सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

शीलेन्द्रियजयः ] त्रयोदशः सर्गः २६५
अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।
अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ ४६ ॥
अन्वयः—अभिध्या प्रियरूपेण प्रियवाक् कलुषाशयः अरिः मित्रमुखेन इव कामा-
त्मकं जगत् हन्ति ॥ ४६ ॥
व्याख्या—अभिध्या = लोभः, प्रियरूपेण = मनोहररूपेण, प्रियवाक् = मधुरवचनः,
कलुषाशयः = मलिनमानसः, अरिः = शत्रुः, मित्रमुखेन = सुहृदाननेन, इव = यथा,
कामात्मकम् = रागासक्तम्, जगत् = संसारम्, हन्ति = विनश्यति । उपमा-
लङ्कारोऽत्र ॥ ४६ ॥
हिन्दी—लिप्सा आकर्षक रूप द्वारा विषयासक्त जगत् की हत्या करती है, जैसे
शत्रु मित्र की तरह मुख से प्रियवचन कहता हुआ बुराई करता है ॥ ४६ ॥
दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः ।
मोहाद्येनानुवृत्तेन पर

२६६ सौन्दरनन्दं महाकाव्यम्
व्याख्या—विषये = भोगे, प्रवृत्तम् = परायणम्, अपि = चेत्, इन्द्रियम् = करणम्,
तावत् = तावत्कालपर्यन्तम्, न = नहि, सज्जते = संलग्नो भवति, यावत् = यावत्काल-
पर्यन्तम्, तत्र = तस्मिन् रागे, मनसः = चित्तः, परिकल्पः = निश्चयः, न = नहि,
प्रवर्त्तते = प्रवृत्तो भवति ॥ ४९ ॥
हिन्दी—विषय के सम्पर्क में रहकर भी ये इन्द्रियां तब तक उनमें आसक्त नहीं
होतीं, जब तक तत्सम्बन्धी मानसिक संकल्प नहीं होता है ॥ ४९ ॥
इन्धने सति वायौ च यथा ज्वलति पावकः ।
विषयात् परिकल्पाच्च क्लेशाग्निर्जायते तथा ॥ ५० ॥
अन्वयः—इन्धने वायौ च सति यथा पावकः ज्वलति, तथा विषयात् परिकल्पात्
च क्लेशाग्निः जायते ॥ ५० ॥
व्याख्या—इन्धने = ज्वालनकाष्ठे, वायौ = पवने, च = पुनः, सति = भवति, यथा
= येन प्रकारेण, पावकः = वह्निः, ज्वलति = प्रज्वलति, तथा = तेनैव प्रकारेण, विष-
यात् = भोगात्, परिकल्पात् = सङ्कल्पात्, च = पुनः, क्लेशाग्निः = दुःखानलः, जायते
= सम्पद्यते ॥ ५० ॥
हिन्दी—जैसे जलावन और हवा के संयोग से आग जलती है, वैसे ही विषय
और संकल्प के संयोग से क्लेशरूपी आग जलती है ॥ ५० ॥
अभूतपरिजल्पेन विषयस्य हि बध्यते ।
तमेव विषयं पश्यन् भूततः परिमुच्यते ॥ ५१ ॥
अन्वयः—विषयस्य अभूतपरिकल्पेन हि बध्यते, तमेव विषयं भूततः पश्यन्
परिमुच्यते ॥ ५१ ॥
व्याख्या—विषयस्य = रागस्य, अभूतपरिकल्पेन—अभूतः = अयथार्थः, परिकल्पः
= चिन्तनम्, तेन, हि = इति निश्चयेन, बध्यते = बन्धतां याति, तमेव = पूर्वनिर्दिष्ट-
भोगमेव, भूततः = यथार्थतः, पश्यन् = अवलोकयन्, परिमुच्यते = मुक्तो भवति ॥५१॥
हिन्दी—वासना की अयथार्थ कल्पना से मनुष्य बन्धन में पड़ जाता है और उसी
विषय को ठीक-ठीक देखता हुआ मुक्त हो जाता है ॥ ५१ ॥
दृष्ट्वैकं रूपमन्यो हि रज्यतेऽन्यः प्रदुष्यति ।
कश्चिद्भवति मध्यस्थस्तत्रैवान्यो घृणायते ॥ ५२ ॥
अन्वयः—एकं हि रूपं दृष्ट्वा अन्यः रज्यते, अन्यः प्रदुष्यति, कश्चित् मध्यस्थः
भवति, तथैव अन्यः घृणायते ॥ ५२ ॥
व्याख्या—एकं हि = एकमात्रमेव हि, रूपम् = आकृतिम्, दृष्ट्वा = अवलोक्य,
अन्यः = कश्चित्, रज्यते = अनुरज्यते, अर्थात् आसक्तो भवति, अन्यः = अपरः,
पूर्वोक्तरूपमेव दृष्ट्वा, प्रदुष्यति = दोषयुक्तो भवति, कश्चित् = कोऽप्यन्यः, मध्यस्थः =
तटस्थो भवति, अन्यः = कोऽप्यपरः, तथैव = तस्मिन्नेव रूपे, घृणायते = घृणां
करोति ॥ ५२ ॥

शीलेन्द्रियजयः ] त्रयोदशः सर्गः २६७
हिन्दी—एक ही रूप को देखकर कोई उससे अनुराग करता है, कोई दोष देखता
है, कोई उदासीन रहता है तो कोई घृणा करता है ॥ ५२ ॥
अतो न विषयो हेतुर्बन्धाय न विमुक्तये ।
परिकल्पविशेषेण सङ्गो भवति वा न वा ॥ ५३ ॥
अन्वयः—अतः विषयः न बन्धाय हेतुः न विमुक्तये, परिकल्पविशेषेण सङ्गः
भवति वा न वा ॥ ५३ ॥
व्याख्या—अतः=अनेन हेतुना, विषयः=रागः, न=नहि, बन्धाय=बन्धनाय,
न=नहि, विमुक्तये=बन्धनमोचनाय, हेतुः=कारणं, भवति, परिकल्पविशेषेण=
कल्पनाविशिष्टेन, सङ्गः=आसक्तिः, भवति=जायते, वा न वा=अथवा न
भवति ॥ ५३ ॥
हिन्दी—अतः विषय न तो बन्धन का कारण है और न मुक्ति का हेतु, यह तो
विशेष कल्पना के कारण आसक्ति होती भी है और नहीं भी होती है ॥ ५३ ॥
कार्यः परमयत्नेन तस्मादिन्द्रियसंवरः ।
इन्द्रियाणि ह्यगुप्तानि दुःखाय च भवाय च ॥ ५४ ॥
अन्वयः—तस्मात् परमयत्नेन इन्द्रियसंवरः कार्यः, हि अगुप्तानि इन्द्रियाणि दुःखाय
च भवाय च भवन्ति ॥ ५४ ॥
व्याख्या—तस्मात्=तस्मात् कारणात्, परमयत्नेन—परमश्चासौ यत्नः परम-
यत्नः=कठोरप्रयत्नस्तेन, इन्द्रियसंवरः—इन्द्रियाणाम्=करणानाम्, संवरः=संरक्षणम्,
कार्यः=विधेयः, हि=यतः, अगुप्तानि—न गुप्तानि अगुप्तानि=अरक्षितानि, इन्द्रि-
याणि=करणानि, दुःखाय=क्लेशाय, च=पुनः, भवाय च=पुनर्जन्मग्रहणाय
भवति ॥ ५४ ॥
हिन्दी—अतएव प्रयत्नपूर्वक इन्द्रियों का नियंत्रण करना चाहिए, क्योंकि
अनियंत्रित इन्द्रियां दुःख और पुनर्जन्म का कारण बन जाती है ॥ ५४ ॥
( प्रक्षिप्तोऽयं श्लोकः )
कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः
प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिह्वकैः ।
इन्द्रियोरगैर्मनोबिलाश्रयैः स्पृहाविषैः
शमागदादृते न दष्टमस्ति यच्चिकित्सेत् ॥ ५५ ॥
अन्वयः—कामभोगभोगवद्भिः आत्मदृष्टिदृष्टिभिः प्रहर्षलोलजिह्वकैः स्पृहाविषैः
प्रमादनैकमूर्द्धभिः मनोबिलाश्रयैः इन्द्रियोरगैः यद् दष्टम् अस्ति, शमागदात् ऋते न
चिकित्सेत् ॥ ५५ ॥
व्याख्या—कामभोगभोगवद्भिः=वासनासक्तिफलैः, आत्मदृष्टिदृष्टिभिः=स्वीय-
दृष्टिनयनैः, प्रहर्षलोलजिह्वकैः—प्रहर्षः=अत्यानन्दः, एव लोलः=चपलः, जिह्वकः=

२६८ सौन्दरनन्दं महाकाव्यम्
रसना, येषां तैः, स्पृहाविषैः—स्पृहा = अभिलाषा, एव विषम् = गरलम्, येषां तैः,
प्रमादनैकमूर्द्धभिः = अनवधानतैकशिरोभिः, मनोबिलाश्रयैः—मनः = चित्तः, एव
बिलम् = विवरम्, तदेवाश्रयः = आधारस्तैः, इन्द्रियोरगैः—इन्द्रियाणि = करणानि,
एव उरगैः = सर्पैः, यत् = यः, दष्टम् = दंशितम्, अस्ति = भवति, शमागदात् ऋते
= शान्त्यौषध्यतिरिक्तात्, न = नहि, चिकित्सेत् = चिकित्साऽस्ति ॥ ५५ ॥
हिन्दी—कामभोग जिनके फल हैं, आत्मभाव जिनकी आँखें हैं, आलस्य जिनके
अनेक शिर हैं, अत्यानन्द जिनकी चंचल रसनाएँ हैं, मन ही जिनके निवास के लिए
बिल हैं, इच्छाएँ जिनकी जहर हैं—ऐसे इन्द्रिय रूपी साँपों ने जिन्हें डँस लिया है,
उसकी चिकित्सा शान्तिरूपी विषनाशक औषधि छोड़कर किसी अन्य ओषधि से नहीं
हो सकती ॥ ५५ ॥
तस्मादेषामकुशलकराणामरीणां
चक्षुर्घाणश्रवणरसनस्पर्शनानाम् ।
सर्वावस्थं भव विनियमादप्रमत्तो
मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम् ॥ ५६ ॥
सौन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः ॥१३॥
अन्वयः—तस्मात् सर्वासु अवस्थासु चक्षुर्घाणश्रवणरसनस्पर्शनानाम् एषाम् अकुशल-
कराणाम् अरीणां विनियमात् अप्रमत्तः भव, अस्मिन् अर्थे त्वं क्षणमपि प्रमादं मा
कृथाः ॥ ५६ ॥
व्याख्या—तस्मात् = तेन हेतुना, सर्वासु = सकलासु, अवस्थासु, चक्षुर्घाणश्रवण-
रसनस्पर्शनानाम् = नयननासिकाकर्णरसनात्वगादीनाम्, एषाम् = एतेषाम्, अकुशल-
कराणाम्—करोतीति करः, कुशलस्य करः कुशलकरः, न कुशलकरः अकुशलकरस्तेषां
= क्लेशकराणाम्, अरीणाम् = रिपूणाम्, विनियमात् = नियन्त्रणात्, प्रमादम् =
आलस्यम्, मा कृथाः = न कुरु ॥ ५६ ॥
हिन्दी—अतः सभी अवस्थाओं में दृष्टि, घ्राण, श्रवण, आस्वाद और स्पर्श—इन
बुराई करने वाले शत्रुओं का नियंत्रण करने में सावधान रहो । इस विषय में तुम
क्षणभर भी प्रमाद मत करो ॥ ५६ ॥
सौन्दरनन्द महाकाव्य में शील और इन्द्रिय-संयम नामक त्रयोदश सर्ग समाप्त ॥१३॥

चतुर्दशः सर्गः
आदिप्रस्थानः
इन्द्रिय विजय हेतु साधक प्रस्थान प्रथम जब करते हैं ।
देवलोक से और अधिक सुख शान्तचित्त हो पाते हैं ॥
अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् ।
भोजने भव मात्राज्ञो ध्यानायानामयाय च ॥ १ ॥
अन्वयः—अथ स्मृतिकवाटेन इन्द्रियसंवरं पिधाय ध्यानाय च अनामयाय भोजने
मात्राज्ञः भव ॥ १ ॥
व्याख्या—अथ = अनन्तरम्, स्मृतिकवाटेन = चिन्तनकपाटेन, इन्द्रियसंवरम् =
करणसंवरम्, पिधाय = आवरणं कृत्वा, ध्यानाय = चित्तस्थैर्याय, च = पुनः, अना-
मयाय = स्वास्थ्यलाभाय, भोजने = भक्षणे, मात्राज्ञः = मात्रां जानातीति मात्राज्ञः =
परिमाणविद्, भव = स्याः । स्मृतौ कपाटारोपेण रूपकालङ्कारः ॥ १ ॥
हिन्दी—स्मरण रूपी किवाड़ से इन्द्रिय रूपी बाँध को बन्द कर ध्यान और
आरोग्य के लिए भोजन की मात्रा निश्चित करो ॥ १ ॥
प्राणापानौ निगृह्णाति ग्लानिनिन्द्रे प्रयच्छति ।
कृतो ह्यत्यर्थमाहारो विहन्ति च पराक्रमम् ॥ २ ॥
अन्वयः—अत्यर्थं हि कृतः आहारः प्राणापानौ निगृह्णाति, ग्लानिनिन्द्रे प्रयच्छति
च पराक्रमं विहन्ति ॥ २ ॥
व्याख्या—अत्यर्थम् = अत्यन्तम्, हि = यतः, कृतः = विहितः, आहारः = भक्षणम्,
प्राणापानौ = प्राणापानाख्यौ वायू ( वायुर्भवति पञ्चधा; तद्यथा—प्राण-अपान-व्यान-
उदान-समानाश्चेति ), निगृह्णाति = प्रतिरुणद्धि, ग्लानिनिन्द्रे = अवसादस्वापौ, प्रयच्छति
= ददाति, च = पुनः, पराक्रमम् = शौर्यम्, विहन्ति = विनश्यति ॥ २ ॥
हिन्दी—यदि अधिक खा लिया जाय तो प्राण और अपान वायु में रुकावट
आती है, अवसाद होता है, नींद आती है तथा पराक्रम नष्ट हो जाता है ॥ २ ॥
यथा चात्यर्थमाहारः कृतोऽनर्थाय कल्पते ।
उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते ॥ ३ ॥
अन्वयः—यथा च अत्यर्थं कृतः आहारः अनर्थाय कल्पते, तथा उपयुक्तः अत्यल्पः
सामर्थ्याय न कल्पते ॥ ३ ॥
व्याख्या—यथा = येन प्रकारेण, च = पुनः, अत्यर्थम् = अत्यधिकम्, कृतः =
भुक्तः, आहारः = भोजनम्, अनर्थाय = अनिष्टाय, कल्पते = भवति, तथा = तेनैव
सौ०-21

२७० सौन्दरनन्दं महाकाव्यम्
प्रकारेण, उपयुक्तः = प्रयुक्तः, अत्यल्पः = मितभोजनमपि, सामर्थ्याय = शक्तिवर्द्धनाय,
न कल्पते = न भवतीति निश्चितम् ॥ ३ ॥
हिन्दी—जिस तरह अधिक भोजन करने से अनिष्ट होता है, उसी. तरह कम
भोजन करने से भी शक्ति क्षीण होती है ॥ ३ ॥
आचयं द्युतिमुत्साहं प्रयोगं बलमेव च ।
भोजनं कृतमत्यल्पं शरीरस्यापकर्षति ॥ ४ ॥
अन्वयः—अत्यल्पं कृतं भोजनं शरीरस्य आचयं द्युतिम् उत्साहं प्रयोगं च बलम्
एव अपकर्षति ॥ ४ ॥
व्याख्या—अत्यल्पम् = स्तोकम्, कृतम् = भक्षितम्, भोजनम् = आहारम्, शरीर-
स्य = देहस्य, आचयम् = पुष्टिम् (पुष्टिमिति लाक्षणिकार्थः), द्युतिम् = कान्तिम्,
उत्साहम् = औत्सुक्यम्, प्रयोगम् = साधनम्, च = पुनः, बलम् = शक्तिम्, एव
अपकर्षति = क्षीणं करोति ॥ ४ ॥
हिन्दी—बहुत कम किया गया भोजन देह की कान्ति, पुष्टि, प्रयोग, उत्साह
और शक्ति को क्षीण कर देता है ॥ ४ ॥
यथा भारेण नमते लघुनोन्नमते तुला ।
समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ ५ ॥
अन्वयः—यथा तुला भारेण नमते, लघुना उन्नमते, युक्तेन समा तिष्ठति तथा
भोज्येन इयं तनुः ॥ ५ ॥
व्याख्या—यथा = यद्वत्, तुला = मापनः, भारेण = भारिकेन, नमते = अवनमते,
लघु = लघुभारेण, उन्नमते = ऊर्ध्वं प्रयाति, युक्तेन = सन्तुलितेन, समा = तुल्यम्,
तिष्ठति = स्थीयते, तथा = तेनैव प्रकारेण, भोज्येन = आहारेण, इयम् = एषा, तनुः =
शरीरम्, समा तिष्ठति ॥ ५ ॥
हिन्दी-जैसे अधिक वजन के कारण पलड़ा झुकता है, हल्के वजन से ऊपर
उठ जाता है, समभार से सन्तुलित रहता है; ठीक उसी तरह अधिक, कम और युक्त
आहार से यह देह भारी, क्षीण और संतुलित होती है ॥ ५ ॥
तस्मादभ्यवहर्त्तव्यं स्वशक्तिमनुपश्यता ।
नातिमात्रं न चात्यल्पं मेयं मानवशादपि ॥ ६॥
अन्वयः—तस्मात् स्वशक्तिम् अनुपश्यता अभ्यवहर्त्तव्यम्, मानवशात् अपि नाति-
मात्रं न चात्यल्पं मेयम् ॥ ६ ॥
व्याख्या—तस्मात्=तेन हेतुना, स्वशक्तिम् = स्वीयबलम्, अनुपश्यता = अवलोक-
यता, अभ्यवहर्त्तव्यम् = खादितव्यम्, मानवशात् अपि = सम्मानादपि, नातिमात्रम् =
नात्यधिकम्, न च अल्पम् = अतिस्तोकम्, मेयम् = अवगन्तव्यम् ॥ ६ ॥

आदिप्रस्थानः ] चतुर्दशः सर्गः २७१
हिन्दी-अतः अपनी शक्ति को तौलकर ही खाना चाहिए, सम्मान के कारण
आग्रहवश न तो कम और न अधिक ही खाना चाहिए ॥ ६ ॥
अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति ।
अवच्छन्न इवाल्पोऽग्निः सहसा महतेन्धसा ॥ ७ ॥
अन्वयः—गुरुणा हि अन्नेन अत्याक्रान्तः कायाग्निः शाम्यति, सहसा महतो इन्धसा
अवच्छन्नः अल्पः अग्निः इव ॥ ७ ॥
व्याख्या -- गुरुणा = अत्यधिकेन, हीति निश्चयेन, अन्नेन = भोजनेन, अत्याक्रान्तः =
पराभूतः, कायाग्निः-कायस्य = देहस्य, अग्निः = वह्निः, शाम्यति = निर्वापितो
भवति, यथा सहसा = हठात्, महतः = अत्यधिकः, इन्धसा = इध्मेन, अवच्छन्नः =
आवृत्तः पिहितो वा, अल्पः = स्तोकम्, अग्निः = अनलः, इव = यथा, भवति ॥ ७ ॥
हिन्दी-देह की आग भोजन के भार से ऐसे दब जाती है, जैसे थोड़ी-सी आग
जलावन की अधिकता से हठात् बुझ जाती है ॥ ७ ॥
अत्यन्तमपि संहारो नाहारस्य प्रशस्यते ।
अनाहारो हि निर्वाति निरिन्धन इवानलः ॥ ८ ॥
अन्वयः—आहारस्य अत्यन्तमपि संहारः न प्रशस्यते, हि अनाहारः निरिन्धनः
अनलः इव निर्वाति ॥ ८ ॥
व्याख्या-आहारस्य = भोजनस्य, अत्यन्तमपि = सर्वतोभावेनापि, संहारः =
विध्वंसः, न = नहि, प्रशस्यते = समाद्रियते, हि = यतः, अनाहारः = भोजनरहितः,
जनः, निरिन्धनः - निर्गतम् इन्धनं यस्य सः = काष्ठरहितः, अनलः = वह्निः, इव =
यथा, निर्वाति = शमितो भवति ॥ ८ ॥
हिन्दी-भोजन का बिलकुल त्याग भी प्रशंसनीय नहीं है; क्योंकि भोजन नहीं
करनेवाला मनुष्य इन्धन रहित अग्नि के समान शान्त हो जाता है ॥ ८ ॥
यस्मान्नास्ति विनाऽऽहारात् सर्वप्राणभृतां स्थितिः ।
तस्माद् दुष्यति नाहारो विकल्पोऽत्र तु वार्यते ॥ ९ ॥
अन्वयः—यस्मात् आहारात् विना सर्वप्राणभृतां स्थितिः नास्ति, तस्मात् आहारः
न दुष्यति, अत्र तु विकल्पः वार्यते ॥ ९ ॥
व्याख्या-यस्मात् = येन कारणेन, आहारात् = भोजनात्, विना = रहिते सति,
सर्वप्राणभृताम् = सर्वेषां जीवधारिणाम्, स्थितिः = विद्यमानता, नास्ति = न भवति,
तस्मात् = तेन कारणेन, आहारः = भोजनम्, न = नहि, दुष्यति = दोषयुक्तो भवति,
अत्र तु = अस्मिन्विषये तु, विकल्पः = भ्रमः, वार्यते = निषिद्धो भवति ॥ ९ ॥
हिन्दी-चूंकि भोजन के बिना कोई प्राणी जीवित नहीं रह सकता, अतः
भोजन में कोई दोष नहीं है, किन्तु भोजन में विकल्प अर्थात् चुनाव निषिद्ध है ॥९॥
न ह्येकविषयेऽन्यत्र सज्यन्ते प्राणिनस्तथा ।
अविज्ञाते यथाऽऽहारे बोद्धव्यं तत्र कारणम् ॥ १० ॥

२७२ सौन्दरनन्द महाकाव्यम्
अन्वयः—हि प्राणिनः अन्यत्र एकविषये तथा न सज्यन्ते, यथा अविज्ञाते आहारे
तत्र कारणं बोध्यम् ॥ १० ॥
व्याख्या—हि=यतः, प्राणिनः=जीवाः, अन्यत्र=अपरस्मिन्, एकविषये=
एकस्मिन् वस्तुनि, तथा=तेन रूपेण, न=नहि, सज्यन्ते=आकर्षिता भवन्ति, यथा=
येन रूपेण, अविज्ञाते=अपरिचिते (पदमिदं चिन्त्यमस्ति ), आहारे=भक्ष्ये, तत्र
=तस्मिन् विषये, कारणम्=हेतुः, बोद्धव्यम्=ज्ञातव्यमिति ॥ १० ॥
हिन्दी—कोई प्राणी किसी दूसरे विषय में उतना आकर्षित नहीं होते, जितना
कि अपरिचित भोजन में, इसका कारण जानना चाहिए ॥ १० ॥
चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।
क्षुद्विघातार्थमाहारस्तद्वत् सेव्यो मुमुक्षुणा ॥ ११ ॥
अन्वयः—व्रणी यथा चिकित्सार्थं व्रणस्यालेपनं धत्ते, तद्वत् क्षुद्विघातार्थं मुमुक्षुणा
आहारः सेव्यः ॥ ११ ॥
व्याख्या—व्रणी=प्रहृतः, यथा=येन प्रकारेण, चिकित्सार्थम्=उपचाराय,
व्रणस्यालेपनम्=क्षतस्य लेपनम्, धत्ते=धारयति, तद्वत्=तथैव, क्षुद्विघातार्थम्=
बुभुक्षाशमनार्थम्, मुमुक्षुणा=मुक्तिमिच्छुना, आहारः=भोजनम्, सेव्यः=सेवनीयः।
हिन्दी—जैसे घायल आदमी घाव की चिकित्सा के लिए मलहम लगाता है, उसी
तरह मुक्ति चाहने वाले को भूख मिटाने के लिए ही भोजन करना चाहिए ॥ ११ ॥
भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा ।
भोजनं प्राणयात्रार्थं तद्वद्विद्वान्निषेवते ॥ १२ ॥
अन्वयः—यथा च भारस्य उद्वहनार्थं रथाक्षः अभ्यज्यते, तद्वत् विद्वान् प्राणयात्रार्थं
भोजनं निषेवते ॥ १२ ॥
व्याख्या—यथा=येन प्रकारेण, च=पुनः, भारस्य=भारकस्य, उद्वहनार्थम्=
उपनयार्थम्, रथाक्षः—रथस्य=स्यन्दनस्य, अक्षः=ध्रुवः, अभ्यज्यते=मसृणा लिप्यते,
तद्वत्=तेनैव प्रकारेण, विद्वान्=पण्डितः, प्राणयात्रार्थम्=जीवनयापनार्थम्, भोजनम्=
भक्ष्यम्, निषेवते=सेवते ॥ १२ ॥
हिन्दी—जैसे भार ढोने के लिए गाड़ी के चक्के में ग्रीस लगायी जाती हैं, उसी
तरह विद्वान् जीवन-यात्रा के लिए ही भोजन करते हैं ॥ १२ ॥
समतिक्रमणार्थं च कान्तारस्य यथाऽध्वगौ ।
पुत्रमांसानि खादेतां दम्पती भृशदुःखितौ ॥ १३ ॥
अन्वयः—यथा च कान्तारस्य समतिक्रमणार्थं भृशदुःखितौ अध्वगौ दम्पती पुत्र-
मांसानि खादेताम् ॥ १३ ॥
व्याख्या—यथा=येन प्रकारेण, च=पुनः, कान्तारस्य=गहनवनस्य ('कान्तारं
गहनं वनमि'त्यमरः।), समतिक्रमणार्थम्=पारं गन्तुम्, भृशदुःखितौ=अत्यधिकपीडितौ,

आदिप्रस्थानः ] चतुर्दशः सर्गः २७३
अध्वगौ—अध्वानं गच्छत इति अध्वगौ = यात्रिणौ, दम्पती — जाया=पत्नी, च पतिश्च=
स्वामी च, दम्पती, पुत्रमांसानि — पुत्रस्य मांसानि = पीशितानि, खादेताम् = भक्षये-
ताम् । अत्र विध्यर्थे लट्लकारात् बोधो भवति यद् जीवनयापनार्थं पुत्रमांसभक्षणमपि
वैध एव, तथापि श्लोकस्यास्य विधेयः पुत्रमांसभक्षणं नास्ति, प्रत्युत जीवनयापनार्थ-
मुचितभोजनमावश्यकमिति ॥ १३ ॥
हिन्दी—जैसे यात्री दम्पती गहन वन पार करने के लिए अपने बेटे का भी मांस
अत्यन्त दुःखी होकर भी खाए ॥ १३ ॥
एवमभ्यवहर्तव्यं भोजनं प्रतिसङ्ख्यया ।
न भूषार्थं न वपुषे न प्रदाय न दृप्तये ॥ १४ ॥
अन्वयः — एवं प्रतिसङ्ख्यया भोजनम् अभ्यवहर्तव्यम्, न भूषार्थं न वपुषे न
मदाय दृप्तये ॥ १४ ॥
व्याख्या—एवम् = अनेन रूपेण, प्रतिसङ्ख्यया = ज्ञात्वा नियमपूर्वकेन, भोजनम् =
भक्षणम्, अभ्यवहर्तव्यम् = कर्तव्यम्, न = नहि, भूषार्थम् = भूषणार्थम्, न = नहि,
वपुषे = शरीरसौन्दर्याय, न = नहि, मदाय = दर्पाय, दृप्तये = औद्धत्याय, अभ्यव-
हर्तव्यम् ॥ १४ ॥
हिन्दी—उसी तरह सोच-समझकर भोजन करना चाहिए । शोभा, सौन्दर्य, मद
या शौण्डता के लिए नहीं खाना चाहिए ॥ १४ ॥
धारणार्थं शरीरस्य भोजनं हि विधीयते ।
उपस्तम्भः पिपतिषोर्दुर्बलस्येव वेश्मनः ॥ १५ ॥
अन्वयः — शरीरस्य धारणार्थं हि भोजनं विधीयते, पिपतिषोः दुर्बलस्य वेश्मनः
उपस्तम्भ इव ॥ १५ ॥
व्याख्या—शरीरस्य = देहस्य, धारणार्थम् = पालनार्थम्, हि = यतः, भोजनम् =
अशनम्, विधीयते = क्रियते, पिपतिषोः = पतिष्यतः, दुर्बलस्य = निर्बलस्य, वेश्मनः =
सदनस्य, उपस्तम्भ = आधारयूपः, इव = वत् ॥ १५ ॥
हिन्दी—देह की रक्षा के लिए ही भोजन विहित है, जैसे गिरते हुए जीर्ण घर
की रक्षा के लिए आधारस्तम्भ लगाया जाता है ॥ १५ ॥
प्लवं यत्नाद्यथा कश्चिद् बध्नीयाद्धारयेदपि ।
न तत्स्नेहेन यावत्तु महौघस्योत्तितीर्षया ॥ १६ ॥
अन्वयः—यथा कश्चित् प्लवं यत्नात् बध्नीयात् धारयेत् अपि न तत् स्नेहेन यावत्तु
महौघस्य उत्तितीर्षया ॥ १६ ॥
व्याख्या—यथा = येन प्रकारेण, कश्चित् = कोऽपि नरः, प्लवम् = तरणीम्,
यत्नात् = प्रयासपूर्वकात्, बध्नीयात् = सर्जनं कुर्यात्, धारयेत् = धारणमपि कुर्यात्,
न = नहि, तत् = नौकायाः, स्नेहेन = प्रेम्णा, यावत्तु = अपि तु, महौघस्य = महाप्ला-
वनस्य, उत्तितीर्षया = तर्तुमिच्छयेति ॥ १६ ॥

२७४ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जैसे कोई आदमी प्रयत्नपूर्वक नाव बनाता है, नाव के प्रति स्नेह के
कारण नहीं बल्कि बाढ़ से अपने बचाव के लिए ही ( बनाता है ) ॥ १६ ॥
तथोपकरणैः कायं धारयन्ति परीक्षकाः ।
न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया ॥ १७ ॥
अन्वयः—तथा परीक्षकाः तत्स्नेहेन कायं न यावत्तु दुःखौघस्य तितीर्षया उप-
करणैः धारयन्ति ॥ १७ ॥
व्याख्या—तथा=तद्वत्, परीक्षकाः=दार्शनिकाः, कायम् = पाञ्चभौतिकशरीरम्,
तत्स्नेहेन = देहप्रेम्णा, न=नहि, यावत्तु=प्रत्युत तु, दुःखौघस्य = क्लेशार्णवस्य, तितीर्षया
=तर्तुमिच्छया, उपकरणैः= अन्नादिसाधनैः, धारयन्ति = धारणं कुर्वन्ति ॥ १७ ॥
हिन्दी—ठीक उसी तरह जैसे योगाभ्यासी जन इस पाञ्चभौतिक शरीर को
उसके स्नेह से नहीं, प्रत्युत दुःखरूपी सागर को पार करने की इच्छा से अन्नादि उप-
करणों का सेवन करते हैं ॥ १७ ॥
शोचता पीड्यमानेन दीयते शत्रवे यथा ।
न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये ॥ १८ ॥
अन्वयः—यथा पीड्यमानेन शत्रवे न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये शोचता
दीयते ॥ १८ ॥
व्याख्या—यथा = येन रूपेण, पीड्यमानेन = क्लिश्यमानेन, शत्रवे = रिपवे, न =
नहि, भक्त्या = श्रद्धया, नापि = न तु, तर्षेण = तृष्णया, केवलम् = एकमात्रमेव,
प्राणगुप्तये = जीवनरक्षार्थम्, प्राणानां गुप्तिस्तस्यै, शोचता = शोकं कुर्वता, दीयते =
प्रयच्छते ॥ १८ ॥
हिन्दी—जैसे सताये जाने के बावजूद कोई व्यक्ति शत्रु को जो कुछ देता है वह
न तो श्रद्धा से और न इच्छा से, प्रत्युत प्राणरक्षा के निमित्त शोक करते हुए देता
है ॥ १८ ॥
योगाचारस्तथाऽऽहारं शरीराय प्रयच्छति ।
केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ १९ ॥
अन्वयः—यथा योगाचारः शरीराय न रागेण न भक्तये केवलं क्षुद्विघातार्थम्
आहारम् प्रयच्छति ॥ १९ ॥
व्याख्या—यथा = येन प्रकारेण, योगाचारः = योगाभ्यासी, शरीराय = देहाय,
न = नहि, रागेण = आसक्त्या, न = नहि, भक्तये = श्रद्धायै, केवलम् = एकमेव, क्षुद्वि-
घातार्थम् = बुभुक्षाशान्त्यर्थम्, आहारम् = भोजनम्, प्रयच्छति = ददाति ॥ १९ ॥
हिन्दी—उसी प्रकार योगाभ्यासी अपनी देह को भक्ति या स्नेह से नहीं, बल्कि
भूख मिटाने के लिए ही भोजन देता है ॥ १९ ॥
मनोधारणया चैव परिणाम्यात्मवानहः ।
विधूय निद्रां योगेन निशामप्यतिनामयेः ॥ २० ॥

आदिप्रस्थानः ] चतुर्दशः सर्गः २७५
अन्वयः—आत्मवान् अहः मनोधारणया चैव परिणाम्य निद्रां विधूय योगेन
निशाम् अतिनामयेः ॥ २० ॥
व्याख्या—आत्मवान् = आत्मस्थः, अहः = दिनम्, मनोधारणया = मनोनियन्त्रणेन,
चैव = पुनः, परिणाम्य = व्यतीत्य, निद्राम् = स्वापम्, विधूय = निरादृत्य, योगेन =
योगाभ्यासेन, निशामपि = रजनीमपि, अतिनामयेः = यापयेः ॥ २० ॥
हिन्दी—आत्मस्थ होकर मनोनिग्रह के द्वारा दिन बिताकर नींद छोड़कर रात
को भी योगाभ्यास में ही बिताओ ॥ २० ॥
हृदि यत्संज्ञिनश्चैव निद्रां प्रादुर्भवेत् तव ।
गुणवत् संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ २१ ॥
अन्वयः—यत् संज्ञिनः तव हृदि निद्रां चैव प्रादुर्भवेत्, तदा संज्ञां गुणवत् संज्ञितां
मनसि मा कृथाः ॥ २१ ॥
व्याख्या—यत् = यदा, संज्ञिनः = संज्ञावतः, तव = भवतः, हृदि = चेतसि, निद्राम् =
स्वापम्, चैव, प्रादुर्भवेत् = समुत्पन्नो भवेत्, तदा = तस्मिन् काले, संज्ञाम् = चेतनाम्,
गुणवत् = गुणोपेतस्य, संज्ञिताम् = चेतनाम्, मनसि = चेतसि, मा = इति निषेधे,
कृथाः = जानीहि ॥ २१ ॥
हिन्दी—चैतन्य रहने के बावजूद भी यदि तुम्हारे मन में नींद की उत्पत्ति हो
तो चेतना को उत्तम चेतना मत जानो ॥ २१ ॥
धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि ।
नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया ॥ २२ ॥
अन्वयः—निद्रया बाध्यमानेन ते मनसि आरम्भधृत्योः स्थामविक्रमयोः अपि
धातुः नित्यं कार्यः ॥ २२ ॥
व्याख्या—निद्रया = स्वापेच्छया, बाध्यमानेन = क्लिश्यमानेन, ते = तव, मनसि =
हृदि, आरम्भधृत्योः—आरम्भश्च = उद्योगश्च, धृतिश्च = धैर्यञ्च, तयोः, स्थामविक्रमयोः
—स्थामश्च = शक्तिश्च, विक्रमश्च = पराक्रमश्च, तयोः, अपि = चेत्, धातुः = तत्त्वम्,
नित्यम् = सर्वदा, कार्यः = विधेयः ॥ २२ ॥
हिन्दी—नींद से पीड़ित होने पर उद्योग और धैर्य तथा शक्ति और पराक्रम के
तत्त्वों का अपने मन में चिन्तन करो ॥ २२ ॥
आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः ।
परेभ्यश्चोपदेष्टव्याः सञ्चिन्त्याः स्वयमेव च ॥ २३ ॥
अन्वयः—ये धर्माः परिश्रुताः ते च विशदम् आम्नातव्याः परेभ्यश्च उपदेष्टव्याः
स्वयमेव सञ्चिन्त्याः ॥ २३ ॥
व्याख्या—ये = केचन, धर्माः = नियमाः, परिश्रुताः = आकर्णिताः, ते च =
पूर्वोक्ताः धर्माश्च, विशदम् = स्फुटम्, आम्नातव्याः = व्याख्यातव्याः, परेभ्यश्च =

२७६ सौन्दरनन्दं महाकाव्यम्
अपरेभ्यश्च, उपदेष्टव्याः = प्रवक्तव्याः, स्वयमेव = आत्मनैव, च सञ्चिन्त्याः = चिन्त-
नीयाः ॥ २३ ॥
हिन्दी—जिन धर्मों को तुमने सुना है, उनका स्पष्ट पाठ करो, दूसरों को उपदेश
दो और स्वयं चिन्तन करो ॥ २३ ॥
प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः ।
चार्या दृष्टिश्च तारासु विजागरिषुणा सदा ॥ २४ ॥
अन्वयः—विजागरिषुणा सदा अद्भिः वदनं प्रक्लेद्यं सर्वतः दिशः विलोक्याः
तारासु च दृष्टिः चार्याः ॥ २४ ॥
व्याख्या —विजागरिषुणा = जागरणमिच्छुना, सदा = सर्वदा, अद्भिः = सलिलेन,
वदनम् = आननम्, प्रक्लेद्यम् = आर्द्रीकरणीयम्, सर्वतः = अभितः, दिशः = आशाः,
विलोक्याः = दर्शनीयाः, च = पुनः, तारासु = नक्षत्रेषु, दृष्टिः = चक्षुः, चार्याः =
कर्त्तव्याः ॥ २४ ॥
हिन्दी—हमेशा जगे रहने की इच्छा रखने वालों को पानी से मुंह को भिगोना
चाहिए, चारों ओर नजर घुमाकर तारों की ओर देखना चाहिए ॥ २४ ॥
अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः ।
अविक्षिप्तेन मनसा चङ्क्रम्य आस्व वा निशि ॥ २५ ॥
अन्वयः—अन्तर्गतैः अचपलैः वशस्थायिभिः इन्द्रियैः अविक्षिप्तेन मनसा निशि
चङ्क्रम्य आस्व वा ॥ २५ ॥
व्याख्या —अन्तर्गतैः = अन्तर्मुखैः, अचपलैः = अचञ्चलैः, वशस्थायिभिः = वशीकृतैः,
इन्द्रियैः = करणैः, अविक्षिप्तेन = शमेन, मनसा = चित्तेन, निशि = रात्रौ, चङ्क्रम्य =
परिभ्रमणं कृत्वा, आस्व वा = आहोस्वित् तिष्ठ ॥ २५ ॥
हिन्दी—इन्द्रियों को अन्तर्मुख, स्थिर और वशवर्ती बनाकर शान्त चित्त से
चहलकदमी करो या बैठे रहो ॥ २५ ॥
भये प्रीतौ च शोके च निद्रया नाभिभूयते ।
तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम् ॥ २६ ॥
अन्वयः—भये प्रीतौ शोके च निद्रया न अभिभूयते, तस्मात् निद्राभियोगेषु इदं
त्रयं सेवितव्यम् ॥ २६ ॥
व्याख्या —भये = भीतौ, प्रीतौ = अनुरक्तौ, च = पुनः, शोके च = चिन्तायाम्,
निद्रया = स्वापेच्छया, नाभिभूयते = न पराजयते, तस्मात् = तेन हि, इदम् = एतत्,
त्रयम् = भयप्रीतिशोकाश्च, सेवितव्यम् = उपासनीयमिति ॥ २६ ॥
हिन्दी—डर, प्रेम और शोक में मनुष्य नींद के वश में नहीं होता है, अतः नींद
आने पर इन तीनों का सेवन करना चाहिए ॥ २६ ॥

आदिप्रस्थानः ] चतुर्दशः सर्गः २७७
भयमागमानान्मृत्योः प्रीति धर्मपरिग्रहात् ।
जन्मदुःखादपर्यन्ताच्छोकमागन्तुमर्हसि ॥ २७ ॥
अन्वयः—मृत्योः आगमनात् भयं धर्मपरिग्रहात् प्रीतिम् अपर्यन्तां जन्मदुःखात्
शोकम् आगन्तुम् अर्हसि ॥ २७ ॥
व्याख्या—मृत्योः = कृतान्तस्य, आगमनात् = समागतेः, भयम् = भीतिः, धर्म-
परिग्रहात् = धर्मस्य = नियमस्य, परिग्रहः = ग्रहणम्, तस्मात्, प्रीतिम् = अनुरक्तिम्,
अपर्यन्ताम् = अनन्तात्, जन्मदुःखात् = जन्मनः = उत्पत्तेः, दुःखात् = कष्टात्, शोकम्
= परितापः, आगन्तुम् = प्राप्तुम्, अर्हसि = योग्योऽसि । जन्ममरणादधिकं किमपि
कष्टमस्मिन् संसारे नास्ति तथाऽनन्तमिदं जन्म-मरणचक्रमस्ति ॥ २७ ॥
हिन्दी—'मौत आ रही है' इससे डर, 'धर्म ग्रहण कर रहा हूँ' इससे प्रेम और
'जन्म एवं मृत्यु का चक्र अनन्त है' इसके लिए शोक करना चाहिए ॥ २७ ॥
एवमादिः क्रमः सौम्य ! कार्यो जागरणं प्रति ।
वन्ध्यं हि शयनादायुः कः प्राज्ञः कर्तुमर्हति ॥ २८ ॥
अन्वयः—सौम्य ! एवमादिः क्रमः जागरणं प्रतिका र्यः कः प्राज्ञः शयनात् हि
आयुः वन्ध्यं कर्तुम् अर्हति ॥ २८ ॥
व्याख्या—सौम्य = हे प्रियदर्शन ! एवमादिः = इत्यादिः, क्रमः = विधिः, जागरण-
म्प्रति = प्रजागरम्प्रति, कार्यः = अनुष्ठेयः, कः प्राज्ञः = को हि धीमान्, शयनात् =
संवेशात्, हि = यतः, आयुः = वयः, वन्ध्यम् = निष्फलम्, कर्तुम् = विधातुम्, अर्हति =
योग्यो भवति । न कोऽपीत्यर्थः ॥ २८ ॥
हिन्दी—हे साधु ! जागरण के लिए इसी क्रम का ऐसा ही सेवन करना चाहिए,
क्योंकि कौन बुद्धिमान् व्यक्ति सोकर अपनी आयु गवाना चाहेगा ॥ २८ ॥
दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव ।
क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद्भयम् ॥ २९ ॥
अन्वयः—गृहगतान् व्यालान् इव दोषव्यालान् अतिक्रम्य महद्भयं निस्तितीर्षोः
प्राज्ञस्य स्वप्तुं न क्षमम् अस्ति ॥ २९ ॥
व्याख्या—गृहगतान् = गृहे = गेहे, गतः = प्राप्तान्, व्यालान् = उरगान्, इव =
यथा, दोषव्यालान् = पातकभुजङ्गमान्, अतिक्रम्य = अवहेलनां कृत्वा, महद्भयम् =
अतिशयत्रासम्, निस्तितीर्षोः = तर्तुमिच्छोः, प्राज्ञस्य = धीमतः, स्वप्तुम् = शयनं
कर्तुम्, न क्षमम् = अनुचितमिति ॥ २९ ॥
हिन्दी—घर में घुसे साँपों की अवहेलना कर किसी समझदार आदमी के लिए
जैसे सोना उचित नहीं है, ठीक उसी तरह पापरूपी साँपों की अवहेलना कर महाभय
को पार करने की इच्छा करने वाले ज्ञानी के लिए सोना अनुचित है ॥ २९ ॥

२७८ सौन्दरनन्दं महाकाव्यम्
प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ ३० ॥
अन्वयः—प्रदीप्ते वेश्मनि इव मृत्युव्याधिजराग्निभिः प्रदीप्ते जीवलोके हि
निरुद्वेगः कः शयीत ? ॥ ३० ॥
व्याख्या—प्रदीप्ते = प्रज्वलिते, वेश्मनि = सदने, इव = यथा, मृत्युव्याधि-
जराग्निभिः = निधनोपतापवार्द्धक्यानलैः, प्रदीप्ते = सन्दीप्ते, जीवलोके = संसारे, हि
= यतः, निरुद्वेगः—निर्गतः = निष्क्रान्तः, उद्वेगः = मनोद्विग्नता, यस्य सः, कः शयीत =
कः स्वपेत् ? न कोऽपीति भावः । मृत्युश्च व्याधिश्च जरा च ता एवाग्नयस्तैरित्यत्र
रूपकालङ्कारः ॥ ३० ॥
हिन्दी—जलते हुए घर में जैसे कोई भी आदमी निश्चिन्त होकर नहीं सो
सकता, उसी तरह मौत, व्याधि और जरारूपी आग से जलते जीवलोक में कौन
निर्भय होकर सोयेगा ॥ ३० ॥
तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि ।
अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुपु ॥ ३२ ॥
अन्वयः—तस्मात् सशस्त्रेषु शत्रुपु इव दोषेषु अप्रशान्तेषु निद्रां तम इति ज्ञात्वा
आवेष्टुं न अर्हसि ॥ ३१ ॥
व्याख्या—तस्मात् = तेन हेतुना, सशस्त्रेषु = शस्त्रयुक्तेषु, शत्रुपु = रिपुषु, इव =
यथा, दोषेषु = दुर्गुणेषु, अप्रशान्तेषु = शान्तिरहितेषु, निद्राम् = स्वापम्, तम इति =
तमिस्र इति, ज्ञात्वा = अवगम्य, आवेष्टुम् = संयमितुम्, न = नहि, अर्हसि =
योग्योऽसि ॥ ३१ ॥
हिन्दी—अतः जब तक हथियारबन्द दुश्मनों की तरह तुम्हारे दोष शान्त नहीं
हो जाते, तब तक नींद को अन्धकार समझकर अपने को उसके वशीभूत न होने
दो ॥ ३१ ॥
पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ ३२ ॥
अन्वयः—त्रियामायाः पूर्वं यामं तु प्रयोगेण अतिनाम्य स्वतन्त्रिणा शरीरस्य
विश्रामार्थं शय्या सेव्या ॥ ३२ ॥
व्याख्या—त्रियामायाः = रात्र्याः, पूर्वम् = प्राक्, यामम् = प्रहरम्, तु = किन्तु,
प्रयोगेण = योगाभ्यासेन, अतिनाम्य = व्यतीत्य, स्वतन्त्रिणा = स्वस्य=आत्मनः, तन्त्रम्
= अधीनता, स्वतन्त्रम्, तदस्ति अस्य तेनात्मवशीन्द्रियेण, शरीरस्य = देहस्य, विश्वा-
मार्थम् = श्रमोपशमनार्थम्, शय्या = आस्तरः, सेव्या = सेवनीयेति ॥ ३२ ॥
हिन्दी—तीन पहरवाली रात के पहले पहर में योगाभ्यास करना चाहिए, दूसरे
पहर में शारीरिक विश्राम के लिए बिछावन पर जाना चाहिए ॥ ३२ ॥

आदिप्रस्थानः ] चतुर्दशः सर्गः २७९
दक्षिणेन तु पार्श्वेन स्थितयाऽऽलोकसंज्ञया ।
प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ ३३ ॥
अन्वयः—दक्षिणेन पार्श्वेन तु स्थितया आलोकसंज्ञया हृदये प्रबोधं कृत्वा
शान्तमानसः शयीथाः ॥ ३३ ॥
व्याख्या—दक्षिणेन = सव्येतरेण, पार्श्वेन = कक्षाधोभागेन, तु = इति पादपूर्त्यर्थम्,
स्थितया = विद्यमानतया, आलोकसंज्ञया = प्रभावभावनया, हृदये = चित्ते, प्रबोधम् =
ज्ञानम्, कृत्वा = विधाय, शान्तमानसः = स्वस्थचेतसः, शयीथाः = शयनं कुर्याः ॥३३॥
हिन्दी—दाईं करवट से दिव्य प्रभा की भावना करते हुए, हृदय में ज्ञान रख-
कर शान्तचित्त होकर सो जाओ ॥ ३३ ॥
यामे तृतीये चोत्थाय चरन्नासीन एव वा ।
भूयो योगं मनः शुद्धौ कुर्वीथा नियतेन्द्रियः ॥ ३४ ॥
अन्वयः—तृतीये यामे च उत्थाय चरन् आसीनः एव वा नियतेन्द्रियः भूयः मनः
शुद्धौ योगं कुर्वीथाः ॥ ३४ ॥
व्याख्या—तृतीये = उक्तसङ्ख्ये, यामे = प्रहरे, च = पुनः, उत्थाय = सज्जीभूत्वा,
चरन् = परिभ्रमन्, आसीनः = उपविष्टः, एव वा नियतेन्द्रियः—नियतानि = संयतानि,
इन्द्रियाणि = करणानि, यस्य सः, भूयः = पुनः, मनः = चेतः, शुद्धौ = नैर्मल्ये, योगम्
= मोक्षोपायः, कुर्वीथाः = कुर्याः ॥ ३४ ॥
हिन्दी—और तीसरे पहर में उठकर टहलते हुए या बैठे हुए ही, संयतेन्द्रिय
होकर चित्तशुद्धि में पुनः योगारूढ़ हो जाओ ॥ ३४ ॥
अथासनगतस्थानप्रेक्षितव्याहृतादिषु ।
सम्प्रजानन् क्रियाः सर्वाः स्मृतिमाधातुमर्हसि ॥ ३५ ॥
अन्वयः—अथ आसनगतस्थानप्रेक्षितव्याहृतादिषु सर्वाः क्रियाः सम्प्रजानन् स्मृतिम्
आधातुम् अर्हसि ॥ ३५ ॥
व्याख्या—अथ = अनन्तरम्, आसनगतस्थानप्रेक्षितव्याहृतादिषु—आसनः =
स्थितिः, गतः = चलनम्, स्थानम् = स्थलम्, प्रेक्षितम् = अवलोकनम्, व्याहृतादिषु =
सम्भाषणादिषु, सर्वाः = अखिलाः, क्रियाः = कृत्याः, सम्प्रजानन् = सम्यगवबोधयन्,
स्मृतिम् = अनुचिन्तनम्, आधातुम् = स्थिरीकर्तुम्, अर्हसि = योग्योऽसि ॥ ३५ ॥
हिन्दी—इसके बाद बैठते हुए, खड़ा होते हुए, कहते हुए, देखते हुए आदि सभी
कार्यों को अच्छी तरह जानते हुए अपनी स्मृति को स्थिर करो ॥ ३५ ॥
द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिताः स्मृतिः ।
धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः ॥ ३६ ॥
अन्वयः—द्वारि द्वाराध्यक्ष इव यस्य स्मृतिः प्रणिहिताः दोषाः तम् अरयः गुप्तं
पुरम् इव न धर्षयन्ति ॥ ३६ ॥

२८० सौन्दरनन्दं महाकाव्यम्
व्याख्या—द्वारि = प्रतिहारे, द्वाराध्यक्षः = द्वारपालः, इव = यथा, यस्य = लोक-
स्य, स्मृतिः = अनुचिन्तनम्, प्रणिहिताः = अचञ्चलाः, दोषाः = पापाः, तम् = पूर्वोक्तम्,
अरयः = रिपवः, गुप्तम् = संरक्षितम्, पुरमिव = नगरवत्, न = नहि, धर्षयन्ति =
आक्रमन्ते ॥ ३६ ॥
हिन्दी—दरवाजे पर नियुक्त द्वारपाल की तरह जिसका अनुचिन्तन स्थिर है, उस
पर पापों का प्रहार नहीं होता है; ठीक उसी तरह जैसे सभी ओर से सुरक्षित नगर
पर शत्रुओं का आक्रमण नहीं होता है ॥ ३६ ॥
न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।
चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति ॥ ३७ ॥
अन्वयः—तस्य क्लेशः न उत्पद्यते, यस्य कायगता स्मृतिः सर्वासु अवस्थासु चित्तं
धात्री बालम् इव रक्षति ॥ ३७ ॥
व्याख्या—तस्य = जनस्य, क्लेशः = पीडा, न = नहि, उत्पद्यते = समुत्पन्नो भवति,
यस्य = जनस्य, कायगता—काये = शरीरे, गता = प्राप्ता, स्मृतिः = स्मरणम्, सर्वासु
= अखिलासु, अवस्थासु = स्थितिषु, चित्तम् = हृदयम्, धात्री = उपमाता, बालम् =
शिशुम्, इव = यथा, रक्षति = रक्षां करोति ॥ ३७ ॥
हिन्दी—उस मनुष्य को कभी कष्ट नहीं होता, जिसकी देह में लगी स्मृति सभी
अवस्थाओं में उसके चित्त की उसी तरह रक्षा करती है, जैसे धाई किसी बालक
की ॥ ३७ ॥
शरव्यः-स तु दोषाणां यो हीनः स्मृतिवर्मणा ।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ ३८ ॥
अन्वयः—तु दोषाणां शरव्यः सः यः स्मृतिवर्मणा हीनः प्रतिशत्रूणां वर्मणा विहीनः
रणस्थः इव ॥ ३८ ॥
व्याख्या—तु = किन्तु, दोषाणाम् = विकाराणाम्, शरव्यः = लक्ष्यः, सः =
पूर्वोक्तः, यः = जनः, स्मृतिवर्मणा—स्मृतिः = अवध्यानम्, एव वर्म = कवचम्, यस्य
तेन, हीनः = रहितः, प्रतिशत्रूणाम् = प्रतिपक्षरिपूणाम्, वर्मणा = कवचेन, विहीनः =
रहितः, रणस्थः—रणे = युद्धाङ्गने, तिष्ठतीति रणस्थः = योद्धा, इव = वत्, इति ।
रूपकालङ्कारः ॥ ३८ ॥
हिन्दी—स्मृतिरूपी कवच से विहीन व्यक्ति ही विकारों का लक्ष्य बनता है।
जैसे प्रतिपक्षी शत्रुओं का लक्ष्य वही योद्धा होता है, जो कवच-विहीन है ॥ ३८ ॥
अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति ।
निर्णेता दृष्टिरहितो विषमेषु चरन्निवं ॥ ३९ ॥
अन्वयः—यत् मनः स्मृतिः न अभिरक्षति, तत् अनाथं ज्ञेयं दृष्टिरहितः विषमेषु
चरन् निर्णेता इव ॥ ३९ ॥

स्वभूमिषु = स्वकीयक्षेत्रेषु, ये च सर्वे = सकलाः,`

  • L23: शीलादयः गुणाः = सद्विचाराः, स्थिताः = विद्यमानाः, तान् = पूर्वोक्तान्, गोपः =
  • L24: गोपालकः, विकीर्णाः = विक्षिप्ताः, गाः = धेनूः, इव = यथा, अनुसरति = अनुसरण
    Wait! In L24, does it say अनुसरति = अनुसरण?
    Let's read L24 carefully:
    गोपालकः, विकीर्णाः = विक्षिप्ताः, गाः = धेनूः, इव = यथा, अनुसरति = अनुसरण -> wait!
    Look at अनुसरति:
    अ नु ग च् छ ति!
    Wait! Pratika is अनुगच्छति!
    Let's look at L24:
    इव = यथा, अनुगच्छति = अनुसरणं
    Wait, look at the letters after यथा, :
    अ नु ग च्छ ति?
    Wait, look at the third letter:
    Is it स or ग?
    Let's look at अनुसरति:
    अ नु स

२८२ सौन्दरनन्दं महाकाव्यम्
चिन्तनम्, कायगता = देहस्था, तस्य = पुरुषस्य, अमृतम् = श्रेयः, हस्तस्थम् = कर-
स्थमेवेति, स्मृतिभ्रंशाद् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ॥ ४२ ॥
हिन्दी—जिसकी बुद्धि वहकी है उसका कल्याण विनष्ट हो गया, जिसकी बुद्धि
साथ में है उसका कल्याण भी उसीके हाथ में है ॥ ४२ ॥
आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते ।
यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः ॥ ४३ ॥
अन्वयः—यस्य स्मृतिः न विद्यते तस्य आर्यः न्यायः कुतः ? यस्य च आर्यः न्यायः
नास्ति तस्य सत्पथः प्रनष्टः ॥ ४३ ॥
व्याख्या—यस्य = पुरुषविशेषस्य, स्मृतिः = बुद्धिः, न = नहि, विद्यते = अस्ति,
तस्य = जनस्य, आर्यः = भद्रम्, न्यायः = धर्मः, कुतः = क्व, यस्य = जनस्य, च = पुनः,
आर्यः = कल्याणम् न्यायः = पक्षपातराहित्यम्, नास्ति = न विद्यते, तस्य = जनस्य,
सत्पथः = सन्मार्गः, प्रनष्टः = विशेषरूपेण नष्टो भवति ॥ ४३ ॥
हिन्दी—जिसको बुद्धि नहीं है उसका भद्र और न्याय कहाँ है ? जिसको कल्याण
और न्याय नहीं है उसका तो सन्मार्ग नष्ट हो गया ॥ ४३ ॥
प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् ।
प्रनष्टममृतं यस्य स दुःखान्न विमुच्यते ॥ ४४ ॥
अन्वयः—यस्य सन्मार्गः प्रनष्टः तस्य अमृतं पदं नष्टम्, यस्य अमृतं नष्टं सः
दुःखात् न विमुच्यते ॥ ४४ ॥
व्याख्या—यस्य = जनस्य, सन्मार्गः = सत्पथः, प्रनष्टः = विनष्टः, तस्य = जनस्य,
अमृतम् = मुक्तिम्, नष्टम् = विनष्टम्, सः = असौ, दुःखात् = जननमरणक्लेशात्, न
= नहि, विमुच्यते = मुक्ति लभते ॥ ४४ ॥
हिन्दी—जिसका सन्मार्ग नष्ट हो गया उसका अमृतपद विनष्ट हो गया, जिसका
अमृतपद नष्ट हो गया वह दुःख से छुटकारा नहीं पा सकता ॥ ४४ ॥
तस्माच्चरन् चरोऽस्मीति स्थितोऽस्मि चाधिष्ठितः ।
एवमादिषु कालेषु स्मृतिमाधातुमर्हसि ॥ ४५ ॥
अन्वयः—तस्मात् चरन् चरः अस्मि अधिष्ठितश्च स्थितः अस्मि, एवम् आदिषु
कालेषु स्मृतिम् आधातुम् अर्हसि ॥ ४५ ॥
व्याख्या—तस्मात् = तेन हेतुना, चरन् = भ्रमन्, चरः अस्मि = गच्छामि, अधि-
ष्ठितश्च = तिष्ठंश्च, स्थितः अस्मि = तिष्ठामीति, एवम् = इत्थम्, आदिषु कालेषु =
प्रारम्भिकसमयेषु, स्मृतिम् = बुद्धिम्, आधातुम् = स्थिरीकर्तुम्, अर्हसि = योग्यो-
ऽसि ॥ ४५ ॥
हिन्दी—इसलिए चलता हुआ 'चल रहा हूँ' खड़ा हुआ 'खड़ा हूँ'—ऐसे ही दूसरे
कार्य करते समय अपनी स्मृति को जगाये रखो ॥ ४५ ॥

आदिप्रस्थानः ] चतुर्दशः सर्गः २८३
योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य ! तथा भजस्व ।
कायस्य कृत्वा हि विवेकमादौ सुखोऽधिगन्तुं मनसो विवेकः ॥ ४६॥
अन्वयः—सौम्य ! योगानुलोमं विजनं तथा विशब्दं शय्यासनं भजस्व, हि आदौ
कायस्य विवेकं कृत्वा मनसः विवेकः अधिगन्तुं सुखः ( भवति ) ॥ ४६ ॥
व्याख्या—सौम्य ! = हे साधु ! योगानुलोमम्—योगावतरणम्, योगस्य = चित्त-
वृत्तिनिरोधस्य, अनुलोमम् = अनुकूलम्, विजनम् = निर्जनम्, जनशून्यं वा, विशब्दम्—
विगतः = निर्गतः, शब्दः = स्वनः, यस्य तत्, शय्यासनम् = शयनासनम्, भजस्व =
सेवस्व, हि = यतः, आदौ = प्रथमम्, कायस्य = देहस्य, विवेकम् = एकाग्रम्, कृत्वा =
विधाय, मनसः = चेतसः, विवेकः = सदसज्ज्ञानम्, अधिगन्तुम् = प्राप्तुम्, सुखः =
सुकरः, अस्ति । शारीरिकयोगपूर्वकं मानसिकयोगस्य प्रक्रिया सहजा स्वाभाविकी च
भवति ॥ ४६ ॥
हिन्दी—हे साधु ! योगानुकूल निर्जन और निःशब्द शय्या और आसन ग्रहण
करो, क्योंकि पहले देह को एकान्त में कर लेने पर मानसिक एकाग्रता सहज हो
जाती है ॥ ४६ ॥
अलब्धचेतःप्रशमंः सरागो यो न प्रचारं भजते विविक्तम् ।
स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम् ॥ ४७ ॥
अन्वयः—यः अलब्धचेतःप्रशमः सरागः विविक्तं प्रचारं न भजते, सः हि
अप्रतिलब्धमार्गः बहुकण्टकायाम् उर्व्यां चरन् इव क्षण्यते ॥ ४७ ॥
व्याख्या—यः = जनः, अलब्धचेतःप्रशमः—न = नहि, लब्धः = प्राप्तः, चेतसः =
मनसः, प्रशमः = शान्तिर्येन सः = अप्राप्तचित्तशमः, सरागः—रागेण = अनुरागेण,
सहितः = युक्तः, विविक्तम् = एकान्तम्, प्रचारम् = सततोपयोगम्, न = नहि,
भजते = सेवते, सः = असौ, हि = यतः, अप्रतिलब्धमार्गः—न = नहि, प्रतिलब्धः =
प्राप्तः, मार्गः = पथः, येन सः, बहुकण्टकायाम्—बहूनि = अत्याधिकानि, कण्टकानि =
शल्यानि, यस्यां सा तस्याम्, उर्व्याम् = भूम्याम्, चरन् = परिभ्रमन्, इव = यथा,
क्षण्यते = कष्टमनुभूयते ॥ ४७ ॥
हिन्दी—जो रागयुक्त है, एकान्तसेवी नहीं है, जिन्हें मानसिक शान्ति नहीं है—
वह सही रास्ता नहीं पा सकने के कारण कँटीली धरती पर चलते हुए की तरह कष्ट
का अनुभव करते हैं ॥ ४७ ॥
अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।
चित्तं निषेद्धुर्न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात् ॥ ४८ ॥
अन्वयः—चित्रे विषयप्रंचारे स्थितेन अदृष्टतत्त्वेन परीक्षकेण सस्यमध्यात्
कृष्टादकः गौः इव सुखेन चित्तं निषेद्धं न शक्यम् ॥ ४८ ॥

२८४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—चित्रे = अनेके, विषयप्रचारे = उपभोगमध्ये, स्थितेन = विद्यमानेन,
अदृष्टतत्त्वेन — न = नहि, दृष्टम् = अवलोकितम्, तत्त्वम् = सारम्, येन सः तेन,
परीक्षकेण = विचारकेण, सस्यमध्यात् = धान्यमध्यात्, कृष्टादकः—कृष्टस्य = सस्यस्य,
अदः = भक्षकः, स एव कृष्टादकः ( स्वार्थे कन् ), गौः = महोक्षः, इव = यथा, सुखेन
== सहजभावेन, चित्तम् = चेतसम्, निरोद्धुम् = अवरोद्धुम्, न = नहि, शक्यम् =
सम्भवम् ॥ ४८ ॥
हिन्दी—जिस जिज्ञासु ने तत्त्वदर्शन नहीं किया है और जो अनेक आसक्तियों के
बीच पड़ा है, वह अपने मन को आसानी से नहीं रोक सकता; जैसे खेत चरने वाले
साँड़ को आसानी से फसलों के बीच से नहीं हटाया जा सकता है ॥ ४८ ॥
अनीर्यमाणस्तु यथाऽनिलेन प्रशान्तिमागच्छति चित्रभानुः ।
अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिमुपैति चेतः ॥ ४९ ॥
अन्वयः—यथा अनिलेन अनीर्यमाणस्तु चित्रभानुः प्रशान्तिम् आगच्छति, तथा
विविक्तेषु अघट्टितं चेतः अल्पेन यत्नेन शान्तिम् उपैति ॥ ४९ ॥
व्याख्या—यथा = येन प्रकारेण, अनिलेन = पवनेन, अनीर्यमाणस्तु = अप्रेरितः
सन्, चित्रभानुः = अनलः, प्रशान्तिम् = निर्वापः, आगच्छति = प्राप्नोति, तथा = तेनैव
प्रकारेण, विविक्तेषु = निर्जनस्थानेषु, अघट्टितम् = निष्कम्पितम्, चेतः = चित्तः,
अल्पेन = स्तोकेन, यत्नेन = प्रयासेन, शान्तिम् = शमम्, उपैति = प्राप्नोतीति ॥ ४९ ॥
हिन्दी—जैसे हवा नहीं लगने पर आग बुझ जाती है, उसी तरह एकान्त में
कम्पन रहित चित्त थोड़े से प्रयास करने पर ही शान्ति पा लेता है ॥ ४९ ॥
क्वचिद् भुक्त्वा यत्तद्वसनमपि यत्तत् परिहितो
वसन्नात्मारामः क्वचन विजने योऽभिरमते ।
कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः
परेषां संसर्गं परिहरति यः कण्टकमिव ॥ ५० ॥
अन्वयः—क्वचित् यत्तद् भुक्त्वा यत्तत् वसनमपि परिहितः, क्वचन वसन् यः
आत्मारामः विजने अभिरमते, यः परेषां संसर्गः कण्टकमिव परिहरति, सः कृतमतिः
शमसुखरसज्ञः कृतार्थः ज्ञेयः ॥ ५० ॥
व्याख्या—क्वचित् = कुत्रापि, यत्तत् = यत्किञ्चिदपि, भुक्त्वा = खादित्वा, यत्तत्=
यत्किञ्चित्, वसनमपि = वस्त्रमपि, परिहितः = परिदधानः, सन्, क्वचन = कुत्रापि,
वसन् = निवसन्, यः = पुरुषविशेषः, आत्मारामः—आत्मनि = स्वस्मिन्, आरमन्ते =
आसन्तुष्टे, इति आत्मारामः = आत्मनि तुष्टः, विजने = जनशून्ये, अभिरमते=आनन्द-
मनुभूयते, यः = जनः, परेषाम् = अन्येषाम्, संसर्गः = सम्पर्कः, कण्टकमिव = शल्यमिव,
परिहरति = परित्यागं करोति, सः = असौ, कृतमतिः—कृता मतिर्यस्य सः = कृतधीः,
शमसुखरसज्ञः—शमस्य=शान्तेः, मुखम् = आननम्, तस्य रसम्=आनन्दम्, जानातीति,
कृतार्थः—कृतः = सम्पादितः, अर्थः = प्रयोजनम्, यस्य सः, ज्ञेयः = बोध्यः ॥ ५० ॥