सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 476, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 476

३७४ वरिवस्यारहस्ये
'सत्यं ज्ञानम्' इत्यादिना प्रतिपादितम् । एवं त्वंपदस्य वाच्यार्थो जाग्रदाद्यवस्था-
पञ्चकविशिष्टः । स च 'तद्यथा ऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः
संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति । तद्यथा
महामत्स्यः' इत्यादिश्रुतिभिरुक्तः । लक्ष्यार्थस्त्ववस्थाद्यतीतं ब्रह्म । तदपि 'यो ऽयं
विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः, न दृष्टेर्द्रष्टारं पश्येः' इत्यादिभिः प्रतिपादितम् ।
एवमवान्तरवाक्यैर्वाच्यार्थलक्ष्यार्थयोर्निर्णये सति, तथा महावाक्ये लक्ष्यार्थयोरभेद-
बोधः । यद्यपि श्रुतिषु कृत्यत्रयमवस्थात्रयमेव वर्ण्यते, तथापि तन्त्रानुसारात्
तत्पञ्चकोपलक्षणपरत्वेन व्याख्येयं त्रिवृत्करणस्य पञ्चीकरणपरत्वमिव । एवं च प्रकृते
तृतीयकूटस्थसकलपदेन कलाभिरवस्थाभिः सहित इत्यर्थकेन वाच्यार्थस्योक्तावपि
लक्ष्यार्थानुक्तेर्न्यूनता । तदर्थं च कूटद्वयमेवावृत्त्या त्वंपदस्य वाच्यार्थलक्ष्यार्थयोः
समर्पकत्वेन व्याख्येयम् । अथ वा, तान्त्रिकाणां मते वाच्यार्थयोरप्यत्यन्ताभेदस्य
शांभवानन्दकल्पलताकारादिभिरुपपादनात् कूटद्वयेन सृष्टिकर्तृत्वादिविशिष्टस्यावस्थादि-
विशिष्टस्यैव वाच्यार्थस्य समर्पणम्; तृतीयकूटे तु तयोरभेदो जगतो वा संपूर्णस्याभेदो
बोध्यते । इह यावान् वक्तव्यो ऽशस्तावत्ः सर्वस्याप्युक्तौ वेदान्तशास्त्रस्यैव कृत्स्नस्या-
रम्भणीयतापद्योपरम्यते । महापूर्वेति । महांश्चासौ पूर्वश्च वाक्यार्थ इति, महाशब्दः पूर्वो
यस्मिन् वाक्ये शब्दे तस्य महावाक्यस्यार्थ इति वा निरुक्तिः । एते चार्था उपलक्षण-
भूताः तेन तन्त्रेषु तत्र तत्रोक्तानामन्येषामप्यर्थानां संग्रहः । तथा हि—योगिनीहृदये तावत्
'आत्मनः स्फुरणं पश्येद् यदा सा परमा कला' इत्यारभ्य कांश्चिचतुरश्चतुरः
पदार्थानुक्त्वा तद्वाचकत्वं कूटत्रयं तुरीयविद्या चेति चतुर्णां शब्दानां प्रतिपादितम्—
'कूटत्रितययुक्तस्य सकलस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥'
इति । एवं च यावन्ति चतुष्काणि तावन्तो मन्त्रार्थाः । तानि च प्रथमे ऽंशे
'पुटधाम—' इत्यादिश्लोकोक्तानि । तत्र हि यद्यपि कूटानां पुटाद्यभेद एवोक्तः, तथापि
स वाच्यवाचकभाव एव पर्यवस्यति, शब्दार्थयोस्तादात्म्यस्यैव शक्तिरूपत्वेन पातञ्जले
मञ्जूषायां च स्फुटतरमुपपादनात् । एवं कादिमते पञ्चत्रिंशे पटले चतुर्विंशादिभिस्त्रि-
भिर्व्याकुलाक्षरैः श्लोकैरर्थो वर्णितः—
'र्णैः यामिलिर्वतास्त्रिल तेर्थोधीकयलाऽभिस ।
णदेरूपेपेणवीशे तम् दीमिनरिस्त्यादते ॥ १ ॥
त्वंतोगशेत्कृषजंअ तमूत्ममील्लेरिखाकह ।
तःर्थकस्याथिश्चास्तुत तःत्रेगोर्वपितुषुस ॥ २ ॥
त्वङ्गामान्मानप्रशव्यो नानमसग्निमात्वग्र ।
रोमईद्योकार्विशति नमृतभान्दुलनान्त्रिबि ॥ ३ ॥
इति । एतेषां वाचनक्रमो यथा—
'देवतारथगोमूक (८४६२७३५१) इति यो वेत्ति न क्रमम् ।
स व्याकुलाक्षरे मूको देवतारथगो ऽपि सन् ॥'