सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
राजवर्णनम् ] द्वितीयः सर्गः ४१
अन्वयः—तेन शरणागतः दुःखार्त्तः अरिः अपि न अत्याजि दृप्तान् रिपून् जित्वा
अपि तेन विस्मयः न अकारि ॥ ४१ ॥
व्याख्या—तेन=राज्ञा शुद्धोदनेन, शरणागतः—शरणे=आश्रये, आगतः=
सम्प्राप्तः, शरणागतः, दुःखार्त्तः—दुःखेन=पीडया, आर्तः=पीडितः, इति दुःखार्त्तः,
अरिः=वैरिः, अपि=चेत्, न=नहि, अत्याजि=पर्यहारि, दृप्तान्=अहङ्कारिणः,
रिपून्=शत्रून्, जित्वा=विजित्य, अपि=चेत्, तेन=शुद्धोदनेन, विस्मयः=अभि-
मानः ( मनुना प्रयुक्तः शब्दोऽयमस्मिन्नेवार्थे दृश्यते एकस्मिन् स्थाने यथा—'यज्ञोऽनृ-
तेन क्षरति तपः क्षरति विस्मयात्' ४।२३७ ) न=नहि, अकारि=क्रियतेस्म ॥४१॥
हिन्दी—अपनी शरण में आये हुए दुःखी दुश्मन का भी उसने कभी परित्याग नहीं
किया । अभिमानी दुश्मनों को जीतकर भी उसने कभी घमण्ड नहीं किया ॥ ४१ ॥
न तेनाभेदि मर्यादा कामाद् द्वेषाद्द्भयादपि ।
तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ ४२ ॥
अन्वयः—तेन कामाद् द्वेषाद् भयात् अपि मर्यादा न अभेदि भोगेषु सत्सु अपि तेन
इन्द्रियवृत्तिता न असेवि ॥ ४२ ॥
व्याख्या—तेन=नृपेन, कामात्=मनोरथात्, द्वेषात्=विरोधात्, भयात्=त्रासात्,
अपि=चेत्, मर्यादा=राजर्षियोग्याचरणः, न=नहि, अभेदि=अत्याजि, भोगेषु=
सुखेषु, सत्सु=( √ अस् + शतृ, सप्तम्येकवचने 'यस्य च भावेन भावलक्षणम्'ित्यनेन
सप्तमी ), इन्द्रियाणाम्=करणानाम्, वृत्तिः=चित्तावस्था, तस्याः भावः इन्द्रियवृत्तिता
=इन्द्रियाणामधीनता (√ वृत् + क्तिन् + तल् + टाप् ), असेवि=( √ सिव् + णिच्
कर्मणि लुङि प्रथमपुरुषैकवचने रूपमिदम् ) सेवित इति ॥ ४२ ॥
हिन्दी—उसने काम, द्वेष या भय के कारण कभी मर्यादा नहीं तोड़ी, भोगों का
उपभोग करते हुए भी उसने कभी इन्द्रियों की गुलामी नहीं की ॥ ४२ ॥
न तेनादर्शि विषमं कार्यं क्वचन किञ्चन ।
विप्रियप्रियोः कृत्ये न तेनागामि निष्क्रियाः ॥ ४३ ॥
अन्वयः—तेन किञ्चन क्वचन विषमं कार्यं न अदर्शि तेन विप्रियप्रियोः कृत्ये
निष्क्रियाः न अगामि ॥ ४३ ॥
व्याख्या—तेन=नृपेन, किञ्चन=किमपि, क्वचन=कुत्रापि, विषमम्=अनु-
चितम्, कार्यम्=कृत्यम्, न=नहि, अदर्शि=दृष्टः, तेन=बुद्धेन, विप्रियप्रियोः=
शत्रु-सुहृदोः, कृत्ये=कार्ये, निष्क्रियाः=निम्नक्रियाः, न=नहि, अगामि=गतः ॥४३॥
हिन्दी—उसने कभी कोई प्रपञ्च किया हो—ऐसा कभी देखा नहीं गया । उसने
अपने मित्र या शत्रु किसी के लिए कभी कोई नीच कर्म नहीं किया ॥ ४३ ॥
तेनापायि यथाकल्पं सोमश्च यश एव च ।
वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च ॥ ४४ ॥
४२ सौन्दरनन्दं महाकाव्यम्
अन्वयः—तेन यथाकल्पं सोमः ( अपायि ) यश एव च अपायि सततं वेदः वेदोक्तः
धर्म एव च आम्नायि ॥ ४४ ॥
व्याख्या—तेन = शुद्धोदनेन, यथाकल्पम्—कल्पम् = धर्मकृत्यविधायको वेदाङ्ग-
भेदं तम्, अनतिक्रम्य = अनुल्लङ्घ्य इति यथाकल्पम् = सविधिम्, सोमः = यज्ञा-
नुष्ठाने पेयपवित्ररसम्, अपायि, यशः = कीर्त्तिः, एव = मात्रं, च = पुनः, अपायि =
पानं कृतम्, यशःपक्षे रक्षां कृतः, सततम् = सर्वदा, वेदः = आगमः, वेदोक्तः—वेदे
= आगमे, उक्तः = कथितः, धर्मः = कर्त्तव्यः, एव = केवलम्, च = पुनः, आम्नायि =
अपालि । श्लोकेऽस्मिन् 'अपायि' एवम् 'आम्नायि' इति पदद्वयस्य श्लिष्टत्वात्
श्लेषाऽलङ्कारोऽस्ति ॥ ४४ ॥
हिन्दी—उसने विधिवत् सोमरस का पान किया और अपने यश की सदैव रक्षा
की । उसने निरन्तर वेदों का अध्ययन किया और वेद-विहित धर्मों का पालन
किया ॥ ४४ ॥
एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः ।
अशक्तः शक्यसामन्तः शाक्यराजः स शक्रवत् ॥ ४५ ॥
अन्वयः—एवमादिभिः असुलभैः गुणैः अत्यक्तः अशक्तः शक्यसामन्तः सः शाक्य-
राजः शक्रवत् बभूव ॥ ४५ ॥
व्याख्या—एवमादिभिः = एवंविधैरन्यैरपि, असुलभैः = असामान्यैः, गुणैः =
सदाचरणैः, अत्यक्तः = युक्तः, अशक्तः = विजेतुमसम्भवः, शक्यसामन्तः—शक्याः
सामन्तः यस्यासौ, शाक्यः = नृपः, सः = असौ, शाक्यराजः—शाक्यानां राजा =
अधिपतिः, अर्थात् शुद्धोदनः, शक्रवत् = देवराज इन्द्रवत्, बभूव = आसीत् । यमकोपमे-
ऽलङ्कारौ स्तः ॥ ४५ ॥
हिन्दी—अपने वशवर्त्ती एवं विजीत सामन्तों से घिरे, दुर्लभ गुणों से युक्त वह
शाक्यराज इन्द्र की तरह मालूम पड़ता था ॥ ४५ ॥
अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।
विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः ॥ ४६ ॥
अन्वयः—अथ तस्मिन् तथा काले धर्मचर्यांः दिदृक्षवः धर्मकामाः दिवौकसः
लोकस्य दिशि विचेरुः ॥ ४६ ॥
व्याख्या—अथ = अनन्तरम्, तस्मिन् = एतस्मिन्, तथा = तादृशः, काले = शोद्धो-
दने काले, धर्मचर्याः—धर्मस्य = सत्कर्मणः, चर्याः = आचरणान्, दिदृक्षवः=( √ दृश् +
सन् + उ 'सनाशंसभिक्ष उः' प्रथमपुरुषैकवचने ) द्रष्टुमिच्छुकाः, धर्मकामाः—धर्मस्य
= सत्कार्यस्य, कामः = इच्छा, येषां ते धर्मकामाः = धर्माभिलाषिणः, दिवौकसः =
देवताः, लोकस्य = संसारस्य ( 'भुवनं विष्टपं लोको जगदेकार्थवाचकाः'—इति हला-
युधः ), दिशि = आशासु, समन्तादित्याशयः, विचेरुः = बभ्रमुः ॥ ४६ ॥
राजवर्णनम् ] द्वितीयः सर्गः ४३
हिन्दी—उस समय धर्माभिलाषी देवगण धरती पर धर्माचरण देखने की
अभिलाषा से विचरण कर रहे थे ॥ ४६ ॥
धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत् ।
ददृशुस्तं विशेषेण धर्मात्मानं नराधिपम् ॥ ४७ ॥
अन्वयः—धर्मजिज्ञासया जगत् चरन्तः ते धर्मात्मनः विशेषेण धर्मात्मानं तं
नराधिपं ददृशुः ॥ ४७ ॥
व्याख्या—धर्मस्य = धर्मानुष्ठानस्य, जिज्ञासा = ज्ञातुमिच्छा, तया धर्मजिज्ञासया,
जगत् = संसारे, चरन्तः = भ्रमन्तः, ते = देवाः, धर्मात्मनः—धर्मे आत्मा येषां ते
धर्मात्मनः = धर्माचरणकर्तृन्, विशेषेण = विशिष्टप्रकारेण, धर्मात्मानम् = धर्माचरण-
कर्त्तारम्, तम् = पुरुषविशेषं, नराधिपम् = नृपशुद्धोदनम्, ददृशुः = अपश्यन् ॥ ४७ ॥
हिन्दी—धर्म की जिज्ञासा से संसार में भ्रमण करते हुए उन देवताओं ने उस
धर्मात्मा राजा को देखा ॥ ४७ ॥
देवेभ्यस्तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् ।
उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ ४८ ॥
अन्वयः—अथ तुषितेभ्यः देवेभ्यः क्षितिं व्रजन् बोधिसत्त्वः तस्य महीपतेः कुले
उपपत्तिं प्रणिदधे ॥ ४८ ॥
व्याख्या—अथ = तदनन्तरम्, तुषितेभ्यः = सन्तुष्टेभ्यः, देवेभ्यः = देवताभ्यः,
क्षितिम् = धरित्रीम्, व्रजन् = अवतरन्, बोधिसत्त्वः = गौतमः, तस्य = पूर्वोक्तस्य,
महीपतेः = राज्ञः ( शुद्धोदनस्य ), मह्याः पतिस्तस्य महीपतेः, कुले = वंशे, उपपत्तिम्
= जन्म, प्रणिदधे = जग्राह ॥ ४८ ॥
हिन्दी—उन संतुष्ट देवताओं के बीच से तब बोधिसत्त्व धरती पर उतर आये
और तब उसने उस राजा के वंश में जन्म लेने का निश्चय किया ॥ ४८ ॥
तस्य देवी नृदेवस्य माया नाम तदाभवत् ।
वीतक्रोधतमोमाया मायेव दिवि देवता ॥ ४९ ॥
अन्वयः—तदा तस्य नृदेवस्य माया नाम देवी वीतक्रोधतमोमाया दिवि देवता
माया इव अभवत् ॥ ४९ ॥
व्याख्या—तदा = तस्मिन् काले, तस्य = नरपतेः, नृदेवस्य = राज्ञः शुद्धोदनस्य,
माया नाम = 'माया' इति अभिधानेनालङ्कृता, देवी = सुराङ्गना, वीतक्रोधतमो-
माया—क्रोधश्च तमश्च माया च क्रोधतमोमायाः ( द्वन्द्वः ), वीताः क्रोधतमोमाया
यस्याः सा-वीतक्रोधतमोमायाः = कोपाज्ञानशठताशून्याः, दिवि = सुरलोके, देवता =
सा देवी, माया = ईश्वरीयशक्तिः, इव = यथा, अभवत् = बभूवेति ।
उपमाऽलङ्कारः ॥ ४९ ॥
हिन्दी—उस समय महाराज शुद्धोदन -की माया नामक एक महारानी थी।
४४ सौन्दरनन्दं महाकाव्यम्
यह माया क्रोध, अज्ञान एवं शठता शून्य स्वर्गीय माया से पूर्णतः भिन्न थी ॥ ४९ ॥
स्वप्नेऽथ समये गर्भमाविशन्तं ददर्श सा ।
षड्दन्तं वारणं श्वेतमैरावतमिवौजसा ॥ ५० ॥
अन्वयः—अथ समये सा श्वेतं षड्दन्तम् ओजसा ऐरावतमिव गर्भम् आविशन्तं
वारणं स्वप्ने ददर्श ॥ ५० ॥
व्याख्या—अथ = अनन्तरम्, समये = यथावसरे, सा = राजमहिषी, श्वेतम् =
शुभ्रवर्णम्, षड्दन्तम् = षट् = उक्ता सङ्ख्याः, दन्ताः = दशनानि, यस्य तं षड्दन्तम्,
ओजसा = तेजसा, ऐरावतम् = सुरेन्द्रगजम्, इव = यथा, गर्भम् = उदरम् ( 'पिचण्डं
जठरोदरतुन्दकुक्षिगर्भाः स्युः' इति हलायुधः । ) आविशन्तम् = प्रवेशं कुर्वन्, वारणम्
= गजराजम्, स्वप्ने = स्वापकाले, ददर्श = अपश्यत् । स्वप्
राजवर्णनम् ] । द्वितीयः सर्गः ४५
उर्वी = पृथिवी, तरङ्गाभिहताः- तरङ्गैः = लहरैः, अभिहताः = प्रताडिताः इति
तरङ्गाभिहता = विस्फूर्जिततरङ्गोत्तोलिता, नौः= नौका, इव = यथा, प्रचचाल
चकम्पे । तरङ्गाभिहता नौरिवात्रोपमालङ्कारः ॥ ५२ ॥
हिन्दी—जन्म-विनाश की जो अभिलाषा रखता हो वही प्राणी स्वयं जन्म ग्रहण
कर रहा है, यह जानकर धरती उस नाव की तरह कांप उठी जैसे तरङ्गों से उद्वेलित
होकर कांपती रहती है ॥ ५२ ॥
सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् ।
दिग्वारणकराधूताद्गगनाच्चैत्ररथादिव ॥ ५३ ॥
अन्वयः—सूर्यरश्मिभिः अक्लिष्टं दिग्वारणकराधूतात् चैत्ररथात् वनात् इव,
पुष्पवर्षं खात् पपात ॥ ५३ ॥
व्याख्या—सूर्यरश्मिभिः—सूर्यस्य = दिनकरस्य, रश्मयः = किरणानि, ताभिः
सूर्यरश्मिभिः = रविमयूखैः, अक्लिष्टम्—न क्लिष्टम् अक्लिष्टम् = अम्लानम्, दिशाम्
= आशाम्, वारणाः = गजास्तेषाम्, करैः = शुण्डदण्डैः, आधूतम् = कम्पितम्, तस्माद्
दिग्वारणकराधूतात् = दिग्गजकरकम्पितात् ('ऐरावतः पुण्डरीको वामनः कुमुदो-
ऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।।' ), चैत्ररथात्—चित्ररथस्य
इदमिति चैत्ररथम्, तस्मात् चैत्ररथात् = सूर्यात्, वनात् = उपवनात्, इव = यथा,
सम्भावनायाम्, पुष्पवर्षम्—पुष्पाणाम् = कुसुमानाम्, वर्षम् = वृष्टिः, खात् =
आकाशात्, पपात = अभवत् । पुष्पवृष्ट्याः पुष्पाणि सूर्यरश्मिभिरम्लानमासन्,
तेन कविरत्र कल्पना करोति यदिमानि पुष्पाणि सूर्योपवनात् एव सन्ति । असम्भाव-
नात्वेनोत्प्रेक्षाऽलङ्कारोऽस्ति । 'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मनः ।' ( का० प्र० )
हिन्दी—सूर्यकिरणों का सम्पर्क पाकर भी बिना मुरझाये हुए फूल आकाश से
गिरे, मानो दिग्गजों ने अपनी सूंड से सूर्यवन को हिलाकर पुष्पवृष्टि की हो ॥ ५३ ॥
दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव ।
दिदीपेऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ ॥ ५४ ॥
अन्वयः—दिवि दीव्यताम् इव मरुतां दुन्दुभयः नेदुः, सूर्यः अभ्यधिकं दिदीपे च
शिवः पवनः ववौ ॥ ५४ ॥
व्याख्या—दिवि = आकाशे, दीव्यताम् = अन्तःप्रसादेन क्रीडमानानाम्, इव मरुताम् =
पवमानानाम्, दुन्दुभयः = भेर्यः, ('भेरी दुन्दुभिरीष्यते' इति हलायुधः) नेदुः = निनाद,
सूर्यः = रविः, अभ्यधिकम् = अधिकतरम्, दिदीपे = चकाशे, च = पुनः, शिवः =
मङ्गलकरः, पवनः = वायुः, ववौ = उवाह । दीव्यतामिवेत्यत्रोत्प्रेक्षालङ्कारः ॥ ५४ ॥
हिन्दी—आकाश में दुन्दुभियां बजीं, मानों मरुद्गण खेल रहे हों । सूर्य अत्यधिक
प्रकाशित हुआ और कल्याणकारी पवन बहने लगा ॥ ५४ ॥
सौ०-7
४६ सौन्दरनन्दं महाकाव्यम्
तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः ।
सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ ५५ ॥
अन्वयः—सद्धर्मबहुमानेन सत्त्वानाम् अनुकम्पया एव च तुषिताः शुद्धावासाश्च
देवताः तुतुषुः ॥ ५५ ॥
व्याख्या—सद्धर्मं=श्रेष्ठवृत्तं प्रति, बहुमानम्=अत्यादरम्, तेन, सत्त्वानाम्=
जीवानाम्, अनुकम्पया=कृपया, एवेति निश्चयेन, च=पुनः, तुषिताः=आश्वसिताः,
शुद्धावासाश्च=शुद्धाः=अतिपवित्राः, आवासाः=निवासाः, येषां ते च, देवताः=
सुराः, तुतुषुः = प्रसन्नाः बभूवुः ॥ ५५ ॥
हिन्दी—श्रेष्ठ धर्म के प्रति सम्मानभाव और प्राणियों के प्रति दयाभाव होने के
कारण ही पवित्र स्थान में निवास करने वाले आश्वसित देवगण परम प्रसन्न हुए ।
समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।
बभ्राजे शान्त्या लक्ष्म्या धर्मो विग्रहवानिव ॥ ५६ ॥
अन्वयः—श्रेयःकेतुकरः परः यशःकेतुं समाययौ शान्त्या लक्ष्म्या विग्रहवान्
धर्मः इव बभ्राजे ॥ ५६ ॥
व्याख्या—श्रेयः=कल्याणम्, एव केतुः=पताका, तं करोतीति=धारयतीति,
परः =श्रेष्ठम् ( 'हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरम्, सौम्यम्... ...
इति हलायुधः । ) यशःकेतुम्=कीर्तिपताकाम्, समाययौ = आरुरोह, शान्त्या=
—उदाहरन्ति । 'शान्तिस्वरुपया, लक्ष्म्या=श्रिया, विग्रहवान्=देहधारी, धर्मः=
कार्याकार्यनियमः, इव = यथा, बभ्राजे = शोभितो बभूव । उपमालङ्कारश्चेति ॥५६॥
हिन्दी—कल्याण रूपी पताका को धारण करने वाला वह कीर्ति रूपी पताका को
प्राप्त हुआ अर्थात् यश की ऊँचाई पर पहुँच गया । शान्ति एवं लक्ष्मी के साथ शरीर-
धारी धर्म के समान सुशोभित हुआ ॥ ५६ ॥
देव्यामपि यवीयस्यामरण्यामिव पावकः ।
नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ ५७ ॥
अन्वयः—यवीयस्यां देव्याम् अपि नन्दो नाम कुले नित्यानन्दकरः सुतः अरण्यां
पावकः इव जज्ञे ॥ ५७ ॥
व्याख्या—यवीयस्याम् = ( युवन्शब्दादीयसुन् प्रत्ययस्य सप्तम्यैकवचने यवीय-
स्याम् ) कनीयस्याम्, देव्याम्=राज्ञाम्, अपि=चेत्, नन्दो नाम=नन्द इत्यभिधानम्,
कुले = नृपान्वये, नित्यानन्दकरः—नित्यम्=प्रतिदिनम्, आनन्दम्=हर्षम्, करोति=
विदधातीति नित्यानन्दकरः, सुतः = पुत्रः, अरण्याम्=वने, पावकः=अग्निः, इव =
यथा, जज्ञे = जनयामास ( जनि प्रादुर्भावात् लिटि प्रथमपुरुषैकवचने रूपमिदम् ),
कनिष्ठया राज्ञा समुत्पन्नस्य नन्दस्योपमा अरण्ये समुत्पन्नस्याग्निना सहास्ति । अत
एवाऽत्रोपमालङ्कारोऽस्ति । उपमेयं नन्दस्य तेजस्वितामुद्घोषयति ॥ ५७ ॥
राजवर्णनम् ] द्वितीयः सर्गः ४७
हिन्दी—लकड़ी से जैसे आग उत्पन्न होती है, उसी तरह छोटी रानी से नन्द
नामक पुत्र उत्पन्न हुआ, जो अपने कुल के लिए सदा आनन्ददायक था ॥ ५७ ॥
दीर्घबाहुर्महावक्षाः सिंहांसो वृषेक्षणः ।
वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ ५८ ॥
अन्वयः—दीर्घबाहुः महावक्षाः सिंहांसः वृषेक्षणः यः अग्र्येण वपुषा सुन्दर
नाम उपपदं दधे ॥ ५८ ॥
व्याख्या—दीर्घौ बाहू यस्य स दीर्घबाहुः = लम्बभुजः, महत् वक्षः यस्य सः महा-
वक्षाः = विशालवक्षःस्थलः, सिंहांसः—सिंहस्य अंसौ इव अंसौ यस्य सः = वनराज-
कन्धरः, वृषेक्षणः—वृषभस्य ईक्षणे इव ईक्षणे यस्य सः = बलीवर्ददृष्टिः, ईक्ष्यते
अनेनेति ईक्षणम् ( √ ईक्ष् + ल्युट् ), अग्र्येण—अग्रे जातस्तेन = सर्वोत्कृष्टेन, वपुषा
= शरीरेण, सुन्दर नाम = सुन्दर इति, उपपदम् = पदवीम्, दधे = अधारयत् ।
सिंहांसस्तथा वृषेक्षण इत्यत्र लुप्तोपमालङ्कारः ॥ ५८ ॥
हिन्दी—उसकी बांहें लम्बी थीं, छाती चौड़ी थी, कन्धे सिंह की तरह थे और
आंखें बैल की तरह बड़ी-बड़ी थीं । अत्यन्त रूपवान् होने के कारण उसे लोग सुन्दर
कहते थे ॥ ५८ ॥
मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः ।
अङ्गवानिव चानङ्गः स वभौ कान्त्या श्रिया ॥ ५९ ॥
अन्वयः—सः प्राप्तः मधुमासः इव उदितः नवः चन्द्रः इव अङ्गवान् अनङ्गः इव
च कान्त्या श्रिया वभौ ॥ ५९ ॥
व्याख्या--सः = असौ, प्राप्तः = समागतः, मधुमासः = वसन्तः, इव = यथा,
उदितः = उदयङ्गतः, नवः = नूतनः, चन्द्रः = निशाकरः, इव = यथा, अङ्गवान् =
मूर्त्तिमान्, अनङ्गः = कामदेवः, इव च = पुनः, कान्त्या = दीप्त्या, श्रिया = शोभया
सह, वभौ = शुशुभे । मालोपमालङ्कारः । अङ्गवान् तथा अनङ्ग इत्यत्र विरोधस्य
प्रतीतिर्भवति, किञ्च कामदेव इत्यर्थे विरोधस्य परिहारो भवति । अत एवात्र विरोधा-
भासः अलङ्कारोऽस्ति ॥ ५९ ॥
हिन्दी—आये हुए वसन्त की तरह, उगे हुए चाँद की तरह और मूर्त्तिमान्
काम की तरह वह कमनीय श्री के साथ सुशोभित हुआ ॥ ५९ ॥
स तौ संवर्धयामास नरेन्द्रः परया मुदा ।
अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव ॥ ६० ॥
अन्वयः—सः नरेन्द्रः तौ परया मुदा सज्जनहस्तस्थः महान् अर्थः धर्मकामौ इव
संवर्धयामास । ६० ॥
व्याख्या—सः = असौ, नरेन्द्रः = राजा, तौ = बोधिसत्त्व-नन्दौ, परया = अत्यधि-
केन, मुदा = हर्षेण, सज्जनहस्तस्थः—सज्जनस्य = सत्पुरुषस्य, हस्ते = करे, तिष्ठतीति=
४८ सौन्दरनन्दं महाकाव्यम्
धारयतीति, महान् = विपुलम्, अर्थः = धनम्, धर्मकामौ—धर्मश्च = अभ्युदयनिःश्रेयस-
साधको गुणसमूहश्च, कामश्च = प्रयोजनञ्च, धर्मकामौ = धर्मकामनामनी पुरुषार्थौ, इव =
यथा, संवर्धयामास = पुपोष । उपमालङ्कारः ॥ ६० ॥
हिन्दी—उस राजा ने परम प्रसन्नता के साथ उन दोनों राजकुमारों का पालन-
पोषण कर ठीक उसी तरह बढ़ाया जैसे सत्पुरुष के हाथों में रहने वाला विपुल धन-
धर्म और काम को बढ़ाता है ॥ ६० ॥
तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।
आर्यस्यारम्भमहतो धर्मार्थाविव भूतये ॥ ६१ ॥
अन्वयः—तौ सत्पुत्रौ कालेन तस्य भवाय धर्मार्थौ आरम्भमहतः आर्यस्य भूतये
इव ववृधाते ॥ ६१ ॥
व्याख्या—तौ = उभौ ( बोधिसत्त्वनन्दौ ), सत्पुत्रौ = सुसुतौ ( सन्तौ पुत्रौ
सत्पुत्रौ = श्रेष्ठसुतौ ), कालेन = यथावसरेण, तस्य = राज्ञः, भवाय = सर्वविधकल्या-
णाय, धर्मार्थौ—धर्मश्च अर्थश्च धर्मार्थौ = धर्मधनवन्तौ, आरम्भमहतः—आरम्भेन =
प्रारम्भहेतुना, महतः = श्रेष्ठस्य, आर्यस्य = सत्पुरुषस्य, भूतये = उपकाराय, इव = यथा,
ववृधाते = ( √वृध् + लिटि प्रथमपुरुषस्य द्विवचने रूपमिदम् ) अवर्धेताम् । अस्मिन्
श्लोकेऽपि इवेन सह तुलनयोपमालङ्कारः ॥ ६१ ॥
हिन्दी—कालक्रम से वे दोनों राजकुमार राजा शुद्धोदन के हित के लिए ठीक
उसी प्रकार बढ़ने लगे जैसे सत्पुरुष की समृद्धि बढ़ाने के लिए धर्म और अर्थ स्वतः
बढ़ते हैं ॥ ६१ ॥
तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः ।
मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ॥ ६२ ॥
अन्वयः—सः शाक्यराजः तयोः सत्पुत्रयोः मध्ये हिमवत्पारिपात्रयोः व्यक्तः मध्य-
देशः इव रराज ॥ ६२ ॥
व्याख्या—सः = असौ, शाक्यराजः = शाक्याधिपतिः शुद्धोदनः, तयोः = उभयोः,
सत्पुत्रयोः = गुणवतोः सुतयोः, मध्ये = आभ्यन्तरे, हिमवत्पारिपात्रयोः—हिमवत् पारि-
पात्रश्च तयोः हिमवत्पारिपात्रयोः = हिमगिरिकुलपर्वतयोर्मध्ये, (पारिपात्रः सप्तकुलपर्वते-
ष्वेकोऽस्ति; तद्यथा—'माहेन्द्रो मलयः सह्यः शक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारि-
पात्रश्च सप्तैते कुलपर्वताः ॥' ) तयोर्मध्ये व्यक्तः = अवस्थितः, मध्यदेशः = एतदाख्यः
प्रदेशः, इव = यथा, रराज = शुशुभे । अस्मिन् श्लोकेऽप्युपमाऽलङ्कारः । अत्र पर्यन्तः
अनुष्टुप् छन्दोऽस्ति ॥ ६२ ॥
हिन्दी—उन दोनों सुपुत्रों के बीच राजा शुद्धोदन उसी तरह शोभते थे जैसे
हिमालय और पारिपात्र नामक कुलपर्वतों के बीच मध्यदेश शोभायमान होता
है ॥ ६२ ॥
राजवर्णनम् ] द्वितीयः सर्गः ४९
ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च ।
कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धिस्तु न संररञ्ज ॥ ६३ ॥
अन्वयः—ततः क्रमेण संस्कृतयोः कृतविद्ययोश्च तयोः सून्वोः नन्दः कामेषु अजस्रं
प्रममाद सर्वार्थसिद्धिः तु न संररञ्ज ॥ ६३ ॥
व्याख्या—ततः = तत्पश्चात्, क्रमेण = कुलपरम्परया यथावसरेण, संस्कृतयोः =
उपनयनादिसंस्कारसम्पन्नयोः, कृतविद्ययोश्च—पुनः कृता विद्या याभ्याम्, तयोः =
अधिगतसर्वशास्त्रयोः, सून्वोः = सुतयोः, नन्दः = एतदाख्यः कनिष्ठसुतः, कामेषु = विषयेषु,
अजस्रम् = अनवरतम्, प्रममाद = आसक्तो बभूव, सर्वार्थसिद्धिः—सर्वाः अर्थाः सिद्धाः
येन सः = मायासुतशुद्धोदनः, तु = किन्तु, न = नहि, संररञ्ज = आसक्तो बभूवेति ।
उपजातिश्छन्दः ॥ ६३ ॥
हिन्दी—इसके बाद कालक्रम से इन दोनों के उपनयनादि संस्कार किये गये ।
फिर उन्होंने समग्र विद्याएँ अधिगत कर लीं । छोटे राजकुमार नन्द निरन्तर विषया-
सक्त होते गये, किन्तु सिद्धार्थ को ये वासनाएँ आकर्षित नहीं कर सकीं ॥ ६३ ॥
स प्रेक्ष्यैव हि जीर्णमातुरं च मृतं च
विमृशन् जगदनभिज्ञमार्त्तचित्तः ।
हृदयगतपरघृणो न विषयरतिमगम-
ज्जननमरणभयमभितो विजिघांसुः ॥ ६४ ॥
अन्वयः—जीर्णम् आतुरं मृतं च प्रेक्ष्य एव जगत् अनभिज्ञं विमृशन् आर्त्तचित्तः
हृदयगतपरघृणः, जननमरणभयम् अभितः विजिघांसुः सः विषयरतिं न अगमत् ।६४।
व्याख्या—जीर्णम् = वयोऽतिवृद्धम्, आतुरम् = रोगेण विह्वलं, च = पुनः, मृतम् =
शवम्, प्रेक्ष्य = दृष्ट्वा, एव, जगत् = विश्वम्, अनभिज्ञम् = अज्ञानिनम्, विमृशन् =
चिन्तयन्, आर्त्तचित्तः = दुःखेन सन्तप्तहृदयः, हृदयगतपरघृणः—हृदयङ्गता परघृणा यस्य
सः = अन्तःकरणस्थपरदयः, जननमरणभयम्—जननं मरणञ्च जननमरणे, ताभ्याम्
यद्भमिति जननमरणभयम् = उत्पत्तिविनिष्टजन्यभीतिः, अभितः = परितः, विजिघांसुः =
निवेषिषुः, सः = गौतमः, विषयरतिम् = कामासक्तिम्, न = नहि, अगमत् =
चकार ॥ ६४ ॥
हिन्दी—बूढे, रोगी और मरे हुए को देखकर दुःखी सिद्धार्थ ने संसार को अज्ञानी
समझा । उसके हृदय में दुःखियों के प्रति दया हो आई । उन्होंने जन्म और मरण
को समूल मिटा देना चाहा । अतः उनका मन विषयों में नहीं रमा ॥ ६४ ॥
उद्वेगादपुनर्भवे मनः प्रणिधाय
स ययौ शयितवराङ्गनादनास्थः ।
निशि नृपतिनिलयनाद्वनगमनकृतमनाः
सरस इव मथितनलिनात् कलहंसः ॥ ६५ ॥
सौन्दरनन्दे महाकाव्ये 'राजवर्णनो' नाम द्वितीयः सर्गः ।
५० सौन्दरनन्दं महाकाव्यम्
अन्वयः—उद्वेगात् मनः अपुनर्भवे प्रणिधाय अनास्थः वनगमनकृतमनाः सः निशि
शयितवराङ्गनात् नृपतिनिलयनात्, मथितनलिनात् सरसः कलहंसः इव ययौ ॥६५॥
अन्वयः—उद्वेगात् = क्षोभात्, मनः = चित्ते, अपुनर्भवे—पुनः भवतीति पुनर्भवः,
न पुनर्भवः तस्मिन् अपुनर्भवे = पुनर्जन्मरहिते मोक्षे, प्रणिधाय = ध्यानं कृत्वा, अनास्थः
= उदासीनः, वनगमनकृतमनाः—वनम् = अरण्यम्, गमने = प्रस्थाने, कृतमनः = कृत-
निश्चयः येन, सः = असौ, निशि=रात्रौ, शयितवराङ्गनात्—वराः = श्रेष्ठाः, अङ्गनाः=
स्त्रियः, शयिताः = प्रसुप्ताः, वराङ्गनात् = सुनार्याः, नृपतिनिलयनात्—नृपतेः=राज्ञः,
निलयनात् = भवनात्, मथितनलिनात्—मथिताः = मृदिताः, नलिनाः = कमलानि,
यस्य तस्मात् = मृदितकिञ्जल्कात्, सरसः = सरोवरात्, कलहंसः = मरालः, इव =
यथा, ययौ = अव्राजीत् । अत्राप्युपमाऽलङ्कारः ॥ ६५ ॥
हिन्दी— मानसिक उद्वेग के कारण उसने मुक्ति में मन लगाया और वन जाने का
निश्चय किया । वह रात में उदास होकर उस महल का परित्याग कर दिया, जिसमें
अनेक रूपसी सोई थीं । महल का परित्याग उसने ठीक उसी तरह किया जैसे कमल
के नष्ट-भ्रष्ट हो जाने पर कलहंस किसी सरोवर का त्याग कर देते हैं ॥ ६५ ॥
इति डॉ० जगदीशचन्द्रमिश्रविरचितायां 'विमला' समाख्यायां
सौन्दरनन्दटीकायां द्वितीयः सर्गः समाप्तः ॥
तृतीयः सर्गः
तथागतवर्णनम्
जननमरणरुजमुक्तसृष्टिका करने नव निर्माण ।
मायासुतमाया तज जगका अपनाया निर्वाण ॥
तपसे ततः कपिलवास्तुं हयगजरथौघसङ्कुलम् ।
श्रीमदभयमनुरक्तजनं स विहाय निश्चितमना वनं ययौ ॥ १ ॥
अन्वयः—ततः निश्चितमनाः सः हयगजरथौघ-सङ्कुलं श्रीमद् अभयम् अनुरक्त-
जनं कपिलवास्तुं विहाय तपसे वनं ययौ ॥ १ ॥
व्याख्या—ततः = तदनन्तरम्, निश्चितमनाः—निश्चितम् = संशयशून्यम्, मनः =
चित्तः, यस्यासौ=प्रतिज्ञातमनाः, सः=शुद्धोदनसुतः, हयगजरथौघसङ्कुलम्—हयाश्च=
घोटकाश्च, गजाश्च = द्विपाश्च, रथाश्च=स्यन्दनाश्च, तेषाम् ओघः = समूहः, तेन सङ्कुलम्
=आकुलम्, श्रीमत्—श्रीः=लक्ष्मीः, अस्ति अस्येति ( श्री + मतुप् ) = लक्ष्मीयुक्तः,
५२ सौन्दरनन्दं महाकाव्यम्
नियमों का पालन करते देखा, किन्तु ये तप विषयों की उपलब्धि हेतु क्षुद्र भावना से
प्रेरित होकर किया जा रहा था । अतः उस तप के फल को भी अनिश्चित मानकर
वे जंगल से भी लौट आए ॥ २ ॥
अथ मोक्षवादिनमराडमुपशममतिं तथोड्रकम् ।
तत्त्वकृतमतिरुपास्य जहावयम्प्यमार्ग इति मार्गकोविदः ॥ ३ ॥
अन्वयः—अथ तत्त्वकृतमतिः मोक्षवादिनम् अराडं तथा उपशममतिम् उड्रकम्
उपास्य मार्गकोविदः अयम् अपि अमार्गः इति जहौ ॥ ३ ॥
व्याख्या—अथ = अनन्तरम्, तत्त्वकृतमतिः—तत्त्वे = ज्ञाने, कृता = निहिता,
मतिः=बुद्धिर्येन सः, मोक्षवादिनम्--मोक्षम् = मुक्तिम्, वदितुम् = कथितुम्, शीलम् =
चरित्रम्, अस्येति मुक्तिवादिनम्, 'अराडम्' = एतदाख्यमुपासनायाः कापि पद्धतिः,
तथा च, उपशममतिम्—उपशमे = शान्त्याम्, मतिः = बुद्धिर्यस्य सः तम्, 'उड्रकम्' =
एतदपि कस्याप्युपासनायाः पद्धतेः नाम एव, उपास्य = उपासनां कृत्वा, मार्ग-
कोविदः—मार्गस्य = पथः, कोविदः = पण्डितः, अयम् = एषः, अपि = चेत्, अमार्गः
=कुपन्थाः, इति = एवं बुद्ध्वा, जहौ = त्यक्तवान् ॥ ३ ॥
हिन्दी—इसके बाद उसने तत्त्व-प्राप्ति की इच्छा से मोक्षवादी 'अराड' तथा
शान्तिवादी 'उद्रक' की उपासना की । फिर कुछ दिन के बाद उस मार्गवेत्ता को यह
पता चला कि यह रास्ता भी सही नहीं है तब फिर उसने इनका भी परित्याग
कर दिया ॥ ३ ॥
स विचारयन् जगति किं नु परममिति तं तमागमम् ।
निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ ४ ॥
अन्वयः—सः जगति तं तम् आगमं किं नु परमम् इति विचारयन् परतः परमं
निश्चयम् अनधिगतम् दुष्करं तप एव चचार ॥ ४ ॥
व्याख्या—सः = असौ, जगति = संसारे, तं तम् = तथाविशिष्टम्, आगमम् =
शास्त्रम्, किम् = कतमत् शास्त्रम्, नु = इति प्रश्ने, परमम् = श्रेष्ठम्, इति = एतत्,
विचारयन् = चिन्तयन्, परतः = अन्यतः, परमम् = तत्त्वभूतम्, निश्चयम् = निर्णयम्,
अनधिगतः = अज्ञातः सन्, दुष्करम् = कठिनम्, तपः एव = तपश्चरणमेव, चचार =
चकार ॥ ४ ॥
हिन्दी—संसार के उन-उन शास्त्रों में कौन श्रेष्ठ हैं इस तरह विचार करता हुआ
वह दूसरों द्वारा श्रेष्ठ निर्णय नहीं प्राप्त कर सका, तब उसने कठिन तप ही किया ।
अथ नैष मार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः ।
ध्यानविषयमवगम्य परं बुभुजे वरान्नममृतत्वबुद्धये ॥ ५ ॥
अन्वयः—अथ न एष मार्गः इति वीक्ष्य तत् विपुलं तपः अपि जहौ । ध्यानविषयं
परम् अवगम्य अमृतत्वबुद्धये वरात्रं बुभुजे ॥ ५ ॥
तथागतवर्णनम् ] तृतीयः सर्गः ५३
व्याख्या—अथ = अनन्तरम्, न = नहि, एषः = अयम्, मार्गः = पन्थाः, इति =
एवम्, वीक्ष्य = दृष्ट्वा, किं वा विचार्य, तत् = पूर्वोक्तं, तपः = तपश्चरणम्, विपुलम् =
अतिगभीरम्, तपः = तपश्चरणम्, अपि = चेत्, जहौ = अत्यजत्, ध्यानविषयम्—
ध्यानस्य = समाधेः, विषयः = गोचरः प्रसङ्गो वा तम्, परम् = उत्कृष्टम्, अवगम्य =
बुध्वा, अमृतत्वबुद्धये—अमृतत्वस्य = मोक्षस्य, बुद्धिः = मतिः, तस्यै, वरान्नम् =
श्रेष्ठान्नम्, बुभुजे = भुक्तवान् ।। ५ ।।
हिन्दी—'यह मार्ग भी ठीक नहीं' ऐसा सोचकर उसने उस कठोर तप को भी
छोड़ दिया और समाधि-प्रसङ्ग को ठीक समझकर उत्तम एवं उपयुक्त भोज्य पदार्थ
को स्वीकार किया ।। ५ ।।
स सुवर्णपीनयुगबाहुर्ऋषभगतिरायतेक्षणः ।
प्लक्षमवनिरुहमभ्यगमत् परमस्य निश्चयविधेर्बुभुत्सया ।। ६ ।।
अन्वयः—सः सुवर्णपीनयुगबाहुः, ऋषभगतिः, आयतेक्षणः परमस्य निश्चयविधेः
बुभुत्सया प्लक्षम् अवनिरुहम् अभ्यगमत् ।। ६ ।।
व्याख्या—सः = तपस्वीगौतमः, सुवर्णपीनयुगबाहुः—पीनौ = स्थूलौ, युगौ = धुरौ,
इव बाहू = भुजौ, इति पीनयुगबाहू, सुवर्णस्य = कनकस्य, पीनयुगबाहू = कनकस्थूल-
योक्त्रभुजः यस्य सः, ऋषभगतिः—ऋषभस्य = वृषभस्येव, गतिः = गमनं यस्य सः,
आयतेक्षणः—आयते = विशाले, ईक्षणौ = नेत्रे यस्य सः, परमस्य = श्रेष्ठतत्त्वस्य,
निश्चयविधेः = निश्चितोपायस्य, बुभुत्सया = प्राप्तुमिच्छया, प्लक्षम् = पिप्पलम्,
अवनिरुहम् = तरुम्, अभ्यगमत् = जगाम ।। ६ ।।
हिन्दी—जुए की तरह मोटी और सुनहली बाँहों वाला, सांड़ की तरह चाल-
वाला और बड़ी-बड़ी आँखों वाला वह जिज्ञासु परमतत्त्व की निश्चित-विधि को
जानने की इच्छा से एक विशाल पीपल-पेड़ के पास चला गया ।। ६ ।।
उपविश्य तत्र कृतबुद्धिरचलधृतिरद्रिराजवत् ।
मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्यमव्ययम् ।। ७ ।।
अन्वयः—तत्र कृतबुद्धिः अचलधृतिः अद्रिराजवत् उपविश्य उग्रं मारबलम्
अजयत् अथ शिवम् अहार्यम् अव्ययं पदं बुबुधे ।। ७ ।।
व्याख्या—तत्र = तस्मिन् स्थाने, कृतबुद्धिः—कृता = दृढीकृता, बुद्धिः = धीः,
मतिः, यस्य सः कृतबुद्धिः, अचलधृतिः—न चलः इति अचलः, अचलः धृतिः =
धैर्यम्, यस्य सः = अचलधैर्यः, अद्रिराजवत्—अद्रीणाम् = पर्वतानां, राजा =
नृपः, तद्वत् = गिरिराजमालय इव, उपविश्य = स्थित्वा, उग्रम् = प्रचण्डम्, मारबलम्
= मदनसेनाम्, अजयत् = जितवान्, अथ = तदनन्तरम्, शिवम् = कल्याणकरम्,
अहार्यम् = हरणरहितम्, अविनाशीत्यर्थः, अव्ययम् = विकाररहितम्, पदम् = तत्त्वम्,
बुबुधे = आजानत् ।। ७ ।।
५४ सौन्दरनन्द महाकाव्यम्
हिन्दी—वहां दृढ़ निश्चय एवं अचल धैर्य के साथ गिरिराज हिमालय की तरह
बैठकर कामदेव की प्रचण्ड सेना को जीत लिया। इसके बाद कल्याणकारी एवं
अविनाशी पद को समझा ॥ ७ ॥
अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः।
हर्षमतुलमगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे ॥ ८ ॥
अन्वयः—मुदिता च अमृतमनसः दिवौकसः तं कृतकार्यम् अवगम्य अतुलं हर्षम्
अगमन् तु विमुखी मारपरिषत् प्रचुक्षुभे ॥ ८ ॥
व्याख्या—मुदिताः = प्रसन्नाः, च = पुनः, अमृतमनसः—अमृतम् = निर्जरम्,
मनः = चित्तम्, येषां ते = देवा इत्यर्थः, दिवौकसः = देवाः, तम् = गौतमम्, कृतकार्यम्
= सफलमनोरथम्, अवगम्य = ज्ञात्वा, अतुलम् = अत्यन्तम्, हर्षम् = मुदम्, अगमन् =
अगच्छन्, तु = किन्तु, विमुखी = प्रत्यावर्त्तिताः, विमुखं मुखं यस्याः सा, मारपरिषत् =
मदनचमूः, प्रचुक्षुभे = क्षुभिता बभूवेति ॥ ८ ॥
हिन्दी—अमृतमना प्रसन्न देवगण उसे सफल मनोरथ जानकर अत्यन्त प्रसन्न
हुए, किन्तु लौटती मदनसेना इससे अत्यन्त दुःखी हुई ॥ ८ ॥
सनगा च भूः प्रविचचाल हुतवहसखः शिवो ववौ ।
नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ ९ ॥
अन्वयः—सनगाः भूः प्रविचचाल च हुतवहसखः शिवः ववौ सुरदुन्दुभयः च
अपि नेदुः अम्बुधरवर्जितं नभः च प्रववर्ष ॥ ९ ॥
व्याख्या—नगैः = पर्वतैः, सहिता = सम्मिलिता, सनगाः = सशैलाः, भूः=पृथिवी,
प्रविचचाल = प्राचलत्, च = पुनः, हुतवहसखः—हुतवहः = अग्निः, सखा = सहचरः,
यस्य स हुतवहसखः = पवनः, शिवः = कल्याणकरः, ववौ = अवात्, सुरदुन्दुभयः =
देवपटहाः, च = पुनः, अपि = चेत्, नेदुः = अनदन्, अम्बुः = जलम्, धरतीति = ग्रहणं
करोतीति अम्बुधरः = मेघस्तेन वर्जितम् = रहितम्, मेघरहितम्, नभः = आकाशः,
च = पुनः, प्रववर्ष = अवर्षत् ॥ ९ ॥
हिन्दी—पहाड़ों के साथ पृथ्वी कांप उठी, मंगलमयी हवा बहने लगी, देवताओं
ने दुन्दुभि बजाई और मेघरहित आकाश ने वर्षा की ॥ ९ ॥
अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः।
नित्यममृतमुपदर्शयितुं स वाराणसीपरिकरामयात्पुरीम् ॥ १० ॥
अन्वयः—विभुः सः अजरं परमार्थम् अवबुध्य अनुकम्पया नित्यम् अमृतम्
उपदर्शयितुं वाराणसीपरिकरां पुरीम् अयात् ॥ १० ॥
व्याख्या—विभुः = ईश्वरः, सः = असौ, अजरम् = न विद्यते जरा यस्मिन् तम् =
देवम्, परमार्थम्—परमश्चासौ अर्थः तम् = परमतत्त्वम्, अवबुध्य=ज्ञात्वा, अनुकम्पया=
दयया, नित्यम् = शाश्वतम्, उपदर्शयितुम् = दर्शनं कारयितुम्, अमृतम् = अविनाशि-
तथागतवर्णनम् ] तृतीयः सर्गः ५५
तत्त्वम्, वाराणसीपरिकराम्—वाराणसीम् = काशीम्, परिकरः = परिवृतः, उस
यस्याः सा ताम्, पुरीम् = नगरीम्, अयात् = अव्रजत् ॥ १० ॥
हिन्दी—अविनाशी उस परमतत्त्व का ज्ञान प्राप्त कर, दयावश वह अहं नित्य
अमृत को दिखलाने के लिए वाराणसी से घिरी उस नगरी में पहुँचा ॥ १० ॥
अथ धर्मचक्रमृतनाभिर्धृतिमतिसमाधिनेमिमत् ।
तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्वर्तयत् ॥ ११ ॥
अन्वयः—अथ ऋषिः जगतः हिताय तत्र परिषदि धृतिमतिसमाधिनेमिमत्
ऋतनाभिः विनयनियमारं धर्मचक्रम् अवर्तयत् ॥ ११ ॥
व्याख्या—अथ = अनन्तरम्, ऋषिः = मुनिः, जगतः = संसारस्य, हिताय = कल्या-
णाय, तत्र = तस्मिन् स्थाने, परिषदि = सभायाम्, धृतिश्च = धैर्यञ्च, मतिश्च = बुद्धिश्च,
समाधिश्च = अन्तर्ध्यानञ्च, धृतिमतिसमाधयः, ते सन्ति अस्मिन्निति (अत्र द्वन्द्वान्तेन
मतुपि) = धैर्यज्ञानान्तर्ध्यानयुक्तम्, ऋतनाभिः—ऋतम् = सत्यम्, नाभिः = उदरावर्त्तः,
विनयनियमारम्—विनयः = नम्रता, नियमः = शुचिसन्तोषादिश्चैव, आराः=परिचर्या,
यस्य तत्, धर्मचक्रम् = बौद्धदर्शनस्य पारिभाषिकोऽयं शब्दः, अवर्तयत् = प्रवर्तया-
मास ॥ ११ ॥
हिन्दी—इसके बाद उन्होंने उस धर्मचक्र की जगहित के लिए स्थापना की । उस
धर्मचक्र रूपी परिषद् की पिडिका सच्चाई थी । उस चक्र का घेरा धीरज, ज्ञान और
समाधि थी तथा विनय और नियम उसके आरे थे ॥ ११ ॥
इति दुःखमेतदियमस्य समुदयलता प्रवर्त्तिका ।
शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम् ॥ १२ ॥
अन्वयः—एतत् दुःखम् इयम् अस्य प्रवर्त्तिका समुदयलता इयं शान्तिः अयम्
उपायः इति प्रविभागशः इदं परं चतुष्टयम् ॥ १२ ॥
व्याख्या—एतत् = इदम्, दुःखम् = कष्टम्, इयम् = एषा, अस्य = दुःखस्य, प्रवर्त्तिका =
जनयित्री, समुदयलता—सम्यक् = सुष्ठु, उदयः = उद्गमः, तस्य लता = वल्लरी,
इयम् = एषा, शान्तिः = शमनोपायः, अयम् = एषः, उपायः = साधनम्, इति = इत्थम्,
प्रविभागशः = पृथक्कृतः, इदम् = एतत्, परम् = चरमम्, चतुष्टयम् = चतुर्णां समूह
इति । 'बौद्धधर्मस्य चत्वारः सिद्धान्ताः सन्ति । ते च—दुखम्, दुःखस्य कारणम्, दुःख-
निरोधः तथा दुःखनिरोधस्योपाय इति । एते सिद्धान्ताः आर्यसत्येन व्यवह्रियते' ॥१२॥
हिन्दी—यह दुःख है, यह इसकी प्रेरकशक्ति है, यह शान्ति है तथा ये उसके
उपाय हैं—परमसत्य के ये चार विभाग हैं ॥ १२ ॥
अभिधाय च त्रिपरिवर्तमतुलमनिवर्त्यमुत्तमम् ।
द्वादशनियतविकल्पमृषिर्विनिनाय कौण्डिनसगोत्रमादितः ॥ १३ ॥
अन्वयः—ऋषिः त्रिपरिवर्तं, द्वादशनियतविकल्पम् अतुलम् अनिवर्त्यम् उत्तमम् च
अभिधाय आदितः, कौण्डिनसगोत्रं विनिनाय ॥ १३ ॥
५६ सौन्दरनन्दं महाकाव्यम्
व्याख्या—ऋषिः = मुनिः, त्रिपरिवर्त्तम्—त्र्यवस्थापरिवर्त्ताः यस्मिन् तत् त्रिपरि-
स्थितिम्, द्वादशनियतविकल्पम्—द्वादश = एतत्सङ्ख्यकाः, नियताः = निश्चिताः,
विकल्पाः = विभागाः यस्मिन्, अतुलम्—न विद्यते तुला यस्य तत्=अनुपमम्, अनिवर्त्यम्
=निवर्त्तनशीलतारहितम्, उत्तमम् = उत्कृष्टम्, च = पुनः, अभिधाय = कथयित्वा,
आदितः=प्रथमतः, कौण्डिनसगोत्रम् = कौण्डिन्यम्, विनिनाय = अनुनीतं चकार ॥१३॥
हिन्दी—इसकी तीन अवस्थाएँ और बारह निश्चित भेद हैं। यह अतुलनीय है,
निर्विवाद है और उत्तम है। इस प्रकार समझाकर उस ऋषि ने सर्वप्रथम कौण्डिन्य
को अपना शिष्य बनाया ॥ १३ ॥
स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम् ।
क्रोधमदभयतरङ्गचलं प्रततार लोकमपि च व्यतारयत् ॥ १४ ॥
अन्वयः—सः हि उपधिजलम् आधिजन्तुकं क्रोधमदभयतरङ्गचलम् अगाधं
दोषसागरं प्रततार लोकम् अपि च व्यतारयत् ॥ १४ ॥
व्याख्या—सः = गौतमः, हि = इति निश्चयेन, उपधिजलम्—उपधिः = माया,
जलम् = सलिलम्, यस्य तत्, आधिजन्तुकम्—आधयः = मानसिककष्टानि, एव यस्य
जन्तवः = जन्तवः, यस्मिन् सः तम्, (ब० व्री०), क्रोधमदभयतरङ्गचलम्—क्रोधश्च=
कोपश्च, मदश्च = दर्पश्च, भयञ्च = भीतिश्च, क्रोधमदभयास्ते एव तरङ्गाः = भङ्गास्तै-
श्चलम् = चञ्चलम्, अगाधम् = अपारम्, दोषसागरम्—दोषाणाम्—दुर्गुणानां, सागरः=
समुद्रस्तम्, प्रततार = प्रातरत्, लोकम् = जनम्, अपि = चेत्, च = पुनः, व्यतारयत् =
तारितः ॥ १४ ॥
हिन्दी—उन्होंने छल-कपट रूपी जलवाले, मानसिक व्याधि रूप जन्तुवाले तथा
क्रोध, मद और भय रूपी तरङ्गों से चंचल, अथाह दुर्गुण सागर को स्वयं तो पार
किया ही दूसरों को भी पार कराया ॥ १४ ॥
स विनीय काशिषु गयासु बहुजनमथो गिरिव्रजे ।
पित्र्यमपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा ॥ १५ ॥
अन्वयः—सः काशिषु गयासु गिरिव्रजे बहुजनं विनीय अथ तदा परं कारुणिकः
अनुजिघृक्षया पित्र्यम् अपि नगरं ययौ ॥ १५ ॥
व्याख्या—सः = मुनिः, काशिषु = वाराणसीसु, गयासु = एतदाख्यनगरेषु, गिरि-
व्रजे = राजगृहे च, बहुजनान् = लोकान्, विनीय = दीक्षितं कृत्वा, अथ = तदा, परम-
श्चासौ कारुणिक इति परमकारुणिकः = अत्यन्तदयालुः, अनुजिघृक्षया = अनुग्रही-
तुमिच्छया, पित्र्यम्—पितुः = जनकस्य, इदम् = सम्बन्धिनम् इति पित्र्यम् ( पितृ +
यत्, रीडादेशः), अपि = एव, नगरम् = पुरम्, ययौ = जगाम ॥ १५ ॥
हिन्दी—परमकारुणिक वे मुनि गौतम गया, राजगृह तथा काशी में बहुत सारे
लोगों को दीक्षित कर पितृनगर को भी अनुगृहीत करने की इच्छा से वहाँ भी
गये ॥ १५ ॥
तथागतवर्णनम् ] तृतीयः सर्गः ५७
विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः।
सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः ॥ १६ ॥
अन्वयः—बहुविविधमार्गसेविनः विषयात्मकस्य जनस्य हि तमः अभ्युदितः सूर्य
इव सूर्यसदृशवपुः गौतमः विजहार ॥ १६ ॥
व्याख्या—बहून् = विपुलान्, विविधान् = अनेकान्, मार्गान् = पथः, सेवितुम्
गृहीतुम्, शीलम् = स्वभावम्, अस्य इति, बहुविविधमार्गसेविनः = अनेकप्रकारकमार्ग-
गामिनः, विषयः आत्मा यस्य इति विषयात्मकस्य = भोगासक्तस्य, जनस्य = लोकस्य,
हीति निश्चयेन, तमः = अन्धकारः, अभ्युदितः = उदयाचलमागतः, सूर्यः = रविः,,
इव = यथा, सूर्यसदृशवपुः, सूर्यस्य = रवेः, सदृशम् = तुल्यम्, वपुः = शरीरम्, यस्यासौ,
गौतमः = बुद्धः, विजहार = व्यहरत् । इवेन सह समासत्वादुपमाऽलङ्कारोऽत्र ॥१६॥
हिन्दी—उगता हुआ सूरज जैसे अन्धेरे को मिटा देता है, उसी तरह दिव्य देहवाले
महर्षि गौतम ने बहुत सारी राहों पर अनेक तरह से चलने वाले विषय-वासना में
आकण्ठ डूबे हुए लोगों के अज्ञान रूपी अन्धकार को मिटा दिया ॥ १६ ॥
अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् ।
वस्तुमतिशुचिः शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ १७ ॥
अन्वयः—ततः सः अभितः परमशुभवास्तुसंस्तुतं वस्तुमतिशुचिः शिवोपवनं
कपिलवास्तु निःस्पृहतया वनं यथा ददर्श ॥ १७ ॥
व्याख्या—ततः = तत्पश्चात्, सः = गौतमः, अभितः = सर्वतः, परमशुभवास्तु-
संस्तुतम्—परमम् = अत्यन्तम्, शुभम् = कल्याणकरम्, च वास्तु = भवनम्, तेभ्यः
संस्तुतम् = प्रसिद्धम्, वस्तुमतिशुचिः—वस्तु = अर्थः, मतिश्च = बुद्धिश्च, वस्तुमती,
ताभ्यां शुचिः = पवित्रः, शिवोपवनम्—शिवम् = कल्याणकरम्, उपवनम् = उद्यानम्,
यस्मिन् तत्, कपिलवास्तु = एतदाख्यनगरम्, निःस्पृहतया = निरभिलाषतया, वनम् =
अरण्यम्, यथा = इव, ददर्श = अपश्यत् । उपमालङ्कारोऽत्र ॥ १७ ॥
हिन्दी—इसके बाद उन्होंने अति सुन्दर सौधों के लिए प्रसिद्ध, पवित्र बुद्धि और
सम्पत्ति के लिए ख्यात कल्याणकारी उपवनों वाले उस कपिलवस्तु नामक नगर को
बड़े ही निःस्पृह भाव से जंगल की तरह देखा ॥ १७ ॥
अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः ।
नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ १८ ॥
अन्वयः—किमु हि नियतमतिः आत्मनीश्वरः सः नैकविधभयकरेषु स्वजनस्वदेश-
जनमित्रवस्तुषु अपरिग्रहः बभूव ॥ १८ ॥
व्याख्या—किमु हि=यतो हि, नियतमतिः—नियता = स्थिरा, मतिः = बुद्धिर्यस्य,
आत्मनीश्वरः=जितेन्द्रियः, सः =गौतमः, नैकविधभयकरेषु—न एकविधाः भयकरा-
करास्तेषु, भयकरः—भयङ्करोतीति भयकरः, अर्थात् अनेकप्रकारकोपद्रवकारकेषु,
५८ सौन्दरनन्दं महाकाव्यम्
स्वजनस्वदेशजनमित्रवस्तुषु—स्वजनः=आत्मीयः, स्वदेशजनः=निजदेशवासी,
मित्रम्=सुहृद्, वस्तु=सम्पत्, च तेषु अपरिग्रहः=अनासक्तः, बभूव=अभवत् ॥१८॥
हिन्दी —क्योंकि स्थिर बुद्धि तथा जितेन्द्रिय महर्षि गौतम ने अनेक प्रकार की
बाधा डालने वाले स्वजन, स्वदेशवासी, सुहृद् और सम्पत्ति से अपने आपको अलग
कर लिया ॥ १८ ॥
प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत् ।
निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियाम् ॥१९॥
अन्वयः—प्रतिपूजया सः न जहर्षं अवज्ञया च शुचं न अगमत् निश्चितमतिः, असि-
चन्दनयोः दुःखसुखयोश्च विक्रियां न जगाम ॥ १९ ॥
व्याख्या—प्रतिपूजया=सत्कारेण, सः=ऋषिः, न=नहि, जहर्षं=मुमुदे, अवज्ञया=
अवहेलनया, च=पुनः, शुचम्=शोकम्, न=नहि, अगमत्=जगाम, निश्चितमतिः—
निश्चिता=स्थिरा, मतिः=बुद्धिः यस्यासौ, असिचन्दनयोः—असिश्च=खड्गश्च,
चन्दनश्च=गन्धसारश्च तयोरिति, दुःखसुखयोश्च=हर्षविषादयोश्च, विक्रियाम्=
विकृतभावम्, न=नहि, जगाम=आप्नोत् ॥ १९ ॥
हिन्दी—सम्मान से हर्ष और अपमान से विषाद उन्हें नहीं हुआ । स्थिर बुद्धि
गौतम में तलवार और चन्दन जन्य विकृति नहीं आई ॥ १९ ॥
अथ पार्थिवः समुपलभ्य सुतमुपगतं तथागतम् ।
तूर्णमबहुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ २० ॥
अन्वयः—अथ पार्थिवः तथागतं सुतम् उपगतं समुपलभ्य सुतदर्शनोत्सुकतया
अबहुतुरगानुगतः तूर्णम् अभिनिर्ययौ ॥ २० ॥
व्याख्या—अथ=अनन्तरम्, पार्थिवः=नृपशुद्धोदनः, तथागतम्=बौद्धभिक्षुम्,
'पारिभाषिकशब्दोऽयं बौद्धभिक्षुभ्यः प्रयोगार्थम्', सुतम्=तनयम्, उपगतम्=समीप-
मागतम्, समुपलभ्य=सम्प्राप्य, सुतदर्शनोत्सुकतया—सुतस्य=पुत्रस्य, दर्शनस्य=
अवलोकनस्य, उत्सुकतया=कौतुकेन, तया, अबहुतुरगानुगतः—न बहुतुरगाः अबहु-
तुरगाः=कतिपयघोटकास्तैरनुगतः=अनुसृतः, तूर्णम्=शीघ्रम्, अभिनिर्ययो=बहि-
र्निजंगाम ॥ २० ॥
हिन्दी—इसके बाद महाराज शुद्धोदन अपने पुत्र तथागत को पास आया जान
कर बेटे को देखने की इच्छा से कुछ ही घोड़ों के साथ शीघ्र बाहर निकल गये ॥२०॥
सुगतस्तथागतमवेक्ष्य नरपतिमधीरमाशया ।
शेषमपि च जनमश्रुमुखं विनिनीषया गगनमुत्पपात ह ॥ २१ ॥
अन्वयः—सुगतः तथा आगतम् आशया अधीरं नरपति शेषम् अपि च जनम्
अश्रुमुखम् अवेक्ष्य विनिनीषया गगनम् उत्पपात ह ॥ २१ ॥
तथागतवर्णनम् ] तृतीयः सर्गः ५९
व्याख्या—सुगतः = बुद्धः, तथा = तेन प्रकारेण, आगतम् = समुपस्थितम्, आशया =
वाञ्छया, अधीरम् = व्याकुलम्, नरपतिम् = नृपम्, शेषम् = अवशिष्टम्, जनम् =
लोकम्, च = पुनः, अश्रुमुखम् - अश्रूणि = नेत्रजलानि, मुखे = आनने, यस्याऽसौ अर्थात्
रुदितं जनम्, अवेक्ष्य = अवलोक्य, विनिनीषया = विनीतं कर्तुमिच्छया, गगनम् =
आकाशम्, उत्पपात ह = उदपतत् ह ॥ २१ ॥
हिन्दी—सुगत गौतम ने उस तरह आये हुए आशा से अधीर बने राजा को तथा
रोती प्रजा को देखकर, उन्हें विनीत बनाने की इच्छा से आकाश में उड़ गए ॥२१॥
स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् ।
निश्चलमतिरशयिष्ट पुनर्बहुधामभवत् पुनरभूत् तथैकधा ॥ २२ ॥
अन्वयः—सः दिवि भुवि इव विचक्रमे पुनः तस्थिवान् च उपविवेश निश्चलमतिः
अशयिष्ट, पुनः बहुधा अभवत् पुनः एकधा अभूत् ॥ २२ ॥
व्याख्या—सः = महर्षिगौतमः, दिवि = आकाशे, भुवि इव = धरणीवत्, विच-
क्रमे = चचाल, पुनः = भूयः, तस्थिवान् = स्थितोऽभवत्, च = पुनः, उपविवेश = उपा-
विशत्, निश्चलमतिः = स्थिरबुद्धिः, अशयिष्ट = प्रसुप्तवान्, पुनः = भूयः, बहुधा = अने-
कदा, अभवत् = बभूव, पुनः = भूयः, एकधा = एकरूपः, अभूत् = जातः। अत्र
इवेन सह समासत्वादुपमाऽलङ्कारः ॥ २२ ॥
हिन्दी—इसके बाद उस सुगत ने धरती की तरह आकाश में चलना शुरू कर दिया,
फिर स्थिर होकर बैठ गये। स्थिरबुद्धि सुगत वहीं सो गये, पुनः अनेक रूपों में विभक्त
होकर फिर एक हो गये ॥ २२ ॥
सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम् ।
मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः ॥ २३ ॥
अन्वयः—सलिले क्षितौ इव चचार मेदिनीं जलम् इव विवेश, पुनः दिवि मेघ इव
ववर्ष पुनः उदितः नवः रविः इव अज्ज्वलत् ॥ २३ ॥
व्याख्या—सलिले = जले, क्षितौ = पृथिव्याम्, इव = यथा, चचार = चचाल,
मेदिनीम् = पृथिवीम्, जलमिव = सलिलमिव, विवेश = प्राविशत्, पुनः = भूयः, दिवि
= गगने, मेघ इव = वारिदवत्, ववर्ष = अवर्षत्, पुनः = भूयः, उदितः = उदीयमान्,
नवः = बालः, रविः = सूर्यः, इव = यथा, अज्ज्वलत् = प्रज्ज्वलितो बभूव। अस्मिन्
श्लोकेऽतिशयोक्तिरलङ्कारेणानुप्राणितोपमाऽलङ्कार इति ॥ २३ ॥
हिन्दी—धरती की तरह वे आकाश में चलने लगे, पानी की तरह पृथिवी में
उन्होंने प्रवेश किया, आकाश में मेघ की तरह वर्षा की, फिर नवोदित सूर्य की तरह
चमकने लगे ॥ २३ ॥
युगपज्ज्वलन् ज्वलनवच्च जलमवसृजंश्च मेघवत् ।
तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ २४ ॥
६० सौन्दरनन्दं महाकाव्यम्
अन्वयः—सः युगपत् ज्वलनवत् ज्वलन् च मेघवत् जलम् अवसृजन् तप्तकनकसदृश-
प्रभया सन्ध्यया प्रदीप्तः घन इव बभौ ॥ २४ ॥
व्याख्या—सः = गौतमबुद्धः, युगपत् = सहैव, ज्वलनवत् = वह्निरिव, ज्वलन् =
प्रज्वलन्, च = पुनः, मेघवत् = जलधर इव, जलम् = पानीयम्, अवसृजन् = निमुञ्चन्,
तप्तकनकसदृशप्रभया—तप्तकनकस्य = ज्वलितसुवर्णस्य, सदृशी = समरूपा, या प्रभा
= कान्तिस्तया, सन्ध्यया = सायंकालिकया, प्रदीप्तः = प्रज्वलितः, घनः = मेघः, इव =
तुल्यः, बभौ = शुशुभे । अस्य श्लोकस्य पूर्वार्द्धे उपमाऽलङ्कारः, उत्तरार्द्धे चोत्प्रेक्षा-
ऽलङ्कार इति ॥ २४ ॥
हिन्दी—महर्षि गौतम एकसाथ आग की तरह जलते हुए, मेघ की तरह बरसते
हुए, तपे सोने की तरह दमकते हुए सान्ध्य सुषमा से प्रदीप्त मेघ की तरह सुशोभित
हुए ॥ २४ ॥
तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम्।
प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः ॥ २५ ॥
अन्वयः—हेममणिजालवलयिनं ध्वजम् इव तम् उत्थितम् उदीक्ष्य नृपतिः अतुलां
प्रीतिम् अगमत् नताः च जनता बहुमानम् अभ्ययुः ॥ २५ ॥
व्याख्या—हेममणिजालवलयिनम्—हेमञ्च = सुवर्णञ्च, मणयश्च=रत्नानि च, तासां
जालम् = पाशः, तस्य वलयः = वेष्टनम्, अस्येति तं वलयिनम्, ध्वजम् = पताका, इव
= यथा, तम् = बुद्धम्, उत्थितम् = ऊर्ध्वंगतम्, उदीक्ष्य = दृष्ट्वा, नृपतिः=राजाशुद्धो-
दनः, अतुलाम्—नास्ति तुलना यस्याः सा = निरुपमा, प्रीतिम् = तृप्तिम्, अगमत् =
अगच्छत्, नताः = नमिताः, च = पुनः, जनता = लोकाः, बहुमानम्, = अत्यधिक-
सम्मानम्, अभ्ययुः = कुर्युः । तथागतस्य हेममणिना वेष्टितध्वजेन सहोपमाऽस्ति
तेनात्रोपमाऽलङ्कारः ॥ २५ ॥
हिन्दी—सोने और मणियों से वेष्टित ध्वजा की तरह आकाश में उन्हें फहराते
देखकर राजा अत्यन्त खुश हुए और नतानन होकर जनता ने भी उन्हें सम्मानित
किया ॥ २५ ॥
अथ भाजनीकृतमवेक्ष्य मनुजपतिमृद्धिसम्पदा।
पौरजनमति च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ २६ ॥
अन्वयः—अथ ऋद्धिसम्पदा मनुजपतिं भाजनीकृतं पौरजनम् अपि च तत्प्रवणम्
अवेक्ष्य विनायकः धर्मविनयं निजगाद ॥ २६ ॥
व्याख्या—अथ = तदनन्तरम्, ऋद्धिसम्पदा = अणिमामहिमादिसमस्तसमृद्धया,
मनुजपतिम् = नरपतिम्, भाजनीकृतम् = योग्यतामजातम्, पौरजनम् = पुरवासिनम्,
अपि च, तत्प्रवणम्—तस्मिन् प्रवणं = गौतमप्रत्यवनतम्, अवेक्ष्य = दृष्ट्वा, विनायकः
= भगवान् बुद्धः, धर्मविनयम् = सदाचारधर्मम्, निजगाद = समुपदिष्टः ॥ २६ ॥