सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

आदिप्रस्थानः ] चतुर्दशः सर्गः २८५
हिन्दी—जहाँ कहीं जो कुछ खाकर जैसा-तैसा कपड़ा पहनकर और जहाँ कहीं
भी रहकर अपनी आत्मा में रमा रहता है, निर्जन स्थान में रमण करता है और
दूसरों के सम्पर्क से वैसे ही बचता है जैसे काँटे से, वह बुद्धिमान् शान्तिसुख के रस
को जानता है—उसे ही सफल मनोरथ समझना चाहिए ॥ ५० ॥
यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये
विविक्ते निर्द्वन्द्वो विहरति कृती शान्तहृदयः ।
ततः पीत्वा प्रज्ञारसममृतवत्तृप्तहृदयो
विविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ ५१ ॥
अन्वयः—यदि द्वन्द्वारामे विषयव्यग्रहृदये जगति कृती निर्द्वन्द्वः शान्तहृदयः
विविक्ते विहरति, ततः अमृतवत् प्रज्ञारसं पीत्वा तृप्तहृदयः विविक्तः संसक्तं विषय-
कृपणं जगत् शोचति ॥ ५१ ॥
व्याख्या—यदि = चेत्, द्वन्द्वारामे = सुखदुःखादिद्वन्द्वानन्दे, विषयव्यग्रहृदये—
विषयेषु = भोगेषु, व्यग्रम् = आकुलम्, हृदयम् = चित्तम्, यस्मिन् तस्मिन्, जगति =
संसारे, कृती = पवित्रात्मा, निर्द्वन्द्वः = द्वन्द्वरहितः, शान्तहृदयः = निरुद्वेगमनाः, विविक्ते
= जनशून्यस्थाने, विहरति = विचरति, ततः = तत्पश्चात्, अमृतवत् = पीयूष इव,
प्रज्ञारसम् = सद्विवेकपूर्णबुद्धिम्, पीत्वा = पानं कृत्वा, तृप्तहृदयः—तृप्तम् = सन्तुष्टम्,
हृदयम् = चित्तम्, यस्य सः, विविक्तः = अनासक्तः, संसक्तम् = आसक्तम्, विषयकृपणम्
= भोगासक्तम्, जगत् = संसारम्, शोचति = चिन्तयति ॥ ५१ ॥
हिन्दी—सुख-दुःखादि द्वन्द्वों में आनन्द पानेवाले तथा विषयाकुल हृदयवाले संसार
में यदि द्वन्द्व रहित और शान्त हृदय होकर यदि कोई पवित्रात्मा एकान्त में विचरण
करता है तो वह अमृत तुल्य प्रज्ञारस पीकर संतुष्ट हृदय और अनासक्त हो जाता है
तथा आसक्ति में पड़े हुए विषयातुर व्यक्ति के लिए शोक करता है ॥ ५१ ॥
वसञ्छून्यागारे यदि सततमेकोऽभिरमते
यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव ।
चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं
ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखम् ॥ ५२ ॥
सौन्दरनन्दे महाकाव्ये आदिप्रस्थानो नाम चतुर्दशः सर्गः ॥ १४ ॥
अन्वयः—यदि शून्यागारे वसन् सततम् एकः अभिरमते, यदि क्लेशोत्पादैः सह
शत्रुभिः इव न रमते, यदि आत्मारामः चरन् प्रीतिसलिलञ्च पिबति, ततः त्रिदशपति-
राज्यादपि श्रेष्ठं सुखं भुङ्क्ते ॥ ५२ ॥
व्याख्या—यदि = चेत्, शून्यागारे—शून्यश्चासौ आगारस्तस्मिन् = जनशून्यसदने,
वसन् = न्यवसन्, सततम् = अजस्रम्, एकः = एकाकी, अभिरमते = आनन्दमनुभवति,
यदि = चेत्, क्लेशोत्पादैः = दुःखोत्पादैः, सह = साकम्, शत्रुभिः = रिपुभिः, इव =
सौ०-22

२८६ सौन्दरनन्दं महाकाव्यम्
तुल्यम्, न=नहि, रमते=नन्दति, यदि=चेत्, आत्मारामः=स्वीयानन्दः, चरन्=
भ्रमन्, प्रीतिसलिलञ्च=स्नेहजलञ्च, पिबति=पानं करोति, ततः=तत्पश्चात्, त्रिदश-
पतिराज्यादपि—तिस्रः दशाः येषां त्रिदशाः=देवाः, तेषां पतिः=स्वामी, इन्द्रस्तस्य
राज्यम्=साम्राज्यम्, तस्मात्=स्वर्गादपि, श्रेष्ठम्=उत्तमम्, सुखम्=आनन्दम्,
भुङ्क्ते=भोगं करोति ॥ ५२ ॥
हिन्दी—यदि वह सूने घर में सदा अकेला ही आनन्द अनुभव करता है, यदि
क्लेशों के कारणों से वैसे ही दूर रहता है, जैसे दुश्मनों से और यदि अपने आप में
सन्तुष्ट रहता हुआ प्रेमरूपी पानी पीता है तो वह निश्चय ही देवराज के राज्य अर्थात्
स्वर्ग से भी उत्तम सुख का उपभोग करता है ॥ ५२ ॥
सौन्दरनन्द-महाकाव्य में ‘आदिप्रस्थान’ नामक चतुर्दश सर्ग समाप्त ॥ १४ ॥

पञ्चदशः सर्गः
वितर्कप्रहाणः
जब वितर्क का शुभ प्रहाण एकाग्र चित्त में आता है।
मन का मैल स्वतः धुल जाता, मुक्तिमार्ग खुल जाता है॥
यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कमुत्तमम्।
ऋजुं कायं समाधाय स्मृत्याभिमुखयाऽन्वितः ॥ १ ॥
अन्वयः—यत्र-तत्र विविक्ते अभिमुखया स्मृत्या अन्वितः उत्तमं पर्यङ्कं बद्ध्वा
कायम् ऋजुं समाधाय ॥ १ ॥
व्याख्या—यत्र-तत्र=क्वचित्, विविक्ते=एकान्ते, अभिमुखया=उपस्थितया,
स्मृतिम्=बुद्धिम्, अन्वितः=सम्मिलितः, उत्तमम्=उत्कृष्टम्, पर्यङ्कम्=एतदाख्या-
सनम्, बद्ध्वा=संयम्य, कायम्=देहम्, ऋजुम्=समरेखम्, समाधाय=कृत्वेति ॥१॥
हिन्दी—जहां कहीं भी एकान्त में साथ रहने वाली स्मृति को जगाकर पर्यङ्कासन
में बैठकर शरीर को सीधा कर— ॥ १ ॥
नासाग्रे वा ललाटे वा ध्रुवोरन्तर एव वा ।
कुर्वीथाश्चपलं चित्तमालम्बनपरायणम् ॥ २ ॥
अन्वयः—चपलं चित्तं नासाग्रे वा ललाटे वा ध्रुवोरन्तरे एव वा, आलम्बनपरायणं
कुर्वीथाः ॥ २ ॥
व्याख्या—चपलम्=चञ्चलम्, चित्तम्=मानसम्, नासाग्रे=नासायाः नासि-
कायाः वा, अग्रम्=शिखरम्, वा=अथवा, ललाटे=भाले, वा=अथवा, ध्रुवोः=भ्रू-
लतयोः, अन्तरे=मध्ये, एव वा, आलम्बनपरायणम्=आलम्बने=साधने, प रायणः=
मग्नः, कुर्वीथाः=कुर्याः ॥ २ ॥
हिन्दी—अपने चंचल चित्त को नाक की नोंक पर, या ललाट पर, या दोनों भौं
के बीच में स्थिर कर साधना में लीन हो जाओ ॥ २ ॥
स चेत् कामवितर्कस्त्वां घर्षयेन्मानसो ज्वरः।
क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः ॥ ३ ॥
अन्वयः—चेत् सः मानसो ज्वरः कामवितर्कः त्वां घर्षयेत्, वस्त्रे आगतः रेणुः इव
सः न अधिवास्यः क्षेप्तव्यः ॥ ३ ॥
व्याख्या—चेत्=यदि, सः=असौ, मानसः=चेतसः, ज्वरः=सन्तापः, काम-
वितर्कः=भोगजन्यविकारः, त्वाम्=भवन्तम्, घर्षयेत्=सन्तापयेत्, तर्हि, वस्त्रे=

२८८ सौन्दरनन्दं महाकाव्यम्
वसने, आगतः = पतितः, रेणुः = धूलिकणः, इव = यथा, सः = पूर्वोक्तः, न = नहि,
अधिवास्यः = स्थाप्यः, क्षेप्तव्यः = परित्याज्य एवास्ति। उपमालङ्कारः ॥ ३ ॥
हिन्दी—यदि काम-विकार या मानसिक ताप तुम्हें तंग करे तो उन्हें कपड़े पर
गिरे धूलिकण की तरह झाड़ दो, उन्हें ठहरने मत दो ॥ ३ ॥
यद्यपि प्रतिसङ्ख्यानात् कामानुत्सृष्टवानसि ।
तमांसीव प्रकाशेन प्रतिपक्षेण ताञ्जहि ॥ ४ ॥
अन्वयः—यद्यपि प्रतिसङ्ख्यानात् कामान् उत्सृष्टवान् असि, प्रकाशेन तमांसि
इव प्रतिपक्षेण तान् जहि ॥ ४ ॥
व्याख्या-यद्यपि = सम्बन्धार्थकोऽव्ययः, प्रतिसङ्ख्यानात्-सङ्ख्यानं प्रति
प्रतिसङ्ख्यानम्, तस्मात् = बुद्धिपूर्वेकेन चिन्तयित्वा, कामान् = विषयान्, उत्सृष्टवान् =
परित्यक्तवान्, असि = भवसि, तदपि, प्रकाशेन = आलोकेन, तमांसि = अन्धकाराणि,
इव = सदृशम्, प्रतिपक्षेण-प्रतिकूलः = विपरीत:, पक्षः = चिन्तनम्, तेन, जहि=
नष्टं कुरु। इवेति उपमायां तेनोपमालङ्कारः ॥ ४ ॥
हिन्दी-यद्यपि अच्छी तरह सोच-समझकर तुमने भोगों का त्याग कर दिया है,
फिर भी विपरीत विचारों के द्वारा उन्हें उसी तरह नष्ट कर डालो-जैसे प्रकाश से
अन्धकार का विनाश होता है ॥ ४ ॥
तिष्ठत्यनुशयस्तेषां छन्नोऽग्निरिव भस्मना ।
स ते भावनया सौम्य ! प्रशाम्योऽग्निरिवाम्बुना ॥ ५ ॥
अन्वयः—भस्मनाच्छन्नः अग्निः इव तेषाम् अनुशयः तिष्ठति, सौम्य ! सः अम्बुना
अग्निः इव ते भावनया प्रशाम्यः ॥ ५ ॥
व्याख्या-भस्मनाच्छन्नः = भूतिनावृत्तः, अग्निः = अनलः, इव=सदृशः, तेषाम् =
विषयाणाम्, अनुशयः = संस्कारः, तिष्ठति = न विनश्यति, सौम्य ! = हे मनोज्ञ ! सः =
पूर्वोक्तसंस्कारः, अम्बुना = जलेन, अग्निः = कृशानुः, इव = यथा, ते = तव, भावनया =
विचारेण, प्रशाम्यः = शमितव्यः । मुक्तये सांसारिकभोगानां परित्याग एव न पर्याप्तमस्ति,
प्रत्युत विषयविकारविनाशाय वासनाजन्यसंस्कारोऽपि विनाशयम् । उपमालङ्कारः ॥५॥
हिन्दी—राख से ढंकी हुई आग की तरह पूर्वोपभुक्त वासना का संस्कार रह ही
जाता है; हे सौम्य ! उसे उसी तरह सद्विचार से शान्त कर दो, जैसे पानी से आग ॥५॥
ते हि तस्मात् प्रवर्तन्ते भूयो बीजादिवाङ्कुराः ।
तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः ॥ ६ ॥
अन्वयः—बीजात् हि अङ्कुराः ते तस्मात् भूयो प्रवर्तन्ते, तस्य नाशेन बीजनाशात्
अङ्कुराः इव ते न स्युः ॥ ६ ॥
व्याख्या—बीजात् = बीजकात्, हि = निश्चयेन, अङ्कुराः = प्ररोहाः, ते = विषयाः,
तस्मात् = संस्कारात्, भूयः = पुनः, प्रवर्तन्ते = प्रादुर्भवन्ति, तस्य = पूर्वोक्तसंस्कारस्य,

वितर्कप्रहाणः [ पञ्चदशः सर्गः २८९
नाशेन=विनाशेन, बीजनाशात् = रोहिसमाप्त्याः, अङ्कुराः =प्ररोहाः, इव =सदृशः,
ते =कामाः, न स्युः=न प्रादुर्भवेयुः । पूर्वार्द्धे चोत्तरार्द्धे चोपमालङ्कारः ॥ ६ ॥
हिन्दी—ये वासना संस्कारवश समय पर उसी तरह प्रकट होती हैं, जैसे बीज से
अंकुर उग आते हैं । अतः संस्कार विनष्ट होने पर वे फिर उसी तरह प्रकट नहीं
होतीं जैसे बीज के विनष्ट हो जाने पर अंकुर ॥ ६ ॥
अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् ।
तस्मात् तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव ॥ ७ ॥
अन्वयः—तस्मात् कामिनां कामेभ्यः अर्जनादीनि दुःखानि दृष्ट्वा मित्रसंज्ञान्
अरीन् इव तान् छिन्धि ॥ ७ ॥
व्याख्या—तस्मात् =तेन हेतुना, कामिनाम् =विषयाभिलाषिणाम्, कामेभ्यः=
विषयेभ्यः, अर्जनादीनि =प्राप्तिरक्षानाशानि, दुःखानिः = क्लेशानि, दृष्ट्वा = अवलोक-
यित्वा, मित्रसंज्ञान् =सहचराभिधानान्, अरीन् = रिपून्, इव =सदृशः, तान्=
पूर्वोक्तान्, छिन्धि = कर्तय ॥ ७ ॥
हिन्दी—कामी जनों को भोगों की प्राप्ति, रक्षा और नाश में जो दुःख होता है,
उन्हें देखो और मित्र की तरह दिखलायी पड़ने वाले इन शत्रुओं को जड़मूल से काट
डालो ॥ ७ ॥
अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः ।
बहुसाधारणाः कामा बर्ह्या ह्याशीविषा इव ॥ ८ ॥
अन्वयः—अनित्याः मोषधर्माणः रिक्ताः व्यसनहेतवः बहुसाधारणाः च कामाः
आशीविषाः इव बर्ह्याः ॥ ८ ॥
व्याख्या—अनित्याः—न नित्याः अनित्याः=नश्वराः, मोषधर्माणः—मोषः=
चौर्यम्, एव धर्मः =स्वभावः, येषां ते, रिक्ताः=सत्त्वरहिताः, व्यसनहेतवः—व्यसना-
नाम् =विपत्तीनाम्, हेतवः=कारणानि, बहुसाधारणाः—बहवः=अत्यन्तः, साधारणाः=
सामान्याः, च =पुनः, कामाः=विषयाः, आशीविषाः=अतिविषधरसर्पः ( 'आशीविषो
दीर्घपृष्ठोकुण्डलीजिह्मगः स्मृतः' इति हलायुधः ), बर्ह्याः=बध्याः ॥ ८ ॥
हिन्दी—विषयोपभोग नश्वर, सारहीन, विपत्तियों के कारण-स्वरूप है। यह
सर्वसाधारण के उपभोग्य है। अतः विषैले साँप की तरह मार डालने योग्य है ॥ ८ ॥
ये मृग्यमाणा दुःखाय रक्ष्यमाणां न शान्तये ।
भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये ॥ ९ ॥
अन्वयः—ये मृग्यमाणाः दुःखाय रक्ष्यमाणाः शान्तये न भ्रष्टाः महते शोकाय
प्राप्ताः वितृप्तये च न ॥ ९ ॥
व्याख्या—ये=जनाः, मृग्यमाणाः=निरूप्यमाणाः, दुःखाय=कष्टाय, रक्ष्य-
माणाः=कष्टनिवार्यमाणाः, शान्तये =चित्तशमनाय, न=नहि, भ्रष्टाः=विनष्टाः,

२९० सौन्दरनन्दं महाकाव्यम्
महते = विशिष्टाय, शोकाय = अनुतापाय, प्राप्ताः = अधिगताः, तृप्तये = परितोषाय,
च = पुनः, न = नास्ति ॥ ९ ॥
हिन्दी — उनकी खोज में पीड़ा है, उनकी रक्षा में शान्ति नहीं है, उनके विनष्ट
होने पर अत्यन्त शोक होता है और उन्हें पाने पर तृप्ति होती ही नहीं ॥ ९ ॥
तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् ।
कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ १० ॥
अन्वयः—यः वित्तप्रकर्षेण तृप्तिं स्वर्गावाप्त्या कृतार्थतां कामेभ्यः सुखोत्पत्तिं च
पश्यति, सः नश्यति ॥ १० ॥
व्याख्या—यः = पुरुषः, वित्तप्रकर्षेण = वित्तानाम् = सम्पत्तिम्, प्रकर्षेण = विस्तारेण,
तृप्तिम् = तुष्टिम्, स्वर्गावाप्त्या = देवलोकगमनेन, कृतार्थताम् = कृतकार्यताम्, कामेभ्यः =
विषयेभ्यः, सुखोत्पत्तिम् = आनन्दानुभूतिम्, च = पुनः, पश्यति = अवलोकयति, सः =
असौ पुरुषः, नश्यति = विनष्टं भवति ॥ १० ॥
हिन्दी—धन की अधिकता से संतोष होता है, स्वर्ग मिलने पर कृतार्थता होती है
और विषयोपभोग से सुख मिलता है—ऐसा जो समझता है, उसका विनाश हो
जाता है ॥ १० ॥
चलानपरिनिष्पन्नानसारानानवस्थितान् ।
परिकल्पसुखान् कामान्न तान् स्मर्तुमिहार्हसि ॥ ११ ॥
अन्वयः—तान् चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् परिकल्पसुखान्
कामान् स्मर्तुं न अर्हसि ॥ ११ ॥
व्याख्या—तान् = पूर्वोक्तान्, चलान् = चपलान्, अपरिनिष्पन्नान् = अवास्त-
विकान्, असारान् = नास्ति सारः येषु तान् = सारहीनान्, अनवस्थितान् = न अवस्थिताः
अनवस्थितास्तान् = अस्थिरान्, परिकल्पसुखान् = परिकल्पम् = अवास्तविकम्, सुखम्
= आनन्दम्, येषु तान्, च कामान् = विषयान्, स्मर्तुम् = अनुचिन्तयितुम्, न = नहि,
अर्हसि = योग्योऽसि ॥ ११ ॥
हिन्दी—तुम उस चपल, वस्तुस्थिति से दूर, सारहीन और काल्पनिक सुखवाले
विषयभोग को याद करने योग्य नहीं हो ॥ ११ ॥
व्यापादो वा विहिंसा वा क्षोभयेद्यदि ते मनः ।
प्रसाद्यं तद्विपक्षेण मणिनेवाकुलं जलम् ॥ १२ ॥
अन्वयः—यदि व्यापादः विहिंसा वा ते मनः क्षोभयेत्, मणिना आकुलं जलम्
इव तद्विपक्षेण प्रसाद्यम् ॥ १२ ॥
व्याख्या—यदि = चेत्, व्यापादः = अनिष्टचिन्तनम्, विहिंसा = हिंसा, वा =
अथवा, ते = तव, मनः = हृदयम्, क्षोभयेत् = क्लिश्येत्, तर्हि मणिना = रत्नविशेषेण,
आकुलम् = कलुषम्, जलम् = सलिलम्, इव = सदृशम्, तद्विपक्षेण = विषयविपरीतेन,
प्रसाद्यम् = मृज्यम् । इवेत्युपमायाम्; तेनोपमालङ्कारः ॥ १२ ॥

वितर्कप्रहाणः ] पञ्चदशः सर्गः २९१
हिन्दी—यदि द्रोह या हिंसा तुम्हारे मन को मलिन करे तो उनके विरोधी
भावनाओं के द्वारा चित्त को उसी तरह शुद्ध करो, जैसे मणि से मलिन जल को स्वच्छ
बनाते हैं ॥ १२ ॥
प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यमेव च ।
विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव ॥ १३ ॥
अन्वयः—मैत्री कारुण्यं चैव तयोः प्रतिपक्षः ज्ञेयः, हि प्रकाशतमसोः इव तयोः
नित्यं विरोधः ॥ १३ ॥
व्याख्या—मैत्री = सौहार्दम्, कारुण्यं = सौहृदम्, चैव, तयोः = व्यापादविहिं-
सयोः, प्रतिपक्षः = विपरीतविचारः, ज्ञेयः = बोध्यः, हि = यतः, प्रकाशतमसोः =
आलोकान्धकारयोः, इव = यथा, तयोः = उभयोः, नित्यम् = शाश्वत्, विरोधः =
विसङ्गतिः । अत्राप्युपमालङ्कारः ॥ १३ ॥
हिन्दी—मैत्री और करुणा को उनका विरोधी विचार समझना चाहिए; क्योंकि
प्रकाश और अन्धकार की तरह उनके बीच विरोध है ॥ १३ ॥
निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते ।
हन्ति पांसुभिरात्मानं स स्नात इव वारणः ॥ १४ ॥
अन्वयः—यस्य दौःशील्यं निवृत्तं व्यापादः प्रवर्त्तते च, सः स्नातः वारणः इव
पांसुभिः आत्मानं हन्ति ॥ १४ ॥
व्याख्या—यस्य = पुरुषस्य, दौःशील्यम् = कदाचारम्, निवृत्तम् = विरतम्,
व्यापादः = अनिष्टचिन्तनम्, प्रवर्त्तते = विद्यते, च = पुनः, सः = असौ, स्नातः =
जलाभिषिक्तः, वारणः = गजः, इव = सदृशः, पांसुभिः = धूलिभिः, आत्मानम् = स्वम्,
हन्ति = विनाशं करोति । उपमालङ्कारः ॥ १४ ॥
हिन्दी—जिसका दुष्टाचरण मिट गया, किन्तु विद्वेष मौजूद है; वह नहाये हुए
उस हाथी की तरह है, जिसने धूल में अपने को गंदा कर लिया है ॥ १४ ॥
दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।
आर्यः को दुःखमपरं सघृणो धातुमर्हति ॥ १५ ॥
अन्वयः—कः सघृणः आर्यः व्याधिमृत्युजरादिभिः दुःखितेभ्यः मर्त्येभ्यः अपरं
दुःखं धातुम् अर्हति ? ॥ १५ ॥
व्याख्या—कः = पुरुषविशेषः, सघृणः—घृणया = जुगुप्सया, सहितः = युक्तः,
आर्यः = शालीनजनः, व्याधिमृत्युजरादिभिः = आमयनिधनस्थविरादिभिः, दुःखितेभ्यः
= क्लेशितेभ्यः, मर्त्येभ्यः—म्रियन्तेऽत्रेति मर्त्तः = भूलोकस्तत्र भवः मर्त्यः=मरणशीलेभ्यः,
अपरम् = अन्यत्, दुःखम् = पीडाम्, धातुम् = प्रदातुम्, अर्हति = योग्योऽस्ति ? अर्थात्
कोऽपि सुपुरुषः रोगमरणवार्द्धक्यादिभिः पीडितेभ्यः प्राणिभ्यः पीडितुं नाभि-
लषति ॥ १५ ॥
हिन्दी—रोग, मृत्यु और वृद्धावस्था से दुःखी प्राणियों को कौन दयालु सुपुरुष
और दुःख देना चाहेगा ? ॥ १५ ॥

२९२ सौन्दरनन्दं महाकाव्यम्
दुष्टेन चेह मनसा बाध्यते वा परो न वा।
सद्यस्तु दह्यते तावत् स्वं मनो दुष्टचेतसः ॥ १६ ॥
अन्वयः—इह च दुष्टचेतसः दुष्टेन मनसा परः बाध्यते, न वा तु तावत् स्वं
मनः सद्यः दह्यते ॥ १६ ॥
व्याख्या—इह=संसारे, च=पुनः, दुष्टचेतसः—दुष्टम्=दुर्वृत्तम्, चेतः=
चित्तः, यस्य तस्य=दुर्वृत्तमनसः, दुष्टेन=शठेन, मनसा=चित्तेन, परः=अपरो
जनः, बाध्यते=क्लिश्यते, न वा=नापि बाध्यते, तु=किन्तु, तावदित्यवधारणे,
स्वम्=आत्मानम्, मनः=चित्तः, सद्यः=तत्क्षणमेव, दह्यते=क्लिश्यते ॥ १६ ॥
हिन्दी—द्रोह या हिंसा से अपने मन के कलुषित होने पर दूसरों को पीड़ा हो
भी सकती है और नहीं भी, किन्तु कलुषित मनवाले का अपना मन तो उसी क्षण
जलने लगता है ॥ १६ ॥
तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यमेव च।
न व्यापादं विहिंसां वा विकल्पयितुमर्हसि ॥ १७ ॥
अन्वयः—तस्मात् सर्वेषु भूतेषु मैत्रीञ्च कारुण्यम् एव विकल्पयितुम् अर्हसि,
व्यापादं विहिंसा वा न ॥ १७ ॥
व्याख्या—तस्मात्=तेन हेतुना, त्वं सर्वेषु=सकलेषु, भूतेषु=प्राणिषु, मैत्रीम्=
सौहार्दम्, च=पुनः, कारुण्यम्=दयालुताम्, एव=तथा, विकल्पयितुम्=वितर्क-
यितुम्, अर्हसि=योग्योऽसि, व्यापादम्=अनिष्टचिन्तनम्, विहिंसा=हिंसा, वा=
अथवा, न=नहि, विचारयितुं योग्योऽसि ॥ १७ ॥
हिन्दी—अतः तुम्हें सभी प्राणियों के प्रति मैत्री एवं दया की ही भावना करनी
चाहिए, द्रोह या हिंसा की नहीं ॥ १७ ॥
यद्यदेव प्रसक्तं हि वितर्कयति मानवः।
अभ्यासात् तेन तेनास्य नतिर्भवति चेतसः ॥ १८ ॥
अन्वयः—मानवः हि यत्-यत् प्रसक्तम् एव वितर्कयति, तेन तेन अभ्यासात्
अस्य चेतसः नतिः भवति ॥ १८ ॥
व्याख्या—मानवः=प्राणी, हि=यतः, यत्-यत्=यत्किञ्चत् वस्तुविचारं वा,
प्रसक्तम्=अनवरतम्, एव, वितर्कयति=विचारयति, तेन तेन, अभ्यासपाठेन=अभ्यास-
वशेन, अस्य=नरस्य, चेतसः=चित्तः, नतिः=आसक्तिः, भवति=अस्ति ॥ १८ ॥
हिन्दी—मनुष्य जिन-जिन वस्तुओं या विचारों का निरन्तर चिन्तन करता है,
अभ्यासवश उन्हीं की ओर उनका मन झुक जाता हैं ॥ १८ ॥
तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि।
यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये ॥ १९ ॥
अन्वयः--तस्मात् अकुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि, यत् इह ते अर्थाय
परमार्थस्य आप्तये च स्यात् ॥ १९ ॥

वितर्कप्रहाणः ] पञ्चदशः सर्गः २९३
व्याख्या—तस्मात् = ततः, अकुशलम् = कुतर्कम्, त्यक्त्वा = विहाय, कुशलम् =
भद्रम्, ध्यातुम् = चिन्तयितुम्, अर्हसि = योग्योऽसि, यत् = यच्चिन्तनम्, इह = अस्मिन्
संसारे, ते = तव, अर्थाय = प्रयोजनाय, परमार्थस्य = यथार्थतत्त्वस्य, आप्तये = प्राप्तये,
च = पुनः, स्यात् = भवेत् ॥ १९ ॥
हिन्दी—अतः बुरे विचारों को छोड़कर यथार्थ तत्त्व का चिन्तन करना चाहिए,
जो इस लोक में तुम्हारे लाभ और यथार्थतत्त्व की उपलब्धि के लिए है ॥ १९ ॥
संवर्धन्ते ह्यकुशला वितर्काः सम्भृता हृदि ।
अनर्थजनकास्तुल्यमात्मनश्च परस्य च ॥ २० ॥
अन्वयः—हृदि सम्भृताः अकुशलाः वितर्काः हि संवर्द्धन्ते आत्मनः परस्य च
तुल्यम् अनर्थजनकाः च ॥ २० ॥
व्याख्या—हृदि = चेतसि, सम्भृताः = धृताः, अकुशलाः = अभद्राः, वितर्काः =
ऊहापोहाः, हि = यतः, संवर्धन्ते = प्रवर्त्तन्ते, ते कुविचाराः, आत्मनः = स्वीयस्य, परस्य =
भिन्नजनस्य, च = पुनः, तुल्यम् = सदृशम्, अनर्थजनकाः = अनिष्टकारकाश्च
भवन्ति ॥ २० ॥
हिन्दी—मन में कुत्सित विचारों को स्थान देने से वे बढ़ते ही जाते हैं और वे
अपने लिए तथा दूसरों के लिए समान रूप से अनिष्टकर होते हैं ॥ २० ॥
श्रेयसो विघ्नकरणाद् भवन्त्यात्मविपत्तये ।
पात्रीभावोपघातात्तु परभक्तिविपत्तये ॥ २१ ॥
अन्वयः—श्रेयसः विघ्नकरणात् आत्मविपत्तये पात्रीभावोपघातात् परभक्ति-
विपत्तये च भवन्ति ॥ २१ ॥
व्याख्या—(तेऽनिष्टकराः कुतर्काः) श्रेयसः = साधीयसः, विघ्नकरणात्—विघ्नस्य =
व्याघातस्य, करणम् = साधनम्, हेतुस्तस्मात्, आत्मविपत्तये = स्वीयानिष्टाय,
पात्रीभावोपघातात्—न पात्रम् अपात्रम्, तस्येव भावः पात्रीभावः, तस्योपघातस्तस्मात्
योग्यताह्रासात्, परभक्तिविपत्तये—परेषाम् = अन्येषाम्, भक्तिः = अनुरक्तिः, तस्याः
विपत्तिः = आपत्तिस्तस्यै, च = पुनः, भवन्ति = जायन्ते । दुष्टजनः स्वीयानिष्टकर-
चिन्तनैरात्मकल्याणं हन्ति, अन्येषां जनानामात्मानं प्रति अनुरक्तिं न प्राप्नोतीत्यर्थः । २१।
हिन्दी—अपने कल्याण में विघ्न उपस्थित करके वे अपनी विपत्ति का कारण
स्वयं ही बन जाते हैं तथा अपनी अपात्रता के कारण दूसरों की अनुरक्ति भी नष्ट कर
देते हैं ॥ २१ ॥
मनःकर्मस्वविक्षेपमपि चाभ्यस्तुमर्हसि ।
न त्वेवाकुशलं सौम्य ! वितर्कयितुमर्हसि ॥ २२ ॥
अन्वयः—सौम्य ! मनःकर्मसु अविक्षेपमपि अभ्यस्तुमर्हसि, अकुशलं वितर्कयितुम्
एव न तु अर्हसि ॥ २२ ॥

२९४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—सौम्य ! = हे साधुपुरुष ! मनःकर्मसु = मानसिकचिन्तनेषु, अविक्षेपम्—
न = नहि, विक्षेपम् = चित्तचाञ्चल्यम्, अभ्यस्तुम् = नित्याचरितुम्, अर्हसि = योग्यो-
ऽसि, अकुशलम् = अनिष्टकरचिन्तनम्, वितर्कयितुम् = चिन्तयितुमेव, न तु अर्हसि =
योग्योऽसि ॥ २२ ॥
हिन्दी-मानसिक चिन्तनों में चित्त चंचल न हो, इसका भी अभ्यास करना चाहिए,
हे साधु ! अनिष्टकर विचारों को तो तुम्हें अपने पास आने ही नहीं देना चाहिए ।२२।
या विकामोपभोगाय चिन्ता मनसि वर्तते ।
न च तं गुणमाप्नोति बन्धनाय च कल्पते ॥ २३ ॥
अन्वयः—विकामोपभोगाय या चिन्ता मनसि वर्त्तते न च तं गुणम् आप्नोति,
बन्धनाय च कल्पते ॥ २३ ॥
व्याख्या—विकामोपभोगाय = विविधः—अनेकविधः, कामः = विषयः, तस्य उप-
भोगः = सुखास्वादः, तस्मै, या चिन्ता = यदाध्यानम्, मनसि = चेतसि, वर्त्तते=विद्यते,
न च तम् = एतम्, गुणम् = धर्मः, आप्नोति = प्राप्नोति, बन्धनाय = बन्धाय, च
कल्पते = समर्थो भवति ॥ २३ ॥
हिन्दी—अनेकविध विषयोपभोग की जो चिन्ता मन में रहती है वह ठीक नहीं है,
उससे बन्धन होता है ॥ २३ ॥
सत्त्वानामपघाताय परिक्लेशाय चात्मनः ।
मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ २४ ॥
अन्वयः—सत्त्वानाम् उपघाताय आत्मनः परिक्लेशाय नरकाय च वर्त्तते, मोहं
कालुष्यं न व्रजति ॥ २४ ॥
व्याख्या—( अकुशलवितर्कः ) सत्त्वानाम = जीवानाम्, उपघाताय = विनाशाय,
आत्मनः = स्वस्य, परिक्लेशाय = दुःखाय, नरकाय = अधमलोकाय, च = पुनः, वर्त्तते
= विद्यते, मोहम् = अविद्या, कालुष्यम् = पापञ्च, व्रजति = गच्छति ॥ २४ ॥
हिन्दी—कुविचार से प्राणियों का विनाश होता है, आत्म-पीड़ा होती है, मोह
और पाप होता है तथा नरक मिलता है ॥ २४ ॥
तद्वितर्कैरकुशलैरात्मानं हन्तुमर्हसि ।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव ॥ २५ ॥
अन्वयः—गां खनन् मृद्धतः सुशस्त्रं रत्नविकृतम् इव अकुशलैः तद्वितर्कैः आत्मानं
हन्तुं न अर्हसि ॥ २५ ॥
व्याख्या—(अनवधानमनसा) गाम् = धरित्रीम्, खनन् = उत्पाटयन्, मृद्धतः = धूलि-
धूसरितो जनः, मृदः हतः, सुशस्त्रम् = सुष्ठुखनित्रम्, रत्नविकृतम् = पाषाणसम्पर्केण दोष-
युक्तं करोति, इव = यथा, अकुशलैः = दुष्टैः, तद्वितर्कैः = तद्विचारैः, आत्मानम् =
निजम्, हन्तुम् = विनष्टं कर्तुम्, न = नहि, अर्हसि = योग्योऽसि । अनवधानमनसा
पृथ्वीं खनन् जनः खनित्रमपि त्रोटयते, किन्तु हे सौम्य ! तत्सदृशं त्वं कुविचारैरात्मानं

वितर्कप्रहाणः ] पञ्चदशः सर्गः २९५
पतितं मा कुरु। जौन्स्टनमहोदयस्य विचारानुसारेणास्य श्लोकस्यार्थः भिन्नोऽस्ति।
तद्यथा—अतः यथा पृथ्वीं खनन् जनः स्वकीयशस्त्रेण सुसज्जितं रत्नैरलङ्कृतं
स्वकीयशरीरोपरि धूलिं क्षिपति, तथैव स्मृत्यादिशास्त्रैः सुसज्जितो भूत्वाऽकुशलवितर्कैः
स्वात्मानं विनष्टं मा कुरु॥ २५॥
हिन्दी—अतः जैसे असावधानी से धरती खोदता हुआ व्यक्ति अपने को धूल से
ढँक कर अपने सुन्दर शस्त्र को पत्थर के सम्पर्क से विकृत करता है, वैसे ही अकुशल
वितर्कों से अपने को नष्ट मत करो॥ २५॥
अनभिज्ञो यथा जात्यं दहेदगुरुकाष्ठवत्।
अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा॥ २६॥
अन्वयः—यथा अनभिज्ञः जात्यम् अगुरुकाष्ठवत् दहेत् तथा अन्यायेन इदं
मनुष्यत्वम् उपहन्यात्॥ २६॥
व्याख्या—यथा=येन रूपेण, अनभिज्ञः=ज्ञानहीनो जनः, जात्यम्=सुरभिगन्धाम्,
अगुरुम्=सुगन्धितकाष्ठविशेषम्, काष्ठवत्=सामान्येन्धनमिव, दहेत्=ज्वालयेत्, तथा=
तेनैव प्रकारेण, अनभिज्ञो जनः जन्म गृहीत्वा, अन्यायेन=अनयेन, इदम्=एतत्, मनुष्य-
त्वम्=नरत्वम्, उपहन्यात्=शृणीयात्। उपमालङ्कारोऽत्र॥ २६॥
हिन्दी—जैसे अनजान आदमी सुगन्धित अगुरु नामक काठ को सामान्य जलावन
की लकड़ी समझ कर जला देता है, ठीक उसी तरह अज्ञानी जन दुर्लभ मानवता को
अनुचित ढंग से नष्ट कर देता है॥ २६॥
त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत्।
त्यक्त्वा निःश्रेयसं धर्मं चिन्तयेदशुभं तथा॥ २७॥
अन्वयः—यथा रत्नद्वीपात् रत्नं त्यक्त्वा लोष्ठञ्च संहरेत्, तथा निःश्रेयसं धर्मं
त्यक्त्वा अशुभं चिन्तयेत्॥ २७॥
व्याख्या—यथा=येन प्रकारेण, रत्नद्वीपात्=मणिद्वीपात्, रत्नम्=माणिक्यम्,
त्यक्त्वा=परित्यज्य, लोष्ठञ्च=मृत्खण्डञ्च, संहरेत्=सङ्ग्रहं कुर्यात्, तथा=तेनैव
रूपेण, निःश्रेयसम्=मोक्षानुगामिनम्, धर्मम्=नियमम्, त्यक्त्वा=परित्यज्य,
अशुभम्=अमङ्गलम्, चिन्तयेत्=विचारयेत्। उपमालङ्कारः॥ २७॥
हिन्दी—जैसे कोई आदमी रत्नद्वीप से रत्न छोड़कर ढेला उठा लाये, ठीक उसी
तरह परम कल्याण के साधक धर्म को छोड़कर अमंगल का चिन्तन करे॥ २७॥
हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम्।
मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम्॥ २८॥
अन्वयः—यथा हिमवन्तं गत्वा विषं भुञ्जीत औषधं न, तथा मनुष्यत्वं प्राप्य
पापं नाशुभं सेवेत॥ २८॥
व्याख्या—यथा=येन रूपेण, हिमवन्तम्=नगाधिराजम्, गत्वा=सम्प्राप्य, कश्चित्,
विषं=गरलम्, भुञ्जीत=भक्षयेत, औषधम्=माङ्गलिकभैषजं, न खादेत्, तथा=

२९६ सौन्दरनन्दं महाकाव्यम्
तेनैव प्रकारेण, दुर्लभं मनुष्यत्वम् = नरत्वम्, प्राप्य = लब्ध्वा, पापम् = दुष्टाचरणम्,
सेवेत = कुर्यात्, नो शुभम् = सदाचरणं नाचरेत् ॥ २८ ॥
हिन्दी—जैसे हिमालय पर पहुँचकर भी कोई जहर खा ले, अमृत तुल्य वहाँ की
जीवनदायिनी औषधि नहीं, उसी तरह दुर्लभ मानव-जन्म पाकर भी पाप का आचरण
करे, शुभ का नहीं ॥ २८ ॥
तद्बुद्ध्वा प्रतिपक्षेण वितर्कं क्षेप्तुमर्हसि ।
सूक्ष्मेण प्रतिकीलेन कीलं दार्वन्तरादिव ॥ २९ ॥
अन्वयः—तद्बुद्ध्वा प्रतिपक्षेण वितर्कं क्षेप्तुम् अर्हसि, दार्वन्तरात् सूक्ष्मेण प्रति-
कीलेन कीलम् इव ॥ २९ ॥
व्याख्या—तद्बुद्ध्वा = अनिष्टकराणि कुफलानि ज्ञात्वा, प्रतिपक्षेण = विपरीतवास-
नया, वितर्कम् = अनिष्टचिन्तनम्, क्षेप्तुम् = रोद्धुम्, अर्हसि = योग्योऽसि, दार्वन्तरात् —
दारोः = काष्ठात्, अन्तरात् = मध्यात् इति, सूक्ष्मेण = अतिविरलेण, प्रतिकीलेन —
कीलम् = लौहखण्डम्, प्रतिकीलम्, तेन प्रतिकीलेन = अन्यलौहखण्डेन, कीलम् = शङ्कुः,
इव = सदृशः । उपमालङ्कारः ॥ २९ ॥
हिन्दी—ऐसा सोचकर विरोधी भावना द्वारा अनिष्टकारी चिन्तन का निवारण
करना चाहिए; जैसे काठ के छेद के भीतर से छोटी कील के द्वारा बड़ी कील निकाली
जाती है ॥ २९ ॥
वृद्ध्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति ।
स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये ॥ ३० ॥
अन्वयः—अथ ज्ञातिजनं प्रति वृद्ध्यवृद्ध्योः चिन्ता भवेत्, तन्निवृत्तये जीव-
लोकस्य स्वभावः परीक्ष्यः ॥ ३० ॥
व्याख्या—अथ = अनन्तरम्, त्वम् ज्ञातिजनम्प्रति = परिचितलोकम्प्रति, वृद्ध्य-
वृद्ध्योः = उन्नत्यवनत्योः, चिन्ता = भावना, भवेत् = स्यात्, तर्हि तन्निवृत्तये =
तदुपशमनाय, जीवलोकस्य = संसृतेः, स्वभावः = प्रकृतिः, परीक्ष्यः = चिन्तनीयोऽस्ति ।
हिन्दी—यदि अपने स्वजनों की उन्नति-अवनति की चिन्ता तुम्हें सताये तो
उससे छुटकारा पाने के लिए संसार के सही रूप को परखना चाहिए ॥ ३० ॥
संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।
को जनः स्वजनः को वा मोहात् सक्तो जने जनः ॥ ३१ ॥
अन्वयः—संसारे स्वेन कर्मणा कृष्यमाणानां सत्त्वानां कः स्वजनः ? कः जनः
वा ? जनः मोहात् जने सक्तः ॥ ३१ ॥
व्याख्या—संसारे = मर्त्यलोकेऽस्मिन्, स्वेन = स्वकीयेन, कर्मणा = कृतकार्येण
कृष्यमाणानाम् = क्लिश्यमानानाम्, सत्त्वानाम् = जीवानाम्, कः स्वजनः = को हि
आत्मीयो जनः ? कः जनः वा = अथवा को हि लोकः ? मोहात् = आसक्त्या, जने =
परस्परलोके, सक्तः = आसक्तो भवति ॥ ३१ ॥

वितर्कप्रहाणः ] पञ्चदशः सर्गः २९७
हिन्दी--संसार में अपने-अपने कर्मों से खींचे जाते हुए प्राणियों का कौन अपना
या पराया है ? मोह के कारण ही एक व्यक्ति दूसरे के प्रति आसक्त होता है ॥३१॥
अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस्तव ।
अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति ॥ ३२ ॥
अन्वयः—अतीते अध्वनि तव जनः संवृत्तः स्वजनः ते जनः अप्राप्ते अध्वनि
स्वजनः च भविष्यति ॥ ३२ ॥
व्याख्या—अतीते = व्यतीतकाले, अध्वनि = मार्गे, अर्थात् जन्मनि यो, जनः = अपरि-
चितो जनः, संवृत्तः = आसीद्, (सः वर्त्तमाने) स्वजनः = आत्मीयो जनः अस्ति, (यः
वर्त्तमाने) ते = तव, जनः = अपरिचितः, (सः) अप्राप्ते = भविष्ये, अध्वनि = अग्रिम-
जन्मनि, स्वजनः = आत्मीयो जनः, च = पुनः, भविष्यति = वर्त्तिष्यते ॥ ३२ ॥
हिन्दी—तुम्हारा जो यहाँ आत्मीय जन है, वह अतीत में अपरिचित था और
जो आज पराया है, वह भविष्य में तुम्हारा आत्मीय जन होगा ॥ ३२ ॥
विहगानां यथा सायं तत्र तत्र समागमः ।
जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च ॥ ३३ ॥
अन्वयः—यथा सायं विहगानां तत्र तत्र समागमः तथा जातौ जातौ जनस्य
स्वजनस्य च आश्लेषः ॥ ३३ ॥
व्याख्या—यथा = येन प्रकारेण, सायं = दिवसावसाने, तत्र तत्र = स्थाने स्थाने,
विहगानाम् = खगानाम्, समागमः = आगमो भवति, तथा = तेन रूपेण, जातौ जातौ =
अनेकजन्मसु, जनस्य = अपरिचितजनस्य, स्वजनस्य च = तथा आत्मीयजनस्य,
आश्लेषः = सम्बन्धो भवति ॥ ३३ ॥
हिन्दी—जैसे शाम को अपने-अपने घोसले में पक्षियों का मिलन होता है, उसी
तरह जन्मान्तर में अपने और पराये का सम्बन्ध होता है ॥ ३३ ॥
प्रतिश्रयं बहुविधं संश्रयन्ति यथाऽध्वगाः ।
प्रतियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः ॥ ३४ ॥
अन्वयः—यथा अध्वगाः बहुविधं प्रतिश्रयं संश्रयन्ति, पुनः त्यक्त्वा प्रतियान्ति,
तद्वत् ज्ञातिसमागमः ॥ ३४ ॥
व्याख्या—यथा = येन प्रकारेण, अध्वगाः = पथिकाः, बहुविधम् = अनेकप्रकारकम्,
प्रतिश्रयम् = आश्रयस्थानम्, संश्रयन्ति = ग्रहणं कुर्वन्ति, पुनस्तं त्यक्त्वा = परित्यज्य,
प्रतियान्ति = यत्र तत्र गच्छन्ति, तद्वत् = तेनैव प्रकारेण, ज्ञातिसमागमः—ज्ञातीनाम् =
परिचितानाम्, समागमः = सम्मेलनं भवति ॥ ३४ ॥
हिन्दी—जैसे बटोही रास्ते में अनेक आश्रयों को ग्रहण करते हैं और फिर उन्हें
छोड़कर चल देते हैं, उसी तरह इन परिचित आत्मीय जनों का समागम है ॥ ३४ ॥
लोके प्रकृतिभिन्नेऽस्मिन्न कश्चित् कस्यचित् प्रियः ।
कार्यकारणसम्बद्धं बालुकामुष्टिवज्जगत् ॥ ३५ ॥

२९८ सौन्दरनन्दं महाकाव्यम्
अन्वयः—अस्मिन् प्रकृतिभिन्ने लोके कस्यचित् कश्चित् प्रियः न अस्ति, बालुका-
मुष्टिवत् कार्यकारणसम्बद्धं जगत् ॥ ३५ ॥
व्याख्या—अस्मिन् = एतस्मिन्, प्रकृतिभिन्ने = प्रकृत्या = स्वभावेन, भिन्ने इति
प्रकृतिभिन्ने = परिवर्त्तनशालिनि, लोके = संसारे, कस्यचित् = कस्यापि, कश्चित् =
कोऽपि, प्रियः = आत्मीयः, न = नहि, अस्ति, बालुकामुष्टिवत् = सिकतामुष्टिका-
सदृशः, कार्यकारणसम्बद्धम्—तः, कार्यञ्च = कृत्यञ्च, कारणञ्च = तद्धेतुश्च, कार्यकारणे,
ताभ्यां सम्बद्धमिति = कार्यकारणशृङ्खलायामाधारितः जगत् = संसार इति । बालुका-
मुष्टिवदित्यत्र उपमालङ्कारः ॥ ३५ ॥
हिन्दी—इस संसार में जहाँ स्वभाव से ही विभिन्नताएं हैं, कोई किसी का
आत्मीय नहीं है, एकमुट्ठी बालू की तरह संसार कार्य और कारणों से बँधा है ॥ ३५ ॥
बिभर्ति हि सुतं माता धारयिष्यति मामिति ।
मातरं भजते पुत्रो गर्भेणाधत्त मामिति ॥ ३६ ॥
अन्वयः—मां धारयिष्यति इति माता सुतं बिभर्ति, हि मत गर्भेण आधत्त इति
पुत्रः मातरं भजते ॥ ३६ ॥
व्याख्या—माम् = मदीयम्, धारयिष्यति = संरक्षणं करिष्यति, इति = इत्थं
विचार्य, माता = जनयित्री, सुतम् = जन्यम्, बिभर्ति = पोषयति, हि = इति निश्चयेन,
माम् = पुत्रम्, गर्भेण = गर्भाशयेन, आधत्त = धृतवती, इति = एवं, विचार्य, पुत्रः =
सुतः, मातरम् = जननीम्, भजते = सेवते ॥ ३६ ॥
हिन्दी—'यह मेरी रक्षा करेगा' यह सोचकर माँ बेटे को पालती है और 'इसने
मुझे गर्भ में धारण किया था' यह सोचकर पुत्र माँ की सेवा करता है ॥ ३६ ॥
अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।
तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ ३७ ॥
अन्वयः—यदा ज्ञातयः ज्ञातिषु अनुकूलं प्रवर्त्तन्ते तदा स्नेहं प्रकुर्वन्ति, विपर्ययात्
तु रिपुत्वम् ॥ ३७ ॥
व्याख्या—यदा = यस्मिन् काले, ज्ञातयः = आत्मीयाः, ज्ञातिषु = आत्मीयेषु,
अनुकूलम् = हितकरम्, प्रवर्त्तन्ते = आचरन्ति, तदा = तस्मिन् काले, स्नेहम् = प्रीतिम्,
प्रकुर्वन्ति = परस्परं प्रदर्शयन्ति, विपर्ययात् = प्रतिकूलाचरणात्, रिपुत्वम् = शत्रुत्वं
प्रकुर्वन्ति ॥ ३७ ॥
हिन्दी—जब तथाकथित आत्मीय स्वजनों के साथ अनुकूल आचरण करते हैं
तब वे परस्पर स्नेह करते हैं, किन्तु वे ही आत्मीय जब प्रतिकूल आचरण करते हैं
तब वे एक-दूसरे के दुश्मन बन जाते हैं ॥ ३७ ॥
अहितो दृश्यते ज्ञातिर्ज्ञातिर्दृश्यते हितः ।
स्नेहं कार्यान्तराल्लोकश्छिनत्ति च करोति च ॥ ३८ ॥

वितर्कप्रहाणः ] पञ्चदशः सर्गः २९९
अन्वयः—ज्ञातिः अहितः दृश्यते, अज्ञातिः हितः दृश्यते, च लोकः कार्यान्तरात्
स्नेहं करोति च छिनत्ति ॥ ३८ ॥
व्याख्या—ज्ञातिः = परिचितः, अहितः = अलाभकरः, दृश्यते = अवलोक्यते,
अज्ञातिः = अपरिचितः, हितः = लाभकरः, दृश्यते = अवलोक्यते, च = पुनः, लोकः
= जनः, कार्यान्तरात् = कार्यस्य = कृत्यस्य, अन्तरात् = प्रयोजनात्, इति कार्यान्तरात्
= कर्मवशात्, स्नेहम् = प्रीतिम्, करोति = विदधाति, च = पुनः, छिनत्ति = परिहर-
तीति ॥ ३८ ॥
हिन्दी—ऐसा देखा जाता है कि अपने लोग दुश्मन तथा पराये लोग हित बन
जाते हैं। इससे यह सिद्ध होता है कि लोग कार्यवश ही प्रेम करते हैं या प्रेम तोड़
लेते हैं ॥ ३८ ॥
स्वयमेव यथाऽऽलिख्य रंज्येच्चित्रकरः स्त्रियम् ।
तथा कृत्वा स्वयं स्नेहं सङ्गम’ति जने जनः ॥ ३९ ॥
अन्वयः—यथा चित्रकरः स्वयमेव स्त्रियम् आलिख्य रज्येत्, तथा जनः जने स्वयं
स्नेहं कृत्वा संङ्गम् एति ॥ ३९ ॥
व्याख्या—यथा = येन रूपेण, चित्रकरः = रङ्गजीवकः, स्वयमेव = आत्मनैव,
स्त्रियम् = सीमन्तिनीम्, आलेख्य = चित्रयित्वा, तां रज्येत् = अनुरागं कुर्यात्, तथा =
तेनैव प्रकारेण, जनः = लोकः, जने = स्वजने, स्नेहम् = प्रीतिम्, कृत्वा = विधाय,
सङ्गमम् = सङ्गतिम्, एति = प्राप्नोति ॥ ३९ ॥
हिन्दी—जैसे कोई चित्रकार स्वयं नारी का सुन्दर चित्र बनाकर उससे अनुराग
करने लगे, ठीक उसी तरह मनुष्य मनुष्य से स्वयं स्नेह और संगति करता है ॥३९॥
योऽभवद् बान्धवजनः परलोके प्रियस्तव ।
स ते कमर्थं कुरुते त्वं वा तस्मै करोषि कम् ॥ ४० ॥
अन्वयः—परलोके यः तव प्रियः बान्धवजनः अभवत्, सः ते कमर्थं कुरुते ?
त्वं तस्मै कं करोषि वा ? ॥ ४० ॥
व्याख्या—परलोके = जन्मान्तरे, यः = जीवः, तव = भवतः, प्रियः = प्रीतिकरः,
बान्धवजनः = आत्मीयो जनः, अभवत् = आसीत्, सः = पूर्वोक्तो जनः, ते = तव, कमर्थम्
= कमुपकारं, कुरुते = विदधति, त्वं तस्मै = आत्मीयजनाय, कं करोषि वा =
अथवा किमुपकारं करोषि ॥ ४० ॥
हिन्दी—जन्मान्तर में जो तुम्हारा आत्मीय जन था, वह तुम्हारे लिए अब क्या
करता है ? अथवा तुम उसके लिए क्या करते हो ? ॥ ४० ॥
तस्माज्ज्ञातिवितर्केण मनो नावेष्टुमर्हसि ।
व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ ४१ ॥
अन्वयः—तस्मात् ज्ञातिवितर्केण मनः आवेष्टुं न अर्हसि, संसारे स्वजनस्य वा
जनस्य व्यवस्था नास्ति ॥ ४१ ॥

३०० सौन्दरनन्दं महाकाव्यम्
व्याख्या—तस्मात् = तेन हेतुना, ज्ञातिवितर्केण = आत्मीयताविचारेण, मनः =
चित्तम्, आवेष्टुम् = निगूहयितुम्, न = नहि, अर्हसि = योग्योऽसि, संसारे = जगति,
स्वजनस्य = बन्धुबान्धवस्य, जनस्य = अपरिचितलोकस्य, च = पुनः, व्यवस्था =
निश्चितनियमः, नास्ति = किमपि न विद्यते। काव्यलिङ्गालङ्कारः ॥ ४१ ॥
हिन्दी—इसीलिए बन्धु-बान्धवों की चिन्ता से अपने मन को दुःखी मत करो,
क्योंकि इस संसार में अपने और पराये की कोई स्थायी व्यवस्था नहीं है ॥ ४१ ॥
असौ क्षेमो जनपदः सुभिक्षोऽसावसौ शिवः।
इत्येवमथ जायेत वितर्कस्तव कश्चन ॥ ४२ ॥
अन्वयः—असौ जनपदः क्षेमः, असौ सुभिक्षः, असौ शिवः, इति अथ एवं कश्चन
वितर्कः तव जायेत ॥ ४२ ॥
व्याख्या—असौ = अयम्, जनपदः = देशः, क्षेमः = कुशलम्, असौ = अयम्,
सुभिक्षः—शोभना भिक्षा यस्मिन् सः = प्रचुरधान्यादिकपूर्णः, असौ = अयं जनपदः,
शिवः—शयति पापमिति शिवः = समृद्धशाली, इति अथ = चेत्, एवम् = अनेन रूपेण,
कश्चन = कश्चित्, वितर्कः = ऊहापोहः, तव = भवतः मनसि, जायेत = समुत्पन्नो
भवेत् ॥ ४२ ॥
हिन्दी—यह देश शान्तिप्रद, समृद्धि से परिपूर्ण और सुखी है, यदि ऐसा कोई
विचार तुम्हारे मन में उठे— ॥ ४२ ॥
प्रहेयः स त्वया सौम्य नाधिवास्यः कथञ्चन ।
विदित्वा सर्वमादीप्तं तैस्तैर्दोषाग्निभिर्जगत् ॥ ४३ ॥
अन्वयः—सौम्य ! सर्वं जगत् तैः तैः दोषाग्निभिः आदीप्तं विदित्वा त्वया सः
प्रहेयः कथञ्चन न अधिवास्यः च ॥ ४३ ॥
व्याख्या—सौम्य = हे साधु ! तर्हि, सर्वम् = सकलम्, जगत् = संसारम्, तैः तैः =
अनेकविधैः, दोषाग्निभिः—दोषाणाम् = पातकानाम्, अग्निभिः = वह्निभिः, आदीप्तम्
= प्रज्वलितम्, विदित्वा = ज्ञात्वा, त्वया = भवता, सः = असौ, प्रहेयः = त्याज्यः,
कथञ्चन = केनापि प्रकारेण, न = नहि, अधिवास्यः = सेवनीयश्चेति ॥ ४३ ॥
हिन्दी—तो हे सौम्य ! सारी दुनियां को पाप रूपी आग में जलता जान कर
उसे छोड़ दो और किसी भी प्रकार उस विचार को मन में टिकने मत दो ॥ ४३ ॥
ऋतुचक्रनिवर्त्ताच्च क्षुत्पिपासाक्लमादपि ।
सर्वत्र नियतं दुःखं न क्वचिद्विद्यते शिवम् ॥ ४४ ॥
अन्वयः—ऋतुचक्रनिवर्त्तात् क्षुत्पिपासाक्लमात् च सर्वत्र दुःखं नियतम्, क्वचित्
अपि शिवं न विद्यते ॥ ४४ ॥
व्याख्या—ऋतुचक्रनिवर्त्तात्—ऋतूनाम् = वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिरा-
दीनां, चक्रम् = मासद्वयात्मकं प्रकृतिपरिवर्त्तनयुक्तसमयम्, तस्य निवर्त्तः = परिवर्त्तनः,
तस्मात् = ग्रीष्मादिकालपरिवर्त्तनात्, क्षुत्पिपासाक्लमात्—क्षुत् च = क्षुधा च, पिपासा

वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०१
च = तृषा च, क्लमश्च = क्लान्तिश्च, तस्मात्, सर्वत्र = सर्वस्मिन् स्थाने च, दुःखम् =
पीडाम्, नियतम् = निश्चितम्, क्वचित् = क्वचन, अपि चेत्, शिवम् = कल्याणम्, न =
नहि, विद्यते = अवलोक्यते ॥ ४४ ॥
हिन्दी—ऋतु-चक्र के पलटने से तथा भूख, प्यास और थकावट से सब जगह
दुःख ही दुःख है, सुख तो कहीं नहीं है ॥ ४४ ॥
क्वचिच्छीतं क्वचिद् घर्मः क्वचिद्रोगो भयं क्वचित् ।
बाधतेऽभ्यधिकं लोकं तस्मादशरणं जगत् ॥ ४५ ॥
अन्वयः—क्वचित् शीतम्, क्वचित् घर्मः, क्वचित् रोगः, क्वचित् भयं लोकम्
अभ्यधिकं बाधते, तस्मात् अशरणं जगत् ॥ ४५ ॥
व्याख्या—क्वचित् = कुत्रापि, शीतम् = शैत्यम्, क्वचित् = क्वापि, घर्मः = आतपः,
क्वचित् = कुत्रचित् स्थाने, रोगः = आमयः, क्वचित् = कुत्रापि, भयम् = भीतिः, लोकम्
= मर्त्यलोकम्, अभ्यधिकम् = अत्यधिकम्, बाधते = पीडयति, तस्मात् = तेन हेतुना,
अशरणम् = आश्रयशून्यम्, जगत् = संसारमस्ति ॥ ४५ ॥
हिन्दी—कहीं सर्दी तो कहीं गर्मी, कहीं रोग तो कहीं भय से सारी दुनियाँ
अत्यधिक दुःखी है। अतः यह संसार आश्रय-विहीन है ॥ ४५ ॥
जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद्भयम् ।
नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ॥ ४६ ॥
अन्वयः—अस्य लोकस्य जरा व्याधिः मृत्युः च महत् भयम्, सः देशः न अस्ति
यत्र अस्य तद्भयं न उपपद्यते ॥ ४६ ॥
व्याख्या—अस्य = एतस्य, लोकस्य = संसारस्य, जरा = वृद्धत्वम्, व्याधिः = रोगः,
मृत्युः = जीवनान्तम्, च = पुनः, महत् = अत्यधिकम्, भयम् = भीतिम्, सः = असौ,
देशः = जनपदः, न = नहि, अस्ति = विद्यते, यत्र = यस्मिन् स्थाने, अस्य = पूर्वोक्तस्य,
तद्भयम् = अतिभीतिः, न = नहि, उपपद्यते = जायते ॥ ४६ ॥
हिन्दी—वृद्धावस्था, रोग और मौत इस संसार का महाभय है, ऐसा कोई देश
नहीं है जहाँ लोगों को यह डर नहीं सताता हो ॥ ४६ ॥
यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति ।
नास्ति काचिद् गतिर्लोके गतो यत्र न बाध्यते ॥ ४७ ॥
अन्वयः—यत्र अयं गच्छति तत्र दुःखं कायम् अनुगच्छति; लोके काचित् गतिः
नास्ति यत्र गतः न बाध्यते ॥ ४७ ॥
व्याख्या—यत्र = यस्मिन् स्थाने, अयम् = एषः, कायः = शरीरम्, गच्छति = याति,
तत्र = तस्मिन् स्थाने, दुःखम् = क्लेशम्, अनुगच्छति = पश्चाच्चलति, लोके = अस्मिन्
मर्त्यलोके, काचित् = काचन, गतिः = शरणस्थली, नास्ति = न विद्यते, यत्र = यस्मिन्
स्थाने, गतः = प्राप्तः, न = नहि, बाध्यते = पीडयते ॥ ४७ ॥
सौ०-२३

३०२ सौन्दरनन्दं महाकाव्यम्
हिन्दी-जहां-जहां यह देह जाती है, वहां-वहां दुःख भी पीछा करता है, संसार
में ऐसी कोई जगह नहीं जहाँ जाने पर इससे छुटकारा मिल सके ॥ ४७ ॥
रमणीयोऽपि देशः सन् सुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥ ४८ ॥
अन्वयः—रमणीयः सुभिक्षः क्षेमञ्च सन् अपि देशः कुदेश इति एवं विज्ञेयः
यत्र क्लेशैः विदह्यते ॥ ४८ ॥
व्याख्या—रमणीयः = मनोहरः, सुभिक्षः = सुकालः, क्षेमश्च = लब्धरक्षणम्, सन्=
वर्त्तमानः, अपि सः देशः = जनपदः, कुदेशः = कुत्सितराष्ट्रः, इति = इत्थम्, एवं
विज्ञेयः = बोद्धव्यः, यत्र = यस्मिन् देशे, क्लेशै = पीडाभिः, ( जनः ) विदह्यते =
क्लिश्यते ॥ ४८ ॥
हिन्दी-धन-धान्य से भरे, रमणीय एवं शान्तिप्रद होने के बावजूद ऐसा कोई
स्थान नहीं है, जहाँ जाने पर लोग पीड़ित न होते हों ॥ ४८ ॥
लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः ।
क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ ४९ ॥
अन्वयः—शरीरमानसैः दुःखैः अभ्याहतस्य अस्य लोकस्य कश्चित् क्षेमः देशः न
अस्ति यत्र गतः स्वस्थो भवेत् ॥ ४९ ॥
व्याख्या—शरीरमानसैः = शरीरञ्च = दैहिकञ्च, मांसञ्च = मानसिकञ्च, तैः,
दुःखैः = पीडाभिः, अभ्याहतस्य = आक्रमितस्य, अस्य = एतस्य, लोकस्य = मर्त्यलोक-
स्य, कश्चित् = कोऽपि, क्षेत्रः = भूभागः, देशः = जनपदः, न = नहि, अस्ति = विद्यते,
यत्र = यस्मिन् स्थाने, गतः = प्रयात:, लोकः स्वस्थः = दुःखरहितः, भवेत् =
स्यात् ॥ ४९ ॥
हिन्दी-शारीरिक एवं मानसिक कष्टों से पीड़ित रहने वाले लोगों के लिए ऐसा
कोई शान्तिप्रद स्थान या देश नहीं हैं, जहाँ जाकर वे स्वस्थ रह सकें ॥ ४९ ॥
दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।
छन्दरागमत्ः सौम्य ! लोकचित्रेषु मा कृथाः ॥ ५० ॥
अन्वयः—सौम्य ! यदा सर्वस्य सर्वत्र सर्वदा दुःखं वर्त्तते, अतः लोकचित्रेषु छन्द-
रागं मा कृथाः ॥ ५० ॥
व्याख्या—सौम्य = हे साधु ! यदा = यतोहि, सर्वस्य = अखिललोकस्य, सर्वत्र =
सम्पूर्णमर्त्यलोके, सर्वदा = निरन्तरम्, दुःखम् = कष्टम्, वर्त्तते = विद्यते, अतः = अस्मात्
कारणात्, लोकचित्रेषु—लोकस्य = मर्त्यलोकस्य, चित्राणि = विचित्रतानि, तेषु, छन्द-
रागम् = आसक्तिः, मा = नहि,, कृथा = कुरु ॥ ५० ॥
हिन्दी-जब कि सभी को सभी समय, सब जगह दुःख होता ही है; तब हे
सौम्य ! संसार की इस चित्रमयता में आसक्ति मत करो ॥ ५० ॥

वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०३
यदा तस्मान्निवृत्तस्ते.छन्दरागो भविष्यति ।
जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे ॥ ५१ ॥
अन्वयः—तस्मात् यदा ते छन्दरागो निवृत्तः भविष्यति, तदा सर्वं जीवलोकम्
आदीप्तम् इव मंस्यते ॥ ५१ ॥
व्याख्या—तस्मात् = तेन हेतुना, यदा = यस्मिन् काले, ते = तव,. छन्दरागः =
आसक्तिः, निवृत्तः = विरतो भविष्यति, तदा = तस्मिन् काले, सर्वम् = निखिलम्,
जीवलोकम् = मर्त्यलोकम्, आदीप्तम् = प्रज्ज्वलितम्, इव = तुल्यम्, मंस्यते = बोधयि-
ष्यति । उत्प्रेक्षाऽलङ्कार इति ॥ ५१ ॥
हिन्दी—अतः अब तुम्हारी आसक्ति मिट जायेगी तब यह सम्पूर्ण मर्त्यलोक
आग में धधकते दीख पड़ेंगे ॥ ५१ ॥
अथ कश्चिद्वितर्कस्ते भवेदमरणाश्रयः ।
यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा ॥ ५२ ॥
अन्वयः—अथ ते कश्चित् अमरणाश्रयः वितर्कः भवेत् सः यत्नेन विहन्तव्यः; यथा
आत्मगतः व्याधिः ॥ ५२ ॥
व्याख्या—अथ = अनन्तरम्, ते = तव, कश्चित् = कोऽपि, अमरणाश्रयः = नास्ति
मरणम् इति अमरणम्, तदाश्रयः यस्य सः = अमराश्रितः, वितर्कः = विसंवादः, भवेत् =
स्यात्, तर्हि सः = पूर्वोक्ताश्रयवितर्कः, यत्नेन = प्रयासपूर्वकेन, विहन्तव्यः = घातितव्यः,
यथा = येन रूपेण, आत्मगतः — आत्मनि = स्वस्मिन्, गतः = प्राप्तः, देहव्यासः, व्याधिः
= रोगः, विहन्तव्य इति । उपमालङ्कारः ॥ ५२ ॥
हिन्दी—'मैं कभी मरूँगा ही नहीं' यदि इस तरह का कोई विचार तुम्हारे मन
में उत्पन्न हो तो देह में उपस्थित रोग की तरह उसे समझ कर मार डालो ॥ ५२ ॥
मुहूर्तंमपि विश्रम्भः कार्यो न खलु जीविते ।
निलीन इव हि व्याघ्रः कालो'विश्वस्तघातकः ॥ ५३ ॥
अन्वयः—खलु जीविते मुहूर्त्तमपि विश्रम्भः न कार्यः, हि निलीनः व्याघ्रः इव
कालः विश्वस्तघातकः ॥ ५३ ॥
व्याख्या—खलु = निश्चयेन, जीविते = जीवने, मुहूर्तमपि = क्षणमपि, विश्रम्भः =
प्रत्ययः, न = नहि, कार्यः = विधेयः, हि = यतः, निलीनः = अन्तरितः, व्याघ्रः =
शार्दूलः, इव = यथा, कालः = अन्तकः, विश्वस्तघातकः — विश्वस्तस्य = विश्वसनी-
यस्य, घातकः = मारकः, अर्थात् विश्वब्धहन्ता भवति । यो हि जनः विश्वसिति यत् नर-
जीवनं मरणशीलं नास्ति, तं कालः तथैव हन्ति यथान्तरितो व्याघ्रो निःशङ्को भूत्वा
मृगान् हन्ति । 'व्याघ्र इव' अत्रोपमालङ्कारः । अस्य श्लोकस्योत्तराद्धंस्तु पूर्वार्द्धम्प्रति
कारणमस्ति, अत एव काव्यलिङ्गोऽप्यलङ्कारोऽस्ति ॥ ५३ ॥
हिन्दी—एक क्षण के लिए भी इस जीवन पर भरोसा नहीं करना चाहिए, क्योंकि
छिपे हुए बाघ की तरह काल विश्वास करने वाले की हत्या करता है ॥ ५३ ॥

३०४ सौन्दरनन्दं महाकाव्यम्
बलस्थोऽहं युवा वेति न ते भवितुमर्हति ।
मृत्युः सर्वास्ववस्थासु हन्ति नावेक्षते वयः ॥ ५४ ॥
अन्वयः—अहं बलस्थः युवा वा इति ते मनसि भवितुं न अर्हति, मृत्युः सर्वासु
अवस्थासु हन्ति, वयः न अवेक्षते ॥ ५४ ॥
व्याख्या—अहं बलस्थः=शक्तिशाली, युवा=तरुणः, वा=अथवा, इति=
इत्थम्, ते=भवतः, मनसि=चित्ते, भवितुम्=वर्तितुम्, नार्हति=योग्यो नास्ति,
यतो हि—मृत्युः=अन्तकः, सर्वासु=सकलासु, अवस्थासु=दशासु, हन्ति=मारयति,
वयः=आयुम्, न=नहि, अवेक्षते=विचारयते । पूर्वार्द्धम्प्रति उत्तरार्द्धस्य कारणत्वेनात्र
काव्यलिङ्गालङ्कारः ॥ ५४ ॥
हिन्दी—'मैं बलवान् हूँ या युवा हूँ' ऐसी भावना तुम्हारे मन में नहीं होनी चाहिए,
मृत्यु किसी की अवस्था का ख्याल किये बिना मारती है ॥ ५४ ॥
क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः ।
स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते ॥ ५५ ॥
अन्वयः—अनर्थानां क्षेत्रभूतं शरीरं परिकर्षतः दृष्टार्थस्य स्वास्थ्याशा जीविताशा
वा न जायते ॥ ५५ ॥
व्याख्या—अनर्थानाम्=अनिष्टानाम्, क्षेत्रभूतम्=आवासरूपम्, शरीरम्=देहम्,
परिकर्षतः=निःस्पृहभावेन दधतः, दृष्टार्थस्य—दृष्टः=अवलोकितः, अर्थः=तत्त्वम्,
येन, तस्य=मोक्षार्थिनः, स्वास्थ्याशा=आरोग्याशंसा, जीविताशा=जीवनाभिलाषा,
वा=अथ वा, न=नहि, जायते=उत्पद्यते ॥ ५५ ॥
हिन्दी—अनिष्टों के घर देह को घसीटते हुए तत्त्वदर्शी को स्वास्थ्य या जीवन
की तृष्णा नहीं होती है ॥ ५५ ॥
निर्वृतः को भवेत् कायं महाभूताश्रयं वहन् ।
परस्परविरुद्धानामहीनामिव भाजनम् ॥ ५६ ॥
अन्वयः—परस्परविरुद्धानाम् अहीनां भाजनम् इव महाभूताश्रयं कायं वहन्
को निर्वृतः भवेत् ? ॥ ५६ ॥
व्याख्या—परस्परविरुद्धानाम् = इतरेतरप्रतिकूलानाम्, अहीनाम् = नागानाम्,
भाजनम्=आश्रयस्थलम्, इव=सदृशम्, महाभूताश्रयम्—महाभूतानाम्=पञ्चमहा-
भूतानाम्, आश्रयः=शरणम्, तम्, कायम्=शरीरम्, वहन्=दधन्, को निर्वृतः =
कः प्रसन्नः, भवेत् = स्यात् ? इवेत्युपमायां तेनात्रोपमालङ्कारः । 'कः निर्वृतः भवेत्'
इत्यस्याशयः—'कोऽपि सुखी न भविष्यती'ति, अत एवार्थापत्तिरलङ्कारश्चेति ॥ ५६ ॥
हिन्दी—परस्पर विरोधी साँपों की एक साथ शरणस्थली की पञ्चमहाभूतों के
आश्रय-स्वरूप इस देह को ढोता हुआ कौन मनुष्य सुखी हो सकता है ? ॥ ५६ ॥
प्रश्वसित्ययमन्वक्षं यदुच्छ्वसिति मानवः ।
अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम् ॥ ५७ ॥