सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 348, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 348

२९४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—सौम्य ! = हे साधुपुरुष ! मनःकर्मसु = मानसिकचिन्तनेषु, अविक्षेपम्—
न = नहि, विक्षेपम् = चित्तचाञ्चल्यम्, अभ्यस्तुम् = नित्याचरितुम्, अर्हसि = योग्यो-
ऽसि, अकुशलम् = अनिष्टकरचिन्तनम्, वितर्कयितुम् = चिन्तयितुमेव, न तु अर्हसि =
योग्योऽसि ॥ २२ ॥
हिन्दी-मानसिक चिन्तनों में चित्त चंचल न हो, इसका भी अभ्यास करना चाहिए,
हे साधु ! अनिष्टकर विचारों को तो तुम्हें अपने पास आने ही नहीं देना चाहिए ।२२।
या विकामोपभोगाय चिन्ता मनसि वर्तते ।
न च तं गुणमाप्नोति बन्धनाय च कल्पते ॥ २३ ॥
अन्वयः—विकामोपभोगाय या चिन्ता मनसि वर्त्तते न च तं गुणम् आप्नोति,
बन्धनाय च कल्पते ॥ २३ ॥
व्याख्या—विकामोपभोगाय = विविधः—अनेकविधः, कामः = विषयः, तस्य उप-
भोगः = सुखास्वादः, तस्मै, या चिन्ता = यदाध्यानम्, मनसि = चेतसि, वर्त्तते=विद्यते,
न च तम् = एतम्, गुणम् = धर्मः, आप्नोति = प्राप्नोति, बन्धनाय = बन्धाय, च
कल्पते = समर्थो भवति ॥ २३ ॥
हिन्दी—अनेकविध विषयोपभोग की जो चिन्ता मन में रहती है वह ठीक नहीं है,
उससे बन्धन होता है ॥ २३ ॥
सत्त्वानामपघाताय परिक्लेशाय चात्मनः ।
मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ २४ ॥
अन्वयः—सत्त्वानाम् उपघाताय आत्मनः परिक्लेशाय नरकाय च वर्त्तते, मोहं
कालुष्यं न व्रजति ॥ २४ ॥
व्याख्या—( अकुशलवितर्कः ) सत्त्वानाम = जीवानाम्, उपघाताय = विनाशाय,
आत्मनः = स्वस्य, परिक्लेशाय = दुःखाय, नरकाय = अधमलोकाय, च = पुनः, वर्त्तते
= विद्यते, मोहम् = अविद्या, कालुष्यम् = पापञ्च, व्रजति = गच्छति ॥ २४ ॥
हिन्दी—कुविचार से प्राणियों का विनाश होता है, आत्म-पीड़ा होती है, मोह
और पाप होता है तथा नरक मिलता है ॥ २४ ॥
तद्वितर्कैरकुशलैरात्मानं हन्तुमर्हसि ।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव ॥ २५ ॥
अन्वयः—गां खनन् मृद्धतः सुशस्त्रं रत्नविकृतम् इव अकुशलैः तद्वितर्कैः आत्मानं
हन्तुं न अर्हसि ॥ २५ ॥
व्याख्या—(अनवधानमनसा) गाम् = धरित्रीम्, खनन् = उत्पाटयन्, मृद्धतः = धूलि-
धूसरितो जनः, मृदः हतः, सुशस्त्रम् = सुष्ठुखनित्रम्, रत्नविकृतम् = पाषाणसम्पर्केण दोष-
युक्तं करोति, इव = यथा, अकुशलैः = दुष्टैः, तद्वितर्कैः = तद्विचारैः, आत्मानम् =
निजम्, हन्तुम् = विनष्टं कर्तुम्, न = नहि, अर्हसि = योग्योऽसि । अनवधानमनसा
पृथ्वीं खनन् जनः खनित्रमपि त्रोटयते, किन्तु हे सौम्य ! तत्सदृशं त्वं कुविचारैरात्मानं