वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
द्वितीयोंऽशः ३६९
इत्यत्र वज्रपाणिशब्देन लकार एवोद्धृतो न ळकारः तथापि लळयोरभेदाभिप्रायेणेदम् ।
अत एव क्वचित्तन्त्रे त्रिखण्डीगतास्त्रयो ऽपि मोहार्णपदेन ळकारा एवोद्धृताः ।
नपुंसकमिति । अव्ययमित्येव युक्तम्, स्वरादेराकृतिगणत्वात् । अत एव त्रिशत्यामेकोन-
शततमस्य नाम्नो नमोयोगे चतुर्थ्यां प्राप्तायामपि 'ह्रीं नमः' इत्येव सांप्रदायिकानां
प्रयोगः सङ्गच्छते ॥ १३४-१३६ ॥
- सरोजिनी *
“कः प्रजापतिरुद्दिष्टः” = ‘क’ = ब्रह्मा ॥
“एकार उच्यते विष्णुः ॥” = ‘ए’ = विष्णु ॥
“अकारो ब्रह्मविष्ण्वीशकमठेषु” = ‘अ’ = ईश ॥
प्रथमकूट = ऋग्वेदात्मक । “कामराजकूट” = यजुर्वेदात्मक ॥
तृतीयकूट = सामवेदात्मक ॥
अनुत्तर अकार
२४ वरि.
३७० वरिवस्यारहस्ये
‘अ’ = १. परमात्मा । परमशिव
२. आत्मा
३. चराचर जगत का बीज
४. समस्त वर्णमाला में अनुस्यूत एवं उसका जनक
५. वर्णमाला की आत्मा एवं सर्वसार तत्त्व
६. शब्द ब्रह्म ] तान्त्रिक योग की चरमोपलब्धि है—‘अहं’ =
७. प्रथम स्पन्द ] ‘पूर्णहन्ता’ । ‘पूर्णहन्ता’ है—पूर्ण ‘अ + ह’
८. शिव + शक्ति से अभिन्न अहं ही मन्त्र है । यही अहं अपरिमेय
पूर्णहन्ता में परिणत हो जाता है ।
अबिन्दुविसर्गं च अकारं जपतो महान् ।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥ (विज्ञान भैरव)
हसकं तु हसद्वदनं मतं ककारस्य वदनवाचित्वात् ।
यद्वा हस आनन्दः कः सूर्यो हस्तु चन्द्रः स्यात् ॥ १३७ ॥
एतौ लौ नयने यस्य तत्तु कहलं रवीन्दुनेत्रमिति ।
तेन प्रकाशकत्वाच्चिद्रूपत्वं च निगदितं भवति ॥ १३८ ॥
विधिहरिगिरिशेड्यत्वे हेतू एते हसत्वकहलत्वे ।
तेनात्यमितानन्दं चिद्ब्रह्मेति द्वितीयकूटार्थः ॥ १३९ ॥
(ह स क ह ल का अर्थ)
ककार के मुखार्थक होने के कारण ‘ह स क’ (वर्णों) का अर्थ ‘हँसता हुआ
मुख’ समझना चाहिए । या ‘ह स’ का अर्थ ‘आनन्द’, ‘क’ का सूर्य एवं ‘ह’ का
अर्थ चन्द्रमा हो (है) । ये दोनों (क एवं ह अर्थात् सूर्य एवं चन्द्रमा) जिसके नेत्र
(ल) हैं वह सूर्यचन्द्रनयनी ‘क ह ल’ है । अतः प्रकाशक होने के कारण (उसकी)
चैतन्यरूपता कही गई है ।
ये दोनों ‘हसत्व’ एवं ‘कहलत्व’ (ही) ब्रह्मा, विष्णु एवं रुद्र के द्वारा ब्रह्म के
स्तुत्य होने में (मूलभूत) कारण हैं । अतः द्वितीयकूट का अर्थ हुआ—‘अपरिमेय
आनन्द एवं चिद्रूप ब्रह्म’ ॥ १३७-१३९ ॥
- प्रकाश *
हसो हास्यम् । अर्शादित्वान्मत्वर्थीयो ऽच् । ततः ककारेण मुखवाचकेन
बहुव्रीहिः । हसः को यस्य तदिति विग्रहः । यद्वा हासस्यानन्दजन्यत्वादानन्दे हसपदस्य
लक्षणा । कश्च हश्च कहौ, कहौ लौ यस्य तत् कहलम् । ‘मुखे सूर्ये ऽपि कः स्मृतः’
‘हः कोपे वरुणे चन्द्रे’ ‘इन्द्रे ऽपि लोचने लः स्यात्’ इत्येकाक्षरनिघण्टुः । हसपद-
द्वितीयोऽंशः ३७१
कहलपदयोः कर्मधारयः । एतदर्थप्रतिपादकं मूलमाह—हेतू इति । यतो ह्रीं हसकहलँ
ततो ह्रीं कएईलमित्यन्वयः ॥ १३७-१३९ ॥
- सरोजिनी *
इन श्लोकों में द्वितीयकूट का अर्थ समझाया गया है । 'ह स क' =
हँसता हुआ मुख ॥ 'ह स' = आनन्द । 'क' = सूर्य ॥ 'ह' = चन्द्रमा ॥
'क + ह' = (सूर्य एवं चन्द्र) जिसके नेत्र हों वही है = सूर्यचन्द्रनयनी
अर्थात् 'क ह ल' । 'क ह ल' = सूर्यचन्द्रनयनी ॥ (प्रकाशक)
द्वितीयकूट का सम्पूर्ण अर्थ—'अपरिमेय आनन्द एवं चिद्रूप ब्रह्म ।'
सकलकलाभिः सहितं सकलं ब्रह्म तु तृतीयकूटार्थः ।
इत्थं गुणगणकथनाद्विद्याया एष सगुणार्थः ॥ १४० ॥
(तृतीयकूट एवं सगुणार्थ के स्वरूप का विवेचन)
समस्त कलाओं से युक्त ब्रह्म 'स क ल' है—यही तृतीय कूट का अर्थ है ।
इस प्रकार (समस्त) गुणसमूह के कथन द्वारा विद्या का यह 'सगुणार्थ' (कहा गया)
है ॥ १४० ॥ - प्रकाश *
— अत्र सर्वत्र सुलोपः । स्पष्टमन्यत् ॥ १४० ॥ - सरोजिनी *
प्रस्तुत श्लोक में 'तृतीयकूट' का अर्थ समझाया गया है । और विद्या के
'सगुणार्थ' की व्याख्या की गई है ।
“स क ल”—समस्त कलाओं से युक्त ब्रह्म ।
चरमोद्दिष्टं महावाक्यार्थमाह—
विधिहरिशिववचना अपि ककार एकारको ऽकारः ।
सृष्टिस्थितिभङ्गात्मकतत्तज्जनकत्वलाक्षणिकाः ॥ १४१ ॥
ईश्वरवाचीकारो वक्ति डकारः सदाशिवं ताभ्याम् ।
लक्षणया तत्र तिरोधानानुग्रहणकृत्यता गदिता ॥ १४२ ॥
(मंत्रगत 'ककार', 'एकार' एवं 'अकार' की त्रिदेवों से तदात्मता का प्रतिपादन)
ब्रह्मा, विष्णु एवं शिव शब्द भी ककार, एकार एवं अकार से अभिन्न हैं
(उनका), सृष्टि-स्थिति-संहार का कारकत्व एवं (उनका) इन कार्यों को उत्पन्न करना
लाक्षणिक है ॥ १४१ ॥
३७२ वरिवस्यारहस्ये
ईकार ईश्वर का वाचक है तथा उकार सदाशिव का वाचक है । लक्षणा वृत्ति
से इन दोनों (वर्णों) के द्वारा उन (देवताओं) में (क्रमशः) तिरोधान एवं अनुग्रह
करने की क्षमता होना द्योतित किया गया है (कहा गया है।) ॥ १४२ ॥
- प्रकाश *
ईकारस्य नामैकदेशन्यायेनेश्वरबोधकत्वम् । 'डो महेशः समाख्यातः' इति वचने
ऽपि प्रकृते सदाशिव एवानुग्रहकर्ता विवक्षितः । एतेन 'यतो वा इमानि भूतानि जायन्ते'
इत्यादिश्रुतावुक्तं ब्रह्मणस्तटस्थलक्षणमुक्तं भवति ॥ १४१-१४२ ॥ - सरोजिनी *
ककार = ब्रह्मा । एकार = विष्णु । अकार = शिव ॥ त्रिदेवों के लाक्षणिक
कारकत्व—ब्रह्मा = सृष्टि । विष्णु = स्थिति । शिव = संहार ॥
“अः इति ब्रह्म तत्रागतमहमिति” (ऐ०उ०)—“अः ही ब्रह्म है तत्रागतम् इस
विग्रह के अनुसार 'अहं' रूप निष्पन्न होता है ।”
'ई' का अर्थ—नामैकदेशन्याय के अनुसार 'ई' का अर्थ है—'ईश्वर' ।'
'डो महेशः समाख्यातः' के प्रमाण के आधार पर 'ड' का अर्थ अनुग्रहकर्ता
सदाशिव स्वीकार किया गया है ।
'ई' = ईश्वर ॥ 'ड' = सदाशिव ॥
'यतो वा इमानि भूतानि जायन्ते' आदि कहकर ब्रह्म का लक्षण जो स्रष्टा,
पालक एवं संहारक कहा गया है वह उसका तटस्थ लक्षण है जबकि अनुग्रह
उसका मुख्य लक्षण होने के कारण 'ड' अनुग्रह करने वाले सदाशिव का वाचक
स्वीकार किया गया है ।
'ई' एवं 'ड' वर्ण = ईश्वर एवं सदाशिव की तिरोधान एवं अनुग्रह क्षमता के
प्रतीक या वाचक हैं ॥ १४१-१४२ ॥
अथ 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्युक्तं स्वरूपलक्षणं द्वितीयकूटेनाह—
हस आनन्दः सत्यं कं हमनन्तं च लं ज्ञानम् ।
इत्थं ब्रह्म तटस्थस्वरूपलक्षणयुगेन निर्णीय ॥ १४३ ॥
तदभेदं जीवगणे वक्ति तृतीयेन कूटेन ।
जाग्रत्स्वप्नसुषुप्त्याख्यकलात्रितयेन १साहित्यात् ॥ १४४ ॥
सकलपदं जीवपरं ब्रह्मपरं शक्तिबीजं स्यात् ।
सामानाधिकरण्यात् तल्लक्षितशुद्धयोरभेदार्थः ॥ १४५ ॥
१. सहित्वात्
द्वितीयोऽंशः ३७३
अत्यल्पमिदं कथितं यत् सर्वं खल्विदं ब्रह्म ।
इत्येवं बोधयितुं सकलपदं वा तृतीयकूटगतम् ॥ १४६ ॥
एवमवान्तरवाक्यैर्जीवब्रह्मस्वरूपमभिधाय ।
तद्भेदो वर्णित इत्येष महापूर्ववाक्यार्थः ॥ १४७ ॥
(पंचदशी मंत्रगत 'ह स क ह ल' के अर्थ का विवेचन)
(पंचदशी मंत्रगत) 'ह' एवं 'स' (वर्ण) आनन्द, 'क' सत्य, 'ह' अनन्त एवं
'ल' ज्ञान (के वाचक) हैं । इस प्रकार (ब्रह्म के) तटस्थ एवं स्वरूप दो लक्षणों के
द्वारा ब्रह्म का निर्णय करके... ॥ १४३ ॥
(तृतीयकूट द्वारा जीवब्रह्मैक्य की स्थापना का प्रतिपादन)
तृतीयकूट (शक्तिकूट) द्वारा ब्रह्म एवं जीव-समूह में अभिन्नता कही गई है ।
जागृति, स्वप्न एवं सुषुप्ति इन तीन कलाओं से युक्त होने के कारण ॥ १४४ ॥
(मन्त्रगत 'स क ल' पद का अर्थ)
पंचदशीमंत्रगत 'स' 'क' 'ल' (वर्णों की समष्टि) जीव का वाचक है ।
शक्ति-बीज ('ह्रीं') ब्रह्म का वाचक है । (उन दोनों में) सामानाधिकरण्य होने के
कारण उनके द्वारा सङ्केतित शुद्ध वस्तुएँ अभिन्न हैं ॥ १४५ ॥
('स' 'क' 'ल'-मंत्राक्षर का अर्थ)
यहाँ तक अत्यन्त कम कहा गया है । तृतीयकूट के 'स' 'क' एवं 'ल'
वर्ण, 'निश्चय ही यह सब ब्रह्म ही है—इस अर्थ को ही बोधित करने के लिए
प्रयुक्त किए गए हैं ॥ १४६ ॥
(मन्त्रगत महावाक्यार्थ का स्वरूप)
इस प्रकार आन्तर वाक्यों द्वारा जीव एवं ब्रह्म के स्वरूप पर प्रकाश डालकर
उनमें (जीव एवं ब्रह्म में) अभिन्नता (अभेदात्मकता) का वर्णन किया गया है और
यही है महावाक्यार्थ ॥ १४७ ॥
- प्रकाश *
'सखा कश्च बुधैः प्रोक्तः' इति कोशात् ककारः सखिवाचकः । सखित्व-
माप्तत्वम् । तच्च यथार्थवक्तृत्वमिति शक्यसंबन्धेन प्रकृते सत्यमेव विवक्षितम् । एवं
हकारस्य व्योमबीजत्वेन व्योम्नो ऽनन्तत्वादनन्तमित्यर्थः । प्रत्यक्षज्ञानजनकलोचनवाचि-
लकारस्य ज्ञानमर्थः ।
'तत्त्वमसि' इति महावाक्ये तत्पदार्थत्वंपदार्थयोरेकविभक्तिमत्त्वरूपसामानाधि-
करण्यादभेदो बोध्यते । स च वाच्यार्थयोरसंभवाज्जहदजहल्लक्षणया लक्ष्यपदार्थयोरिति
स्थितिः । तत्र तत्पदस्य वाच्यार्थः सृष्ट्यादिकृत्यपञ्चकजनकः । स च 'यतो वा इमानि
भूतानि जायन्ते' इत्यादिना श्रुतावुक्तः । लक्ष्यार्थस्तु कृत्यातीतं निर्विशेषं ब्रह्म । तदपि
३७४ वरिवस्यारहस्ये
'सत्यं ज्ञानम्' इत्यादिना प्रतिपादितम् । एवं त्वंपदस्य वाच्यार्थो जाग्रदाद्यवस्था-
पञ्चकविशिष्टः । स च 'तद्यथा ऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः
संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति । तद्यथा
महामत्स्यः' इत्यादिश्रुतिभिरुक्तः । लक्ष्यार्थस्त्ववस्थाद्यतीतं ब्रह्म । तदपि 'यो ऽयं
विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः, न दृष्टेर्द्रष्टारं पश्येः' इत्यादिभिः प्रतिपादितम् ।
एवमवान्तरवाक्यैर्वाच्यार्थलक्ष्यार्थयोर्निर्णये सति, तथा महावाक्ये लक्ष्यार्थयोरभेद-
बोधः । यद्यपि श्रुतिषु कृत्यत्रयमवस्थात्रयमेव वर्ण्यते, तथापि तन्त्रानुसारात्
तत्पञ्चकोपलक्षणपरत्वेन व्याख्येयं त्रिवृत्करणस्य पञ्चीकरणपरत्वमिव । एवं च प्रकृते
तृतीयकूटस्थसकलपदेन कलाभिरवस्थाभिः सहित इत्यर्थकेन वाच्यार्थस्योक्तावपि
लक्ष्यार्थानुक्तेर्न्यूनता । तदर्थं च कूटद्वयमेवावृत्त्या त्वंपदस्य वाच्यार्थलक्ष्यार्थयोः
समर्पकत्वेन व्याख्येयम् । अथ वा, तान्त्रिकाणां मते वाच्यार्थयोरप्यत्यन्ताभेदस्य
शांभवानन्दकल्पलताकारादिभिरुपपादनात् कूटद्वयेन सृष्टिकर्तृत्वादिविशिष्टस्यावस्थादि-
विशिष्टस्यैव वाच्यार्थस्य समर्पणम्; तृतीयकूटे तु तयोरभेदो जगतो वा संपूर्णस्याभेदो
बोध्यते । इह यावान् वक्तव्यो ऽशस्तावत्ः सर्वस्याप्युक्तौ वेदान्तशास्त्रस्यैव कृत्स्नस्या-
रम्भणीयतापद्योपरम्यते । महापूर्वेति । महांश्चासौ पूर्वश्च वाक्यार्थ इति, महाशब्दः पूर्वो
यस्मिन् वाक्ये शब्दे तस्य महावाक्यस्यार्थ इति वा निरुक्तिः । एते चार्था उपलक्षण-
भूताः तेन तन्त्रेषु तत्र तत्रोक्तानामन्येषामप्यर्थानां संग्रहः । तथा हि—योगिनीहृदये तावत्
'आत्मनः स्फुरणं पश्येद् यदा सा परमा कला' इत्यारभ्य कांश्चिचतुरश्चतुरः
पदार्थानुक्त्वा तद्वाचकत्वं कूटत्रयं तुरीयविद्या चेति चतुर्णां शब्दानां प्रतिपादितम्—
'कूटत्रितययुक्तस्य सकलस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥'
इति । एवं च यावन्ति चतुष्काणि तावन्तो मन्त्रार्थाः । तानि च प्रथमे ऽंशे
'पुटधाम—' इत्यादिश्लोकोक्तानि । तत्र हि यद्यपि कूटानां पुटाद्यभेद एवोक्तः, तथापि
स वाच्यवाचकभाव एव पर्यवस्यति, शब्दार्थयोस्तादात्म्यस्यैव शक्तिरूपत्वेन पातञ्जले
मञ्जूषायां च स्फुटतरमुपपादनात् । एवं कादिमते पञ्चत्रिंशे पटले चतुर्विंशादिभिस्त्रि-
भिर्व्याकुलाक्षरैः श्लोकैरर्थो वर्णितः—
'र्णैः यामिलिर्वतास्त्रिल तेर्थोधीकयलाऽभिस ।
णदेरूपेपेणवीशे तम् दीमिनरिस्त्यादते ॥ १ ॥
त्वंतोगशेत्कृषजंअ तमूत्ममील्लेरिखाकह ।
तःर्थकस्याथिश्चास्तुत तःत्रेगोर्वपितुषुस ॥ २ ॥
त्वङ्गामान्मानप्रशव्यो नानमसग्निमात्वग्र ।
रोमईद्योकार्विशति नमृतभान्दुलनान्त्रिबि ॥ ३ ॥
इति । एतेषां वाचनक्रमो यथा—
'देवतारथगोमूक (८४६२७३५१) इति यो वेत्ति न क्रमम् ।
स व्याकुलाक्षरे मूको देवतारथगो ऽपि सन् ॥'
द्वितीयोंऽशः ३७५
इति¹। तृतीयकूटे वर्णत्रयं सर्वार्थकम्; तुर्यमक्षरं देव्यर्थकम्; तेनायमर्थः संपन्न
इति प्रथमश्लोकस्यार्थः । सर्वं जगद्देवीरूपमेवेत्यर्थस्तन्त्रान्तरेषु गोपित-
इति द्वितीयश्लोकस्य । लज्जाबीजस्थैश्चतुर्भिरक्षरैर्यत् प्रकाशकं यच्च ग्रसिष्णु,
तयोर्यत् सामरस्यं तत्तादात्म्यं द्वितीये प्रतिपाद्यत इति तृतीयस्य । प्रकाश-ग्रासशब्दौ
तूत्पत्तिसंहारयोर्विद्याविद्ययोर्वा वाचकाविति । अयमप्यर्थः 'अत्यल्पमिदं कथितम्' इति
श्लोके सूचितः । एवं चात्र 'पुटधाम-' इति श्लोके त्रयोदशार्थाः; गायत्र्यादि-
पञ्चदशार्थेषु भावार्थाश्चत्वारः, नामार्थास्त्रयः, शाक्तार्थौ द्वौ, कौलिकार्थेऽपि गणेशादि-
रूपत्वस्य देवीविद्याचक्रभेदेन त्रैविध्यम्, महावाक्यार्थे ऽपि द्वैविध्यमिति चतुर्दश; शेषा
दश; इति मिलित्वा सप्तत्रिंशदर्थाः । नामैकदेशार्थे त्वनन्ता भेदा उक्ताः । एवं
बहुतन्त्रद्रष्टृभिरन्ये ऽप्यर्थाः संग्राह्याः ॥ १४३-१४७ ॥
- सरोजिनी *
'ह' + 'स' = आनन्द । 'क' = सत्य । 'ह' = अनन्त ॥ 'ल' =
ज्ञान ॥ ('ह स आनन्दः सत्यं कं हमनन्तं च लं ज्ञानम्')
'क' = 'सखा कश्च बुधैः प्रोक्तः' । “ककारः” = सखि ॥ 'ककार'
सखि वाचक है । (सखित्व, आप्तत्व) ॥ “हकार”—व्योम बीज होने के कारण
'अनन्त' अर्थ का वाचक है क्योंकि व्योम अनन्त है । प्रत्यक्ष ज्ञान-जनक लोचन
का वाचक होने के कारण “लकार” का अर्थ-'ज्ञान' है । इस प्रकार ब्रह्म के जो
दो लक्षण होते हैं—१. 'स्वरूप लक्षण' २
'तृतीयकूटगत'—शक्तिकूट में निहित ।। 'स क ल ह्रीं' ही शक्तिकूट है ।
'सकल पद'—' स, क, ल, ह्रीं ।' 'स क ल ह्रीं' का अर्थ—'अहं ब्रह्मास्मि' ।
देवी कूटत्रयात्मिका है?
'कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम्' ।
आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ।।१
आचार्य भास्करराय कहते हैं—
'अथ तार्तीये वर्णद्वितयं त्रिपदीषडक्षरी गमकम् ।।'
अर्थात् तृतीयकूट के प्रथम दो वर्ण (स क) उन्हीं तीनों पदों एवं छः वर्णों
का बोध कराते हैं । भाव यह कि—'तुर्या हकारस्तदुपरि पदत्रयोपरि विद्यमाना या
षडक्षरी 'भर्गो देवस्य धी' इति तदर्थबोधकः । तृतीयकूटे वर्ण द्वितयं सकेति ।
ताभ्यां धीयन्त गायत्र्याः अर्थः प्रतिपाद्यः ।'२ भास्करराय कहते हैं कि तुर्याक्षर हकार
के साथ षडक्षरी 'भर्गो देवस्य धी' की तुलना की जा सकती है क्योंकि तृतीयकूट
में स्थित 'स' 'क' वर्ण उसके अर्थ का प्रतिनिधित्व करते हैं । भाव यह कि—
गायत्री मंत्र में जो 'भर्गो देवस्य धी' शब्दावली है उसका वही अर्थ है जो कि
'पंचदशाक्षरी मंत्र' के तृतीयकूटगत पद 'स क' का अर्थ है । सारांश—'स क' =
'भर्गो देवस्य धी' (गायत्रीमंत्र) ।। 'स'—सकार का अर्थ है—'सविता' (गायत्रीमंत्र)
'सकारस्य सविता अर्थः ।३ 'ह' = 'हृदयागारवासिनी हल्लेखा'—श्रुति 'क'—
ककार का अर्थ वही है जो कि गायत्री के 'वरेण्य' का अर्थ है—'ककारस्य
वरेण्मर्थः ।।'४ 'ह' = हृदय । 'हकाररस्य हृदयमर्थः'—भास्कर ।। 'ल' = पंचभूत ।
'ल' = पृथ्वी अर्थात् पृथ्वी आदि पाँचों भूतों का उपलक्ष या द्योतक ।। 'उभयांत्रापि
लकार हल्लेखाभ्यां पंचभूताद्यात्मनेत्यादिरर्थ' ।५ आचार्य भास्करराय कहते हैं कि
आद्यविद्या पंचदशी का जो अर्थ है—वही 'सर्वं खल्विदं ब्रह्म' (श्रुति) रूप अर्थ—
गायत्रीमंत्र एवं पंचदशीमंत्र दोनों का प्रतिपाद्य है? 'अत्र ह्याद्यायाः श्रीविद्याया एव
ब्रह्मरूपत्व गायत्र्यादिप्रतिपाद्यत्वं विद्याप्रतिपाद्यत्वादिकं च तदर्थ व्याख्यानदर्शिनां
स्पष्टम् ।।६
'त्रिपुरातापनीयोपनिषद' में 'शक्तिकूट' एवं गायत्री का निम्न रूप से समन्वय
प्रदर्शित किया गया है—"अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते द्वात्रिंशदक्षर्या
गायत्र्या ।। २३ ।।
'तत् सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरते तदधीनं वरेण्यं
समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्म समुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्षरं
स्पष्टमापद्यते ।। २४ ।।
१. योगिनी हृदय २-५. भास्करराय—'प्रकाश'
६. भास्करराय—'प्रकाश'
"हयग्रीव ब्रह्मविद्या वृत्रवधस्तथा । गायत्र्या च सभारम्भस्तद्वै भागवतं विदुः ।।"
द्वितीयोऽंशः ३७७
भर्गो देवस्यधीत्यनेनाधाररूप शिवात्माक्षरं गण्यते महीत्यादिना शेषं काम्यं
रमणीयं दृश्यं काम्यं रमणीयं शक्तिकूटं स्पष्टीकृतमिति ॥ २५ ॥
पंचदशी मंत्र गायत्री मंत्र
('स' का समानार्थी है गायत्री का 'सवितुर्वरेण्यं')
'स' का समानार्थी 'सवितुर्वरेण्यम्'
'क' का समानार्थी 'भर्गो देवस्य धी'
'ल' का समानार्थी 'महि' (धीमहि)
‘ह्रीं’ का समानार्थी— ┌ 'धियो योनः प्रचोदयात परो रजसेऽसावदोम्'
“शेषं धियो यो नः प्रचोदयात् │ “तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो
परो रजसेऽसा वदोमिति काम्यं │ नः प्रचोदयात् परो रजसेऽसा वदोम् ॥”
रमणीयं दृश्यं काम्यं रमणीयं │ —(त्रिपु० ता० ३०)
हल्लेखाऽपि समन्विता स्यात् । │ 'ह्रीं' (पं०मंत्र) प्रणव या ओम = (गा०मंत्र)—
एवं शक्तिकूटमपि स्पष्टीकृत- │ 'परोजसेऽसावदोम् ॥'
मित्यर्थः ॥”
'परोरजसे सावदोम' में 'परोरजसे' [ = 'रजसः परं परोरजसे ॥'
रजेऽतीतम् । निर्मलमिति निर्गुणमितिवार्थः । रजः शब्दस्य धूली वाचकत्ववद्
गुणत्रयोपलक्षकत्वसंभवात् । त्रिगुणातीतमिति यावत् ॥
भाव यह कि—यावत् “भाव यह कि—'रज' का अर्थ है धूल, कल्मष,
गुणत्रय। 'परो रजसे' का अर्थ है। 'रज' से परे' 'रजातीत' अर्थात निर्मल, निर्गुण,
त्रिगुणातीत । गायत्री के 'ओम' का अर्थ भी 'हीं' ही है—'एतावान व्यर्थो
हल्लेखायाः' (—आचार्य भास्करराय)
'सावदोम' का अर्थ—'सवदोऽवदश्च यः प्रणवः । 'वक्तु शक्यो वक्तुम-
शक्यश्चेति ।।' अर्थात् कथनीय एवं अकथनीय सवद एवं अवद ।। सवद एवं
अनद—अर्थात् प्रणव = ओंकार ।। शब्द की एक मर्यादा (सीमा) है अतः ओंकार
सीमा में बँध न सकने के कारण अकथ्य है । ('शब्दैः शक्तिमर्यादया न बोध्यः ।
शक्यतावच्छेदकधर्ममात्रस्य पर तत्वेविरहात्')
इसीलिए कहा गया है—“यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” 'लक्षणा'
के द्वारा इसका जानना शक्य भी है क्योंकि सत्य ज्ञान आदि पदों का उसके लिए
प्रयोग किया गया है । 'वेदैश्च सर्वैरहमेववेद्यः' होते हुए भी वह 'लक्ष्यार्था
लक्षणागम्या' (स्मृति) कहे जाने के कारण 'अवद' होते हुए भी 'सवद' भी है ।
'ओम' = 'प्रणव' । 'ओम्' = परमतत्त्व । अकार-उकार-मकार के वाचक
ब्रह्मा-विष्णु-महेश से युक्त । यही हल्लेखा का अर्थ है ।
३७८ वरिवस्यारहस्ये
| 'पंचदशी मंत्र' | 'गायत्रीमंत्र' | |
|---|---|---|
| 'ह्रीं' का अर्थ है ॐ | 'परोरजसेऽसावदोम' | 'ह्रीं' एवं 'ओम' |
| यह देवी प्रणव है | (रजातीत, अवद ओम्) ॥ | दोनों ही प्रणव |
| 'ह्रीं' प्रणवार्थः परतत्त्वमकारो | 'ओम' | हैं एवं |
| कारमकारैर्ब्रह्मविष्णु रुद्रात्मकम् । | (ब्रह्मविष्णुरुद्रात्मक) | समानार्थक हैं । |
| एवावान्तरार्थो हृल्लेखायाः ॥ | ||
| (ब्रह्मविष्णुरुद्रात्मक) |
- सरोजिनी *
'महावाक्यार्थ' का स्वरूप—आचार्य भास्करराय का कथन है कि जीव एवं
ब्रह्म में अभिन्नता एवं अभेदात्मकता की, तार्किक पुष्टि द्वारा, स्थापना करना ही
महावाक्यार्थ का आशय है ।
'योगिनीहृदय' में महावाक्यार्थ नामक अर्थ का तो उल्लेख नहीं है प्रत्युत्
[L1
द्वितीयोंऽशः ३७९
‘स्वरूप लक्षण’ है तो “यतो वा इमानि भूतानि जायन्ते” ब्रह्म का ‘तटस्थ लक्षण’
है। इस प्रकार ‘त्वं’ पद का वाच्यार्थ होगा—‘जाग्रत आदि अवस्था पंचक
विशिष्ट”—“तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य संहृत्यपक्षौ संलयायैव
ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति। तद्यथा महामत्स्यः ।। इस प्रकार भी
ब्रह्म का स्वरूप निरूपित किया गया है। यहाँ लक्ष्यार्थ होगा—‘अवस्थाद्यतीत
ब्रह्म’ । फिर भी “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति पुरुषः, न दृष्टेर्द्रष्टारं
पश्येः”—कहा गया है। इस प्रकार अवान्तर वाक्यों द्वारा—वाच्यार्थ एवं लक्ष्यार्थ
दोनों का निर्णय होने पर महावाक्य में लक्ष्यार्थों का अभेद सिद्ध हो जाता है।
यद्यपि श्रुतियों में कृत्यत्रय, अवस्थात्रय का ही वर्णन पाया जाता है तथापि तंत्र के
अनुसार उसके पंचकोपलक्षणपरक् होने के कारण उसका पंचकोपलक्षण वर्णित
करना चाहिए यथा—त्रिवृत्करण का पंचीकरण परत्व प्रतिपादित किया गया है। इस
प्रकार प्रकृत प्रसङ्ग में तृतीय कूटस्थ ‘स क ल’ पद के द्वारा कलाओं एवं
अवस्थाओं के सहित इस अर्थ को ग्रहण करते हुए वाच्यार्थ का कथन करने पर
भी लक्ष्यार्थों को कहने में न्यूनता आएगी। कूटद्वय आवृत्ति द्वारा ‘त्वं’ पद का
वाच, तात्च्यार्थ एवं लक्ष्यार्थ—दोनों का समर्पणाभाव से व्याख्यान किया जाना
चाहिए।। तांत्रिकों के मतानुसार दोनों वाच्यार्थों में अभेद होने से शांभवानन्द
कल्पलताकार आदि के द्वारा उपपादन किये जाने के कारण कूटद्वय द्वारा
सृष्टिकर्तृत्वादिकविशिष्ट अवस्थाविशिष्ट वाच्यार्थ का ही समर्पण अभिप्रेत है।
तृतीयकूट में उन दोनों में अभेद एवं ब्रह्म जगत् में अभेद—सम्पूर्ण अभेद—
सङ्केतित है। यहाँ जो भी वक्तव्य प्रस्तुत है, वह सब वेदान्तानुमोदित है। १
‘महावाक्य’ की = “महाशब्दः पूर्वो यस्मिन् वाक्ये शब्दे तस्य महावाक्यार्थ’—
यही निरुक्ति है। ये अर्थ उपलक्षणभूत हैं। उसके द्वारा तंत्रों में अनेक अर्थों का
संग्रह प्राप्त होता है—“तत्रोक्तानामन्येषामव्यर्थानां संग्रहः”। ‘योगिनीहृदय’ में कहा
गया है—“आत्मनः स्फुरणं पश्येद् यदा सा परमा कला” —इस वाक्य से प्रारंभ
करके ‘कांश्चिच्वतुश्चतुरः’ पदार्थों को कहने के कारण ‘चतुर’ शब्दों का वाचकत्व
प्रतिपादित किया गया है। कूटत्रितय तुरीय विद्या का स्वरूप—
‘कूटत्रितययुक्तस्य सकलस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ।।' २
जितने चतुष्क हैं उतने मंत्रार्थ हैं। ‘पुटधाम’ आदि श्लोकों में इसे प्रतिपादित
किया गया है। वहाँ कूटों की पुटो अ के साथ अभेदात्मकता प्रतिपादित की गई
है। यद्यपि वहाँ कूटों की पुटादिक से अभेदात्मकता प्रतिपादित की गई है तथापि
उसका पर्यवसान वाच्यवाचकभाव में ही है। ३ पांतञ्जल मञ्जूषा में दोनों प्रकार के
शब्दार्थों के तादात्म्य की शक्ति के रूप में संपुष्टि भी की गई है अतः उपर्युक्त +
कथन स्वयमेव संपुष्ट हो जाता है।
१-३. भास्करराय—‘प्रकाश’
३८० वरिवस्यारहस्ये
कादि मत के ३५ वें पटल में व्याकुलाक्षरों द्वारा श्लोकों का अर्थ वर्णित
किया गया है—
'णैःयामिलिर्वतास्त्रिल तेर्थोधीकयलाऽभिस ।
णदेरूपेपेणवीशे तम् दिमीनरिस्त्यादते ॥ १ ॥
त्सनतोगशेत्कृषअ त्मत्ममील्लेरिखाकह ।
तःर्थकस्याथिश्चास्तुत तःन्ग्रेगोर्वपितषुरु ॥ २ ॥
त्वङ्गामाम्नानप्रशव्यो नानमसग्निामात्वग्र ।
रोमईयोकार्विशंत न्मृतभान्दुलनान्त्रिबि ॥ ३ ॥
इनका वचनक्रम देखें—"देवतार्थगोमूक (८४६२७३५१) इति यो वेत्ति न
कमम् । स व्याकुलाक्षरे मूको देवतारथगोऽपि सन् ।।" १
तृतीयकूट में वर्णत्रय सर्वार्थक हैं, तुर्य अक्षर देव्यर्थक है, इससे यह अर्थ
प्रतिपादित किया गया—यही प्रथम श्लोक का अर्थ होगा । 'समस्त जगत् देवी का
रूप ही है'—यह अर्थ तंत्रान्तर में गुप्त रखा गया है । द्वितीय श्लोक का यही
अभिप्राय है । लज्जाबीज में स्थित चार अक्षरों द्वारा जो प्रकाशक है—जो ग्रसिष्णु
है—उन दोनों का सामरस्य तत्तादात्म्य द्वितीय में प्रतिपादित किया गया है । २ प्रकाश
ग्राम शब्द उत्पत्ति एवं संहार, विद्या एवं अविद्या के वाचक हैं । 'अत्यल्पमिदं
कथितं' (१४६) कहकर यही सङ्केतित किया गया है । 'पुटधाम'—वाले श्लोक में
१३ अर्थ, गायत्री आदि के १५ अर्थ, भावार्थ ४, नामार्थ ३, शाक्तार्थ २,
कौलिकार्थ (गणेशरूपादि, देवी विद्याचक्र भेद से) ३, महावाक्यार्थ में १४, शेष
१०—सब मिलाकर ३७ अर्थों का प्रतिपादन किया गया है । 'नामैकदेशार्थेत्वनन्ताः
भेदाः उक्ताः' नामैकदेशार्थ में अनन्त अर्थों की संभावनायें हैं । इसी प्रकार अन्य
तंत्रों में अनेक अन्य अर्थों का प्रतिपादन किया गया है—"एवं बहुतंत्रद्रष्टृभिरन्ये
ऽप्यर्थाः संग्राह्याः ।।" ३
शक्त्या लक्षणया वा ये ये ऽर्था दर्शिता मनोरस्य ।
तेषु न को ऽपि विवादः प्रत्यक्षेणैव सिद्धत्वात् ॥ १४८ ॥
(मन्त्रार्थ विषयक सर्वमान्यता का प्रतिपादन)
इस मन्त्र के शक्ति (अभिधाशक्ति) या लक्षणाशक्ति के द्वारा जो-जो अर्थ
प्रदर्शित किये गये उनके विषय में, उनके प्रत्यक्षतया सिद्ध होने के कारण, कोई
विवाद नहीं है ॥ १४८ ॥
- प्रकाश *
मनोर्मन्त्रस्य । प्रत्यक्षेणेति । शक्तिग्राहकव्याकरणकोशादेः शक्य-संबन्धस्य च
स्फुटं प्रदर्शनादिति भावः ॥ १४८ ॥
१-३. भास्करराय—'प्रकाश'
द्वितीयोऽंशः ३८१
- सरोजिनी *
'शक्त्यालक्षणाया' = लक्षणा शब्द शक्ति के द्वारा । शब्दों से अर्थावगाहन
कराने वाली शक्तियों को साहित्य में 'शब्द-शक्ति' कहते हैं । ये तीन प्रकार की
हैं— १. अभिधा शक्ति = अभिधेयार्थ, सङ्केतितार्थ, शक्यार्थ
२. लक्षणा शक्ति = लक्ष्यार्थ
३. व्यञ्जना शक्ति = व्यंग्यार्थ
'लक्षणा' के निम्न भेद हैं—
१. जहल्लक्षणा ॥ २. अजहल्लक्षणा ॥ ३. जहज्जहल्लक्षणा ॥
किसी भी पद का अभिधा शक्ति से अर्थावगाहन हो पाना संभव न होने पर
वहाँ लक्षणा शक्ति का प्रयोग किया जाता है ।
ये पुनरिह भावार्थादयः षडर्था मनोरुक्ताः ।
तेषु यदि शक्तिभक्ती न हि संभवतस्तदापि का हानिः ॥ १४९ ॥
(भावार्थादिक अर्थ-प्रकारों का महत्व)
जो यहाँ पुनः मंत्र के भावार्थ आदि छः अर्थ कहे गए हैं यदि उनमें
शक्ति-भक्ति (अभिधेयार्थ-लक्ष्यार्थ) (का ग्रहण) संभव न भी हो तथापि क्या हानि
है? ॥ १४९ ॥ - प्रकाश *
शक्तिग्राहकव्याकरणाद्यभावान्न शक्तिः; अत एव च न शक्यसंबन्धरूपा
भक्तिरपि । व्यक्तिरूपा तृतीया वृत्तिर्भविष्यति,
'वक्तृबोद्धव्यकाकूनामन्यसंनिधिवाच्ययोः ।
प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम्' ॥
इत्यत्रादिपदेनोपासनापि ग्रहीष्यत इत्याशयेन समाधत्ते—का हानिरिति ॥ १४९ ॥ - सरोजिनी *
ग्रन्थकार का कथन है कि यदि भावार्थ प्रभृति जो छः अर्थ बताए गए हैं
यदि अभिधा एवं लक्षणा शब्द शक्तियों द्वारा उनका अर्थ-साङ्गत्य सिद्ध न भी
हो सके तथापि किसी असङ्गति अनौचित्य एवं अप्रामाणिकता की दोषापत्ति नहीं
आएगी ॥ १४८ ॥
व्यञ्जनाया बहुभिरनङ्गीकारादाह—
आस्तामन्या वृत्तिर्विलक्षणा तद्ग्रहस्तु मनोः ।
शिववचनेन भविष्यति यद्वैषा शक्तिरेवास्तु ॥ १५० ॥
३८२ वरिवस्यारहस्ये
एतस्मादयमर्थो बोद्धव्य इतीश्वरेच्छात्वात् ।
प्रतिपदमर्थविशेषाज्ञाने ऽप्यास्तामखण्डवाक्यस्य ॥ १५१ ॥
अर्थो ऽप्यखण्डरूपो विशिष्टमतिरिक्तमिति हि सिद्धान्तः ।
आसेचनकव्याप्त्यादिपदवदास्तां पदत्वमपि ॥ १५२ ॥
(मन्त्र के अर्थ के निर्णय के विषय में भगवान् शिव के वचनों की
निर्णायक भूमिका का प्रतिपादन)
(शक्ति-भक्ति-व्यक्ति से) भिन्न कोई अन्य विलक्षण प्रक्रियाशालिनी वृत्ति
मान ली जाय (किन्तु) मन्त्र के किसी ऐसे अर्थ का ग्रहण भगवान् शिव के
वचनानुसार ही (मान्य) होगा या तो इस शक्ति (अभिधा शक्ति) को ही गृहीत किया
जाय ॥ १५० ॥
(शब्द के अर्थग्रह में ईश्वरेच्छा की भूमिका)
अमुक-अमुक शब्द से अमुक-अमुक अर्थ (ही) बोधित हो—यह (मात्र) ईश्वर
की इच्छा के कारण (ही होता है।) प्रत्येक पद का विशेषार्थ न भी परिज्ञात हो तो
क्या अन्तर पड़ता है यदि समस्त वाक्य का समस्त भाव (हस्तामलकवत) परिज्ञात
हो जाय तो ॥ १५१ ॥
(वर्ण एवं उनके अर्थ का अन्तर्संबंध)
(इस संदर्भ में) प्रस्थापित सिद्धान्त यही है कि अखण्डरूप अर्थ वर्णों से
नितान्त भिन्न है । यदि आवश्यक हो तो समस्त मंत्र को एक इकाई के रूप में
गृहीत कर लिया जाय तथा 'आसेचनक' 'व्याप्ति' आदि पदों (के संबंध) में (किया
जाता है ।) ॥ १५२ ॥
- प्रकाश *
अन्या शक्तिभक्तिव्यक्तिभ्यो विलक्षणा शक्त्यादित्रितयप्रक्रियातो विलक्षण-
प्रक्रियाशालिनी । उच्छृङ्खलस्य पन्थानं परित्यज्याह—यद्वेति । शिवनैवास्यायमर्थ इति
स्पष्टमुक्तत्वादिति भावः ॥ १५० ॥
इदं पदमिममर्थं बोधयत्वितीच्छायामर्थबोधजनकत्वनिष्ठप्रकारतानिरूपितविशेष्य-
ताशालित्वेन पदस्यापि विषयत्वात् प्रकृते प्रतिपदमर्थानुक्तेः कथं शक्तिरिति चेन्न; इदं
वाक्यमिममखण्डार्थं बोधयत्वित्याकारिकाया एवेच्छायाः कल्पनात् । वाक्यस्याखण्डत्वं
वैयाकरणानामिष्टमेव । अर्थस्याखण्डत्वम् 'प्रकृष्टप्रकाशश्चन्द्रः' इत्यादिवाक्यार्थं वर्णय-
तामौपनिषदानामिष्टमेव । तच्च विचार्यमाणे विशिष्टस्यातिरिक्तत्व एव पर्यवस्यति । तथा
च यत्र प्रतिपदमर्थविवेकस्तत्रेयं रीतिः; यत्र यत्र न स तत्र संपूर्णस्यैकपदत्वमेवास्तु । न
चैकस्य पदस्य विशिष्टबह्वर्थवाचकत्वमदृष्टमिति वाच्यम्, घटत्वघटसमवायानां घटपद-
वाच्यत्वात्, 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इति कोशात्, हेतुसमानाधि-
करणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यस्य व्याप्तिपदार्थत्वाच्चेत्याह—
द्वितीयोंऽशः ३८३
आसेचनकेति । आदिनोपाधिपरिग्रहः । तेनेश्वरेच्छायां पदस्यैव विशेष्यत्वे ऽपि न
प्रकृतनिर्वाहाय विलक्षणेच्छाकल्पनापत्तिः ॥ १५१-१५२ ॥
- सरोजिनी *
ग्रन्थकार का कथन है कि अर्थ-ग्रहण का नियमन भगवान् शिव ने किया है
अतः उनके नियमों को आधार मान कर ही किसी भी शब्द से उसका अर्थ-ग्रहण
प्रामाणिक होगा अन्यथा नहीं ।
वैयाकरण वाक्य के अखण्डत्व को तो मानते ही हैं । अर्थ का भी
अखण्डत्व भी मान्य है । 'प्रकृष्टप्रकाशश्चन्द्रः'—इत्यादि वाक्य के अर्थ को वर्णित
करने में उपनिषदों में भी अर्थ के अखण्डत्व की पुष्टि की गई है ॥ १५० ॥
प्रत्येक शब्द के अर्थ का निर्धारण या प्रत्येक शब्द से किसी अर्थ विशेष का
ग्रहण ईश्वरेच्छा के कारण ही हुआ करता है—मानवीय इच्छा या प्रयास से नहीं ।
शब्द का विशेष अपरिज्ञात भी हो तथापि कोई व्यवधान उपस्थित नहीं होता किन्तु
वाक्य का भाव अवश्य ज्ञात होना चाहिए ॥ १५१ ॥
वैयाकरण लोग वाक्यों के अखण्डत्व की बात तो स्वीकार ही करते है—
'वाक्यस्याखण्डत्वं वैयाकरणानामिष्टमेव ॥'१ इसी प्रकार अर्थ के अखण्डत्व को भी
स्वीकार करना चाहिए ॥
'प्रकृष्ट प्रकाशश्चन्द्रः' इत्यादि वाक्यार्थ की व्याख्या करते हुए उपनिषदों में अर्थ
के अखण्डत्व का भी प्रतिपादन (व्याख्याकारों द्वारा) किया ही गया है । जहाँ एक
एक पद के अर्थ की विवक्षा अपरिहार्य हो वहाँ तो उसका उसी प्रकार खण्डित
अर्थ ग्रहण करना चाहिए किन्तु जहाँ यह अनिवार्य न हो वहाँ शब्द-समुदाय या
वाक्य का अखण्ड अर्थ ग्रहण करना समीचीन ही है ॥ १५२ ॥२
नन्वस्य पदत्वे ऽनेकार्थत्वं दोष इत्यत आह—
एकस्यानेकार्था दृष्टा हरिसैन्धवादिषु पदेषु ।
अन्यतमैकावगतौ प्रकरणातात्पर्ययोर्विशेषकता ॥ १५३ ॥
प्रकृते तु सर्वबोधस्येष्टत्वान्नो विशेषाकाङ्क्षा ।
अथ वा सकलार्थेष्वपि शक्त्यैक्यं पुष्पवन्तपदवदिह ॥ १५४ ॥
(अनेकार्थी शब्दों से विशेषार्थ-ग्रहण के कारक तत्त्व)
'हरि' 'सैन्धव' आदि शब्दों में एक शब्द के अनेक अर्थ देखे जाते हैं । (इन
विभिन्न अर्थों में से) एक अर्थ को ग्रहण करने में प्रकरण एवं तात्पर्य (एक निश्चित
अर्थ मात्र को ही ग्रहण करने के) निश्चायक चिन्ह हैं ॥ १५३ ॥
१-२. भास्करराय—'प्रकाश'
३८४ वरिवस्यारहस्ये
(मंत्रार्थ की दिशा में विशेषक की अपेक्षा सर्वबोध का प्रतिपादन)
प्रस्तुत प्रसङ्ग (या विषय) में समस्त तात्पर्य अभीष्ट हैं किसी भी विशेषक की
आवश्यकता नहीं है, या (अर्थात्) (इस मंत्र में) एक ही शक्ति 'पुष्पवन्त' पद की
भाँति यहाँ समस्त अर्थों को द्योतित करती है ॥ १५४ ॥
- प्रकाश *
अनेकार्थतायाः प्रमाणबलायातत्वाददोषत्वम् । सर्वत्रानेकार्थस्थले ऽन्यतमस्यै-
कस्यैव बोधनार्थं प्रकरणादिज्ञानस्य कारणत्वादिकल्पनदोषः, प्रकृते तु तदभाव इत्याह
—अन्यतमेत्यादिना। अथ वा, ईश्वरेच्छाविषयीभूतबोधीयविशेष्यता यथा सूर्यचन्द्रमसोः
पर्याप्तैकैव स्वीक्रियत इति न तत्र पुष्पवन्तपदे शक्त्यनेकत्वम्, तद्वदिहाप्यस्त्वित्याह—
अथ वेति ॥ १५३-१५४ ॥ - सरोजिनी *
'एकस्य' = एक शब्द का । 'अनेकार्थ' = अनेक अर्थ, यथा—शब्दार्थ,
भावार्थ, संप्रदायार्थ, निगर्भार्थ, कौलिकार्थ, रहस्यार्थ, महत्त्वार्थ, नामार्थ, शब्दरूपार्थ,
शाक्तार्थ, सामरस्यार्थ, समस्त सगुणार्थ, महावाक्यार्थ आदि ॥
'दृष्टा' = देखे गए हैं । लोक में प्रचलित हैं । व्यवहृत है, लोगों को
परिज्ञात हैं । 'हरि' = विष्णु । बन्दर । हरा । भूरा । पीला । इन्द्र । यम ।
चन्द्रमा । कृष्ण । किरण । कोयल । इन्द्राश्व । सर्प । मयूर । सिंहराशि । शृगाल ।
बाँस । मूँगा ॥ मेढक । तोता ॥ शिव । अग्नि । घोड़ा । साठ संवत्सरों में से
एक संवत्सर विशेष का नाम ॥
'विशेषकता' = वैशिष्ट्य । भेदकता । व्यावर्तकता ॥ सामान्य से व्यक्ति को
पृथक् करने का भाव ॥ (Indices; व्यावर्तक चिन्ह) ॥ निश्चायक, निर्णायक
बिन्दु ॥ 'विशेषक' = (वि + शिष् + ण्वुल) = भेद स्पष्ट करने वाला, (पुं० नं०)
विशेष + कन = । विशेषण ॥ टीका । तिलक ॥ 'विशेषित' = वि + शिष् +
णिच् + क्त । विशेषण द्वारा पहिचाना हुआ । उत्कृष्ट, उत्तम । परिभाषित ।
जिसकी पहिचान बतायी गई हो ।
“सैन्धव”—सेंधा नमक । सिन्धु देश का घोड़ा ॥ (सिन्धु + अण = सैन्धव)
सिन्धुदेशोत्पन्न, सिन्धु नदी सम्बंधी । नदी में उत्पन्न । सामुद्रिक । सिन्धु-निवासी ।
(सैन्धव-शब्द-सिन्धु में उत्पन्न सभी वस्तुओं यथा १४ रत्न आदि—सभी वस्तुओं का
द्योतक हो सकता है ।)
'पद' = किसी भी प्रातिपदिक में जब, वाक्य में प्रयोगार्थ, सुप्या तिङ्
प्रत्यय लगा दिया जाता है तब उसे 'पद' की आख्या प्राप्त हो जाती है ।
“सुप्तिङन्तंपदम्” ॥
'अन्यतम' = वस्तुओं में से जिसके बराबर कोई अन्य वस्तु हो ही नहीं वह
द्वितीयोंऽशः ३८५
है अन्यतम् । (अन्य + तमप् = अन्यतम) ।। एक शब्द के अनेक अर्थ होते
हैं किन्तु उनमें से किसी एक अर्थ को उस शब्द का वास्तविक अर्थ गृहीत करने
के पीछे विशिष्ट प्रसङ्ग, विशिष्ट प्रयोजन आदि कारक शक्तियाँ काम करती हैं ।
इसके अतिरिक्त लक्ष्यार्थ एवं व्यंग्यार्थ-बोधक शाब्दी शक्तियाँ (लक्षणा व्यञ्जना) भी
काम करती हैं ।
जिस प्रकार 'हरि', 'सैन्धव' पदों में एक पद के अनेक अर्थ निहित हैं ।
अनेक अर्थों में एक अर्थ का ग्रहण या बोध—संदर्भ एवं विशिष्ट तात्पर्य (उद्देश्य)
के कारण होता है । प्रस्तुत विषय में सभी तात्पर्य अभीष्ट हैं । किसी भी विशेषक
(सूचक) की आवश्यकता नहीं है । इस मंत्र में एक ही शक्ति 'पुष्पवन्त' पद की
तरह ही सभी अर्थों को व्याप्त करती है ।
अखण्ड रूप अर्थ वर्णों से नितान्त भिन्न हैं । आवश्यक होने पर समस्त मंत्र
को एक इकाई (पद) के रूप में मानना चाहिए । जैसा कि—'आसेचनक' 'व्याप्ति'
आदि पदों के सम्बन्ध में किया जाता है—
“प्रतिपदमर्थविशेषा
३८६ वरिवस्यारहस्ये
महावाक्य तो—'अहंब्रह्मास्मि' 'अयमात्माब्रह्म' 'प्रज्ञानंब्रह्म' 'तत्त्वमसि'
'सोऽयमात्मा' आदि आप्त वाक्य हैं ।
एकस्यानेकार्थे विनियोगादर्थ बाहुल्यम् ।
वेदे बहुशः स्वीकृतमत्र त्वेकत्र विनियोगात् ॥ १५६ ॥
अखिलार्थबोधनियमो नियमादृष्टं प्रकल्पयति ।
सिद्धे प्रमाणदार्थ्ये सकलं कल्प्यं हि तदविरोधाय ॥ १५७ ॥
(मन्त्र-विनियोग की दो दिशाएँ)
वेद में इस तथ्य को अनेक प्रकार से स्वीकार किया गया है कि एक मंत्र
का अनेक प्रसङ्गों में विनियोग करने पर उसके अनेक अर्थ हो जाते हैं किन्तु इस
प्रसङ्ग में जहाँ कि मंत्र का विनियोग केवल एक संदर्भ में होता है—उस विनियोग
से ॥ १५६ ॥
('निगमन' के प्रमाणार्थ मुख्योपाय)
समस्त अर्थों को बोधित करने का नियम नियमादृष्ट की रचना करता है ।
(एक बार किसी भी कथन के) सिद्ध या प्रस्थापित हो जाने के बाद उसके प्रमाण्य
की दृढ़ता के लिए शेष सभी (तर्क या प्रमाण) उसके अनुकूल स्वीकृत (अङ्गीकृत)
किये जाने चाहिए ॥ १५७ ॥
* प्रकाश *
पदपक्षे ऽनेकार्थतादोषपरिहारवद्वाक्यपक्षे ऽपि संभवति, पुरुषसूक्तस्य
तद्देवतापूजायां विनियोगेनानेकार्थत्वस्येष्टत्वात् । इयांस्तु विशेषः—तत्तत्पूजायां
तस्य तस्यैवार्थस्य स्मरणं पुरुषसूक्ते; प्रकृते तु सर्वेषामर्थानां स्मरणेनैवादृष्टोत्पत्तिरिति
भावः ॥ १५६-१५७ ॥
* सरोजिनी *
वेदों में विनियोगों के वैविध्य से मंत्रों के अर्थों में भी वैविध्य पाया जाता है ।
प्रस्तुत प्रसङ्ग में एक ही प्रसङ्ग में प्रयुक्त मंत्र के भी अनेक अर्थ होते हैं । इसका
नियमन नियमादृष्ट द्वारा हुआ करता है । ऋग्वेद के पुरुषसूक्त में पृथक्-पृथक्
देवताओं के विनियोग-वैविध्य के कारण उन सभी मंत्रों के पृथक्-पृथक् अर्थ ग्रहण
किये गए हैं । पुरुषसूक्त में उन-उन देवताओं की पूजा में उन-उन अर्थों का ग्रहण
किया जाता है । प्रकृत प्रसङ्ग में समस्त अर्थों के स्मरण से ही अदृष्टोत्पत्ति हो
जाती है । समस्त संभाव्य अर्थों को बोधित करने का नियम नियमादृष्ट आविर्भूत
करता है ।
प्रस्थापित नियम सिद्धान्त की पुष्टि का आधार बनता है और निगमन को पुष्ट
करता है ।
द्वितीयोऽंशः ३८७
सिद्धे प्रमाणदार्ढ्य इत्यत्र दृष्टान्तमाह—
यागस्य स्वर्गं प्रति संसिद्धे हेतुहेतुमद्भावे ।
तदनुपपत्तिं निरसितुमलौकिकापूर्वमपि कॢप्तम् ॥ १५८ ॥
(अलौकिक अपूर्व प्रयोजन)
स्वर्ग-प्राप्ति के लिए यज्ञ के कारण-कार्यभाव के स्वसिद्ध (प्रमाणित) होने पर
भी उसकी अनुपपत्ति (प्रमाणाभाव) के दूरीकरण के लिए अलौकिक 'अपूर्व' की भी
रचना की गई ॥ १५८ ॥
- प्रकाश *
'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र तृतीयाश्रुत्या यागस्य जनकत्वे काम्यमान-
तया स्वर्गस्य जन्यत्वे च बोधिते ऽपि भिन्नकालीनयोस्तदयोगाद्देवताप्रसाद्यागध्वंसादिना
ऽत्र निर्वाहाभावादपूर्वेणैवानुपपत्तिनिरास इत्यादि तन्त्रान्तरेषु विस्तरः ॥ १५८ ॥ - सरोजिनी *
'याग' = यज्ञ ॥ 'यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥'१ 'यज्ञः
स्यादात्मनि मखे नारायणहुताशयोः ॥'२
'सवो यज्ञे च संधाने ।'३ 'ऋतुर्यज्ञे गुणौ पुंसि' = याग (यज्ञ) ऋतु ॥४ 'यज
देवपूजादौ' (भ्वा० ३० अ०) धातु से निष्पन्न ॥ 'स्वर्गे' = स्वरव्ययं स्वर्ग नाक
त्रिदिवत्रिदशालयाः । सुरलोकोद्यो दिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥'५ स्वर्यतेस्तूयते
इति स्वः । 'स्वः प्रेत्य व्योम्नि नाके च' ।
“ज्योतिष्टोमेन स्वर्गकामो यजेत्” स्वर्ग की आकांक्षा रखने वालों को
ज्योतिष्टोम यज्ञ करना चाहिए । अतः योग के द्वारा स्वर्ग मिलना तो स्वतः सिद्ध है
किन्तु देवतादिक के अप्रसन्न होने पर स्वर्ग का मिलना संभव भी नहीं रह जाता ।
इसका कारण है—'अपूर्व' ॥६
'कॢप्त' = कॄप् + क्त, लत्व । रचित, निर्मित, सजा हुआ, टुकड़े किया
हुआ, उत्पन्न किया हुआ, स्थिर किया हुआ, आविष्कृत । 'कॢप्ति = पूर्णता,
साकल्य, आविष्कार, सुव्यवस्था ।
अस्मिन् प्रकरणे पूर्व वर्णितान् पञ्चदशार्थान् संगृह्यानुवदति—
विद्यावर्णैयत्तोद्धारः कालस्तदुच्चारः ।
उत्पत्तिस्थानं तद्यत्नो रूपं स्थितिस्थानम् ॥ १५९ ॥
१. अमरकोष २. हैमकोष
३-४. मेदिनीकोष ५. अमरकोष
६. भास्करराय—'प्रकाश'
३८८ वरिवस्यारहस्ये
आकारः स्वं रूपं विभाव्यमर्थो ऽन्तरङ्गानि ।
ऋषयश्छन्दोदैवतविनियोगा बीजशक्तिकीलानि ॥ १६० ॥
न्यासा ध्यानं नियमाः पूजादीनि बहिरङ्गानि ।
बाह्यान्यङ्गानि पुनः प्रायो लोके प्रसिद्धकल्पानि ॥ १६१ ॥
(श्रीविद्या की उपासना के आन्तरिक अङ्ग)
इस श्रीविद्या में निहित मंत्राक्षर (५८), उद्धार, काल (मात्राकाल), उच्चारण
(एकलवोना ऊनत्रिंशन्मात्रा), उद्भवस्थान, प्रयत्न, रूप, विभिन्न स्थितियाँ, स्थान,
आकार, अर्थ, (गायत्री) विभाव्य (अवस्था पंचकादि) (इस श्रीविद्या के) आन्तरिक
अङ्ग हैं ॥ १५९ ॥
(श्रीविद्या के बाह्य अङ्गों का विवेचन)
(इस श्रीविद्या के) ऋषि, छन्द, देवता, विनियोग (प्रयोग) बीज, शक्ति,
कीलक, न्यास, ध्यान, नियम एवं पूजा आदि बाह्य अङ्ग हैं । (इसके) बाह्य अङ्ग
लोक में प्रायशः प्रख्यात ही हैं ॥ १६०-१६१ ॥
- प्रकाश *
विद्यायां वर्णेयत्ता अष्टपञ्चाशद्रूपा वर्णसंख्या । उद्धारः 'क्रोधिशः श्रीकण्ठारूढः'
इत्यादिनोक्तः । कालस्त्रिलवोनेकत्रिंशन्मात्रात्मको विद्यायाः, एकलवोना ऊनत्रिंशन्मात्रा
उच्चारणस्य । उच्चारणम् 'इत्येवं वर्णानाम्' इत्यादिसार्धश्लोकत्रयेणोक्तम् । उत्पत्ति-
स्थानम् 'कण्ठे च कण्ठतालुनि' इत्यत्रोक्तम् । यत्नो बाह्याभ्यान्तरश्च । रूपादित्रयम्
'प्रलयाग्निनिभम्' इत्यादिनोक्तम् । स्वं रूपम् 'व्यष्टिसमष्टिविभेदात्' इत्यादिनोक्तम् ।
विभाव्यमवस्थापञ्चकादि । अर्थो गायत्र्यर्थादिरूपः । इमान्यन्तरङ्गत्वादुपासकानामत्य-
वश्यकानि ॥ १५९ ॥
ऋषयो हयग्रीवादयः । छन्दांसि पङ्क्त्यादीनि । दैवतं त्रिपुरसुन्दरी । विनियोग
इष्टार्थजनकत्वे । बीजं वाग्भवादि । शक्तिः परादिः । कीलकं कामराजादि । न्यासा
ऋष्यादिन्यासजालम् । ध्यानम् 'अरुणां करुणातरङ्गिताक्षीम्' इत्यादिना कथितम् ।
नियमाः पुण्ड्रेक्षुदण्डभक्षणवर्जनसङ्कल्पादयः । पूजाः पात्रासादनादिशान्तिस्तवान्ता
नित्यादिभेदेन त्रिविधाः, परादिभेदादपि त्रिविधाः, केवलादिभेदात् पञ्चविधा अपि ।
आदिना होमतर्पणादिपरिग्रहः । एतानि बहिरङ्गत्वेनावश्यकानि । प्रसिद्धकल्पानि,
ईषन्न्यूनप्रसिद्धिमन्ति ॥ प्रायः प्रसिद्धानीत्यर्थः । कल्पप्रत्ययः । तानि च प्रकाशवरि-
वस्याविधौ प्रपञ्चितान्यस्माभिः । अतो ऽत्र ग्रन्थे नोक्तानीति भावः ॥ १६०-१६१ ॥ - सरोजिनी *
१. 'विद्यावर्णेयत्ता' = श्रीविद्या के वर्णों की इयत्ता (वर्ण-संख्या) ॥ वर्णों की
संख्या अट्ठावन है । १. प्रथम में—१८ वर्ण २. मध्य में—२२ वर्ण ३. अन्तिम
में १८ । १८ + २२ + १८ = ५८ ॥