सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
कपिलवस्तुवर्णनम् ] प्रथमः सर्गः २१
समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च ।
अलञ्चक्रुरलंवीर्यास्ते जगद्धाम तत्पुरम् ॥ ५५ ॥
अन्वयः—अलंवीर्याः ते समाजैः उत्सवैः दायैः क्रियाविधिभिः एव च जगद्धाम
तत्पुरं च अलञ्चक्रुः ॥ ५५ ॥
व्याख्या—अलम् = पर्याप्तम्, वीर्यम् = पराक्रमं, येषां ते = पर्याप्तपराक्रमशालिनः,
ते = नृपतिसुताः, समाजैः = गोष्ठ्यादिभिः, उत्सवै = पर्वभिः, दायैः = दानादिभिः,
क्रियाविधिभिः = क्रियाकलापैः, एव = हि, च = पुनः, जगद्धाम = संसारशरणस्थानम्,
तत्पुरम् = पूर्वोक्तनगरम्, अलञ्चक्रुः = अलङ्कृतवन्तः ॥ ५५ ॥
यस्मादन्यायतस्ते च कञ्चिन्नाचीकरन् करम् ।
तस्मादल्पेन कालेन तत्तदापुपुरन्पुरम् ॥ ५६ ॥
अन्वयः—यस्मात् ते अन्यायतः कञ्चित् करं न अचीकरन् तस्मात् अल्पेन
कालेन तत् पुरम् अपूपुरन् ॥ ५६ ॥
व्याख्या—यस्मात् = यतोहि, ते = राजपुत्राः, अन्यायतः = अन्यायेन, कञ्चित् =
ईषदपि, करम् = राजभागम्, न = नहि, अचीकरन् = अकुर्वन्, तस्मात् = तेन हेतुना,
अल्पेन = स्वल्पेन, कालेन = समयेन, तत् = पूर्वोक्तम्, पुरम् = नगरम्, अपूपुरन् =
पूरयामास ॥ ५६ ॥
हिन्दी—नागरिकों पर न्याय-विरुद्ध उन्होंने कभी कोई कर नहीं लगाया, फलतः
थोड़े ही दिनों में उन्होंने उस नगर को धन और जन से भर दिया ॥५६ ॥
कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि ।
यस्मात्ते तत्पुरं चक्रुस्तस्मात् कपिलवास्तु तत् ॥ ५७ ॥
अन्वयः—तस्य कपिलस्य ऋषेः तस्मिन् आश्रमवास्तुनि तत्पुरं चक्रुः तस्मात् तत्
कपिलवास्तु ( कथितः ) ॥ ५७ ॥
व्याख्या—तस्य = पूर्वोक्तस्य, कपिलस्य = एतदाख्यस्य, ऋषेः = मुनेः, तस्मिन् =
पूर्वोक्ते, आश्रमवास्तुनि = कपिलस्थाने, तत्पुरम्=तन्नगरम्, चक्रुः = अकुर्वन्, तस्मात्=
तेनं कारणेन, तत् = पुरम्, कपिलवास्तु = कपिलनगरम् इति कथितः ॥ ५७ ॥
हिन्दी—कपिलमुनि के आश्रमस्थल पर वह नगर बसाया गया था, इसीलिए
वह कपिलवस्तु नाम से विख्यात हुआ ॥ ५७ ॥
ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।
पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ ५८ ॥
अन्वयः—यथा हि ककन्दस्य मकन्दस्य कुशाम्बस्य च आश्रमे पुर्यः श्रूयन्ते तथैव
कपिलस्य तत् ॥ ५८ ॥
२२ सौन्दरनन्दं महाकाव्यम्
व्याख्या—यथेति । यथा = येन प्रकारेण, हि = इति निश्चयेन, ककन्दस्य = एतदा-
ख्यनृपस्य, मकन्दस्य = एतन्नामकस्य महीपतेः, कुशाम्बस्य = कुशाम्बनामकस्य राज्ञः,
च = पुनः, आश्रमे = निवासस्थाने, पुर्य्यः = नगराणि, श्रूयन्ते = आकर्ण्यन्ते, तथैव =
तेनैव प्रकारेण, कपिलस्य = कपिलाख्यमुनेः, तत् = पूर्वोक्तपुरम्, तन्नाम्नैव ख्यातोऽभव-
दिति भावः । यथा कुशाम्बादेः कौशाम्बी प्रभृतीनि नगराणि प्रसिद्धानि सन्ति
तथैवेति ॥ ५८ ॥
हिन्दी—जैसे ककन्द, मकन्द और कुशाम्ब के आश्रम में बसाये गये नगर उन्हीं
के नामों से ख्यात हुए, उसी तरह कपिलमुनि के आश्रम में बसाये गये नगर 'कपिल-
वस्तु' के नाम से विख्यात हुआ ॥ ५८ ॥
आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन ।
आपुर्यशोगन्धमतश्च शश्वत्सुता ययातेरिव कीर्तिमन्तः ॥ ५९ ॥
अन्वयः—ते पुरुहूतकल्पाः आर्येण तेजसा तत्पुरम् आपुः न विस्मयेन अतः च
ययातेः कीर्त्तिमन्तः सुताः इव शश्वत् यशोगन्धम् आपुः ॥ ५९ ॥
व्याख्या—आपुरिति । ते = राजपुत्राः, पुरुहूतकल्पाः = सुरेन्द्रसदृशाः, आर्येण =
कुलीनेन, तेजसा = प्रतापेन, तत् = पूर्वोक्तम्, पुरम् = नगरम्, आपुः = रक्षितवन्तः,
न = नहि, विस्मयेन = औद्धत्येन, अतः = तेन हेतुना, ययातेः = एतदाख्यस्य नरपतेः,
कीर्त्तिमन्तः = कीर्तिः अस्ति येषां ते कीर्त्तिमन्तः = यशस्विनः, सुताः = पुत्राः, इव =
यथा, यशोगन्धम् = कीर्त्तिवासः, आपुः = अप्राप्नुवन् । अत्रोपमालङ्कारः ॥ ५९ ॥
हिन्दी—पुरन्दर तुल्य उन वीरों ने अपने आर्य तेज से, न कि घमंड से, उस नगर
की रक्षा की । इसीलिए उन्होंने नित्य यशरूपी सुगन्ध प्राप्त की, जैसे ययाति के पुत्रों
ने प्राप्त की थी ॥ ५९ ॥
तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज राष्ट्रम् ।
तारासहस्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरिक्षम् ॥ ६० ॥
अन्वयः—नाथवृत्तैः अपि राजपुत्रैः तत् अराजकम् राष्ट्रम् तारासहस्रैः दीप्यमानैः
अपि अनुत्थिते चन्द्रे अन्तरिक्षम् इव नैव रराज ॥ ६० ॥
व्याख्या—तन्नाथेति । नाथवृत्तैः—नाथस्य = स्वामिनः, इव = यथा, वृत्तिः =
भृतिः, राजन्यधर्मयुक्तैः, अपि = चेत्, राजपुत्रैः = नृपतनयैः, तत् = पुरम्, अराजकम्
= प्रशासकविहीनम्, राष्ट्रम् = जनपदम्, तारासहस्रैः = नक्षत्रमण्डलैः, दीप्यमानैः =
प्रकाशमानैः, अपि = चेत्, अनुत्थिते = अनुदिते, चन्द्रे = सुधाकरे, अन्तरिक्षम् = आकाशः,
इव = यथा, नैव = नहि, रराज = शुशुभे । अत्राप्युपमाऽलङ्कारः ॥ ६० ॥
हिन्दी—यद्यपि वे राजकुमार उस नगर के अधिपति थे, फिर भी किसी निश्चित
राजा के अभाव में उस नगर की शोभा वैसे ही फीकी थी, जैसे हजारों ताराओं की
चमक के बावजूद एक चन्द्रमा के अभाव में आकाश की शोभा नहीं होती ॥ ६० ॥
कपिलवस्तुवर्णनम् ] प्रथमः सर्गः २३
यो ज्यायानथ वयसा गुणैश्च तेषां
भ्रातॄणां वृषभ इवौजसा वृषाणाम् ।
ते तत्र प्रियगुरुवस्तमभ्यषिञ्च-
न्नादित्या दशशतलोचनं दिवीव ॥ ६१ ॥
अन्वयः—अथ तेषां भ्रातॄणां वयसा गुणैश्च वृषाणाम् ओजसा वृषभ इव यः
ज्यायान् प्रियगुरवः ते तत्र दिवि आदित्याः दशशतलोचनम् इव तम्
अभ्यषिञ्चन् ॥ ६१ ॥
व्याख्या—अथ = अनन्तरम्, तेषां = राजपुत्राणाम्, भ्रातॄणाम् = सहजानाम्,
वयसा = आयुषां, गुणैः = पराक्रमैः, वृषाणाम् = बलीवर्दाणाम्, ओजसा = तेजसा, वृषभः
= बलीवर्दः, इव = यथा, यः = वीरः, ज्यायान्—अतिशयेन प्रशस्यः ( प्रशस्य +
इयसुन् ज्या आदेशः ), ज्यायान् = श्रेष्ठतरः, प्रियगुरवः—प्रियः गुरुः येषां ते
प्रियगुरवः = प्रियाग्रजाः, ते = वीरराजकुमाराः, तत्र = तस्मिन् स्थाने, दिवि = दिव्यलोके,
आदित्याः = देवताः, दशशतलोचनम् = देवेन्द्रम्, इव = यथा, तम् = वीराग्रजम्,
अभ्यषिञ्चन् = अभिषिषिचुः ॥ ६१ ॥
हिन्दी—स्वर्ग में देवताओं ने जैसे इन्द्र का अभिषेक किया था, ठीक उसी प्रकार
जैसे बैलों में सर्वाधिक शक्तिशाली बैल सबसे बड़ा समझा जाता है, उसी तरह उन
राजकुमारों ने उम्र और गुण में श्रेष्ठ सबके प्यारे अपने बड़े भाई को राजपद पर
अभिषिक्त कर दिया ॥ ६१ ॥
आचारवान् विनयवान्नयवान् क्रियावान्
धर्माय नेन्द्रियसुखाय धृतातपत्रः ।
तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं
सङ्क्रन्दनो दिवमिवानुसृतो मरुद्भिः ॥ ६२ ॥
सौन्दरनन्दे महाकाव्ये कपिलवस्तुवर्णनो नाम प्रथमः सर्गः ।
अन्वयः—आचारवान् विनयवान् नयवान् क्रियावान् धृतातपत्रः सः इन्द्रियसुखाय
न ( अपितु ) धर्माय मरुद्भिः अनुसृतः सङ्क्रन्दनः दिवम् इव तद्भ्रातृभिः परिवृतः
राष्ट्रं जुगोप ॥ ६२ ॥
व्याख्या—आचारवानिति । आचारवान् = सदाचारयुक्तः, विनयवान् = विनयान्वितः,
नयवान् = नीतिकुशलः, क्रियावान् = सततकार्येरतः, धृतातपत्रः—धृतम् आतपत्रं येन
सः = धृतराजच्छत्रः, सः = असौ, इन्द्रियसुखाय—इन्द्रियाणाम् = करणानाम्, सुखम्
= आनन्दम्, तस्मै = भोगाय, न = नहि, ( अपितु = प्रत्युत ) धर्माय = धार्मिकानुष्ठानाय,
मरुद्भिः = पवनदेवैः, अनुसृतः = परिवृतः, सङ्क्रन्दनः = देवराजः, दिवम् = अमरलोकम्,
२४ सौन्दरनन्दं महाकाव्यम्
इव=यथा, तद्भ्रातृभिः=तदनुजैः, परिवृतः=वेष्टितः, राष्ट्रम्=जनपदम्, जुगोप=
रक्षितवान् ॥ ६२ ॥
हिन्दी—वे राजा आचारवान्, नीतिवान्, क्रियावान् एवं विनयी थे। उन्होंने
धर्म के लिए, न कि इन्द्रिय सुख के लिए राजछत्र धारण किया। मरुतों के साथ जैसे
इन्द्र स्वर्ग की रक्षा करते हैं, ठीक उसी तरह उस राजा ने अपने भाइयों के साथ
मिलकर अपने राज्य की रक्षा की ॥ ६२ ॥
सौन्दरनन्द-महाकाव्य में 'कपिलवस्तु-वर्णन' नामक
पहला सर्ग समाप्त हुआ।
द्वितीयः सर्गः
राजवर्णनम्
जन्मग्रहणकर कपिलवस्तु को, जिसने किया पवित्र ।
यहाँ उसी शुद्धोदन नृप का वर्णित चारुचरित्र ॥
ततः कदाचित् कालेन तदवाप कुलक्रमात् ।
राजा शुद्धोदनो नाम शुद्धकर्मा जितेन्द्रियः ॥ १ ॥
अन्वयः—ततः कालेन कदाचित् शुद्धकर्मा जितेन्द्रियः शुद्धोदनः नाम राजा
कुलक्रमात् तद् अवाप ॥ १ ॥
व्याख्या—तत इति । ततः=तत्पश्चात्, कालेन=यथावसरेण, कदाचित्=
कस्मिंश्चित्काले, शुद्धकर्मा=शुद्धानि कर्माणि यस्य सः=पूतकर्मकर्त्ता, जितेन्द्रियः=
जितानि इन्द्रियाणि येन सः=वशीकृतेन्द्रियः, शुद्धोदनः=एतदाख्यो नृपः, नाम=
आख्या, राजा=भूपालः, कुलक्रमात्=कुलस्य=वंशस्य, क्रमः=अवस्थितिस्तस्मात्,
तत्=कपिलवास्तुम्,' अवाप=प्राप्तवान् ( अव् + √आप् + लिट् ) । अस्मिन् सर्गे
अनुष्टुप् छन्दः ॥ १ ॥
हिन्दी—कालक्रम से अपनी वंश-परम्परा के अनुसार शुद्धकर्मा एवं जितेन्द्रिय
शुद्धोदन नाम का राजा उस कपिलवस्तु का उत्तराधिकारी हुआ ॥ १ ॥
यः ससञ्जे न कामेषु श्रीप्राप्तौ न विसिस्मिये ।
नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ २ ॥
अन्वयः—यः कामेषु न ससञ्जे श्रीप्राप्तौ न विसिस्मिये ऋद्ध्या परान् न अवमेने
परेभ्यो अपि न विव्यथे ॥ २ ॥
व्याख्या—य इति । यः=नृपशुद्धोदनः, कामेषु=वासनासु, न=नहि, ससञ्जे=
लिप्तवान्, श्रीप्राप्तौ=श्रियः=सम्पद्, तस्यां प्राप्तिः=आगमः, धनागमे, इति,
न=नहि, विसिस्मिये=( वि√स्मि+लिट् ) उद्धतो बभूव, अवमेने=
( अव + √मन् + लिट् ) अनादृतः कृतवान्, ऋद्ध्या=समृद्ध्या, परान्=अपरान्,
परेभ्य=अरिभ्यः, अपि=अवश्यम्, न=नहि, विव्यथे=( वि + व्यथ् + लिट् )
दुःखितो बभूव । अनुष्टुप्छन्दः ॥ २ ॥
हिन्दी—वह विषयवासनाओं में कभी आसक्त नहीं हुआ । लक्ष्मी पाकर भी
कभी उद्धत नहीं हुआ । अपनी समृद्धि के कारण न तो कभी किसी को अपमानित
किया और न कभी किसी दुश्मन से ही वह दुःखी हुआ ॥ २ ॥
२६ सौन्दरनन्दं महाकाव्यम्
बलीयान् सत्त्वसम्पन्नः श्रुतवान् बुद्धिमानपि ।
विक्रान्तो नयवांश्चैव धीरः सुमुख एव च ॥ ३ ॥
अन्वयः—बलीयान् सत्त्वसम्पन्नः श्रुतवान् बुद्धिमान् अपि विक्रान्तः नयवान् च
एव धीरः सुमुखः एव च ॥ ३ ॥
व्याख्या—बलीयान्निति। असौ राजा बलीयान् = बलितमः ( बलिन् + ईयसुन् ),
सत्त्वसम्पन्नः=सत्त्वेन = बुद्ध्या, सम्पन्नः = सहितः, श्रुतवान् = विद्वान्, बुद्धिमान् =
ज्ञानी, अपि = चेत्, विक्रान्तः = पराक्रमी ( वि√क्रमु + क्त ), नयवान् = नीतिवान्,
च = पुनः, एवेति निश्चयः, धीरः = धैर्यवान् ( धी√रा + क ), सुमुखः—सुन्दरं मुखं
यस्य सः = मनोहरः, एव = हि, च = पुनः । इन्द्रादपि तेजिष्ठो राजेति भावः ॥ ३ ॥
हिन्दी —वह शक्तिशाली, ईमानदार, तत्त्ववेत्ता, चतुर, पराक्रमी, नीतिकुशल,
स्थिरचित्त और सुन्दर था ॥ ३ ॥
वपुष्मांश्च न च स्तब्धो दक्षिणो न च नार्जवः ।
तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ ४ ॥
अन्वय—( राजा ) वपुष्मान् स्तब्धः न च दक्षिणः न च आर्जवः न च
तेजस्वी न क्षान्तः न च कर्त्ता न विस्मितः च आसीत् ॥ ४ ॥
व्याख्या—सः राजा वपुष्मान् = ( वपुष् + मतुप् ) स्वरूपसम्पन्नः, स्तब्धः =
( स्तम्भ् + क्त ) गर्वयुक्तः, न = नहि, च = पुनः, दक्षिणः = कुशलः, न च आर्जवः =
( ऋजु + अण् ) कुटिलः, न च तेजस्वी = ( तेजस् + विनि ) शौर्यसम्पन्नः, न =
नहि, क्षान्तः = ( √क्षम् + क्त ) असहिष्णुः, सहनशीलेति भावः, न च = न पुनः,
कर्त्ता = कारकः, च = पुनः, विस्मितः = ( वि + स्मि + क्तः ) उद्धतः, न च
आसीत् ॥ ४ ॥
हिन्दी—वह रूपवान् तो था परन्तु घमण्डी नहीं, चतुर था परन्तु कुटिल नहीं,
वर्चस्व वाला था परन्तु असहनशील नहीं, वह कार्यकर्त्ता होते हुए भी उद्धत नहीं
था ॥ ४ ॥
आक्षिप्तः शत्रुभिः सङ्ख्ये सुहृद्भिश्च व्यपाश्रितः ।
अभवच्चो न विमुखस्तेजसा दित्सयैव च ॥ ५ ॥
अन्वयः—यः सङ्ख्ये शत्रुभिः आक्षिप्तः तेजसा सुहृद्भिश्च व्यपाश्रितः दित्सयैव
च विमुखः न अभवत् ॥ ५ ॥
व्याख्या—यः = राजा, सङ्ख्ये = युद्धभूमौ, शत्रुभिः = अरिभिः, आक्षिप्तः =
( आङ्√क्षिपू + क्त ) उत्तेजितः, तेजसा = शौर्येण, सुहृद्भिः—शोभनं हृदयं येषां ते
= मित्रैः, 'सुहृद्दुर्हृदौ मित्रामित्रयोर्'त्यनेन हृदयशब्दस्य हृदादेशः, व्यपाश्रितः =
( वि + आङ् + श्री + क्त ) = शरण्यः, दित्सयैव—( दा + सन् + अ + टाप् +
तृ० ए० ) दातुमिच्छा दित्सा, तया दित्सया = यियंसया, एव चेति ॥ ५ ॥
राजवर्णनम् ] द्वितीयः सर्गः २७
हिन्दी—इन्होंने लड़ाई के मैदान में दुश्मनों की ललकार सुन कर पराक्रम दिख-
लाने में अपना मुँह नहीं मोड़ा और मित्रों ने जब कभी इसका आश्रय ग्रहण किया
तो ये कभी भी अपनी उदारता नहीं छोड़े ॥ ५ ॥
यः पूर्वे राजभिर्यातां यियासुर्धर्मपद्धतिम् ।
राज्यं दीक्षामिव वहन् वृत्तेनान्वगमत् पितॄन् ॥ ६ ॥
अन्वयः—पूर्वैः राजभिः यातां धर्मपद्धतिं यियासुः यः राज्यं दीक्षाम् इव वहन्
वृत्तेन पितॄन् अन्वगमत् ॥ ६ ॥
व्याख्या—पूर्वैः = पूर्ववर्त्तिभिः, राजभिः = नृपैः, याताम् = स्वीकृताम् ( √ या +
क्त + टाप् ), धर्मपद्धतिम्—धर्मस्य = शुभाचरणस्य, या पद्धतिः = सरणिः ताम्,
यियासुः = जिगमिषुः, गन्तुमिच्छुकः ( या + सन् + उ, 'सनाशंसभिक्ष उः' ), यः =
शुद्धोदनम्, राज्यम् = कपिलवस्तुं, दीक्षाम् = ( दीक्ष् + अ + टाप् ) व्रतम्, इव =
यथा, वहन् = धारयन्, वृत्तेन = स्वकीयाचरणेन, पितॄन् = पूर्वजान्, अन्वगमत् =
अन्वसात् । 'दीक्षामिव' अत्रोपमालङ्कारः ॥ ६ ॥
हिन्दी—पहले के राजें जिस राह पर चलते थे, उसी पर चलने की इच्छा से
राज्य को मंत्रोपदेश की तरह ग्रहण करते हुए, उसने अपने पूर्वजों के आचरण का
अनुकरण किया ॥ ६ ॥
यस्य सुव्यवहाराच्च रक्षणाच्च सुखं प्रजाः ।
शिशियरे विगतोद्वेगाः पितुरङ्कगता इव ॥ ७ ॥
अन्वयः—यस्य सुव्यवहारात् रक्षणात् च विगतोद्वेगाः प्रजाः पितुः अङ्कगताः
( सन्ततयः ) इव सुखं शिशियरे ॥ ७ ॥
व्याख्या—यस्येति । यस्य = पूर्वोक्तनृपशुद्धोदनस्य, सुव्यवहारात्—शोभनः
व्यवहारस्तस्मात् = सुष्ठु आचरणात्, रक्षणात् = ( √ रक्ष् + ल्युट् ) सङ्गोपनात्, च =
पुनः, विगतोद्वेगाः—विगतः = विनष्टः, उद्वेगः—उद्गतः = निर्गतः, वेगः = प्रवाहः,
यासां ताः, प्रजाः = जनाः ( प्र + जन् + ड + टाप् ), अङ्कगताः—अङ्के = क्रोडे,
गताः = सम्प्राप्ताः, (सन्ततयः) इव = यथा, सुखम् = आनन्दम्, शिशियरे = सुषुपूः ( √ शीङ्
- लिट् ) 'अङ्कगताः' इवेत्यत्रोपमालङ्कारः । श्लोक ६२ पर्यन्तमस्मिन् सर्गेऽनुष्टुप्
छन्द इति ॥ ७ ॥
हिन्दी—जिनकी सुव्यवस्था और रक्षा प्रबन्ध के कारण प्रजा उसी तरह सुख
की नींद सोती थी, जैसे पिता की गोद में निःशङ्कभाव से कोई शिशु सोता है ॥७॥
कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।
अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ ८ ॥
अन्वयः—कृतशास्त्रः कृतास्त्रः वा विपुले कुले जातः वा ( यः ) यस्य दर्शनम्
एयिवान् ( सः ) अकृतार्थः न ददृशे ॥ ८ ॥
२८ सौन्दरनन्दं महाकाव्यम्
व्याख्या-कृतशास्त्रः-कृतं ( अधीते ) शास्त्रम् =वेदादिसमग्रसद्ग्रन्थाः, येन
सः=अधीतनिगमाग्मादिसकलसद्ग्रन्थाः, कृतास्त्रः-कृतानि = शिक्षितानि, अस्त्राणि
=आयुधानि, येन सः ( √कृ+क्त = कृतम्; √शास्+ष्ट्रन् शास्त्रम्=अस्त्रम्; √अस्
+ष्ट्रन् ), वा=अथवा, विपुले = कुलीने ( वि+पुल्+क ), कुले=वंशे, जातः=
समुत्पन्नः ( √जन् + क्त ), दर्शनम् =( √दृश् + ल्युट्, भावे ) अवलोकनम्,
एयिवान् = ( आङ् + √इण् + क्वसु ) लब्धवान्, सः अकृतार्थः—कृतः=सिद्धः,
प्रयोजनः यस्य सः कृतार्थः, न कृतार्थः अकृतार्थः=अपूर्णकामः, न=नहि, ददृशे =
= ( दृश् + णिच् + लिट् ) ईक्षयाञ्चके ॥ ८ ॥
हिन्दी—उच्च कुल में जन्म लेने वाला कोई कुलीन हो, शास्त्रज्ञ हो अथवा अस्त्रज्ञ,
जिस किसी ने भी इनके दर्शन किये, वे ही निहाल हो गये ॥ ८ ॥
हितं विप्रियमप्युक्तो यः शुश्राव न चुक्षुभे ।
दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतमण्वपि ॥ ९ ॥
अन्वयः—यः विप्रियमपि हितं युक्तः शुश्राव न चुक्षुभे यः बहु अपि दुष्कृतम्
त्यक्त्वा अणु अपि कृतं सस्मार ॥ ९ ॥
व्याख्या—यः = राजा, विप्रियम्—विगतम् = विरहितम्, प्रियम्=अभीप्सितम्,
यस्मात् तत्=अरुचिकरम्, हितम्=प्रियकरम्, युक्तः =( युज् + क्त ) समुचितः,
शुश्राव =अशृणोत्, न=नहि, चुक्षुभे=चुकोप, बहु=अनेकम्, अपि=चेत्, दुष्कृतम्
=अपकारम्, त्यक्त्वा=परित्यज्य, अणु =अत्यल्पमपि, कृतम्=उपकारम्, सस्मार=
चित्ते दधार ( √स्मृ + लिट् ) ॥ ९ ॥
हिन्दी—जिसने अप्रिय होने के बावजूद बिना उत्तेजित हुए हितकर बातों को
ध्यान से सुना, अनेक अपराधों को भूलकर अणुमात्र उपकार को याद रखा ॥ ९ ॥
प्रणताननुजग्राह विजग्राह कुलद्विषः ।
आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ १० ॥
अन्वयः—प्रणतान् अनुजग्राह कुलद्विषः विजग्राह आपन्नान् परिजग्राह पथि
अस्थितान् निजग्राह ( च ) ॥ १० ॥
व्याख्या—यः प्रणतान् = ( प्र + नम् + क्त, द्वि० ब० ) विनयावनतान्, अनुज-
ग्राह=( अनु + √ग्रह् + लिट् ) अनुग्रहं कृतवान्, कुलद्विषः—द्वेष्टि=शत्रुतां
करोतीति द्विष्, कुलस्य=वंशस्य, द्विष् इति कुलद्विट्, तान् ( द्विष्+क्विप् )=
वंशशत्रून्, विजग्राह = युयुधे, ( वि√ग्रह् + लिट् ) आपन्नान् =आपत्तिग्रस्तान्
( आङ्√पद् + क्त ), परिजग्राह=साहाय्य कृतवान्, पथि=सन्मार्गे, अस्थितान्=
न गतान्, निजग्राह=नियमनं कृतवान् । कपिवर्णानुवृत्त्या अनुप्रासोऽत्रालङ्कारः ॥१०॥
हिन्दी—उसने शरणागतों पर कृपा की, वंशद्रोहियों का विनाश किया, आपद्-
ग्रस्तों को अपनाया तथा कुमार्गगामियों, को दण्डित किया ॥ १० ॥
राजवंशवर्णनम् ] द्वितीयः सर्गः २९
प्रायेण विषये यस्य तच्छीलमनुवर्तिनः ।
अर्जयन्तो ददृशिरे धनानीव गुणानपि ॥ ११ ॥
अन्वयः—यस्य विषये प्रायेण तच्छीलमनुवर्त्तिनः ( जनाः ) गुणान् अपि धनानि
इव अर्जयन्तः ददृशिरे ॥ ११ ॥
व्याख्या—यस्य = राज्ञः, विषये = देशे ( 'नृवुज्जजनपदो देशः उपवर्त्तनमिष्यते ।
जनोलोकः प्रजाप्रोक्ताः विषयो ग्रामसङ्ख्यया ॥' इति हलायुधः । ), प्रायेण=बहुशः,
तच्छीलमनुवर्त्तिनः—तस्य शीलमिति तच्छीलम् = तस्य स्वभावस्तेषाम् अनुवर्त्तितुं शीलं
येषां ते (अनु + √वृत् + णिनि; तत् + शीलमित्यत्र 'स्तोः श्चुना श्चुरि'त्यनेन दकारस्य
जकारः, 'खरि चे'त्यनेन जकारस्य चकारः, 'शश्छोऽटि' इत्यनेन शकारस्य छकारः) =
शुद्धोदनस्वभावानुगामिनो जनाः, गुणान् = दयादाक्षिण्यादि सद्वृत्तीन्, अपि =
अवश्यम्, धनानि = विभवान्, इव = यथा, अर्जयन्तः = (√अर्ज् + शतृ) उपार्जयन्तः,
ददृशिरे = ( दृश् + णिच् + लिट् ) ईक्षयाञ्चक्रिरे । 'धनानीव गुणान्' अत्र 'गुणिने'
धनस्योपमानरूपे प्रयोगत्वेनोपमालङ्कारोऽस्ति ॥ ११ ॥
हिन्दी—शुद्धोदन के राज्य में प्रजा उनके चरित्र का अनुकरण करती थी । धन
की तरह सद्गुणों के अर्जन में भी उनकी वैसी ही रुचि थी ॥ ११ ॥
अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।
दानान्यदित पात्रेभ्यः पापं नाकृत किञ्चन ॥ १२ ॥
अन्वयः—यः परं ब्रह्म अध्यैष्ट सततं धृते न व्यैष्ट पात्रेभ्यः दानानि अदित
किञ्चन ( अपि ) पापं न अकृत ॥ १२ ॥
व्याख्या—यः = राजा, परम् = श्रेष्ठतमम्, ब्रह्म = वेदादिकम्, अध्यैष्ट = ( अधि
√'इङ् अध्ययने'+लुङ् ) = अधीतवान्, सततम्=सर्वदा, धृतेः = ( √धृ + क्तिन् )
धैर्यात्, न = नहि, व्यैष्ट = ( वि √इ + लुङ् ) स्खलितो बभूव, पात्रेभ्यः = ( पा +
ष्ट्रन् ) विचारशीलपुरुषेभ्यः, दानानि = ( दा + ल्युट् ) वितरणादिकानि, अदित =
( दा + लुङ् ) प्रदत्तः, किञ्चन = किमपि, पापम् = अपकर्म, न = नहि, अकृत =
( √कृ + लुङ् ) कृतवान् ॥ १२ ॥
हिन्दी—महाराज शुद्धोदन ने वेदों का विधिवत् अध्ययन किया । धैर्य से कभी
भी विचलित नहीं हुए । योग्यजनों को दान दिया । थोड़ा भी पापकर्म कभी
नहीं किया ॥ १२ ॥
धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजीवोद्गतां धुरम् ।
न ह्यावाञ्छीच्च्युतः सत्यान्मुहूर्तमपि जीवितम् ॥ १३ ॥
अन्वयः—सः धृत्या प्रतिज्ञां सद्वाजी उद्गतां धुरम् इव अवाक्षीत् ( यत् ) सत्यात्
च्युतः ( सः ) मुहूर्तमपि जीवितं न अवाञ्छीत् ॥ १३ ॥
व्याख्या—सः = राजा, धृत्या = धैर्येण, प्रतिज्ञाम् = निजसङ्कल्पम्, सद्वाजी—सन्
चासौ वाजी = उत्कृष्टघोटकः, उद्गताम् = ( उद् + √ यम् + क्त ) धृतम्, धुरम्
सौ०-6
३० सौन्दरनन्दं महाकाव्यम्
=.( √ध्रुव्+क्विप् ) अक्षः, इव=यथा, अवाक्षीत् =( अव +√वह् +लुङ् )
अधारयत्, ( यत् )सत्यात्=यथार्थात्, च्युतः=( √च्यु+क्त ) भ्रष्टः, मुहूर्तंमपि =
क्षणमात्रमपि, जीवितम्=प्राणान्, न =नहि, अवाञ्छीत्=( अव +√वाञ्छ+लुङ् )
ऐच्छत् । अत्र शुद्धोदनस्योपमा श्रेष्ठाश्वेन सहास्ति तेनात्रोपमाऽलङ्कारः सादृश्य-
त्वेन ॥ १३ ॥
हिन्दी—जैसे अच्छे घोड़े उठते हुए जुए का भार स्वयं ललक कर वहन करते हैं,
ठीक उसी तरह इन्होंने की गई प्रतिज्ञा का पालन सदैव धीरज के साथ किया, क्योंकि
सत्य से गिरकर क्षण भर के लिए भी जीना इन्हें अभीष्ट नहीं था ॥ १३ ॥
विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।
व्यरोचिष्ट च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ १४ ॥
अन्वयः—( सः ) विदुषः पर्युपासिष्ट आत्मवत्तया व्यकाशिष्ट इषे मासि चन्द्रमा
इव शिष्टेभ्यः व्यरोचिष्ट च ॥ १४ ॥
व्याख्या—(सः= राजा) विदुषः=प्राज्ञस्य, पर्युपासिष्ट=(परि+उप+√आस्+
लुङ् ) पर्यचरत्, आत्मवत्तया =( आत्मन् + मतुप्+तल्+टाप् ) स्वात्मनियन्त्रणेन,
व्यकाशिष्ट =( वि +√काश्+ लुङ् ) सम्मानितो बभूव । इषे = आश्विने मासि,
मासशब्दस्य 'मास्' इत्यादेशात् सप्तमी एकवचने, मासि = मासे, चन्द्रमा=शशाङ्कः,
इव=यथा, शिष्टेभ्यः =सत्पुरुषेभ्यः, व्यरोचिष्ट=अनन्दत्, च=पुनः । आश्विन-
मासस्य चन्द्रः स्वकीयनैर्मल्येन शैत्येन च यथा लोकप्रियो भवति तथैव राजाशुद्धोदनोऽपि
प्रजारञ्जकत्वेन लोकप्रियः आसीत् । अत्र शुद्धोदनस्य उपमा आश्विनमासस्य चन्द्रेण
सहास्ति । तेन उपमागूढपदेन ध्वन्यमानायां चन्द्रविषयकसुन्दरतायां वक्तृगतायां सादृश्ये-
नोपमालङ्कारः ॥ १४ ॥
हिन्दी—इनके आत्मनियंत्रण से ही यह बोध हो जाता था कि इन्होंने विद्वानों
की उपासना की है। शरद के चांद की तरह शिष्टजनों के लिए ये अति प्यारे
थे ॥ १४ ॥
अवेदीद् बुद्धिशास्त्राभ्यामिह चामुत्र च क्षमम् ।
अरक्षीद्धैर्यवीर्याभ्यामिन्द्रियाण्यपि च प्रजाः ॥ १५ ॥
अन्वयः—बुद्धिशास्त्राभ्याम् इह अमुत्र च क्षमम् अवेदीत् धैर्यवीर्याभ्याम् इन्द्रि-
याणि प्रजाः च अपि अरक्षीत् ॥ १५ ॥
व्याख्या—बुद्धिशास्त्राभ्याम्—बुद्धिश्च शास्त्रञ्च, ताभ्याम्=धीधर्मग्रन्थाभ्याम्,
इह =अस्मिन् संसारे, अमुत्र=अपरलोके, च =पुनः, क्षमम् = (क्षम् +अच्) कल्याण-
करम्, अवेदीत् =( √विद् +लुङ् ) ज्ञातवान्, धैर्यवीर्याभ्याम्—धैर्यम्=धीरत्वम्,
च, वीर्यम् =वीरत्वम्, च=पुनः, ताभ्याम् =धैर्यबाहुबलाभ्याम्, इन्द्रियाणि =
श्रोत्रनेत्रादिकरणानि, प्रजाः =जनाः, च =पुनः, अपि=अवश्यम्, अरक्षीत् =
अपासीत् ॥ १५ ॥
राजवर्णनम् ] द्वितीयः सर्गः ३१
हिन्दी—उसने अपनी बुद्धि के द्वारा अपने लौकिक हित को जाना, शास्त्रीय बुद्धि
से पारलौकिक हित को पहचाना, धैर्य से इन्द्रियों का निग्रह किया और बल से प्रजा
की रक्षा की ॥ १५ ॥
अहार्षीद् दुःखमार्तानां द्विषतां चोर्जितं यशः ।
अचैषीच्च नयैर्भूमिं भूयसा यशसैव च ॥ १६ ॥
अन्वयः—आर्त्तानां दुःखम् अहार्षीत् द्विषताम् ऊर्जितं यशः च नयैः भूमिम्
अचैषीत् भूयसा यशसा ( भूमिम् अचैषीत् ) ॥ १६ ॥
व्याख्या—आर्त्तानाम् = ( आङ् + ऋ + क्त ) दुःखितानाम्, दुःखम्=पीडाम्,
अहार्षीत् = ( हृ + लुङ् ) अपहरत्, द्विषताम्=अरीणाम्, ऊर्जितम् = ( √ऊर्ज् +
क्त ) शक्तिशालिनम्, यशः=कीर्त्तिम्, च=पुनः, अहार्षीत् । सः नयैः = नीतिभिः,
भूमिम् = धरित्रीम्, अचैषीत् = ( √चि + लुङ् ) प्राप्तवान्, भूयसा = प्रभूततया,
यशसा = कीर्त्या, पृथिव्यां व्यापनोच्चेति ॥ १६ ॥
हिन्दी—इन्होंने दुःखियों का दुःख दूर किया । दुश्मनों का दर्प दलन किया ।
अपनी नीति से वसुन्धरा को जीतकर, उसे अपने यश से परिव्याप्त किया ॥ १६ ॥
अप्यासीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः ।
नाधौषीच्च यशो लोभादन्यायाधिगतैर्धनैः ॥ १७ ॥
अन्वयः—प्रकृत्या करुणात्मकः सः दुःखितान् पश्यन् एव अप्यासीत्, लोभात्
अन्यायाधिगतैः धनैः यशः न अधौषीत् च ॥ १७ ॥
व्याख्या—प्रकृत्या = स्वभावेन, करुणात्मकः—करुणा आत्मनि यस्य सः ( समा-
सान्ते कप् प्रत्ययः ) = दयार्द्रः, दुःखितान् = क्लेशितान्, पश्यन् = अवलोकयन्, अप्या-
सीत् = सन्तोषयत्, लोभात् = परद्रव्याभिलाषात्, अन्यायाधिगतैः—अन्यायेन = अनीत्या,
अधिगतानि = अधिकृतानि, तैः ( अधि + गम् + क्त ), धनैः = द्रव्यैः, यशः = कीर्त्तिम्,
न = नहि, अधौषीत् = क्षपयतिस्म ( धुञ् + लुङ् ) ॥ १७ ॥
हिन्दी—स्वभाव से उदारचरित होने के कारण दुःखियों को दुःखी देखते ही
इन्होंने उसका दुःख दूर किया । अन्यायोपार्जित धन से अपने यश को कभी मलिन
नहीं होने दिया ॥ १७ ॥
सौहार्ददृढभक्तित्वान्मैत्रेषु विगुणेष्वपि ।
नादिदासीददित्सीत्तु सौमुख्यात् स्वं स्वमर्थवत् ॥ १८ ॥
अन्वयः—सौहार्ददृढभक्तित्वाद् विगुणेषु अपि मैत्रेषु सौमुख्यात् स्वं न आदिदासीत्
अर्थवत् स्वम् अदित्सीत् ॥ १८ ॥
व्याख्या—सौहार्ददृढभक्तित्वाद्—सुहृदः = मित्रस्य, भावः सौहार्दः, तस्मिन् सौहार्दे,
दृढा = स्थिरा, भक्तिः = निरतिस्तस्याः भावस्तस्मात्, विगुणेषु = गुणरहितेषु,
अपि = अवश्यम्, मैत्रेषु = सुहृत्सु, सौमुख्यात्—सुमुखस्य भावः सौमुख्यस्तस्मात्
३२ सौन्दरनन्दं महाकाव्यम्
=( सुमुख + ष्यञ् ) अनुकूलत्वात्, स्वम्=आत्मानम्, न=नहि, आदिदासीत्=
आददात्, अपितु अर्थवत्=प्रयोजनवत्, स्वम्=धनम्, अदित्सीत्=ददातिस्म ।
श्लोकस्योत्तराद्धंपाठस्तथा तस्यार्थः अनिश्चितः एवम् असङ्गतः प्रतीतो भवति ॥ १८ ॥
हिन्दी—मित्रता में इनकी अगाध आस्था थी। गुणहीन मित्रों से भी कुछ पाने
की अपेक्षा अपनी प्रसन्नता से उनको आवश्यकता के अनुसार कुछ दिया ही करते
थे ॥ १८ ॥
अनिवेद्याग्रमहं॑द्भ्यो नालिक्षत् किञ्चिदप्लुतः ।
गामधर्मेण नाधुक्षत् क्षीरतर्षेण गामिव ॥ १९ ॥
अन्वयः—अप्लुतः अहं॑द्भ्यः अनिवेद्याग्रं किञ्चित् न अलिक्षत् अधर्मेण गां
क्षीरतर्षेण गामिव न अधुक्षत् ॥ १९ ॥
व्याख्या—अप्लुतः—न प्लुतः अप्लुतः ( √प्लु+क्त ) =असिक्तः, अर्हद्भ्यः=
श्रेष्ठजनेभ्यः, अनिवेद्याग्रम्=अनैवेद्यपूर्वः स राजा, किञ्चित् = स्तोकमपि, न=नहि,
अलिक्षत् =जग्राह, शुद्धोदनः अधर्मेण=अनीत्या, गाम् = पृथिवीम् ( 'दिग्दृष्टिदीधिति-
स्वर्गवज्रवाग्बाणवारिषु, भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ।।' इति हलायुधः),
अथवा धेनुम्, क्षीरतर्षेण = दुग्धपिपासया, गाम्=धेनुम्, इव=यथा, न=नहि,
अधुक्षत् =दुदोह । 'गामधर्मेण क्षीरतर्षेण गामिव' इत्यत्राधर्मेण दोहनकृता पृथिव्याः
उपमा दुग्धवर्षेण दोहनकृता धेन्वा सह करणेनोपमालङ्कारोऽस्ति तथा 'गाम्' शब्दस्य
भिन्नार्थकाऽऽवृत्त्या यमकाऽलङ्कारोऽप्यस्ति ।। १९ ।।
हिन्दी-स्नान किये बिना तथा पूज्यजनों को बिना उनका अग्रभाग दिये, किसी
वस्तु का स्वयं उपभोग नहीं करता । दूध की इच्छा से लोग जैसे गाय को दुहते
हैं, उसी तरह अधर्मपूर्वक इन्होंने कभी धरती का दोहन नहीं किया ॥ १९ ॥
नासृक्षद् बलिमप्राप्तं नारुक्षन्मानमैश्वरम् ।
आगमैर्बुद्धिमाधिक्षद्धर्माय न तु कीर्तये ॥ २० ॥
अन्वयः—अप्राप्तं बलिं न असृक्षत्, ऐश्वरं मानं न आरुक्षत्, आगमैः बुद्धिं
धर्माय अधिक्षत् न तु कीर्त्तये ॥ २० ॥
व्याख्या—अप्राप्तम्—न प्राप्तम् अप्राप्तम् ( प्र + आप् + क्त ) ( 'युक्तं स्यात्
उचितं न्याय्यं प्राप्तमोपायिकं तथा' इति हलायुधः । ) =अयुक्तम्, बलिम् =
राष्ट्रीयकरम्, न=नहि, असृक्षत्=( √ सृज् + लुङ् ) सृजनमकरोत्, ऐश्वरम् =
( ईश्वर + अण् ) प्रभुशक्तिम्, मानम् =दर्पः, न =नहि, आरुक्षत्=( आङ् +
√ रुह् + लिङ् ) अकरोत्, आगमैः=वेदादिशास्त्रैः, बुद्धिम्=प्रज्ञाम्, मतिं वा,
धर्माय =अभ्युदयनिःश्रेयससाधकगुणकर्मसमूहाय, अधिक्षत् =अवर्धयत्, न तु कीर्तये =
प्रसिद्धयै । 'बलिम्' इत्यस्य पदस्यार्थः जोन्स्टन महोदयेन 'पूजोपहारः' कृतः, तद्यथा—
'He scattered the Bali ablation according to rule.'
राजवर्णनम् ] द्वितीयः सर्गः ३३
हिन्दी—उसने कभी किसी पर अनुचित कर का अधिभार नहीं थोपा एवं अपनी
प्रभुशक्ति का कभी घमण्ड नहीं किया। सामाजिक कर्त्तव्यपालन हेतु उसने शास्त्रों
का अध्ययन कर अपने ज्ञान को बढ़ाया ॥ २० ॥
क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः ।
आर्यभावाच्च नाधुक्षद् द्विषतोऽपि सतो गुणान् ॥ २१ ॥
अन्वयः—कांश्चित् क्लेशार्हान् क्लिष्टकर्मणः अपि न अक्लिष्ट आर्यभावात्
द्विषतोऽपि सतः गुणान् न अधुक्षत् च ॥ २१ ॥
व्याख्या—कांश्चित् = कतिपयजनान्, क्लेशार्हान् = क्लेशम् = कष्टम्, अर्हन्ति =
प्राप्तुं योग्याः सन्ति ये तान्, क्लिष्टकर्मणः—:-क्लिष्टानि = दुष्कराणि, कर्माणि =
कृत्यानि येषां तान् ( √क्लिश् + क्त ), अपि = अवश्यम्, न = नहि, अक्लिष्ट =
क्लेशं दत्तवान्, आर्यभावात् = आर्यः = श्रेष्ठजनश्चासौ भावः = विद्यमानता, तस्मात्
सुष्ठु स्वभाववशात्, द्विषतोऽपि = शत्रोरपि, सतः = प्रशंसनीयान्, गुणान् = स्वभावान्,
न = नहि, अधुक्षत् = न्यगूहत् । श्लोकेऽस्मिन् यमकालङ्कारः ॥ २१ ॥
हिन्दी—उसने किसी दण्डनीय पापियों को भी नहीं सताया प्रत्युत् अपनी शाली-
नता के कारण अपने दुश्मनों के गुणों का भी बखान किया ॥ २१ ॥
आक्रुक्षद्वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।
परस्वं भुवि नामृक्षन् महाविषमिवोरगम् ॥ २२ ॥
अन्वयः—वपुषा चन्द्रमा इव प्रजानां दृष्टीः आक्रुक्षत् भुवि परस्वं महाविषम्
उरगम् इव न अमृक्षत् ॥ २२ ॥
व्याख्या—वपुषा = देहाकृत्या, चन्द्रमा = शशी, इव = यथा, प्रजानाम् = जना-
नाम्, दृष्टीः = अक्षीणि ( 'दृग्दृष्टिर्नेत्रलोचननचक्षुर्ज्यनाम्बकेक्षणाक्षीणि' इति हलायुधः ।
√दृश् + क्तिन् ), आक्रुक्षत् = आकृष्टवान्, (आङ् √कृष् विलेखने + लुङ् प्रथम-
पुरुषैकवचने 'शल इगुपधादनिटः क्सः' इत्यनेन सूत्रेण च्लेः क्सादेशः ), भुवि =
पृथिव्याम्, परस्वम् = परधनम्, महाविषम्—महत् = अत्यधिकम्, विषम् = गरलम्,
यस्य तम् = तीव्रप्राणहारकम्, उरगम्—उरसा गच्छतीति उरगस्तम् = सर्पम्, इव =
यथा, न = नहि, अमृक्षत् = ( √मृश् आमर्शने + लुङ् च्लेः क्सादेशः ) अस्पृशत् ।
उभयोरपि चरणयोरुपमालङ्कारोऽस्ति ॥ २२ ॥
हिन्दी—वह राजा अपनी आकृति से चन्द्रमा की तरह प्रजा का नेत्ररञ्जक
था। धरती पर दूसरों के धन को विषैले सांप की तरह कभी छूता तक नहीं था ॥२२॥
नाक्रुक्षद्विषये तस्य कश्चित्कैश्चित् क्वचित् क्षतः ।
अदिक्षत् तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः ॥ २३ ॥
अन्वयः—तस्य विषये क्वचित् कश्चित् कैश्चित् क्षतः न अक्रुक्षत्, तस्य हस्तस्थं
धनुः आर्तेभ्यो अभयम् अदिक्षत् ॥ २३ ॥
३४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—तस्य = राज्ञः, विषये = राष्ट्रे, क्वचित् = क्वापि, कश्चित् = कश्चन,
कैश्चित् = कैश्चन, क्षतः = क्षतिग्रस्तः, न = नहि, अक्रुक्षत् = अक्रन्दत्, हस्तस्थम् =
करस्थम्, धनुः = चापः, आर्तेभ्यः = पीडितेभ्यः, अभयम् = निर्भयताम्, अदिक्षत् =
प्रादत्त ॥ २३ ॥
हिन्दी—उसके राज्य में कभी किसी ने किसी को पीड़ित नहीं किया, क्योंकि
पीड़ितों की रक्षा हेतु ही उसने धनुष धारण किया था। उसके द्वारा प्रदत्त अभयदान
के कारण ही कभी किसी को रोने-धोने का मौका ही नहीं मिला ॥ २३ ॥
कृतागसोऽपि प्रणतान् प्रागेव प्रियकारिणः ।
अदर्शत् स्निग्धया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ २४ ॥
अन्वयः—प्रणतान् कृतागसोऽपि प्रियकारिणः प्रागेव स्निग्धया दृष्ट्या श्लक्ष्णेन
वचसा असिचत् ॥ २४ ॥
व्याख्या—प्रणतान् = प्रह्वीभूतान्, कृतागसः—कृतम् = सम्पादितम्, आगः =
अपकर्म, तैस्तान् = पापिनः, प्रियकारिणः—प्रियम् = अभीष्टम्, कुर्वन्ति = निष्पादयन्ति,
ये तान्, प्रियकारिणः = हितसाधकान्, प्रागेव = पूर्वमेव, स्निग्धया = स्नेहपूर्णतया
( √स्निह् + क्त ), दृष्ट्या = अवलोकनेन, श्लक्ष्णेन = मधुरेण, वचसा = वचनेन
( वच् + असुन् ), असिचत् = अप्रीणयत् ( सिच् + लुङ् ) ॥ २४ ॥
हिन्दी—शरण में आये अपकारियों को भी उपकारियों की अपेक्षा पहले वह स्नेह-
पूर्ण दृष्टि से देखकर अपनी मीठी बातों से उनका मन हर लेता था ॥ २४ ॥
बह्वीरध्यगमद्विद्या विषयेष्वकुतूहलः ।
स्थितः कार्तयुगे धर्मे धर्मात् कृच्छ्रेऽपि नास्रसत् ॥ २५ ॥
अन्वयः—( सः ) विषयेषु अकुतूहलः बह्वीः विद्याः अध्यगमत्, कार्तयुगे धर्मे
स्थितः कृच्छ्रेऽपि धर्मात् न अरुसत् ॥ २५ ॥
व्याख्या—स राजा, विषयेषु = सुरतेषु, अकुतूहलः = उत्कण्ठारहितः, बह्वीः =
बहुविधाः, विद्याः = शिक्षाः, अध्यगमत् = अधिकृतवान्, कार्तयुगे = सत्ययुगे, धर्मे =
स्वकीयकर्त्तव्ये, स्थितः = वर्त्तमानः, कृच्छ्रेऽपि = आपत्स्वपि, धर्मात् = स्वकीयकर्त्तव्यात्,
न = नहि, अस्रसत् = विचचाल ॥ २५ ॥
हिन्दी—विषयों के प्रति उदासीन रहकर उसने अनेक विद्याओं को प्राप्त किया,
कृतयुगीन धर्म में रहकर भी कभी वह धर्मपथ से विचलित नहीं हुआ ॥ २५ ॥
अवर्धिष्ट गुणैः शश्वदवृधन्मित्रसम्पदा ।
अवतिष्ट च वृद्धेषु नावृतद् गर्हिते पथि ॥ २६ ॥
अन्वयः—शश्वद् गुणैः अवर्धिष्ट मित्रसम्पदा अवृधत् वृद्धेषु च अवत्तिष्ट गर्हिते
पथि न अवृतत् ॥ २६ ॥
राजवर्णनम् ] द्वितीयः सर्गः ३५
व्याख्या—अवर्धिष्ट इति । शश्वत् = सततम्, गुणैः=सत्स्वभावैः, अवर्धिष्ट =
ववृधे, मित्रसम्पदा=सखिसम्पत्त्या, अवृधत् = प्रसन्नोऽभवत्, वृद्धेषु = स्थविरेषु, च,
अवर्तिष्ट = व्यवहारमकरोत्, गर्हिते = निन्दिते, पथि = मार्गे, न = नहि, अवृतत् =
आचरितवान् ।। २६ ।।
हिन्दी—उसके अच्छे गुणों की निरन्तर वृद्धि हुई, वह अपने मित्रों की समृद्धि
में सदा प्रसन्न रहा, बड़े-बूढों पर उसने सदैव भरोसा किया और निन्दनीय राहों पर
उसने कभी कदम नहीं बढ़ाया ।। २६ ।।
शरैरशीशमच्छत्रून् गुणैर्बन्धूनरीरमत् ।
रन्ध्रैर्नाचूचुदद् भृत्यान् करैर्नापीपिडत् प्रजाः ।। २७ ।।
अन्वयः—शरैः ( सः ) शत्रून् अशीशमत् गुणैः बन्धून् अरीरमत् रन्ध्रैः भृत्यान् न
अचूचुदत् करैः प्रजाः न अपीपिडत् ।। २७ ।।
व्याख्या—शरैरिति । शरैः = बाणैः, स राजा, निजशत्रून् = स्वरिपून्, अशीशमत् =
शान्तमकरोत् ( √शम् + णिच् + लुङ्, प्रथमपुरुषैकवचने ), गुणैः=स्वकीयसद्-
व्यवहारैः, बन्धून् = स्वकीयसम्बन्धिनः, अरीरमत् = प्रसन्नमकरोत् ( √रम् + णिच्,
लुङि प्रथमपुरुषैकवचने ), रन्ध्रैः = दोषैः, भृत्यान् = सेवकान्, न = नहि, अचूचुदत् =
अभ्यक्रुधत् ( √चुद् + णिच् + लुङि प्रथमपुरुषैकवचने ) । करैः = राजस्वैः, प्रजाः =
जनाः, न = नहि, अपीपिडत् = अबाधिष्ट ( √पीड् + णिच्, स्वार्थे लुङि प्रथमपुरुषैक-
वचने ) ।। २७ ।।
हिन्दी—उसने अपने बाणों से दुश्मनों को शान्त किया, अपने गुणों से बन्धु-
बान्धवों को सदा खुश रखा, नौकरों को उनकी गलतियों के लिए उन्हें कभी नहीं
डाँटा-फटकारा और न कभी राजस्व के अधिभार से प्रजा को पीड़ित ही किया ।।२७।।
रक्षणाच्चैव शौर्याच्च निखिलां गामवीवपत् ।
स्पष्टया दण्डनीत्या च रात्रिसत्रानवीवपत् ।। २८ ।।
अन्वयः—शौर्यात् सः निखिलां गाम् अवीवपत् च रक्षणात् ( निखिलां गाम्
अवीवपत् ) स्पष्टया दण्डनीत्या रात्रिसत्रान् अवीवपत् ।। २८ ।।
व्याख्या—शौर्यात् = पराक्रमात्, स राजा, निखिलाम् = अखिलाम्, गाम् = पृथ्वि-
वीम्, अवीवपत् = अजापयत् ( 'दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वानवारिषु । भूमौ पशौ
च गोशब्दो विद्भिर्दशसु स्मृतः ।' इति हलायुधः । √वप् + णिच् + लुङि प्रथमपुरुषैक-
वचने—अवीवपत् । पदस्यास्य प्रयोगः त्रिष्वर्थेषु अभवत्; यथा—अवीवपत् = अजापयत्,
व्यग्राहयत्, शान्तमकारयच्चेति ।) गामवीवपदर्थात् = कृषिकर्मोपयोगिनि क्षेत्रे वपनमक-
रयत्, स्पष्टया = सर्वविदितया (√स्पश् + क्त + टाप्, 'स्पष्टया तु दण्डनीत्या' इत्येतस्य
पदस्य विशेषणम्), दण्डनीत्या—दण्डस्य = निग्रहस्य, नीतिः = युक्तिस्तया = न्यायविधि-
नेति, रात्रिसत्रान् = निशायां विघ्नकतॄन् तस्करादीन्, अवीवपत् = व्यग्राहयत् । प्रथम-
पङ्क्तौ 'अवीवपदि'त्यस्य पदस्य द्वयर्थकत्वेन श्लेषालङ्कारोऽस्ति । द्वितीयपङ्क्तौ
भिन्नार्थकत्वस्यावीवपदित्यस्य पदस्य आवृत्त्या यमकाऽलङ्कारोऽपि भवत्येवेति ।। २८ ।।
३६ सौन्दरनन्द महाकाव्यम्
हिन्दी—अपनी वीरता से उसने सारी धरती जीत ली और उसकी सुरक्षा में
उसे उसने बोयी। अपनी खुली दण्ड नीति का पालन कर उसने रात में घूमने वाले
चोर, डकैत और बटमारों को शान्त कर दिया ॥ २८ ॥
कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत् ।
दीप्त्या तम इवादित्यस्तेजसारीनवीवपत् ॥ २९ ॥
अन्वयः—यशोगन्धं कुलं राजर्षिवृत्तेन अवीवपत् दीप्त्या आदित्यः तेजसा तमः
इव अरीन् अवीवपत् ॥ २९ ॥
व्याख्या—यशोगन्धम् = कीर्तिरूपेण सुगन्धेन, कुलम् = वंशम्, राजर्षिवृत्तेन—
राज्ञाम् = नरपतीनाम्, ऋषिः = मुनिः इति राजर्षिः, तस्य वृत्तम् = आचरणम्, तेन
राजर्षिवृत्तेन = नरपत्याचरणेन, अवीवपत् = वपनं कृतवान् ( √ वप् + णिचि, लुङि
प्रथमपुरुषैकवचने ), दीप्त्या—( दीप् + क्तिन् ) दीप्तिः तया, दीप्त्या = बाणवेगस्य
तीव्रतया अर्थात् शौर्येण ( 'बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता' इति हलायुधः । ),
आदित्यः—सूर्यः ( अदितेः अपत्यम् पुमान् आदित्यः, अदिति + ण्य ) । तेजसा =
कान्त्या, तमः = तिमिरम्, इव = यथा, अरीन् = रिपून्, अवीवपत् = नाशयतिस्म ।
यशोगन्धमित्यत्र रूपकालङ्कारस्तथा भिन्नार्थकस्यावीवपदित्यस्य पदस्यावृत्त्या यमका-
लङ्कारोऽस्ति । शुद्धोदनस्यादित्येन सहोपमानोपमेयभावेनोपमाऽलङ्कारोप्यस्त्यत्र ॥२९॥
हिन्दी—एक राजर्षि की तरह आचरण करते हुए इन्होंने अपने कुल को यश-
रूपी सुगन्ध से सुवासित किया। सूर्य अपने प्रकाश से जैसे अन्धकार को मिटा देता है
ठीक उसी तरह इसने अपने तेज से शत्रुओं को समूल विनष्ट कर दिया ॥ २९ ॥
अपप्रथत् पितॄंश्चैव सत्पुत्रसदृशैर्गुणैः ।
सलिलेनेव चाम्भोदो वृत्तेनाजिह्लदत् प्रजाः ॥ ३० ॥
अन्वयः—( सः ) सत्पुत्रसदृशैर्गुणैः पितॄन् अपप्रथत् वृत्तेन अम्भोदः सलिलेन इव
प्रजाः अजिह्लदत् ॥ ३० ॥
व्याख्या—स राजा, सत्पुत्रसदृशैः—सत् = सज्जनः, पुत्रः = सुतः, तस्य सदृशैः =
तुल्यैः, अर्थात् सज्जनसुतयोग्यैः, गुणैः = सद्वृत्तैः, पितॄन् = पूर्वजान्, पूर्वपुरुषान् कीर्त्ति-
रित्यर्थः, अपप्रथत् = व्यस्तारयत् ( विस्तारार्थक पृथुधातोः णिचि लुङि प्रथम-
पुरुषैकवचने–अपप्रथदिति ), वृत्तेन = शुभाचरणेन, अम्भोदः—(अम्भस् + दा + क इति)
अम्भः ददातीति अम्भोदः = जलदः, सलिलेन = जलेन, इव = यथा, प्रजाः = जनान्,
च = पुनः, अजिह्लदत् = प्रीणयाञ्चकार । राज्ञः शुद्धोदनस्य जलदेन सहोपमानोपमेय-
भावत्वेनात्रोपमालङ्कारः ॥ ३० ॥
हिन्दी—सपूत होने के कारण अपने हर आचरण से उसने पूर्वजों का नाम
रोशन किया। मेघ जैसे जलवृष्टि से लोगों को खुश करता है, उसी तरह वह अपने
हर कार्य से लोगों को खुश किया ॥ ३० ॥
राजवर्णनम् ] द्वितीयः सर्गः ३७
दानैरजस्रविपुलैः सोमं विप्रानसूषवत् ।
राजधर्मस्थितत्वाच्च काले सस्यमसूषवत् ॥ ३१ ॥
अन्वयः—अजस्रविपुलैः दानैः विप्रान् सोमम् असूषवत् राजधर्मस्थितत्वात् च
काले सस्यम् असूषवत् ॥ ३१ ॥
व्याख्या—स राजा, अजस्रम् = निरन्तरम्, विपुलानि = प्रभूतानि च तैरजस्र-
विपुलैः, दानैः = वितरणैः, विप्रान् = ब्राह्मणान्, सोमम् = सोमनामकलतया प्राप्तरसम्,
यज्ञात्पूर्वपेयमास्वादः, असूषवत् = निरमापयत्, सांसारिकचिन्तारणरणकरहिताः विप्राः
यज्ञकार्यसम्पादने एव संलग्नाः आसन् इत्यर्थः । च = पुनः, राजधर्मस्थितत्वात्—
राज्ञः = भूपतेः, धर्मः = अभ्युदयनिःश्रेयससाधको गुणकर्मसमूहः (ष० त०), राजधर्मे
स्थितम् इति राजधर्मस्थितम्, तस्य भावस्तस्मात् राजधर्मस्थितत्वात् = राजर्षिवृत्तपाल-
नात्, प्राचीनकाले एवंविधा मान्यता आसीत् यद्राज्ञः दुष्कर्मण एव प्रभावात् प्रजाः
आपदग्रस्ताः भवन्ति (यथा रघुवंशे—'राजोपचारात् पृथिवी स्वल्पसस्या भवेत् किल ।'
उत्तररामचरिते—'न राजापचारमन्तरेण प्रजासु अकालमृत्युः सञ्चरति, तथा च
रामायणे—'राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः' ।) च = पुनः, काले = यथोचिता-
वसरे, सस्यम् = अन्नम्, असूषवत् = समजनयत् । भिन्नार्थकस्य 'असूषवत्' इति
पदस्यावृत्त्या यमकाऽलङ्कारोऽत्र ॥ ३१ ॥
हिन्दी—लगातार ब्राह्मणों को प्रचुर धन प्रदान कर उसने उनसे सोमरस निकल-
वाया । निरन्तर उसने राजधर्म का पालन किया । फलतः उसके राज्य में कभी
अकाल पड़ा ही नहीं ॥ ३१ ॥
अधर्मिष्ठामचूकथन्न कथामकथङ्कथः ।
चक्रवर्तीव च परान् धर्म्यायाभ्युदसीषहत् ॥ ३२ ॥
अन्वयः—अधर्मिष्ठाम् न अचूकथत् कथाम् अकथङ्कथः चक्रवर्ती इव च परान्
धर्म्याय अभ्युदसीषहत् ॥ ३२ ॥
व्याख्या—न धर्मिष्ठाम् अधर्मिष्ठाम् = पापिष्ठाम्, न = नहि, अचूकथत् = अवदत्,
कथाम् = प्रश्नम्, अकथङ्कथः = पौनःपुन्येनापृच्छत्, चक्रवर्ती = मण्डलेश्वरः, इव =
यथा, च = पुनः, परान् = अपरान्, धर्म्याय = धार्मिकानुष्ठानाय, अभ्युदसीषहत् =
अचूचुदत् ॥ ३२ ॥
हिन्दी—उसने कभी अधर्म की बातें नहीं की, बार-बार किसी से सवाल नहीं
पूछा, एक मण्डलेश्वर की तरह सदैव सभी को धर्म के लिए अनुप्रेरित किया ॥३२॥
राष्ट्रमन्यत्र च बलेर्न स किञ्चिददीदपत् ।
भृत्यैरेव च सोद्योगं द्विषद्वर्पमदीदपत् ॥ ३३ ॥
अन्वयः—(सः) राष्ट्रं बलेः अन्यत्र किञ्चित् न अदीदपत्, सोद्योगं भृत्यैः
एव द्विषद्वर्पम् अदीदपत् ॥ ३३ ॥
३८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—असौ राजा शुद्धोदनः, राष्ट्रम्=जनपदम्, बलेः=राष्ट्रीयकरात् ( 'भाग-
धेयः बलिः करः' इत्यमरः । प्राचीनकाले नरपतिः स्वप्रजायाः क्षेत्रे तैः समुत्पादितस्य
शस्यंस्य फलस्य वा षष्ठांशो राष्ट्रीयकरस्वरूपे अधिग्रहणं करोतिस्म । 'षष्ठांशवृत्तेरपि
धर्मं एषः—अ० शाकु० ) । शुद्धोदनोऽपि एतदतिरिक्तः न कोऽप्यन्यः करभारेण
प्रजापीडनमकरोत् । अन्यत्र=एतदतिरिक्तः, किञ्चित्=किमपि, न=नहि, अदीदपत्=
अग्राहयत् ( √दा+णिचि लुङि प्रथमपुरुषैकवचने रूपमिदं सिद्धमस्य पदस्यांप्यर्थद्वयं
भवति—'अग्राहयत्' अध्वंसयन्चेति ) । सोद्योगम्—उद्योगेन=प्रयत्नेन, सह=साकम्,
यथा स्यात्तथा, भृत्यैः=सैन्यदलैः, एव द्विषदृर्पम्—द्विषदः=शत्रोः, दर्पम्=गर्वम्,
अदीदपत् =अध्वंसयत् । अत्र शुद्धोदनस्य सशक्तसैन्यबलं प्रति सङ्केतोऽस्ति ॥ ३३ ॥
हिन्दी—उसने प्रजा के द्वारा उत्पादित फसलों के षष्ठांश के अतिरिक्त करके रूप
में प्रजा से कुछ नहीं लिया । अपने उत्साही सैन्य-बल से सदैव शत्रुओं का दर्प दमन
किया ॥ ३३ ॥
स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम् ।
प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया ॥ ३४ ॥
अन्वयः—( सः ) भूयः भूयः स्वगुणैः एव कुलम् अदीदपत् सर्वधर्मव्यवस्थया
प्रजाः न अदीदपत् च ॥ ३४ ॥
व्याख्या—स राजा, भूयो भूयः=बहुतरैः, स्वैः=स्वकीयैः, गुणैः=शुद्धाचरणैः,
एव कुलम्=वंशम्, अदीदपत् =प्रकाशयत्, सर्वधर्मव्यवस्थया—सर्वे=सकलाः,
धर्माः = अभ्युदयनिःश्रेयससाधको गुणकर्मसमूहाः, वा सम्प्रदायाः=मतानि, तेषां
व्यवस्था=शास्त्रनिरूपितविधानम्, तया अथवा—सर्वेषां जनानां कर्त्तव्यानां व्यवस्था
तया इति सर्वधर्मव्यवस्थया=सकलसाम्प्रदायिकमतानां सम्यग्रूपेण पालनात् सकल-
जनकत्र्त्तव्याणां निश्चितेन वा, प्रजाः=देशवासिनः, न=नहि, अदीदपत्=पीडयतिस्म ।
हिन्दी—अपने आचरण से इन्होंने अपने खानदान को उजागर किया । सभी
धर्मों के प्रति सम-स्तरीय सुव्यवस्था के कारण प्रजा को कभी कोई तकलीफ नहीं
हुई ॥ ३४ ॥
अश्रान्तः समये यज्वा यज्ञभूमिममीमपत् ।
पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत् ॥ ३५ ॥
अन्वयः—समये यज्वा सः अश्रान्तः यज्ञभूमिम् अमीमपत् च पालनात्
निरुद्विग्नान् द्विजान् ब्रह्म अमीमपत् ॥ ३५ ॥
व्याख्या—समये=यथावसरे, यज्वा=यज्ञानुष्ठाता राजाशुद्धोदनोऽसौ, अश्रान्तः—
न श्रान्तः=अखेदः सन्, यज्ञभूमिम्=यागक्षेत्रम्, अमीमपत् =अमापयत्, सुरक्षितम-
कारयदित्यीशयः, च =पुनः, पालनात् =रक्षणात्, निरुद्विग्नान् =भयरहितान्,
द्विजान्=विप्रान्, ब्रह्म=परमेश्वरम्, अमीमपत्=अध्यापयत् ॥ ३५ ॥
राजवर्णनम् ] द्वितीयः सर्गः ३९
हिन्दी—बिना थकावट महसूस किये इन्होंने ठीक समय पर यज्ञ किया, यज्ञभूमि
की पैमाइश करवाई और अपने संरक्षण में लेकर ब्राह्मणों को ब्रह्म-चिन्तन के लिए
अनुप्रेरित किया ॥ ३५ ॥
गुरुभिर्विधिवत्काले सौम्यः सोमममीमपत् ।
तपसा तेजसा चैव द्विषत्सैन्यममीमपत् ॥ ३६ ॥
अन्वयः—सौम्यः काले गुरुभिः विधिवत् सोमम् अमीमपत् एषः तपसा तेजसा
च द्विषत्सैन्यम् अमीमपत् ॥ ३६ ॥
व्याख्या—सौम्यः=प्रियदर्शनः स राजा, काले=उचितावसरे, गुरुभिः=पुरोहितैः,
विधिवत् = विधिपूर्वकम्, सोमम् = सोमलतारसम्, अमीमपत् = अमापयत्, एषः=
राजाशुद्धोदनः, तपसा = स्वकीयसाधनया, तेजसा=शौर्येण च, द्विषत्सैन्यम् = शत्रुबलम्,
'तपसा' इत्यस्य पदस्य पक्षे शत्रुशब्दस्यार्थः दोषो भवति तथा 'तेजसा' पक्षे अहितकारी
जनोऽर्थो भवति, द्विषतामिति द्विषत्सैन्यम् ( द्विषत्—√द्विष् + शतृ, सैन्यम् सेना एव
सैन्यम्, सेना + ष्यञ् ), अमीमपत् = अनाशयत् ॥ ३६ ॥
हिन्दी—उस सौम्य राजा ने पुरोहितों से यथावसर विधिपूर्वक सोमरस तैयार
करवाया, अपनी तपस्या से अपने दुर्गुणों को तथा अपने पराक्रम से शत्रुबल को इसने
विनष्ट किया ॥ ३६ ॥
प्रजाः परमधर्मज्ञः सूक्ष्मं धर्ममवीवसत् ।
दर्शनाच्चैव धर्मस्य काले स्वर्गमवीवसत् ॥ ३७ ॥
अन्वयः—परमधर्मज्ञः प्रजाः सूक्ष्मं धर्मम् अवीवसत् धर्मस्य दर्शनात् काले स्वर्गम्
अवीवसत् ॥ ३७ ॥
व्याख्या—परमधर्मज्ञः—धर्मं जानातीति धर्मज्ञः, परमः धर्मज्ञः इति परमधर्मज्ञः=
निष्णातशास्त्रीयपण्डितः, प्रजाः = जनाः, सूक्ष्मम् = गूढम्, धर्मम् = कर्त्तव्याकर्त्तव्यस्य
शास्त्रीयज्ञानम्, अवीवसत् = अवांगमयत्, धर्मस्य = धर्मशास्त्रस्य, दर्शनात् = बोधात्,
काले=यथावसरे, स्वर्गम्=नाकम्, अवीवसत् = प्रावेशयत् ॥ ३७ ॥
हिन्दी—उस परम धर्मात्मा ने प्रजा को धर्म के सूक्ष्म रूप का बोध कराया ।
साथ ही धर्म दर्शन के पश्चात् उन्हें स्वर्ग में निवास करने योग्य बनाया ॥ ३७ ॥
व्यक्तमप्यर्थकृच्छ्रेषु नाधर्मिष्ठमतिष्ठिपत् ।
प्रिय इत्येव चाशक्तं न संरागादवीवृधत् ॥ ३८ ॥
अन्वयः—अर्थकृच्छ्रेषु व्यक्तम् अपि अधर्मिष्ठं जनं न अतिष्ठिपत् प्रिय इत्येव
संरागात् अशक्तम् न अवीवृधत् ॥ ३८ ॥
व्याख्या—अर्थस्य = धनस्य, कृच्छ्रम् = कष्टम्, तेषु अर्थकृच्छ्रेषु=आर्थिकदुःखेषु,
व्यक्तम् = ( वि + √अञ्ज् + क्त = व्यक्तम् ) प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा सहायकः
४० सौन्दरनन्द महाकाव्यम्
सन्नपि, अधर्मिष्ठम् = न धर्मिष्ठः अधर्मिष्ठस्तम् = पापिनं जनम्, न = नहि, अतिष्ठिपत् =
(√स्था+णिचि, लुङि रूपम्) नियुक्तवान्, प्रिय इत्येव = जनोऽयं मदीयस्नेह-
भाजन इत्यवगम्य, संरागात् = सम्यक् = सुष्ठु, रागः = अभिमतविषयाभिलाषः, तस्मात् =
पक्षपातात्, अशक्तम् = अनुपयुक्तमयोग्यं वा, न = नहि, अवीवृधत् = उन्नमयतिस्म
(√वृध् + णिचि + लुङि सम्पन्नरूपमिदम्) ।: ३८ ॥
हिन्दी—उसने आर्थिक सङ्कट की स्थिति में प्रत्यक्षरूप से सहायक होने के
बावजूद भी किसी अयोग्य व्यक्ति को किसी पद पर नियुक्त नहीं किया अथवा प्रिय
होने के बावजूद किसी अयोग्य व्यक्ति को कभी पदोन्नति नहीं दी ॥ ३८ ॥
तेजसा च त्विषा चैव रिपून् दृप्तानबीभसत् ।
यशोदीपेन दीप्तेन पृथिवीं च व्यवीभसत् ॥ ३९ ॥
अन्वयः—तेजसा त्विषा च दृप्तान् रिपून् अबीभसत् दीप्तेन यशोदीपेन पृथिवीं
व्यवीभसत् ॥ ३९ ॥
व्याख्या—राजा शुद्धोदनस्तेजसा = स्वपराक्रमेण ('प्राणः स्थानबलं द्युम्नमोजः
शुष्मतरः सहः, प्रतापः पौरुषं तेजो विक्रमं स्यात्पराक्रमः'॥ इति हलायुधः ।), त्विषा
=पराक्रमप्रभया, च = पुनः, दृप्तान् = गर्वितान्, रिपून् = अरीन्, अबीभसत् = भस्मसा-
त्कृतम्, दीप्तेन = प्रज्ज्वलितेन, यशोदीपेन = कीर्तिस्वरूपदीपकेन, पृथिवीम् = धरित्रीम्
व्यवीभसत् = प्रकाशयामास ॥ ३९ ॥
हिन्दी—उसने अपने तेज से गर्विले दुश्मनों का दर्प दलन किया और अपनी
प्रभा से उन्हें निष्प्रभ किया तथा यशरूपी दीपक से सारी धरती को आलोकित
किया ॥ ३९ ॥
आनृशंस्यान्न यशसे तेनादायि सदार्थिने ।
द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन ॥ ४० ॥
अन्वयः—तेन सदा आनृशंस्यात् एव अर्थिने अदायि न यशसे महद् द्रव्यं त्यक्त्वा
अपि न चैव किञ्चन अकीर्ति ॥ ४० ॥
व्याख्या—तेन = राज्ञा शुद्धोदनेन, सदा = सततम्, आनृशंस्यात्—नॄन् = नरान्,
शंसति = हिनस्तीति नृशंसः, न. नृशंसः अनृशंसः, अनृशंसस्य भावः तस्मात् आनृशं-
स्यात् = स्वकीयोदारविचारात्, एव = केवलम्, अर्थिने = याचकाय, अदायि = अदीयत,
न = नहि, यशसे = कीर्त्तये अदायि, महत् = अत्यधिकम्, द्रव्यम् = धनम्, त्यक्त्वा =
विहाय, अपि न चैव, किञ्चन = किञ्चित्, अकीर्त्ति = कीर्तितवान् ॥ ४० ॥
हिन्दी—उसने अपनी दयालुता के कारण ही सदैव याचकों को धन दिया, न कि
यश के लोभ से । बहुत सारे धनों को दान में देकर भी दानी होने का यश कभी
नहीं फैलाया ॥ ४० ॥
तेनारिरपि दुःखार्तो नात्याजि शरणागतः ।
जित्वा दृप्तानपि रिपून तेनाकारि विस्मयः ॥ ४१ ॥