सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 92, कुल 496 में से
संदर्भ में पढ़ें३८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—असौ राजा शुद्धोदनः, राष्ट्रम्=जनपदम्, बलेः=राष्ट्रीयकरात् ( 'भाग-
धेयः बलिः करः' इत्यमरः । प्राचीनकाले नरपतिः स्वप्रजायाः क्षेत्रे तैः समुत्पादितस्य
शस्यंस्य फलस्य वा षष्ठांशो राष्ट्रीयकरस्वरूपे अधिग्रहणं करोतिस्म । 'षष्ठांशवृत्तेरपि
धर्मं एषः—अ० शाकु० ) । शुद्धोदनोऽपि एतदतिरिक्तः न कोऽप्यन्यः करभारेण
प्रजापीडनमकरोत् । अन्यत्र=एतदतिरिक्तः, किञ्चित्=किमपि, न=नहि, अदीदपत्=
अग्राहयत् ( √दा+णिचि लुङि प्रथमपुरुषैकवचने रूपमिदं सिद्धमस्य पदस्यांप्यर्थद्वयं
भवति—'अग्राहयत्' अध्वंसयन्चेति ) । सोद्योगम्—उद्योगेन=प्रयत्नेन, सह=साकम्,
यथा स्यात्तथा, भृत्यैः=सैन्यदलैः, एव द्विषदृर्पम्—द्विषदः=शत्रोः, दर्पम्=गर्वम्,
अदीदपत् =अध्वंसयत् । अत्र शुद्धोदनस्य सशक्तसैन्यबलं प्रति सङ्केतोऽस्ति ॥ ३३ ॥
हिन्दी—उसने प्रजा के द्वारा उत्पादित फसलों के षष्ठांश के अतिरिक्त करके रूप
में प्रजा से कुछ नहीं लिया । अपने उत्साही सैन्य-बल से सदैव शत्रुओं का दर्प दमन
किया ॥ ३३ ॥
स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम् ।
प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया ॥ ३४ ॥
अन्वयः—( सः ) भूयः भूयः स्वगुणैः एव कुलम् अदीदपत् सर्वधर्मव्यवस्थया
प्रजाः न अदीदपत् च ॥ ३४ ॥
व्याख्या—स राजा, भूयो भूयः=बहुतरैः, स्वैः=स्वकीयैः, गुणैः=शुद्धाचरणैः,
एव कुलम्=वंशम्, अदीदपत् =प्रकाशयत्, सर्वधर्मव्यवस्थया—सर्वे=सकलाः,
धर्माः = अभ्युदयनिःश्रेयससाधको गुणकर्मसमूहाः, वा सम्प्रदायाः=मतानि, तेषां
व्यवस्था=शास्त्रनिरूपितविधानम्, तया अथवा—सर्वेषां जनानां कर्त्तव्यानां व्यवस्था
तया इति सर्वधर्मव्यवस्थया=सकलसाम्प्रदायिकमतानां सम्यग्रूपेण पालनात् सकल-
जनकत्र्त्तव्याणां निश्चितेन वा, प्रजाः=देशवासिनः, न=नहि, अदीदपत्=पीडयतिस्म ।
हिन्दी—अपने आचरण से इन्होंने अपने खानदान को उजागर किया । सभी
धर्मों के प्रति सम-स्तरीय सुव्यवस्था के कारण प्रजा को कभी कोई तकलीफ नहीं
हुई ॥ ३४ ॥
अश्रान्तः समये यज्वा यज्ञभूमिममीमपत् ।
पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत् ॥ ३५ ॥
अन्वयः—समये यज्वा सः अश्रान्तः यज्ञभूमिम् अमीमपत् च पालनात्
निरुद्विग्नान् द्विजान् ब्रह्म अमीमपत् ॥ ३५ ॥
व्याख्या—समये=यथावसरे, यज्वा=यज्ञानुष्ठाता राजाशुद्धोदनोऽसौ, अश्रान्तः—
न श्रान्तः=अखेदः सन्, यज्ञभूमिम्=यागक्षेत्रम्, अमीमपत् =अमापयत्, सुरक्षितम-
कारयदित्यीशयः, च =पुनः, पालनात् =रक्षणात्, निरुद्विग्नान् =भयरहितान्,
द्विजान्=विप्रान्, ब्रह्म=परमेश्वरम्, अमीमपत्=अध्यापयत् ॥ ३५ ॥