Skip to content
SarvaKosh
Back to the archive

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

About this granth

Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.

This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.

The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.

११. सू० ] क्षणभङ्गपरीक्षाप्रकरणम् २२९

Page 247
Page 247 scan

११. सू० ] क्षणभङ्गपरीक्षाप्रकरणम् २२९
स्फटिकेऽप्यपरावरोत्पत्तेः क्षणिकत्वाच्चव्यक्तीनामहेतुः ॥ १० ॥
स्फटिकस्याभेदेनावस्थितस्योपधानभेदान्नानात्वाभिमान इत्ययमविद्यमान-
हेतुकः पक्षः । कस्मात् ? स्फटिकेऽप्यपरावरोत्पत्तेः । स्फटिकेऽपि अन्या व्यक्तय
उत्पद्यन्ते, अन्या निरुद्ध्यन्त इति । कथम् ? क्षणिकत्वाद् व्यक्तीनाम् । क्षणश्चा-
ल्पीयान् कालः, क्षणस्थितिकाः = क्षणिकाः । कथं पुनर्गम्यते-क्षणिका व्यक्तय
इति ? उपचयापचयप्रबन्धदर्शनाच्छरीरादिषु ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 248
Page 248 scan

२३० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
भ्यनुज्ञा। यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनामपरापरो-
त्पत्तिरुपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते, यथा—शरीरादिषु। यत्र यत्र न
दृश्यते तत्र तत्र प्रत्याख्यायते, यथा—ग्रावप्रभृतिषु। स्फटिकेऽप्युपचयापचय-
प्रबन्धो न दृश्यते। तस्मादयुक्तम्—स्फटिकेऽप्यपरापरोत्पत्तिरिति। यथा चार्कस्य
कटुकिम्ना सर्वद्रव्याणां कटुकिमानमापादयेत्, तादृगेतदिति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१५. सू० ] क्षणभङ्गपरीक्षाप्रकरणम् २३१

Page 249
Page 249 scan

१५. सू० ] क्षणभङ्गपरीक्षाप्रकरणम् २३१
यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते, तथा
स्फटिकेऽपरापरासु व्यक्तिषु विनाशकारणमुत्पादकारणं चाभ्यनुज्ञेयमिति ॥१३॥
लिङ्गतो ग्रहणान्नानुपलब्धिः ॥ १४ ॥
क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं
च गृह्यते, अतो नानुपलब्धिः, विपर्ययस्तु स्फटिकादिषु अपरापरोत्पत्तीनां न
लिङ्गमस्तीत्यनुत्पत्तिरेवेति१ ॥ १४ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 250
Page 250 scan

२३२ वात्स्यायनभाष्यसहिते न्यायदर्शने • [ ३ अ० २. आ०
अत्र तु प्रतिषेधः—
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥ १६ ॥
सम्मूर्च्छनलक्षणादवयवव्यूहाद् द्रव्यान्तरे दध्युत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्य-
मवयवविभागेभ्यो निवृत्तमित्यनुमीयते, यथा—मृदवयवानां व्यूहान्तराद् द्रव्या-
न्तरे स्थाल्यामुत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्तत इति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

१८. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३३

Page 251
Page 251 scan

१८. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३३
उत्पत्तिकारणभावाच्चोत्पत्तिः। एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारण-
भावाद्धिनाशोत्पत्तिभाव इति।
निरधिष्ठानं च दृष्टान्तवचनम्। गृह्यमाणयोर्विनाशोत्पादयोः स्फटिकादिषु
स्यादयमाश्रयवान् दृष्टान्तः—क्षीरविनाशकारणानुपलब्धिवद्, दध्युत्पत्तिवच्चेति,
तौ तु न गृह्येते। तस्मान्निरधिष्ठानोऽयं दृष्टान्त इति।
अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ, योऽत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 252
Page 252 scan

२३४ वात्स्यायनभाष्यसहिते न्यायदर्शने [३. अ० २. आ०
खल्वयमर्थः, परीक्षाशेषं प्रवर्त्तयामोति प्रक्रियते। सोऽयं बुद्धौ सन्निकर्षोत्पत्तेः
संशयः; विशेषास्याग्रहणादिति। तत्रायं विशेष :—
नेन्द्रियार्थयोः, तद्विनाशेऽपि ज्ञानावस्थानात् ॥ १८ ॥
नेन्द्रियाणामर्थानां वा गुणो ज्ञानम्; तेषां विनाशे ज्ञानस्य भावात्। भवति
खल्विदमिन्द्रियेऽर्थे च विनष्टे—ज्ञानमद्राक्षमिति। न च ज्ञातरि विनष्टे ज्ञानं
भवितुमर्हति। अन्यत् खलु वै

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

सूत्रस्थ 'च' से एक अर्थ यह भी निकलता है कि यदि ज्ञान को मन का गुण मानोगे

Page 253
Page 253 scan

२० सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३५
नुपलब्ध्या यदनुमीयते अन्तःकरणं न तस्य गुणो ज्ञानम्। कस्य तर्हि ? ज्ञस्य१,
वशित्वात्। वशी ज्ञाता, वश्यं करणम्, ज्ञानगुणत्वे वा करणभावनिवृत्तिः ।
घ्राणादिसाधनस्य च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते-अन्तःकरणसाधनस्य
सुखादिज्ञानं स्मृतिश्चेति । तत्र यज्ज्ञानगुणं मनः स आत्मा, यत्तु सुखाद्युपलब्धि-
साधनमन्तःकरणं मनस्तदिति संज्ञाभेदमात्रं नार्थभेद इति ।
युगपज्ज्ञेयानुपलब्धेश्च योगिन इति वा चार्थः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

सूत्र का भी समुच्चय कर लेना चाहिये । गुणनाश के हेतु दो हो सकते हैं—१. या तो

Page 254
Page 254 scan

२३६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ? ॥ २० ॥
इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ॥ २१ ॥
गन्धाद्युपलब्धेरिन्द्रियार्थसन्निकर्षवदिन्द्रियमनःसन्निकर्षोऽपि कारणम्, तस्य
चायौगपद्यमणुत्वान्मनसः । अयौगपद्यादनुत्पत्तिर्युगपज्ज्ञानानामात्मगुणत्वे-
ऽपीति ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

२५. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३७

Page 255
Page 255 scan

२५. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३७
हेतुः-गुणानामाश्रयाभावः, विरोधी च गुणः । नित्यत्वादात्मनोऽनुपपन्नः पूर्वः,
विरोधी च बुद्धेर्गुणो न गृह्यते । तस्मादात्मगुणत्वे सति बुद्धेर्नित्यत्व-
प्रसङ्गः ? ॥ २३ ॥
अनित्यत्वग्रहात् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥ २४ ॥
अनित्या बुद्धिरिति सर्वशरीरिणां प्रत्यात्मवेदनीयमेतत् । गृह्यते च बुद्धि-
सन्तानस्तत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 256
Page 256 scan

२३८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
ज्ञानसाधनः संस्कारो ज्ञानमित्युच्यते, ज्ञानसंस्कृतैरात्मप्रदेशैः पर्यायेण मनः
सन्निकृष्यते । आत्ममनःसन्निकर्षात् स्मृतयोऽपि पर्यायेण भवन्तीति ? ॥ २५ ॥
न; अन्तःशरीरवृत्तित्वान्मनसः ॥ २६ ॥
सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिष्यते ।
तत्रास्य प्राक् प्रायणादन्तःशरीरे वर्तमानस्य मनसः शरीराद्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३१. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३९

Page 257
Page 257 scan

३१. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३९
न; तदाशुगतित्वान्मनसः ? ॥ २९ ॥
आशुगति मनः, तस्य बहिः शरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्निकर्षः,
प्रत्यागतस्य च प्रयत्नोत्पादनमुभयं युज्यते इति । उत्पाद्य वा धारकं प्रयत्नं
शरीरान्निःसरणं मनसः; अतस्तत्रोपपन्नं धारणमिति ? ॥ २९ ॥
न; स्मरणकालानियमात् ॥ ३० ॥
किञ्चित्क्षिप्रं स्मर्यते, किञ्चिच्चिरेण । यदा चिरेण, तदा सुस्मूर्षया मनसि
धार्यमाणे चिन्ताप्रवन्धे सति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 258
Page 258 scan

२४० ' वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
वाऽऽकस्मिकतया, ज्ञातया व मनसः ? सर्वथा चानुपपत्तिः। कथम् ? स्मर्त्तव्यत्वादि-
च्छात्तः स्मरणज्ञानासम्भवाच्च । यदि तावदात्मा-अमुष्यार्थस्य स्मृतिहेतुः संस्कारः
अमुस्मिन्नात्मदेशे समवेतस्तेन मनः संयुज्यतामिति मनः प्रेरयति, तदा स्मृत एवा-
सावर्थो भवति, न स्मर्त्तव्यः । न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा, तत्रानुप-
पन्नाऽऽत्मप्रत्यक्षेण संवित्तिरिति । सुस्मूर्षया चायं मनः प्रणिदधानश्चिरादपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३३. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४१

Page 259
Page 259 scan

३३. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४१
सिध्यतीत्येवं चेन्मन्यसे ? समानम् । स्मृतिहेतावपि संयोगविशेषो भवितुमर्हति ।
तत्र यदुक्तम्- 'आत्मप्रेरणयहच्छाज्ञातृभिश्च न संयोगविशेषः' (३.२.३१) इति,
अयमप्रतिषेध इति । पूर्वस्तु प्रतिषेधः 'नान्तःशरीरवृत्तित्वान्मनसः' (३.२.२६)
इति ? ॥ ३२ ॥
कः खल्विदानीं कारणयौगपद्यसद्भावे युगपदस्मरणस्य हेतुरिति ?
प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥ ३३ ॥
यथा खल्वात्ममनसोः सन्निकर्षः संस्कारश्च स्मृतिहेतुः, एवं प्रणिधानं लिङ्गा-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 260
Page 260 scan

२४२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
स्मृतिरुत्पन्ना' इति, असंवेदनात् प्रातिभमिव ज्ञानमिदं स्मार्तमित्यभिमन्यते । न
त्वस्ति प्रणिधानाद्यनपेक्षं स्मार्तमिति ।
प्रातिभे कथमिति चेत् ? पुरुषकर्मविशेषादुपभोगवन्नियमः ।
प्रातिभमिदानीं ज्ञानं युगपत् कस्मान्नोत्पद्यते ? यथोपभोगार्थं कर्म युगपदु-
पभोगं न करोति, एवं पुरुषकर्मविशेषः प्रतिभाहेतुर्न युगपदनेकं प्रातिभं ज्ञान-
मुत्पादयति ।
हेत्वभावादयुक्तमिति चेद् ? न; करणस्य प्रत्ययपर्याये सामर्थ्यात् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३४. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४३

Page 261
Page 261 scan

३४. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४३
स्यानेकस्य युगपत् स्मरणं प्रसज्यते; प्रदेशसंयोगपर्यायाभावादिति । आत्मप्रदे-
शानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे स्मृतियौगपद्यप्रतिषेधानुपपत्तिः ।
शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या
मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिप्रसङ्गः । पूर्वं एव तु प्रतिषेधो नानेकज्ञानसम-
वायादेकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति ॥ ३३ ॥
यत् 'पुरुषधर्मो ज्ञानमन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 262
Page 262 scan

२४४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
सुखदुःखानि धर्माः, नाचेतनस्येति । आरम्भनिवृत्त्योश्च प्रत्यगात्मनि दृष्टत्वात्
परत्रानुमानं वेदितव्यमिति ॥ ३४ ॥
अत्र भूतचैतनिकः १ आह—
तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ? ॥ ३५ ॥
आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य
ज्ञानमिति प्राप्तम्—पार्थिवाप्यतैजसवायवीयानां शरीराणारम्भनिवृत्तिदर्शना-
दिच्छाद्वेषज्ञानैर्योग इति चैतन्यम् ?

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३७. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४५

Page 263
Page 263 scan

३७. सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २४५
अयं तर्ह्यन्योऽर्थः—तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः। पृथ्वि-
व्यादीनां भूतानामारम्भस्तावत्तदसत्स्थावरशरीरेषु तदवयव्यूहलिङ्गः प्रवृत्ति-
विशेषः. लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः, आरम्भ-
निवृत्तिलिङ्गाविच्छाद्वेषाविति । पार्थिवाद्येष्वणुषु तद्दर्शनादिच्छाद्वेषयोगः, त-
द्योगाज् ज्ञानयोग इति सिद्धं भूतचैतन्यमिति ?
कुम्भादिष्वनुपलब्धेरहेतुः¹। कुम्भादिमृदवयवानां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 264
Page 264 scan

२४६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
नियमः स्यात्, यथा-भूतानां गुणान्तरनिमित्ता प्रवृत्तिर्गुणप्रतिबन्धाच्चानिवृ-
त्तिर्भूतमात्रे भवति नियमेन; एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्तौ
स्वाश्रये स्याताम् ! न तु भवतः । तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः,
प्रयोज्याश्रये तु प्रवृत्तिनिवृत्ती इति सिद्धम् ।
एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम् । भूतचैतनिकस्यैकशरीरे बहूनि
भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम् । ओमिति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

·३८. सू० ]· बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् :२४७

Page 265
Page 265 scan

·३८. सू० ]· बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् :२४७
आत्मास्तित्वहेतुभिरात्मनित्यत्वहेतुभिश्च भूतचैतन्यप्रतिषेधः कृतो वेदि-
तव्यः । 'नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात्' ( ३.२.१८ ) इति च
समानः प्रतिषेध इति । क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्यभिप्रेत्यो-
क्तम्-‘तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः' ( ३.२.३५ ) । अन्यथा
त्विमे आरम्भनिवृत्ती आख्याते, न च तथाविधे पृथिव्यादिषु दृश्येते, तस्मादयु-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 266
Page 266 scan

२४८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० २. आ०
अकृताभ्यागमाच्च । 'प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः' (१.१.१७) इति चैतन्ये
भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात् । अचैतन्ये तु तत्सा-
धनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्युपपद्यत इति ॥ ३८ ॥
अथायं सिद्धोपसङ्ग्रहः—
परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ३९ ॥
आत्मगुणो ज्ञानमिति प्रकृतम् । परिशेषो नाम 'प्रसक्तप्रतिषेधे अन्यत्रा-
प्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः' ( १.१.५ सू०

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in