छलजातिनिग्रहस्थानानामङ्गभावः, स्वपक्षरक्षणार्थत्वात् । तानि हि प्रयुज्य-
मानानि परपक्षविघातेन स्वपक्षं रक्षन्ति । तथा चोक्तम्—'तत्त्वाध्यवसायसंरक्ष-
णार्थं जल्पवितण्डे,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

हेत्वाभासप्रकरणम् [ ४-९ ]

Page 81
Page 81 scan

५. सू० ] हेत्वाभासप्रकरणम् ६३
अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा ? यद्वै खलु तत्परप्रतिषेधलक्षणं
वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति ।
तस्माद्यथान्यासमेवास्त्विति ॥ ३ ॥
हेत्वाभासप्रकरणम् [ ४-९ ]
हेतुलक्षणाभावादहेतवो हेतुसामान्याद्धेतुवदाभासमानाः । त इमे—

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 82
Page 82 scan

६४ . वात्स्यायनभाष्यसहिते न्यायदर्शने [ १ . अ० २ . आ०
श्चाणुर्नित्यश्चेति । आत्मादौ च दृष्टान्ते-'उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः'
( १. १. ३४ ) इति अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति—'अस्पर्शा बुद्धिर-
नित्या च' इति । एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति
लक्षणाभावादहेतुरिति ।
नित्यत्वमप्येकोऽन्तः, अनित्यत्वमप्येकोऽन्तः, एकस्मिन्नन्ते विद्यत इति
ऐकान्तिकः, विपर्ययादनैकान्तिकः, १उभयान्तव्यापकत्वादिति ॥ ५ ॥
(ख)

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

७. सू० ] हेत्वाभासप्रकरणम् ६५

Page 83
Page 83 scan

७. सू० ] हेत्वाभासप्रकरणम् ६५
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेरुपपत्तिः । यदात्मलाभात्प्रच्यवते
तदनित्यं दृष्टम्, यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्म-
लाभात् प्रच्युतिरिति च-विरुद्धावेतौ धर्मौ न सह सम्भवत इति । सोऽयं हेतुर्यं
सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति ।
(ग) प्रकरणसमलक्षणम्
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 84
Page 84 scan

६६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार
एव। या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं
प्रवर्तयति। यथा-- शब्दे नित्यधर्मो नोपलभ्यते, एवमनित्यधर्मोऽपि; सेयमुभय-
पक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति। कथम् ? विपर्यये हि प्रकरण-
निवृत्तेः। यदि नित्यधर्मः शब्दे गृह्येत, न स्यात्प्रकरणम् । यदि वा अनित्य-
धर्मो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

९. सू० ] हेत्वाभासप्रकरणम् ६७

Page 85
Page 85 scan

९. सू० ] हेत्वाभासप्रकरणम् ६७
भाग आवृयते तस्य तस्यासन्निधिरेवाविच्छिन्नो गृह्यत इति । आवरणं तु
प्राप्तिप्रतिषेधः ॥ ८ ॥
(ङ) कालातीतलक्षणम्
कालात्ययापदिष्टः कालातीतः ॥ ९ ॥
कालात्ययेन युक्तो यस्यार्थैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः
'कालातीतः' इत्युच्यते । निदर्शनम्—'नित्यः शब्दः संयोगव्यंग्यत्वाद् रूपवत्' ।
प्रागूर्ध्वं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते । तथा च शब्दोऽप्यव-
स्थितो भेरीदण्डसंयोगेन व्यज्यते,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

अवयवविपर्यासवचनं न सूत्रार्थः१। कस्मात् ?

Page 86
Page 86 scan

६८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
अवयवविपर्यासवचनं न सूत्रार्थः१। कस्मात् ?
"यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्” ॥
इत्येतद्वचनाद्विपर्यसिनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधर्म्यात् साध्यसाधनं
हेतुलक्षणं न जहाति। अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति ।
'अवयवविपर्यासवचनमप्राप्तकालम्' ( ५. २. ११) इति निग्रहस्थानमुक्तम्,
तदेवेदं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१२. सू० ] छलप्रकरणम् ६९

Page 87
Page 87 scan

१२. सू० ] छलप्रकरणम् ६९
विभागश्च—
तत्त्रिविधम्—वाक्छलम्, सामान्यच्छलम्, उपचारच्छलं चेति ॥ ११ ॥
वाक्छललक्षणम्
तेषाम्—
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥
'नवकम्बलोऽयं माणवकः' इति प्रयोगः। अत्र 'नवः कम्बलोऽस्य' इति वक्तु-
रभिप्रायः। विग्रहे तु विशेषः, न समासे। तत्रायं छलवादी वक्तुरभिप्रायादवि-
वक्षितमन्यमर्थम्—'नव कम्बला अस्येति तावदभिहितं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 88
Page 88 scan

७० वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
विशेषो वक्तव्यः । यस्माद्विशेषोऽर्थविशेषु विज्ञायते—अयमर्थोऽनेनाभिहित इति,
स च विशेषो नास्ति । तस्मान्मिथ्याभियोगमात्रमेतदिति ।
प्रसिद्धश्च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः । 'अस्याभि-
धानस्यायमर्थोऽभिधेयः' इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य ।
प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते, नाप्रयुक्तपूर्वाः । प्रयोगश्चार्थसम्प्रत्ययार्थः,
अर्थप्रत्ययाच्च व्यवहार इति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१३. सू० ] छलप्रकरणम् ७१

Page 89
Page 89 scan

१३. सू० ] छलप्रकरणम् ७१
'अहो खल्वसौ ब्राह्मणो विद्याऽऽचरणसम्पन्नः' इत्युक्ते कश्चिदाह—'सम्भ-
वति ब्राह्मणे विद्याऽऽचरणसम्पत्' इति । अस्य वचनस्य विघातोऽर्थविकल्पो-
पपत्त्याऽसम्भूतार्थकल्पनया क्रियते—यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति
व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्नः । यद्वि-
वक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् । यथा—ब्राह्मणत्वं विद्याचरण-
सम्पदं क्वचिदाप्नोति, क्वचिदत्येति । सामान्यनिमित्तं छलं सामान्यच्छलमिति ।
अस्य च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in