वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 490, कुल 530 में से
संदर्भ में पढ़ें३८८ वरिवस्यारहस्ये
आकारः स्वं रूपं विभाव्यमर्थो ऽन्तरङ्गानि ।
ऋषयश्छन्दोदैवतविनियोगा बीजशक्तिकीलानि ॥ १६० ॥
न्यासा ध्यानं नियमाः पूजादीनि बहिरङ्गानि ।
बाह्यान्यङ्गानि पुनः प्रायो लोके प्रसिद्धकल्पानि ॥ १६१ ॥
(श्रीविद्या की उपासना के आन्तरिक अङ्ग)
इस श्रीविद्या में निहित मंत्राक्षर (५८), उद्धार, काल (मात्राकाल), उच्चारण
(एकलवोना ऊनत्रिंशन्मात्रा), उद्भवस्थान, प्रयत्न, रूप, विभिन्न स्थितियाँ, स्थान,
आकार, अर्थ, (गायत्री) विभाव्य (अवस्था पंचकादि) (इस श्रीविद्या के) आन्तरिक
अङ्ग हैं ॥ १५९ ॥
(श्रीविद्या के बाह्य अङ्गों का विवेचन)
(इस श्रीविद्या के) ऋषि, छन्द, देवता, विनियोग (प्रयोग) बीज, शक्ति,
कीलक, न्यास, ध्यान, नियम एवं पूजा आदि बाह्य अङ्ग हैं । (इसके) बाह्य अङ्ग
लोक में प्रायशः प्रख्यात ही हैं ॥ १६०-१६१ ॥
- प्रकाश *
विद्यायां वर्णेयत्ता अष्टपञ्चाशद्रूपा वर्णसंख्या । उद्धारः 'क्रोधिशः श्रीकण्ठारूढः'
इत्यादिनोक्तः । कालस्त्रिलवोनेकत्रिंशन्मात्रात्मको विद्यायाः, एकलवोना ऊनत्रिंशन्मात्रा
उच्चारणस्य । उच्चारणम् 'इत्येवं वर्णानाम्' इत्यादिसार्धश्लोकत्रयेणोक्तम् । उत्पत्ति-
स्थानम् 'कण्ठे च कण्ठतालुनि' इत्यत्रोक्तम् । यत्नो बाह्याभ्यान्तरश्च । रूपादित्रयम्
'प्रलयाग्निनिभम्' इत्यादिनोक्तम् । स्वं रूपम् 'व्यष्टिसमष्टिविभेदात्' इत्यादिनोक्तम् ।
विभाव्यमवस्थापञ्चकादि । अर्थो गायत्र्यर्थादिरूपः । इमान्यन्तरङ्गत्वादुपासकानामत्य-
वश्यकानि ॥ १५९ ॥
ऋषयो हयग्रीवादयः । छन्दांसि पङ्क्त्यादीनि । दैवतं त्रिपुरसुन्दरी । विनियोग
इष्टार्थजनकत्वे । बीजं वाग्भवादि । शक्तिः परादिः । कीलकं कामराजादि । न्यासा
ऋष्यादिन्यासजालम् । ध्यानम् 'अरुणां करुणातरङ्गिताक्षीम्' इत्यादिना कथितम् ।
नियमाः पुण्ड्रेक्षुदण्डभक्षणवर्जनसङ्कल्पादयः । पूजाः पात्रासादनादिशान्तिस्तवान्ता
नित्यादिभेदेन त्रिविधाः, परादिभेदादपि त्रिविधाः, केवलादिभेदात् पञ्चविधा अपि ।
आदिना होमतर्पणादिपरिग्रहः । एतानि बहिरङ्गत्वेनावश्यकानि । प्रसिद्धकल्पानि,
ईषन्न्यूनप्रसिद्धिमन्ति ॥ प्रायः प्रसिद्धानीत्यर्थः । कल्पप्रत्ययः । तानि च प्रकाशवरि-
वस्याविधौ प्रपञ्चितान्यस्माभिः । अतो ऽत्र ग्रन्थे नोक्तानीति भावः ॥ १६०-१६१ ॥ - सरोजिनी *
१. 'विद्यावर्णेयत्ता' = श्रीविद्या के वर्णों की इयत्ता (वर्ण-संख्या) ॥ वर्णों की
संख्या अट्ठावन है । १. प्रथम में—१८ वर्ण २. मध्य में—२२ वर्ण ३. अन्तिम
में १८ । १८ + २२ + १८ = ५८ ॥