सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 77, कुल 496 में से
संदर्भ में पढ़ेंकपिलवस्तुवर्णनम् ] प्रथमः सर्गः २३
यो ज्यायानथ वयसा गुणैश्च तेषां
भ्रातॄणां वृषभ इवौजसा वृषाणाम् ।
ते तत्र प्रियगुरुवस्तमभ्यषिञ्च-
न्नादित्या दशशतलोचनं दिवीव ॥ ६१ ॥
अन्वयः—अथ तेषां भ्रातॄणां वयसा गुणैश्च वृषाणाम् ओजसा वृषभ इव यः
ज्यायान् प्रियगुरवः ते तत्र दिवि आदित्याः दशशतलोचनम् इव तम्
अभ्यषिञ्चन् ॥ ६१ ॥
व्याख्या—अथ = अनन्तरम्, तेषां = राजपुत्राणाम्, भ्रातॄणाम् = सहजानाम्,
वयसा = आयुषां, गुणैः = पराक्रमैः, वृषाणाम् = बलीवर्दाणाम्, ओजसा = तेजसा, वृषभः
= बलीवर्दः, इव = यथा, यः = वीरः, ज्यायान्—अतिशयेन प्रशस्यः ( प्रशस्य +
इयसुन् ज्या आदेशः ), ज्यायान् = श्रेष्ठतरः, प्रियगुरवः—प्रियः गुरुः येषां ते
प्रियगुरवः = प्रियाग्रजाः, ते = वीरराजकुमाराः, तत्र = तस्मिन् स्थाने, दिवि = दिव्यलोके,
आदित्याः = देवताः, दशशतलोचनम् = देवेन्द्रम्, इव = यथा, तम् = वीराग्रजम्,
अभ्यषिञ्चन् = अभिषिषिचुः ॥ ६१ ॥
हिन्दी—स्वर्ग में देवताओं ने जैसे इन्द्र का अभिषेक किया था, ठीक उसी प्रकार
जैसे बैलों में सर्वाधिक शक्तिशाली बैल सबसे बड़ा समझा जाता है, उसी तरह उन
राजकुमारों ने उम्र और गुण में श्रेष्ठ सबके प्यारे अपने बड़े भाई को राजपद पर
अभिषिक्त कर दिया ॥ ६१ ॥
आचारवान् विनयवान्नयवान् क्रियावान्
धर्माय नेन्द्रियसुखाय धृतातपत्रः ।
तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं
सङ्क्रन्दनो दिवमिवानुसृतो मरुद्भिः ॥ ६२ ॥
सौन्दरनन्दे महाकाव्ये कपिलवस्तुवर्णनो नाम प्रथमः सर्गः ।
अन्वयः—आचारवान् विनयवान् नयवान् क्रियावान् धृतातपत्रः सः इन्द्रियसुखाय
न ( अपितु ) धर्माय मरुद्भिः अनुसृतः सङ्क्रन्दनः दिवम् इव तद्भ्रातृभिः परिवृतः
राष्ट्रं जुगोप ॥ ६२ ॥
व्याख्या—आचारवानिति । आचारवान् = सदाचारयुक्तः, विनयवान् = विनयान्वितः,
नयवान् = नीतिकुशलः, क्रियावान् = सततकार्येरतः, धृतातपत्रः—धृतम् आतपत्रं येन
सः = धृतराजच्छत्रः, सः = असौ, इन्द्रियसुखाय—इन्द्रियाणाम् = करणानाम्, सुखम्
= आनन्दम्, तस्मै = भोगाय, न = नहि, ( अपितु = प्रत्युत ) धर्माय = धार्मिकानुष्ठानाय,
मरुद्भिः = पवनदेवैः, अनुसृतः = परिवृतः, सङ्क्रन्दनः = देवराजः, दिवम् = अमरलोकम्,