Skip to content
SarvaKosh
न्याय दर्शन (वात्स्यायन भाष्य सहित)

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

Page 253 of 410

Read in context
Page 253
Page 253 scan

२० सू० ] बुद्धेरात्मगुणत्वपरीक्षाप्रकरणम् २३५
नुपलब्ध्या यदनुमीयते अन्तःकरणं न तस्य गुणो ज्ञानम्। कस्य तर्हि ? ज्ञस्य१,
वशित्वात्। वशी ज्ञाता, वश्यं करणम्, ज्ञानगुणत्वे वा करणभावनिवृत्तिः ।
घ्राणादिसाधनस्य च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते-अन्तःकरणसाधनस्य
सुखादिज्ञानं स्मृतिश्चेति । तत्र यज्ज्ञानगुणं मनः स आत्मा, यत्तु सुखाद्युपलब्धि-
साधनमन्तःकरणं मनस्तदिति संज्ञाभेदमात्रं नार्थभेद इति ।
युगपज्ज्ञेयानुपलब्धेश्च योगिन इति वा चार्थः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in