वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 477, कुल 530 में से
संदर्भ में पढ़ेंद्वितीयोंऽशः ३७५
इति¹। तृतीयकूटे वर्णत्रयं सर्वार्थकम्; तुर्यमक्षरं देव्यर्थकम्; तेनायमर्थः संपन्न
इति प्रथमश्लोकस्यार्थः । सर्वं जगद्देवीरूपमेवेत्यर्थस्तन्त्रान्तरेषु गोपित-
इति द्वितीयश्लोकस्य । लज्जाबीजस्थैश्चतुर्भिरक्षरैर्यत् प्रकाशकं यच्च ग्रसिष्णु,
तयोर्यत् सामरस्यं तत्तादात्म्यं द्वितीये प्रतिपाद्यत इति तृतीयस्य । प्रकाश-ग्रासशब्दौ
तूत्पत्तिसंहारयोर्विद्याविद्ययोर्वा वाचकाविति । अयमप्यर्थः 'अत्यल्पमिदं कथितम्' इति
श्लोके सूचितः । एवं चात्र 'पुटधाम-' इति श्लोके त्रयोदशार्थाः; गायत्र्यादि-
पञ्चदशार्थेषु भावार्थाश्चत्वारः, नामार्थास्त्रयः, शाक्तार्थौ द्वौ, कौलिकार्थेऽपि गणेशादि-
रूपत्वस्य देवीविद्याचक्रभेदेन त्रैविध्यम्, महावाक्यार्थे ऽपि द्वैविध्यमिति चतुर्दश; शेषा
दश; इति मिलित्वा सप्तत्रिंशदर्थाः । नामैकदेशार्थे त्वनन्ता भेदा उक्ताः । एवं
बहुतन्त्रद्रष्टृभिरन्ये ऽप्यर्थाः संग्राह्याः ॥ १४३-१४७ ॥
- सरोजिनी *
'ह' + 'स' = आनन्द । 'क' = सत्य । 'ह' = अनन्त ॥ 'ल' =
ज्ञान ॥ ('ह स आनन्दः सत्यं कं हमनन्तं च लं ज्ञानम्')
'क' = 'सखा कश्च बुधैः प्रोक्तः' । “ककारः” = सखि ॥ 'ककार'
सखि वाचक है । (सखित्व, आप्तत्व) ॥ “हकार”—व्योम बीज होने के कारण
'अनन्त' अर्थ का वाचक है क्योंकि व्योम अनन्त है । प्रत्यक्ष ज्ञान-जनक लोचन
का वाचक होने के कारण “लकार” का अर्थ-'ज्ञान' है । इस प्रकार ब्रह्म के जो
दो लक्षण होते हैं—१. 'स्वरूप लक्षण' २