सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 65, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 65

प्रथमाननम् ३३
संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां स्वरूपं वक्ष्यते । न च
यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव
व्यङ्ग्यत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थेनेन मनोरथाः
सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्या-
कारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वा-
चुम्बनेच्छास्वरूपवस्तुध्वनिरत्र कथं नाङ्गीक्रियत इत्यत्राह—नचेत्यादि । स्व-
शब्देन = वाचकशब्देन । अस्यैव विवरणम्—मनोरथपदेनेति । मनोरथत्वा-
कारेण = मनोरथत्वप्रकारेण । तथा च मनोरथत्वेन रूपेण मनोरथमात्रस्य वाच्यत्वात्
चुम्बनेच्छात्मकमनोरथस्यापि वाच्यत्वमेव, न व्यङ्ग्यत्वम् । यद्यपि सामान्याकारबोधे
सर्वविशेषाणां स्फुटप्रतिपत्तिर्न नियता तथापि चुम्बनस्य शृङ्गारविला