सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

३२ रसगङ्गाधरः
उदाहरणम्—
शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥
अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य
च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः
शयितेत्यादि । शयितेति आदिकर्मणि भूते कर्त्तरिक्तः, आदिकर्म (व्यापार)-
मात्रस्यावसितत्वात् । यद्वा शयितमस्या अस्तीति मत्वर्थीयोऽच् प्रत्ययः । अतो
निरीक्षणकालेऽपि तद्व्यापारान्तरसद्भावात् शयानैव सेति तात्पर्यम् । शयनं चात्र
शय्यायां शरीरास्तरणमात्रं न निद्रापर्यन्तमिति निरीक्षत इत्यनेन सुव्यक्तमेव ।
तथा च दयितुः सविधे शयानाऽपि दयिता नवोढा प्रिया स्वमनोरथान् स्वान्त-
संस्थितान् शृङ्गारविलासविषयकाभिलाषान् सफलीकर्तुमनीश्वराऽसमर्था दरमी-
लन्मीलती सङ्कुचती नयने यस्यास्तथाविधा दयितुर्मुखकमलं निरीक्षत इति
पदार्थाः । अत्र सविधशयनस्य मनोरथसफलीकरणकारणस्य सत्त्वेऽपि कार्यस्य
मनोरथसफलीकरणस्याभावादाश्चर्यमहोशब्देन द्योत्यते । विशेषोक्त्यलङ्कारोऽत्र ।
अत्र व्यङ्ग्यमुपपादयति—अत्रेत्यादिना । एकान्तत्वाभावे जनान्तरोपस्थितौ
सविधशयनाऽसम्भवात् सविधशयनेनैकान्तस्थानमाक्षिप्यत इत्याह—सविधेत्यादि ।
आदिपदेन योग्यकालादिपरिग्रहः । तादृशेति । दयिताकर्तृकदरमीलन्नयनकरणक-
निरीक्षणस्य, दरमीलन्नयनविशिष्टदयिताकर्तृकनिरीक्षणस्य वा। त्रपेत्यादि । इयं च
दरमीलत्पदेन, औत्सुक्यं च निरीक्षणपदेन व्यज्यते । विभावानुभावौ त्वत्र वाच्या-
वेव । संयोगादित्यस्य सम्बन्धादित्यर्थः । न चायं वैशेषिकपरिभाषितः संयोगः,
तस्य द्रव्यमात्राश्रयत्वात् । तथा च विभावादीनां समेषां समवधानेन प्रकृतवाक्येन
व्यज्यते रतिः सम्भोगशृङ्गाराख्यो रसः प्रधानतयेति भवत्युत्तमोत्तमकाव्यत्वमस्येति
सन्दर्भार्थः । वक्ष्यत इत्यस्यास्मिन्नेवानन इति शेषः । तदिदं रसध्वनेरुदाहरणमिति
स्पष्टम् ।
उत्तमोत्तम काव्य का एक उदाहरण यह है—
“नवोढ़ा नायिका अपने प्रियतम के पास लेटी हुई है । फिर भी बड़े आश्चर्य
की बात है कि वह अपने मनोरथों को सफल बनाने में समर्थ नहीं हो पा रही है ।
ऐसी दशा में वह प्रियतम के मुखकमल को अर्धमुद्रित (अर्थात् अधखुली) आँखों
से देख भर रही है ।”
यहाँ नायिका की नायक-विषयक रति (सम्भोग शृङ्गार) की अभिव्यक्ति
व्यञ्जना द्वारा हो रही है, क्योंकि रसाभिव्यञ्जक सामग्री—विभाव, अनुभाव

प्रथमाननम् ३३
संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां स्वरूपं वक्ष्यते । न च
यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव
व्यङ्ग्यत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थेनेन मनोरथाः
सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्या-
कारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वा-
चुम्बनेच्छास्वरूपवस्तुध्वनिरत्र कथं नाङ्गीक्रियत इत्यत्राह—नचेत्यादि । स्व-
शब्देन = वाचकशब्देन । अस्यैव विवरणम्—मनोरथपदेनेति । मनोरथत्वा-
कारेण = मनोरथत्वप्रकारेण । तथा च मनोरथत्वेन रूपेण मनोरथमात्रस्य वाच्यत्वात्
चुम्बनेच्छात्मकमनोरथस्यापि वाच्यत्वमेव, न व्यङ्ग्यत्वम् । यद्यपि सामान्याकारबोधे
सर्वविशेषाणां स्फुटप्रतिपत्तिर्न नियता तथापि चुम्बनस्य शृङ्गारविला

३४ रसगङ्गाधरः
कारेण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्टे-
च्छात्वेन व्यङ्ग्यत्वे किं बाधकमिति वाच्यम् चमत्कारो न स्यादित्य-
स्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणा-
भिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे । कथमपि वाच्यवृत्त्य-
विषयविशेषेति । विषयविशेषश्चुम्बनं प्रकृते, तद्विशिष्टेच्छात्वेन चुम्बनविषय-
केच्छात्वेनेत्यर्थः । बाधकत्वादिति । यद्यपि चमत्काराभावस्य न व्यङ्ग्यत्वे बाध-
कत्वम्, भूयसामचमत्कृतानापि व्यङ्ग्यानां दर्शनात्तथापि चमत्काराऽभावे ध्वनित्वा-
भावप्रसङ्ग एव प्रकृते बाधकत्वेन विवक्षितः । एनमेवार्थं विशदयति—नहीत्यादिना ।
कथमपि = सामान्यतो विशेषतश्च । वाच्यवृत्तिरमिधा तयाऽनालिङ्गितस्याऽविषयी-
कृतस्येत्यर्थः । आलङ्कारिकैः = ध्वन्यालोककारादिभिः । स्वयमपि द्वितीयानने
ससन्देहालङ्कारनिरूपणावसरे प्रतिपादयिष्यत्येतद्विस्तरेण ग्रन्थकृत् । अत एव पर्यायो-
क्त्यलङ्कारे व्यङ्ग्यस्य प्रकारान्तरेण वाच्यत्वाद् गुणीभूतव्यङ्ग्यतैवोक्ता पण्डितराजेन ।
परन्तु अर्थशक्त्युद्भवध्वनिप्रकरणे कविकल्पितकीर्तिकर्मकसानन्दालोकनेन वस्तुना
'साऽहङ्कारसुरासुरावलि' इत्यादिपद्ये भ्रान्त्यलङ्कारध्वनिमुदाहरता वाच्यतावच्छेदक-
व्यङ्ग्यतावच्छेदकयोर्भेदाद् वाच्यस्यापि व्यङ्ग्यत्वं तस्य च ध्वनित्वमुपपादयता
स्वयमेवाऽन्यथा व्याख्यातम् । तत्र विरोधो दुष्परिहरः पूर्वापरसन्दर्भयोः । मर्मप्रकाश-
कृत्तु विरोधं परिजिहीर्षुः 'साऽहङ्कार' इत्यादिपद्यव्याख्यानावसरे प्रकृतसन्दर्भस्थस्य
'स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया' इत्यादिग्रन्थस्य स्थाने
'स्वशब्देन मनोरथपदेन व्यङ्ग्यतावच्छेदकेच्छात्वरूपजातिरूपेण तादृशेच्छाया'
इत्याद्येव पाठ इत्यङ्गीकुरुते । तत्र व्यङ्ग्यभूतायाश्चुम्बनेच्छाया अतिप्रसक्तमिच्छात्वं
कथं व्यङ्ग्यतावच्छेदकं स्यादिति न विद्मः । किञ्च प्रकृतसन्दर्भविरुद्धोप्ययं पाठ इति
चिन्त्यं सुधीभिः । 'सामान्याकारेण विशेषालिङ्गितस्यैव भानाद् वाच्यवृत्तिता' इति
रसचन्द्रिकोक्तिरपि चिन्त्यैव, एवकारार्थासङ्गतेः । यत्र उपस्थितः परिचितश्च विशेषः
नहीं किन्तु इच्छामात्र के रूप में (= चुम्बनेच्छात्वेन नहीं अपि इच्छात्वेन रूपेण) तो
चुम्बनेच्छा का भी अभिधान हो हीं रहा है । अतः जब चुम्बनेच्छा सामान्यरूप में
वाच्य है तो फिर उसे व्यङ्ग्य कैसे माना जा सकता ?
जिस विशेष रूप में—चुम्बनेच्छा के रूप में—चुम्बनेच्छा वाच्य नहीं है उस
रूप मे इसे व्यङ्ग्य मानने में क्या बाधा है ?—इस प्रश्न का उत्तर यही है कि
जब सामान्यकार में वाच्य होने से विशेषाकार में व्यङ्ग्य मानने पर भी उसमें
चमत्कारजनकता नहीं हो सकती तो उसे व्यङ्ग्य मानने में कोई लाभ नहीं है । सभी
प्राचीन आचार्य यह मानते कि जिसका अभिधा द्वारा सामान्य या विशेष रूप में

प्रथमाननम् ३५
नालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात्। चुम्ब-
नेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तद्व्यञ्जने चुम्बामीति शब्दबला-
च्चुम्बनेच्छावदचमत्कारित्वाच्च।
एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम्, अनुवाद्यतावच्छेदक-
सामान्याकारेण प्रतिपाद्यस्तत्र विशेपालिङ्गितस्य सामान्याकारेण भाने स्वीकृतॆऽपि
तदभावे तथाभानाऽसम्भवात्। वस्तुतः सामान्यशब्देन शब्दमर्यादया सामान्याकारेणेव
पदार्थस्योपस्थितिर्न तु कदाचिदपि विशेषाल्लिङ्गितस्येति युक्तम्। तस्मात्पूर्वापरसन्दर्भौ
परस्परविरुद्धावेव। अधिकमर्थशक्तिमूलध्वनिप्रकरणे विवेचयिष्यते। अत एवैतावता
प्रबन्धेन चमत्काररहितत्वाच्चम्बनेच्छाया व्यङ्ग्यत्वे फलाभाव इति तस्या व्यङ्ग्यत्वा-
भावमुपपाद्य सम्प्रति ससन्देहपर्यायोक्त्यलङ्कारप्रकरणप्रतिपादयिष्यमाणदिशा
वाच्याया अपि चुम्बनेच्छाया अवच्छेदकभेदेन व्यङ्ग्यत्वमभ्युपगम्याऽपि रतेर्व्यङ्ग्यत्वं
तदनुभावकतयाऽवश्यं स्वीकरणीयमित्याह—चुम्बनेच्छाया इत्यादिना। सुन्द-
रत्वेनेति। वलादिना तादृशेच्छासत्त्वेऽपि तस्या असुन्दरत्वमभिप्रेत्येदम्। तद्-
व्यञ्जने = रत्यव्यञ्जने। अचमत्कारित्वाच्चेति। तथा च यदि चुम्बनेच्छारूप-
वस्तुसमाश्रयेणास्य ध्वनित्वमुपपाद्यं तर्हि तादृशेच्छायां चमत्कारित्वस्यावश्यकतया
तदर्थं रतिव्यञ्जनमपरिहार्यमिति रतेर्व्यञ्जने स्वीकर्त्तव्ये तामादायैवास्य ध्वनित्वो-
पपादनमुचितमित्याशयः।
तदेवं वस्तुध्वनौ निरस्ते त्रपास्वरूपभावध्वनित्वं व्यक्तकरोति—एवमित्या-
दिना। एवम् = यथाऽप्रधानत्वान्न व्यङ्ग्याया अपि चुम्बनेच्छाया ध्वनित्वं तथा।
दरमीलन्नयनेत्यनेन त्रपाया व्यङ्ग्यत्वाभ्युपगमात् प्राधान्येनेत्युक्तम्। प्राधान्येन
किसी भी प्रकार से प्रतिपादन न हुआ हो उसी व्यङ्ग्यार्थ में चमत्कार होता, अन्य
में नहीं। अतः चुम्बनेच्छा को व्यङ्ग्य मानना व्यर्थ है। यदि चुम्बनेच्छा को व्यङ्ग्य
मानना भी हो तो भी रतिपूर्वक उस इच्छा को ही व्यङ्ग्य मानना उचित है, क्योंकि
सौन्दर्य इसी प्रकार की चुम्बनेच्छा में हो सकता है, बलादिपूर्वक चुम्बनेच्छा में
नहीं। इस लिए चुम्बनेच्छा को चमत्कारयुक्त व्यङ्ग्य यदि कहना हो तो भी उसके
कारणीभूत रति का अभिव्यंजन मानना ही होगा। ऐसी दशा में प्रधानता पुनः व्यंग्य
रति में हीं विश्रान्त होती, चुम्बनेच्छा में नहीं। अतः उक्त पद्य में शृङ्गारध्वनि
हीं सिद्ध होती है, इच्छास्वरूप वस्तु की ध्वनि नहीं।
जिस प्रकार अप्रधानीभूत चुम्बनेच्छा की ध्वनि नहीं मानी जा सकती उसी
प्रकार अप्रधानीभूत त्रपास्वरूप सञ्चारी भाव की भी ध्वनि इस पद्य में नहीं मानी
जा सकती। इसका कारण यह है कि त्रपा का व्यञ्जक दरमीलन्नयनात्व अनुवाद्य
५२०

३६ रसगङ्गाधरः
तया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात् । न च दरमील-
न्नयनात्वविशिष्टनिरीक्षणं विधेयमिति नानुवाद्यतावच्छेदकत्वं तस्या इति
वाच्यम् । एवमपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमील-
न्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात् । त्रपाया एव मुख्य-
त्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्य-
व्यङ्ग्यत्वम् = ध्वनित्वम् । अनुवाद्यतावच्छेदकतयेति । निरीक्षणकर्त्र्या दयिताया
अनुवाद्यत्वम् उद्देश्यत्वम्, तत्कर्तृकदयितमुखाम्बुजस्य निरीक्षणं च विधेयम् । तत्र
दरमीलनयना दयितेति बोधाद्दरमीलनयनात्वव्यङ्ग्यत्रपाया अनुवाद्यविशेषण-
तयेत्यर्थः । तथा चास्या न वाक्यार्थे प्राधान्यम्, विधेयस्यैव तत्र प्राधान्यादित्याह--
मुख्येत्यादि । कथं निरीक्षत इति जिज्ञासायां दरमीलनयना यथा स्यात्तथेत्यादि-
रीत्या त्रपायास्तद्व्यङ्ग्यायाः कथञ्चिद्विधेयनिरीक्षणक्रियाविशेषणत्वं स्वीकृत्य सत्रपं
निरीक्षत इत्यर्थकरणेन कथं त्रपाया न प्रधानव्यङ्ग्यत्वमित्याशङ्कां निराचष्टे--
नचेत्यादिना । तावताऽपि तथानिरीक्षणस्याऽन्यथानुपपत्त्या तत्कारणत्वेन रतेरवश्य-
व्यङ्ग्यतया तस्या एव प्रधानत्वं युक्तमिति समाधत्ते--एवमपीत्यादिना । तत्कार्य-
त्वेऽपि = त्रपाकार्यत्वेऽपि । अनतिप्रयोजनकेत्यादि । विनापि निरीक्षणंद रमीलन-
मात्रेण स्वकार्येणेव त्रपाया व्यञ्जनान्निरीक्षणस्य नैरर्थक्यापत्तेरित्यर्थः । रतिर्हि
अर्थात् उद्देश्य, दयिता का विशेषण = अनुवाद्यतावच्छेदक है, इस लिए व्यङ्ग्य
त्रपा भी उसी अनुवाद्य का विशेषण है । वाक्यार्थ में मुख्यविशेष्यता विधेयनिष्ठ
होती । अनुवाद्य तो गौण होता । अतः उसका विशेषण त्रपा भी गौण होगी ।
गौण व्यङ्ग्यार्थ में चमत्कारजनकता यदि हो भी तो भी उसे 'ध्वनि' नहीं कहा जा
सकता । अतः त्रपा मुख्य व्यङ्ग्य—ध्वनि—नहीं है । 'उस प्रकार देख रही है जिससे
उसके नेत्र अर्धमीलित हो गए हैं' इस रीति से दरमीलनयनात्व तथा उसके व्यङ्ग्य
त्रपा को निरीक्षणस्वरूप विधेय का विशेषण (=विधेयतावच्छेदक) मानकर भी
त्रपा को मुख्य व्यङ्ग्य नहीं कहा जा सकता, क्योंकि इस पक्ष में भी रति को व्यंग्य
मानना ही होगा जिससे त्रपा में मुख्यता नहीं आ सकती । कारण यह है कि नेत्र का
अर्धमीलित होना तो त्रपा से भी सम्भव है किन्तु अर्धमीलित नेत्रयुक्त होकर प्रियतम
का निरीक्षण तो रतिमात्र से सम्भव है, विना उसके नहीं । अतः वाच्य तादृश-
निरीक्षण की उपपत्ति के लिए रति को व्यङ्ग्य कहना हीं होगा । फिर तो त्रपा मुख्य
व्यङ्ग्य हो नहीं सकती, क्योंकि वैसा मानने पर निरीक्षण के बिना हीं नेत्रों के
अर्धमीलनमात्र से व्यङ्ग्य त्रपा के लिए और अन्य व्यङ्ग्य के अभाव
में उसके लिये भी पद्योक्त निरीक्षण की कोई आवश्यकता न होने से वह निरर्थक

प्रथमाननम् ३७
वृत्त्या रतेरनुभावे निरीक्षणे त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया
‹त्तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात् ।
यथा वा—
गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥
निरीक्षणव्यङ्ग्या । त्रपाप्राधान्ये तदन्यथानुपपत्तिभिया रतिव्यञ्जनस्वीकाराऽसम्भवे-
नेतरस्य च योग्यव्यङ्ग्यस्याभावेन निरीक्षणस्य वाक्यार्थे न कोप्युपयोग इति तात्पर्यम् ।
त्रपाया विधेयत्वमितोऽपि न सम्भवतीत्याह—वाच्यवृत्त्येत्यादि । अभिधयोपस्थिते
रत्यनुभावभूते निरीक्षणे यथाऽभिहितस्य त्रपाऽनुभावस्य विशेषणत्वं वाक्यार्थे तथैव
यद्वाच्ययोर्गुणप्रधानभावस्तद्व्यङ्ग्ययोरपि तथेति नियमाद् व्यञ्जनयोपस्थितायास्त्र-
पाया अपि निरीक्षणव्यङ्ग्यभूतायां रतौ विशेषणत्वमुचितमिति न त्रपायाः प्रधान-
व्यङ्ग्यत्वमिति न तस्या विधेयत्वं न वा तामादायास्य पद्यस्य ध्वनित्वं चेति रति-
ध्वनिरेवात्र । विशेषणत्वं च दरमीलन्नयनत्वस्य निरीक्षणे व्यापारमुख्यविशेष्यकशाब्द-
बोधवादिनां शाब्दिकानां मीमांसकानां च मते । प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोध-
वादिनां नैयायिकानां मते तु कथमत्र संगतिरिति विवेचनीयम्, यतो हि तन्मते
दयिताया एव वाक्यार्थमुख्यविशेष्यतया तद्विशेषणीभूतत्वेऽपि दरमीलन्नयनत्वस्य
तद्व्यङ्ग्यत्रपायाश्च निरीक्षणापेक्षया प्राधान्यमस्त्येवेति चिन्त्यतां सुधीभिः ।
एतावता सम्भोगशृङ्गाररसध्वनिमुदाहृत्य भावध्वनिमुदाहरति—यथा वेत्या-
दिना । अथवा—यदि सत्यपि त्रपाया व्यङ्ग्यत्वे नैतदुदाहरणं भावध्वनेस्तर्हि किन्त-
दुदाहरणमित्याशङ्कायामाह—यथा वेति ।
गुरुमध्यगतेति । गुरवोऽत्र श्रेष्ठाः श्वश्र्वादयः, तेषां मध्ये स्थिता नताङ्गी
हो जाएगा । अतः निरीक्षण की सार्थकता के निमित्त भी उसके अनुभावक रति
की व्यञ्जना का स्वीकार अपरिहार्य है । साथ हीं, “जिन पदों के वाच्यार्थों में गुण-
प्रधानभाव हो उनके व्यङ्ग्यार्थों में भी गुणप्रधानभाव होता” इस नियम के अनुसार
जब त्रपा का अनुभाव—कार्य दरमीलन्नयनत्व रति के अनुभाव निरीक्षण का गुणी-
भूत है तो दरमीलन्नयनत्व के व्यङ्ग्य त्रपा का भी निरीक्षण के व्यङ्ग्य रति के
प्रति गुणीभाव मानना हीं उचित है । अतः त्रपा को मुख्य व्यङ्ग्य मानना सम्भव
न होने से रति को हीं मुख्य व्यङ्ग्य कहना चाहिए । इसलिये ‘शयिता......’
आदि पद्य रसध्वनि का हीं उदाहरण है, त्रपारूपभावध्वनि का नहीं ।
भावध्वनिस्वरूप उत्तमोत्तम काव्य का उदाहरण यह है—
“श्रेष्ठ जनों के बीच बैठी हुई अपने यौवनभार से अवनत प्रियतमा को मैंने जब

३८ रसगङ्गाधरः
अत्र घूर्णितासीदित्यनेनासमीक्ष्यकारिन् ! किमिदमनुचितं कृतवानसीत्यर्थसंब-
लितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यते । तत्र शब्दोऽर्थश्च
गुणः ।
यथा वा—
तल्पगतापि च सुतनुः श्वासासङ्गं न या सेहे ।
संप्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ॥
प्रिया मया कमलकोरकेण मन्दं निहता सती मामवलोक्य तथा घूर्णितयुक्ताऽभूद्
यथा तस्या घूर्णितं मुखदिग्वपरिवर्तनमीषत्कुण्डलवत्ताण्डवयुक्तकुटिलभ्रूलतिकमासी-
दिति पद्यार्थः । अत्र सविशेषणघूर्णितत्वेन किमिदमनुचितमित्यादि व्यङ्ग्यम्, तेन
च वस्तुस्वरूपव्यङ्ग्येनान्ततोऽमर्षो नायिकाया व्यज्यते । अर्थसम्बलिकः = उक्त-
व्यङ्ग्यार्थव्यङ्ग्यत्वेन तद्विशिष्टः । तत्र परमव्यङ्ग्यभूतेऽमर्षे नायिकानिष्ठे। अर्थः =
वाच्यः प्रथमव्यङ्ग्यश्च । गुणः = गुणीभूतः । सोऽयममर्षस्य प्राधान्येन व्यङ्ग्यत्वाद्
भावध्वनिः ।
सम्प्रति विप्रलम्भशृङ्गाराख्य रसध्वनिमुदाहरति—तल्पगतेति । सुतनुः = सुकु-
मारतनुः । अयमेव हेतुः श्वासासांगाऽसहने । अत एव च नववधूरित्यनेन विवरणं
कमल की कली से धीरे से ठोकर मार दी तो (क्रोध के कारण) उसने एक नजर
मेरे ऊपर डाली और झट से अपना मुंह मोड़ लिया। नजर डालते समय उसके कानों
के दोनों कुण्डल कुछ हिल गए थे और भौंहें टेढ़ी हो गई थीं ॥”
इस पद्य में जो ‘झट से मुँह मोड़ लेने’ की बात कही गई है उससे नायिका का
‘हे अविवेकपूर्ण कार्य करने वाले प्रियतम ! तुमने यह अनुचित कार्य क्यों किया”
यह आक्रोश अभिव्यक्त होता । यतः यह क्षणिक आक्रोश क्षणिक अमर्ष (=क्रोध)
के बिना सम्भव नहीं अतः इस व्यङ्ग्य आक्रोश से इसके कारणीभूत अमर्ष की
मुख्य रूप में व्यञ्जना होती और (यही) सहृदयों का परमास्वाद्य—चर्वणाविषय
है । इस अमर्ष के प्रति व्यञ्जक शब्द, उसका वाच्यार्थ और आक्रोशस्वरूप
प्रथम व्यङ्ग्यार्थ ये सब के सब गुणीभूत हैं। अतः यह भावध्वनिस्वरूप उत्तमोत्तम
काव्य का उदाहरण है ।
अब उत्तमोत्तम काव्य का रसध्वनिस्वरूप तृतीय उदाहरण प्रस्तुत है—
“जो कोमल शरीर वाली नवोढ़ा शय्या पर लेटी रहने पर भी अपने प्रियतम
के श्वास के सामान्य आघात को भी न सह पा रही थी वही पितृगृह जाने की
पूर्वरात्रि में अपनी छाती पर रखे गए पति के हाथों को धीरे-धीरे हँटा रही है ॥”

प्रथमाननम् ३९
इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षमिवि दिङ्मात्रेण व्याख्या-
यते—या नववधूः पल्यङ्कशायिता श्वासस्यासङ्गमात्रेणापि संकुचदङ्गलति-
काऽभूत्सा संप्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन
समर्पितं हृदि पाणि नववधूजातिस्वभाव्यादाक्षिपति, परं तु मन्दम् ।
अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्य-
क्रमतया व्यज्यते । उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रम-
कठोरतापादकप्रियशरीरसङ्गाद्यभावादिति बोध्यम् । आसङ्ग ईषत्स्पर्शः । श्वासश्च
प्रियस्यैव, प्रकरणात् । नववधूर्हि पतिगृहं प्राप्याऽचिरादेव पितृगृहं प्रत्यावर्त्तत इति
प्रसिद्धिः । अत एव प्रियेणेत्यस्य सशङ्केनेतिविशेषणमुपापद्यते । चिरं पतिगृहवासे तु
क्रमेण शङ्कापहारात्तदनुपपन्नमेव स्यात् । प्रवत्स्यत्पतिकेत्यनेन मन्दाक्षेपे हेतुर्भीतिरुक्ता;
शीघ्राक्षेपे हि प्रियस्य कुपितत्वं सम्भाव्येत येन पुनर्मिलनसन्देहः स्यात् । आक्षिपति =
स्वस्थानं प्रापयति । व्यञ्जकस्य मन्दाक्षेपस्य क्रमिकत्वाद्रतिरपि क्रमशो व्यज्यमाना
चरमेणाक्षेपव्यापारेण पूर्णतोऽभिव्यज्यते । व्यज्यत इत्यनेन च स्थायिनो रत्याख्यस्य
रसरूपतोच्यते । व्यङ्ग्यव्यञ्जकयोः क्रमे पौर्वापर्यं संलक्ष्ये संलक्ष्यक्रमो ध्वनिः । स
च यद्यपि न स्थाय्यादीनां 'रसभावतदाभासभावशान्त्यादिरक्रमः' इति वदतां प्राची-
नानाभिमतस्तथापि युक्तिसिद्धत्वात्स स्वीकार्य एवेत्यस्मिन्नाननेऽन्ते निरूपयिष्यते ।
उपमानिरूपणावसरे चित्रमीमांसायामप्येतत्समर्थितम् अभिनवगुप्तादिवचनैः । अयमेवो-
त्तमोत्तमकाव्याख्यः प्रभेदो ध्वनिनाम्ना प्राचीनतन्त्रे प्रसिद्ध इत्याह—अमुमेवेत्यादि ।
यह पद्य मेरे ही प्रबन्ध—भामिनीविलास का है । इसका सम्बन्ध पूर्ववर्त्ती
वर्णन से है । अतः अर्थ को स्पष्ट करने के लिए इसकी संक्षिप्त व्याख्या की जा
रही है—"जिस नवोढ़ा कामिनी की कोमल शरीररूपी लता पलंग पर लेटी रहने पर
भी अपने प्रियतम के श्वास के साधारण आघातमात्र से संकुचित हो जाया करती
थी वही प्रियतम को छोड़कर अपने पिता के घर जाने की पूर्वरात्रि में अपनी छाती
पर शंकापूर्वक रखे गए प्रियतम के हाथों को वहाँ से हँटा तो रही है, पर धीरे-
धीरे ।" यहाँ प्रियतम के हाँथ को उसके स्वाभाविक स्थान पर शनैः शनैः लौटाने से
रतिस्वरूप स्थायीभाव (विप्रलम्भशृङ्गार) व्यङ्ग्य है । अतः यहाँ विप्रलम्भशृङ्गार-
ध्वनि है । यह ध्वनि व्यञ्जक एवं व्यङ्ग्य में विद्यमान पौर्वापर्य के सुव्यक्त होने से
संलक्ष्यक्रमध्वनि है । यद्यपि कुछ आचार्यों ने रसध्वनि आदि को असंलक्ष्यक्रम हीं
माना है तथापि यह उचित नहीं है । ये ध्वनियां भी संलक्ष्यक्रम हो हीं सकती हैं ।
इसका उपपादन इसी आनन के अन्त में किया जाएगा । इसी उत्तमोत्तम काव्य को
'ध्वनि काव्य' भी कहा जाता है ।

व्यङ्ग्यत्वम् । अमुमेव च प्रभेदं ध्वनिमामनन्ति ।
यत्तु चित्रमीमांसायामप्पय्यदीक्षितैः 'निःशेषच्युतचन्दनम्' इति पद्यं
ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्—'उत्तरीयघर्षणेन चन्दनच्युतिरित्यन्यथा-
सिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन
संभोगचिह्नोद्घाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात्,
तव स्तनयोस्तटउपरिभाग एव दृश्यते । इयमाश्लेषकृतैव । तथा निर्मृष्ट-
रागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथा-
सिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नान-
व्यञ्जकस्याऽसन्दिग्धत्वमव्यभिचरितत्वमप्पय्यदीक्षितोक्तं निराकर्तुं प्रथमं
तन्मतमाह-यत्त्वित्यादिना । यत्त्वित्यस्य तदेतदलङ्कारशास्त्रतत्त्वाऽनवबोधनिबन्धन-
मित्यनेनान्वयः । चन्दनच्युतिः स्नानेनाऽपि सम्भवति संभोगेन चेति तस्याः स्नान-
साधारण्यम् । तद्व्यावर्त्तनाय सम्भोगमात्रजन्यच्युतिप्रतिपादनाय च तटग्रहणमित्याह-
स्नाने हीत्यादि । तट इत्यस्यैव विवरणमुपरिभाग इति । आश्लेषः = करमर्दनम् ।
'चाऽऽमृष्टरागो' इत्यनुक्त्वा 'निर्मृष्टरागो' इत्युक्तौ निर्मृष्टपदप्रयोगस्य प्रयोजन-
माह—तथेत्यादिना । निःशेषेण मृष्टो रागस्ताम्बूलचर्वणे विलम्बेन न सम्भवतीति
निर्मृष्टकथनेन तज्जन्यत्वनिरासः । एवमपि स्नानेन निर्मृष्टरागतायाः सम्भवा-
तस्याः स्नानसाधारण्यमिति तन्निरासाय सम्भोगकृतत्वमात्रसमर्थनाय च व्याचष्टे—
पुनः स्नानेत्यादिना । अस्यैवोपपादनम्—उत्तरोष्ठ इत्यादि । एवमेव चित्र-
चित्रमीमांसा में अप्पय्य दीक्षित ने ध्वनि का उदाहरण देते समय 'निश्शेषच्युत-
चन्दनं स्तनतटम्' आदि पद्य भी उद्धृत किया है। इसकी व्याख्या उन्होंने इस
प्रकार की है—
"(स्तनों से) चन्दन का मिटना तो दुपट्टे के घर्षण से भी सम्भव है। अतः 'पूर्ण-
रूप में (निश्शेष) चन्दन का मिटना' कहा गया है। किन्तु पूर्णरूप में चन्दन का मिटना
वापी-स्नान से भी हो सकता है। अतः 'यह सम्भोग से ही मिटा है' इस तथ्य को
स्पष्ट करने के लिए स्तनों से नहीं अपितु केवल उनके 'तटों, अर्थात् 'ऊपरी हिस्सों'
से चन्दन का मिटना बताया गया है। स्नान से यदि चन्दन मिटा होता तो पूरे स्तनों
से वह पूरी तरह धुल गया होता न कि केवल उनके ऊपरी भागों से । अतः ऊपरी
भाग मात्र से चन्दन मिटने के वर्णन से यह स्पष्ट होता है कि यह कार्य सम्भोग-
कालिक गाढ़ आलिङ्गन से हुआ है; वापी-स्नान से नहीं । इसी तरह 'निर्मृष्टरागो-
ऽधरः' (अधरोष्ठ की लालिमा पूरी तरह मिट चुकी है) इस अंश में लालिमा का पूरी
तरह मिट जाना इसी लिए कहा गया कि उसका थोड़ा सा मिटना (फीका पड़ जाना)
तो पान खाने में विलम्ब होने से भी सम्भव है, केवल सम्भोगकालिक गाढ़ चुम्बन

साधारण्यव्यावर्तनेन सम्भोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम्।
उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव' इत्यादिना
'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण । 'तटादिघटिता वाक्यार्थाः
स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधान-
व्यङ्ग्यव्यञ्जने साहायकमाचरन्ति' इति ।
तदेतदलङ्कारशास्त्रतत्त्वानवबोधनिबन्धनम्, प्राचीनसकलग्रन्थविरुद्धत्वा-
दुपपत्तिविरोधाच्च । तथा हि पञ्चमोल्लासशेषे 'निःशेषेत्यादौ गमकतया
यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति ।
मीमांसायां 'दूरम्', 'पुलकिता' 'मिथ्यावादिनि' इत्येतेषामपि व्यङ्ग्यानुगुणत्वमुक्त्वो-
पसंहृतं निर्दिशति—इदमपीत्यादि । दीक्षिताशयमुपसंहरति — तटादिघटिता
इत्यारभ्य आचरन्ति इत्यन्तेन ।
दीक्षितमतं निरस्यति—तदेतदित्यादि सन्दर्भेण । निराकरणे हेतुद्वयमुक्तम्—
प्राचीनसकलग्रन्थविरुद्धत्वमुपपत्तिविरुद्धत्वं च । तत्राद्यमुपपादयति— तथाहीत्या-
से नहीं । किन्तु वापी में देर तक शरीर-मर्दनपूर्वक स्नान करने से भी ओष्ठों की
लालिमा मिट सकती है, केवल सम्भोग से नहीं । अतः यह सम्भोगमात्र से मिटी
है—इस तथ्य को स्पष्ट करने के लिए केवल अधरोष्ठ की लालिमा का पूरी तरह
मिटना बताया गया है । यदि यह वापी-स्नान से मिटी होती तो दोनों ओष्ठों की,
केवल अधरोष्ठ की नहीं। उत्तरोष्ठ (ऊपर की ओठ) की लालिमा ज्यों की त्यों बनी
रहे पर अधरोष्ठ की मिट जाय—यह तो केवल सम्भोगकालिक गाढ़ चुम्बन या
अधर-पान से हीं सम्भव है, वापी-स्नान से नहीं ।......अतः यह भी ध्वनिकाव्य का
एक उदाहरण है ।'' इसी प्रसंग में उन्होंने यह भी कहा है—''तट आदि से विशिष्ट
विशेषण-वाक्यों के अर्थ, उक्त रीति से, इन सारे लक्षणों की वापी-स्नान से उत्पन्न
होने की सम्भावना का निराकरण करते हुए और गाढ़ आलिङ्गन, चुम्बन तथा
अधर-पान आदि सम्भोगचिह्नों को प्रकट करते हुए 'रमण करने के लिए उसके पास
हीं गई थी' इस मुख्य व्यङ्ग्यार्थ की व्यञ्जना में सहायता करते ।''
किन्तु अप्पय्य दीक्षित का उक्त मत अलङ्कारशास्त्रीय तत्त्व के अज्ञान से उत्पन्न
होने से अनुचित है, क्योंकि यहतो सभी प्राचीन काव्यशास्त्रीय ग्रन्थों से भी विरुद्ध है
और युक्ति से भी। काव्यप्रकाशकार ने पञ्चम उल्लास के अन्त में कहा है—''निश्शेष-
च्युतचन्दनम्......''आदि पद्य में जिन चन्दनच्युति आदि लक्षणों को व्यञ्जना का
अनुमान में अन्तर्भाव करने वाले महिम भट्ट व्यङ्ग्यार्थ के अनुमापक हेतु मानते वे
चिह्न तो अन्य कारणों से भी हो सकते, क्योंकि इसी पद्य में इन्हें वापी-स्नान से

४२ रसगङ्गाधरः
यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैका-
न्तिकानि' इति काव्यप्रकाशकृतोक्तम् । तथा तत्रैव तेन—
भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण ।
गोलाणइकच्छनिकुडंगवासिणा दरिअसीहेण ॥
इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक-
दिना । गमकतया=हेतुतयाऽनुमितिवादिभिः । प्रतिबद्धानीति । प्रतिबन्धो व्याप्तिः,
अतो व्याप्यानीत्यर्थः । अनैकान्तिकानि = व्यभिचारीणि, हेत्वाभासा इति यावत् ।
आभासत्वे हेतुश्च कारणान्तरतोऽप्येषां सम्भवः पूर्वमुक्त एव । तत्रैव = पञ्चमोल्लास
एव । पूर्वोद्धृतसन्दर्भात्पूर्वमिति शेषः ।
'भम धम्मिअ' इत्यस्येयं संस्कृतच्छाया—
भ्रम धार्मिक विश्वस्तः स शुनकोऽद्य मारितस्तेन ।
गोदानदीकच्छकुहरवासिना दृप्तसिंहेन ॥ इति ।
गोदावरीतटेऽभिसरणाय कृतसङ्केता काचित् पुंश्चली तत्राऽभिसरणकाले
पुष्पाण्यवचिन्वन्तं कञ्चन गृहश्वभीरुं धार्मिकं भीषयितुं कथयतेतदिति प्रसिद्ध-
मवतरणम् । गाथासप्तशत्यामिदमुपलभ्यते । पद्यार्थस्तु—हे धार्मिक ! सम्प्रति विश्व-
स्तः सन् भ्रम = विचर, यतो यस्य गेहस्थशुनो भयाद् ग्रामे पुष्पावचयं परित्यज्य
महता क्लेशेनाऽत्र गोदातट आगत्य पुष्पाण्यवचिन्वन् भ्रमसि स श्वाऽद्य गोदाकच्छकु-
हरवासिना दृप्तेन सिंहेन मारित इति । गोदातटाद् ग्राममागत्य गृहश्वनिघातशौर्ये-
णात्र सिंहस्य दृप्तता । तेनेति विशेषणं सिंहस्य प्रसिद्धिप्रतिपादनाय, येन पुंश्चल्युक्तौ
मिथ्यात्वाभावो द्योत्यते ।
अनुमानेनेति । अयमाशयः--अत्र 'स शुनकोऽद्य मारितस्तेन' इत्यनेन धार्मिके
उत्पन्न कहा गया है । अतः ये चिह्न सम्भोगमात्र से सम्बद्ध (इनकी व्याप्ति सम्भोग
मात्र से) नहीं हैं । अत एव ये व्यभिचरित हेतु हैं, इनसे अनुमान हो नहीं
सकता ।" अतः इन वाच्यार्थों द्वारा 'वापी-स्नान से ये नहीं हुए हैं' इस प्रकार की
वापी-स्नानव्यावृत्ति और सम्भोगमात्र के ये असाधारण चिह्न हैं—इसका समर्थन
करने के लिए दीक्षित द्वारा प्रयास काव्यप्रकाश में प्रतिपादित मान्यता से विरुद्ध
है । इसके अतिरिक्त, काव्यप्रकाश के पञ्चम उल्लास में हीं—
“ओ धार्मिक ! तुम अब आश्वस्त होकर घूमो, क्योंकि तुम्हारे गांव का वह
कुत्ता (जिससे डर कर तुम गोदावरी के तट पर फूल चुनने आये हो) तो गोदावरी
के तट पर गुफा में रहने वाले उस (प्रसिद्ध) उद्धत सिंह द्वारा मारा जा चुका ॥”
इस पद्य के विषय में हेतुज्ञान से साध्यज्ञान के साधक अनुमान द्वारा व्यञ्जना
को गतार्थ करने वाले महिम भट्ट के मत का खण्डन करते हुए यह माना है कि

प्रथमाननम् ४३
कृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि
भीरुत्वं प्रतीयते । तत्र भयकारणस्य निवृत्तेर्भ्रमणं प्रतिपाद्यते । देशविशेषस्य
चाऽनुल्लेखाद् बोद्धव्यवैशिष्ट्येन ग्रामे गोदावरीकच्छकुहरे चाविशेषेण प्राप्तमपि भ्रमणं
ग्रामे विधेयत्वेन गोदावरीकच्छकुहरे च निषेध्यत्वेन प्रतीयते । तत्र च विधिरस्य
वाच्य एवात्र पद्ये, प्रतिपन्नभीरुत्वधार्मिकभ्रमणस्य तद्धेतोर्भयकारणीभूत-
श् Dufनिghost? निवृत्तेः श्वविशेषणत्वेन ग्रामस्य च प्रतिपादितत्वात् । गोदाकच्छकुहरे भ्रमणनि-
षेधश्चाऽवाच्योऽपि तत्र व्यापकीभूतभीरुभ्रमणसाधनस्वभावविरुद्धस्य भयकारणीभूत-
दृप्तसिंहस्योपलब्धेरनुमेयो भवत्येव--अत्र भ्रमणं मा कार्षीः, दृप्तसिंहसत्त्वात् = "गोदा-
कच्छकुहरं त्वत्कर्तृकभ्रमणाऽयोग्यम्, (भयकारणीभूत)सिंहवत्त्वात्" इति । अनर्थ-
संशयाऽभावनिश्चयादेव प्रवृत्तिरिति मते तु 'यत्र यत्र प्रवृत्तिः तत्र तत्रानर्थसंशया-
भावनिश्चयः' इति व्याप्तौ व्यापकीभूतस्यानर्थसंशयाभावनिश्चयस्य विरुद्धो यो गृह-
श्वमारकगोदावरीकच्छकुहरस्थदृप्तसिंहकर्तृ कोऽनर्थसंशयस्तस्य सद्भावादपि तत्र
भ्रमणनिषेधोऽनुमेयः । अयमेव द्वितीयः प्रकारः प्रकाशादावुपन्यस्तः शब्दान्तरेण ।
जिसके बारे में व्यभिचार तथा असिद्धि नामक हेत्वाभास सन्दिग्ध भी हो उस ज्ञापक
से भी अभिव्यञ्जन होता है, अनुमिति नहीं । उक्त पद्य किसी अभिसारिका की एक
भीरु धार्मिक के प्रति उक्ति है । अपने अभिसरण में उस धार्मिक की उपस्थिति के
प्रतिबन्धक होने से वह उस धार्मिक से प्रकारान्तर से यही बताना चाहती कि वह
स्थान उसके भ्रमण के लिए योग्य नहीं है । अतः उसे वहाँ से हँट जाना चाहिए ।
यहाँ व्यञ्जना विरोधी महिम भट्ट का यही मत है कि पद्य के प्रतिपाद्य 'गोदावरीतट
तुम्हारे भ्रमण के योग्य नहीं है' का बोध अनुमान प्रमाण से हीं हो जाने से
व्यञ्जना वृत्ति की कोई आवश्यकता नहीं । उनके मत का सारांश यह है—
“गाँव के कुत्ते की हत्या का भ्रमण के कारण के रूप में निर्देश से उस धार्मिक
की भीरुता स्पष्ट है । पद्य में भ्रमण का क्षेत्र निर्दिष्ट नहीं है, अतः ग्राम तथा
गोदावरीतट इन दोनों ही स्थानों में सामान्य रूप से प्राप्त भ्रमण का भयकारणी-
भूत कुत्ते के मार दिये जाने के कारण ग्राम में विधान और भयकारणीभूत दृप्त सिंह
के उपलब्ध होने से गोदावरीतट पर निषेध ये दोनों हीं इस पद्य से अवगत होते ।
इनमें ग्राम में भ्रमण का विधान तो शब्दवाच्य है—यह सुनिश्चित है । गोदातट
पर भ्रमण का निषेध वाच्य नहीं, अपितु अनुमेय है । तात्पर्य यह है कि भयकारणी-
भूत कुत्ते के वध का भ्रमण के हेतु के रूप में निर्देश से यह निश्चित है कि भीरु
धार्मिक का भ्रमण वहीं सम्भव है जहाँ भयकारण की उपलब्धि न हो । इस प्रकार

४४ रसगङ्गाधरः
लिङ्गाद्व्यञ्जनमभ्युपगतम् । इत्थमेव च ध्वनिकृतापि प्रथमोद्योते । एवं च
व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहाऽसाधारण्यं
प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः ।
अत्र ग्रामगोदावरीकच्छकुहरयोर्भ्रमणविधिनिषेधस्वरूपार्थयोर्वाच्यत्वाऽनुमेयत्वा-
भ्यां वाक्याद् 'भ्रम धार्मिक' इत्यादेरवगमेऽपि निषेध एव बाध्यबाधकभावनिश्चय-
कृता वाक्यार्थस्य विश्रान्तिः, द्वयोर्विधिनिषेधार्थयोः परस्परविरुद्धयोरेकाश्रयत्वा-
सम्भवेन तयोः समुच्चयाऽभावात्, विकल्पेन प्रतिपाद्यत्वे वचनाऽनर्थक्यात्, परस्पर-
विरुद्धत्वेनाऽङ्गाङ्गिभावाऽभावाच्चेति महिमभट्टाशयः । वयं त्ववगच्छामः—ग्रामे भ्रमण-
विधेर्वाच्यत्वे गोदाकच्छकुहरे च भ्रमणनिषेधस्यानुमेयत्वे विधिनिषेधयोर्भिन्नाश्रयत्वेन
विरोधो न भवत्येव । अतो गोदावरीकच्छकुहरे स मा भ्रमीदित्येतावन्मात्रस्य पुंश्च-
ल्यभिप्रेतत्वेन ग्रामे भ्रमेन्मा वा भ्रमीरित्यस्य च सर्वथैव तदभिप्रायाऽविषयत्वेन
'यत्परः शब्दः स शब्दार्थः' इति न्यायेनैव निषेधे वाक्यार्थविश्रान्तिर्लभ्यत इति ।
व्यक्तिम् = व्यञ्जनाम् । लिङ्गात् = ज्ञापकात्, तत्त्वेनाभिमताद्वा । सोऽयं विशेषोऽनु-
मानाद् व्यञ्जनाया भेदं प्रमाणयति । अनुमितिर्हि अव्यभिचारिणो (व्याप्यत्वेन
निर्णीतात्) पक्षधर्मतया च निर्णीताल्लिङ्गाद् भवति, न तु तथात्वेन सन्दिह्यमाना-
दपि । यथोक्तम्—
यावच्चाऽव्यतिरेकित्वं शतांशेनाऽपि शङ्क्यते ।
विपक्षस्य कुतस्तावद्धेतोर्गमनिकाबल्म् ॥ इति ॥
भ्रमण (की योग्यता) का साधक जो भयकारणोपलब्ध्यभाव उसके स्वभाव से विरुद्ध
भयकारणीभूतदृप्तसिंहोपलब्धि होने से गोदातट पर उसके भ्रमण (की योग्यता) के
निषेध (=अभाव) की अनुमिति होती है । किन्तु जो लोग किसी भी व्यक्ति की
प्रवृत्ति वहीं मानते जहाँ किसी प्रकार के अनर्थ के सन्देह का न होना सुनिश्चित हो
उनके अनुसार गोदातट पर (भ्रमणात्मक) प्रवृत्ति के व्यापक अनर्थसंशयाभावनिश्चय
के विरुद्ध दृप्तसिंहनिमित्तक अनर्थ का संशय होने से वहाँ उस भीरु धार्मिक की
भ्रमणात्मक प्रवृत्ति के अभाव की अनुमिति हो जाती है । इसी द्वितीय प्रकार का
(सामान्यरूप मे तो नहीं अपितु विशेष रूप मे) काव्यप्रकाश मे निर्देश किया गया
है । इस प्रकार हेतु भयकारणनिवृत्ति और उसके वाच्य साध्य भ्रमण के बीच सहान-
वस्थानस्वरूप विरोध का निश्चय हो जाने से प्रकृत पद्य का तात्पर्यार्थ भ्रमणनिषेध
हीं होता, केवल भ्रमण का विधान अथवा विधान और निषेध दोनों नहीं, क्योंकि
समानविषयक विधि और निषेध के परस्पर-विरुद्ध होने से उन दोनों का समुच्चय
या अङ्गाङ्गिभाव असम्भव है । यदि 'घूमो' या 'मत घूमो' यह विकल्प अभिप्रेत
होता तब तो पुंश्चली के कथन की कोई आवश्यकता हीं न रह जाती ।

[Header]
प्रथमाननम् ४५
[/Header]

अन्व्यतिरेकित्वम् = अव्यभिचारित्वम्, तस्य संशयोऽव्यभिचारसंशयो व्यभिचार-
संशयैककोटिकः । विपक्षस्य = विपक्षे । गमनिकावलम् = अनुमापकत्वम् । व्यञ्जनं
पुनस्तथात्वेन सन्दिह्यमानादपि लिङ्गाद् भवत्येव । प्रकृते च गुर्वाज्ञादिना भीरुधार्मि-
कस्य सिंहसत्त्वेऽपि भ्रमणसम्भवाद्धेतोः भ्रमणाभावस्वरूपसाध्याभाव(भ्रमण)वत्यपि
गोदाकच्छकुहरात्मके पक्षे वृत्तित्वसंशयाद् व्यभिचारसंशयः स्फुटः । पुंश्चलीवाक्य-
स्याऽप्रमाणत्वेन तद्वचनेन तत्र दृप्तसिंहसत्त्वाऽनिर्णयात् पक्षधर्मताऽपि सन्दिग्धैवेति
भवत्यसिद्धत्वसंशयोऽप्यत्र । धार्मिकस्य पापजनकश्वस्पर्शाद् बिभ्यतोऽपि यदि वीरत्वम्
तर्हि सिंहस्य तद्भयकारणत्वाऽभाव इति सिंहवत्त्वस्य हेतोऽभ्रं मणाभावाभावस्वरूप-
साध्याभावव्याप्तिसंशयाद्व

४६ रसगङ्गाधरः
किं च यदिदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण
णेन सामर्थ्यात् प्रतीतिपथमवतरति' इति । प्रकृतमुपसंहरति—एवं चेति । प्रामा-
णिकानामिति । काव्यप्रकाशकारमतस्य भृशं निराकरणात् ध्वन्यालोकाभिमतस्याऽपि
क्वचित्स्वयमनादृतत्वात् कथं तेषां प्रामाणिकत्वमिति चिन्त्यम्, अंशतोऽविरोधस्तु
दीक्षितेनाऽपि समानः, तथाऽपि दीक्षितेन तेषां प्रामाण्यमभ्युपगतमेवेत्यत एतदुक्तम् ।
'तव ग्रन्थस्य विरोधः स्फुटः' इत्यन्तेन ग्रन्थेन प्राचीनसकलग्रन्थविरुद्धत्वं चित्र-
मीमांसाकृत उपपाद्योपपत्तिविरोधमुपपादयति—किञ्चेत्यादिना । अयमाशयः—
यथाऽपूर्ववाक्यस्थले शब्दप्रामाण्यस्याऽवश्यस्वीकर्तव्यतयाऽन्यत्रापि शब्दप्रयोगे तत
एवार्थाऽधिगतिरिति तान्त्रिकप्रसिद्धिस्तथैव व्यभिचरितलिङ्गादिस्थले व्यञ्जनाया
अवश्यस्वीकरणीयत्वेन यत्राऽपि काव्ये लिङ्गस्याऽव्यभिचरितत्वं तत्रापि व्यञ्जनयै-
में सिंह है यह निश्चय नहीं हो सकता । इस प्रकार पक्षधर्मताज्ञानस्वरूप 'सिद्धि'
के अभाव में हेतु के 'असिद्ध' हेत्वाभास होने का भी संशय है हीं । साथ हीं, यह भी
संभव है कि वह धार्मिक वीर हो, किन्तु कुत्ते से इस लिए डरता हो कि उसके स्पर्श
से शरीरादि मे अपवित्रता आ जाएगी । ऐसी स्थिति में उस धार्मिक का सिंहयुक्त
स्थान पर भ्रमण हो हीं सकता है। वीर पुरुष तो सिंहादियुक्त स्थान पर भी ज्ञानपूर्वक
घूमते। इस प्रकार साध्याभाव ( = भ्रमणाभावाभाव = भ्रमण) के साथ सिंहोपलब्धि-
स्वरूप हेतु की व्याप्ति के सन्दिग्ध होने से यहाँ विरोधनामक हेत्वाभास का भी
संशय है । अनुमान सद्धेतु से होता, निश्चित या सन्दिग्ध हेत्वाभास से नहीं ।
अतः सिंहोपलब्धि से भ्रमणाभाव का अनुमान नहीं हो सकता । यह तो व्यञ्जना-
मात्र से गम्यमान है । इस लिए अनुमान प्रमाण से व्यञ्जना को गतार्थ नहीं किया
जा सकता ।
काव्यप्रकाश के उपर्युक्त सन्दर्भों से स्पष्ट है कि व्यञ्जनास्थल में ज्ञापक का
असाधारण (व्यङ्ग्यार्थमात्र से सम्बद्ध) होना अपेक्षित नहीं है । ध्वन्यालोक के प्रथम
उद्योत में भी यही बात कही गई है । अतः अप्पय्य दीक्षित का असाधारण्य-
प्रतिपादन के लिए किया गया प्रयास पूर्वोक्त प्रमाणिक आचार्यों के ग्रन्थों (में निर्णीत
सिद्धान्त) से विरुद्ध है जहाँ व्यञ्जकों को व्यङ्ग्य तथा उससे भिन्न अर्थोंके साथ समान
रूप से सम्बद्ध कहा गया है । अतः दीक्षित का प्रयास अनुचित है ।
अप्पय्य दीक्षित का उक्त प्रयास उपपत्तिविरुद्ध भी है । 'निःशेषच्युतचन्दनं स्तन-
तटम्' आदि विशेषणीभूत वाक्य के अर्थों को वे वापीस्नान से असम्भव बतलाते हुए
केवल व्यङ्ग्यार्थ के असाधारण कार्य के रूप में क्यों सिद्ध करना चाहते ? व्यङ्ग्यार्थ

प्रथमाननम् ४७
व्यङ्ग्यासाधारण्यं संपाद्यते तत्किमर्थमिति पृच्छामः ? व्यङ्ग्यस्य व्यञ्जना-
र्थमिति चेत् ? न, व्यञ्जकगताऽसाधारण्यस्य व्यञ्जनाऽनुपायत्वात् ।
ओणिण्हं दोब्बल्लं चिंता अलसंतणं सणीससिअम् ।
मह मंदभाइणीए केरं सहि तुह वि परिभवइ ॥
इत्यादौ साधारणानामेवौन्निद्र्यादीना वक्त्रादिवैशिष्ट्यवशादर्थविशेषव्यञ्ज-
कताया अभ्युपगतेः । प्रत्युताऽसाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानु-
कूलतया व्यक्तिप्रतिकूलत्वाच्च ।

  • वार्थऽवसायो न गुरुतरेणानुमानेनेति कथमत्र निःशेषच्युतचन्दनमित्यादौ दीक्षितस्य
    असाधारण्यप्रतिपादनं व्यर्थम्, युक्तिसिद्धत्वात्तस्येत्यत उपपत्तिविरुद्धत्वं तस्य प्रदर्शयति
    प्रकृतेन सन्दर्भेण । तथा च व्यञ्जनास्थले सर्वत्रैव साधारण्यं लिङ्गस्य, न क्वचिद-
    साधारण्यमिति स्वयमेव वक्ष्यति । व्यङ्ग्यस्य = तदन्तिकमेव रन्तुं गतासीत्यस्यार्थस्य ।
    'ओणिण्हम्......' इत्यस्य संस्कृतच्छाया—
    औन्निद्र्यं दौर्बल्यं चिन्ताऽलसत्वं सनिःश्वसितम् ।
    मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥ इति ॥
    साधारणानाम् = उत्कटसंभोगवियोगादिजन्यत्वाद्बिशेषाणाम् । अर्थविशेषः = उत्कट-
    सम्भोगः । असाधारण्यस्य = अव्यभिचरितत्वस्य । व्यक्तिः = व्यञ्जना ।
    के स्पष्ट अभिव्यंजन के लिए तो ऐसा करना उचित नही है, क्योंकि अभिव्यंजन
    के साधकों के लिए व्यंग्यार्थ के असाधारण धर्म होने की कोई आवश्यकता
    तो हैं नहीं। इसी लिए—
    “अरी सखी ! मुझ अभागिन के चलते जागरण, दुर्बलता, चिन्ता, आलस्य और
    दीर्धनिश्श्वास ये सब दोष तुझे भी पीड़ित कर रहे हैं ॥”
    नायिका द्वारा उसके पति के साथ छिपकर सम्भोग कर आने वाली दूती के
    प्रति कहे गये इस पद्य में सम्भोग एवम् उत्कट वियोग आदि में समान रूप से होने
    वाले जागरण आदि को वक्त्री नायिका तथा बोद्धव्य दूती के प्रभाव से 'दूती के
    सम्भोग' का व्यंजक सभी मानते । इसलिए व्यंजक साधकों के लिए व्यङ्ग्यार्थ का
    असाधारण धर्म होना आवश्यक नहीं है। व्यंजक यदि व्यङ्ग्य का असाधारण
    धर्म हो तब तो दोनों के बीच व्याप्ति सम्बन्ध सिद्ध हो जाएगा, क्योंकि दो पदार्थों
    का असाधारण्य (= अव्यभिचरित होना) हीं तो व्याप्ति है । ऐसी स्थिति में असा-
    धारणय अनुमान ले लिए हीं अनुकूल होगा, व्यंजना के लिए तो यह सर्वथा प्रतिकूल
    होगा । अतः व्यंजनावादी दीक्षित का ऐसा मानना असंगत है ।

४८ रसगङ्गाधरः
अथ तटादिघटितत्वेऽपि न निश्शेषेत्यादिवाक्यार्थानामसाधारण्यम्,
सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्संभवादिति चेत् ? तर्हि वापी-
स्नानव्यावर्तनेन कः पुरुषार्थः ? एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया
अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्व्यक्त्यप्रतिकूलत्वाच्च । अपि चात्र हि
तदन्तिकमेव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलां-

इदानीं नाऽसाधारण्यप्रतिपादनमभिप्रेतमपि तु वापीस्नानमात्रव्यावर्त्तनमित्या-
शङ्कां प्रतिपादयति—अथेति । यद्वा निश्शेषच्युतचन्दनत्वादेर्वापीस्नानजन्यत्वव्या-
वर्त्तनेऽपि नाऽसाधारण्यम्, क्लिन्नवस्त्रप्रोञ्छनादिनाऽपि तथा सम्भवादित्याशङ्कां
प्रस्तौति—अथेति । यथा क्लिन्नवस्त्रप्रोञ्छनादिना सम्भोगेन च समानं निश्शेषच्युत-
चन्दनत्वादि स्तनतटादेस्तथैव वापीस्नानेनापि भवतु मा भूद्वा नाम, उभयोरपि
व्यञ्जकत्वानुपयोगेन तदर्थप्रसाधननैरर्थक्यं स्पष्टमित्याशयेन समाधत्ते प्रतिप्रश्न-
मुखेन-तर्हीत्यादिना । ननु वापीस्नानस्य व्यञ्जकत्वविरोधित्वात्तद्व्यावृत्तेस्तद्विरो-
धिनिराकरणं तन्मुखेन च व्यञ्जनासहकारित्वमित्येवार्थः, क्लिन्नवस्त्रादिप्रोञ्छना-
देश्चानुपस्थितत्वात्तद्व्यावृत्तौ न यतितमित्यत आह—अपि चेत्यादि । व्यङ्ग्यत्वस्य

‘निश्शेष……’ आदि विशेषणवाक्यों के ‘तट’ आदि शब्दों से घटित होने
पर भी उन वाक्यों के अर्थों से वापी-स्नान मात्र की व्यावृत्ति अभीष्ट है; वे
व्यङ्ग्य के असाधारण धर्म हैं ऐसा कहना नहीं, क्योंकि वे तो गीले वस्त्र से
पोंछने आदि से भी सम्भव हैं—यह कहकर भी उक्त मत के दोष का निराकरण नहीं
किया जा सकता, क्योंकि यदि वे विशेषणवाक्यार्थ अन्य कारण से भी सम्भव हैं तो
फिर उन्हें वापी-स्नान मात्र से असम्भव कह कर कौन सा अभीष्ट अर्थ सिद्ध
हो सकता ? अनैकान्तिकता (=व्यभिचार) तो किसी हेतु की एक स्थान में ज्ञात हो
या अनेक में, अनुमान के लिए समान रूप से वह प्रतिकूल है । व्यंजना के लिए तो
वह प्रतिकूल नहीं है। अतः उक्त विशेषणवाक्यार्थों को व्यङ्ग्य से अतिरिक्त गीले वस्त्र
से पोंछने आदि से सम्बद्ध मानने के साथ-साथ यदि वापी-स्नान से भी सम्बद्ध मान
लिया जाय तो भी अभिप्रेत अर्थ के अभिव्यंजन में कोई बाधा नहीं आती । अत एव
व्यंजकों को व्यङ्ग्य के असाधारण धर्म कहने की कोई आवश्यकता नहीं । और
भी, ‘तू रमण के लिए उसी के पास गई थी’ इस व्यंग्यार्थ में दो अंश हैं—‘रमण
(के लिए)’ और ‘उसके पास गई थी’ । दीक्षित के मत में ‘उसके पास गई थी’
इस अंश को व्यग्य कहना असम्भव है । यह अंश तो विपरीत-लक्षणा से हीं प्रतीत
हो जायगा । जब विशेषणवाक्यार्थ की उपपत्ति सम्भोगमात्र से सम्भव है, तब
तो उस अधम नायक के पास जाना ही दूती के लिए आवश्यक है, वापी-स्नान के

शश्चेति द्वयं घटकम् । तत्र तावत्तदन्तिकं गतासीत्यंशस्य तन्मते व्यङ्ग्यत्वं
दुरुपपादम् । त्वदुक्तरीत्या विशेषणवाक्यार्थानां निश्शेषेत्यादिप्रतिपाद्यानां
वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेध-
प्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च
प्रतीतेरुपपत्तेः । नहि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता । यथा
'अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्य-
धीनोल्लासे पूर्णत्वाभावे ॥
दुरुपपादत्वमेवोपपादयति तदर्थस्य लक्ष्यत्ववर्णनमुखेन—त्वदुक्तरीत्येत्यादिना ।
बाधितत्वादित्यनेन विशेषणवाक्यार्थान्वयबाधं लक्षणामूलमुपदर्शयति । (वापीं
स्नातुमितो) गताऽसीत्यनेन मुख्यार्थान्वयबाधमूलिकया विपरीतलक्षणया न गताऽसीति,
( तस्याऽधमस्यान्तिकं ) न गताऽसीत्यनेन च तथैव लक्षणया गताऽसीति प्रतीतेः
सम्भवान्न तत्र व्यञ्जना, वृत्त्यन्तराऽप्रतिपादितार्थस्यैव व्यञ्जनाविषयत्वादिति
तदन्तिकं गताऽसीत्यंशस्य व्यङ्ग्यत्वानुपपत्तिरिति सन्दर्भार्थः । वाक्ये शक्त्यभावाद्
वाक्यार्थस्य वाच्यत्वाऽभावेऽपि वाच्यतुल्यत्वात्तस्य वाच्यकक्षागतेति विशेषणम् ।
लक्ष्यस्य व्यङ्ग्यत्वाऽभावे दृष्टान्तमाह—यथेति । अत्र लुठन्तः ( = 'इतस्ततः परिवर्त-
मानाः ) इति स्नानक्रियाकर्तृ भूतमानवानां विशेषणस्य पूर्णशब्दवाच्यार्थे विवक्षिते
संगतिर्न भवतीति विपरीतलक्षणया पूर्णशब्दः पूर्णत्वाऽभावं गमयति । स चाऽभावो
लिए नहीं। ऐसी स्थिति में विशेषणवाक्यार्थ की 'तस्याधमस्यान्तिकं न गताऽसि'
इस मुख्यांश के वाच्यार्थ के साथ सङ्गति न होने से '....न गताऽसि' का विपरीत-
लक्षणा से 'गताऽसि' यही संगत अर्थ होगा । इसी तरह विशेषणवाक्यार्थ,
जो सम्भोगमात्रजन्य हैं, की संगति 'वापीं स्नातु' गताऽसि' इस अंश के वाच्यार्थ के
साथ न होने से यह अंश भी विपरीत-लक्षणा द्वारा 'वापीं स्नातु' न गताऽसि'
(वापी में स्नान के लिए नहीं गई थी) का ही प्रतिपादक होगा । इस प्रकार
विपरीत-लक्षणा से अवगत 'तदन्तिकं गताऽसि' इस अर्थ को व्यंग्य मानना सर्वथा
अनुचित होगा, क्योंकि मुख्य वृत्ति (अभिधा) तथा मुख्यार्थबाधमूलक वृत्ति
(लक्षणा) से जो अर्थ प्रतीत नहीं होता उसी की प्रतीति व्यञ्जनावृत्ति द्वारा सर्व-
मान्य है। जैसे—"अहा ! यह सरोवर जल से कितना भरा हुआ है जिससे लोग
इसमें लोटते हुए स्नान कर रहे हैं !" इस वक्तव्य में स्नान करने वाले लोगों के
विशेषणीभूत 'लुठन्तः' इस पद के मुख्यार्थ 'लोटते हुए' के साथ पूर्णशब्द के मुख्यार्थ
के अन्वय का बाध होने से, विपरीत-लक्षणा द्वारा प्रतीयमान पूर्ण शब्द के लक्ष्यार्थ

५० रसगङ्गाधरः
अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्ति-
मूलध्वननवेद्यत्वमव्याहतमेवेति चेत् ? 'अधमत्वमप्रकृष्टत्वम्, तच्च जात्या
कर्मणा वा भवति । तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वक्ति'
इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्य
लक्ष्यत्वाद् यथा न व्यङ्ग्यस्तथा प्रकृते तदन्तिकगमनरूपार्थोऽपीत्याशयः । कर्तृ-
विशेषणस्यानुपपत्तावधीन उल्लासः प्रत्ययो यस्य पूर्णत्वाऽभावरय तस्मिन्नित्यक्षरार्थः ।
अस्तु तर्हि रमणमात्रस्य व्यङ्ग्यत्वम्, विश्वनाथादिभिरूरीकृतं च तदेवेत्या-
शङ्कते—अथेति । लक्ष्यशक्तीत्यादि । लक्ष्यं तदन्तिकगमनम्, तस्य च या शक्तिः
सामर्थ्यं तन्मूलं यद्ध्वननं व्यञ्जना तद्वेद्यत्वं रमणस्येति । केवलविशेषणवाक्या-
र्थात्सम्भोगाऽसाधारणात् संभोगस्य व्यङ्ग्यत्वेऽपि तन्नायकसम्भोगस्याऽव्यङ्ग्यत्वात्
तदन्तिकगमनं लक्ष्यमेव विशेषणवाक्यार्थोपबृंहितं रमणं व्यनक्ति प्रकृत इति तात्पर्यम् ।
प्रमाणन्तरानधिगतार्थस्यैव व्यङ्ग्यत्वम् इति नयेनार्थापत्त्याऽनुमानेन वा प्रतिपन्नस्य
रमणस्याप्यव्यङ्ग्यत्वमेति न युक्तस्तन्मात्रस्यापि व्यङ्ग्यत्वपक्ष इत्याह —अधमत्व-
मित्यारभ्य अस्वीकृतेः इत्यन्तेन । प्राचीनः सर्व एवापराधः सोढ एवोत्तमनायिकया,
अन्यथा तदन्तिकं दूतीप्रेषणानुपपत्तेः, अतः प्राचीनापराधनिमित्तको नाधमपद-
प्रयोगोऽपि तु दूतीसम्भोगरूपापराधप्रयुक्त एवेति भवत्यर्थापत्त्या रमणबोधः, दूती-
सम्भोगस्वरूपापराधं विनाऽधमपदप्रयोगानुपपत्तेरित्याशयो दीक्षितग्रन्थस्य ।
'अपूर्ण' को कोई भी व्यंग्य नहीं मानता । इस प्रकार 'तदन्तिकं गताऽसि' इस अंश
की व्यंग्यता की अनुपपत्ति से भी अप्पय्य दीक्षित का असाधारण्योपपादनप्रयास
असंगत सिद्ध हो जाता ।
अच्छा तो 'तदन्तिकगमन' को लक्ष्य हीं मान लिया जाय और इसमें विशेषण-
वाक्यार्थो की सहायता से परिस्फुट जो सम्भोग-प्रत्यायक सामर्थ्य है उससे सम्भोग-
मात्र को, जो तदन्तिकगमन का फल है—व्यंग्य मानने में क्या बाधा है ? बाधा
यही है कि सम्भोग को इस पक्ष में व्यंग्य कहना सम्भव न हो सकेगा । अप्पय्य
दीक्षित ने स्वयं कहा है "उत्तम नायिका नायक के जातिगत अपकर्ष [हीनता] का
स्थापन तो कर नहीं सकती, क्योंकि जब दोनों के बीच दाम्पत्यसम्बन्ध बन ही गया
तो अब अपने नायक के जातिगत अपकर्ष का स्थापन नायिका के लिए अनुचित एवं
निन्दनीय होगा—इससे नायिका की उत्तमत्व विनष्ट हो जाएगा.........।" इससे
स्पष्ट है कि उनके अनुसार दूतीसम्भोगादि से भिन्न किसी अपराध के चलते नायक
का अधमत्व उपपन्न न होने से दूतीसंभोगादि की कल्पना की जाती है । इससे जय

प्रथमाननम् ५१
च शब्दार्थताया अस्वीकृतेः । अन्यच्च, यथाकथंचिदङ्गीकुरु वाऽत्र व्यञ्जना-
व्यापारं तथापि न तवेष्टसिद्धिः, वाच्यानां निःशेषच्युतचन्दनस्तनतट-
त्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूती-
संभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात् । एवं चोपपत्तिविरो-
धोऽपि स्फुटतर एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिका-
निरूपितानां विशेषणवाक्यार्थानाम् ।
तथा हि—'अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकाला-
ननु प्राचीनापराधाऽतिरिक्तोत्कटापराधत्वेन रमणस्योपपादकत्वादर्थापत्तिविषय-
त्वेऽपि रमणत्वेन तद्विषयत्वात् पर्यायोक्तप्रकरणस्थरीत्या रमणस्य व्यङ्ग्यत्वं
नाऽनुपपन्नमित्यत आह—अन्यच्चेत्यादि । यथाकथञ्चित् = उपपादकतावच्छेद-
कातिरिक्तेन रमणत्वेन रूपेण । इष्टसिद्धिः = ध्वनिकाव्यत्वोपपत्तिः । गुणीभूत-
व्यङ्ग्यत्वं चात्र वाच्यसिद्धयङ्गत्त्वरूपमभिप्रेतम् । वाच्यार्थः == वापीस्नानारूपार्थः ।
निरूपितानाम् = प्रतिपादितानाम् ।
सम्प्रति वापीस्नानसाधारण्येन विशेषणवाक्यार्थं व्याचक्षाणो यथाऽत्र व्यङ्ग्यार्थ-
प्रतीतिस्तथा निरूपयति—तथा हीत्यादिना । सम्भोगस्य व्यङ्ग्यत्वसंरक्षणयाऽ-
दूतीसंभोग की अर्थापत्तिप्रमाणविषयता सिद्ध है तो फिर उसे व्यंग्य कहना सम्भव
नहीं, क्योंकि शब्द किसी भी वृत्ति द्वारा उसी अर्थ का प्रतिपादक होता जो उस
प्रकरण में अन्य प्रकार से प्रतीत न होता हो । अतः यदि सम्भोग अर्थापत्तिवेद्य है
तो उसे व्यंग्य मानना सम्भव नहीं ।
यदि प्राचीन अपराधों से भिन्न किसी उत्कट अपराध के रूप में सम्भोग को
अर्थापत्ति का और सम्भोगत्वेन रूपेण सम्भोग को, पर्यायोक्त्यलङ्कारप्रकरण में वर्णन
किये जाने वाले प्रकार से, व्यङ्ग्य मान भी लिया जाय तो भी अप्पय्य दीक्षित का
मत समर्थित नहीं होता । उन्होंने उक्त पद्य को ध्वनिकाव्य माना है ।
किन्तु उनकी उपपादनविधि से तो इसे ‘वाच्यसिद्ध्यङ्ग’ नामक गुणीभूतव्यङ्ग्य
काव्य होना चाहिए, ध्वनिकाव्य नहीं । कारण यह है कि उनके द्वारा वर्णित
विशेषणवाक्यार्थों एव अधमपदार्थ की उपपत्ति सम्भोग के विना न होने से सम्भोग-
स्वरूप व्यङ्ग्यार्थ तो वाच्यार्थ का साधक हो जाता है । इस प्रकार उपपत्तिविरुद्ध
होने से भी अप्पय्य दीक्षित का मत असंगत है । अतः विदग्धा नायिका द्वारा उक्त
‘निःशेषच्युतचन्दनं स्तनतटम्’ आदि विशेषणवाक्यों के अर्थों को व्यङ्ग्य सम्भोग
तथा वाच्य वापी-स्नान इन दोनों के समान रूप से हीं कार्य मानना चाहिए ।
अतः उपर्युक्त पद्य का अर्थ इस प्रकार करना चाहिए—"अरी सखी ! तूँ
६ र०