रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
१२ रसगङ्गाधरः
यत्तु प्राञ्चः ‘अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्’ इत्याहुः, तत्र
विचार्यते—शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात् । काव्यमुच्चैः
पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीन-
तत्र संसर्गस्य द्वैविध्यम् साक्षात्परम्पराभेदात् । तयोश्च साक्षात्संसर्गविषये विप्रति-
पत्त्यभावात् तस्य संसर्गत्वेन भाने लक्षणं लाघवान्वितमिति निर्विवादम् । परम्परायाः
संसर्गत्वं तु तत्रैवाभिमतं यत्र तेन संसर्गेणैकपदार्थविशिष्टस्य पदार्थान्तरस्य प्रतीतिः
प्रसिद्धा, न सर्वत्र । परम्परामात्रस्य संसर्गत्वे तु सर्वं सर्वेण विशिष्टं स्यादित्यनर्थः ।
अतो यत्र परम्परायाः संसर्गत्वं प्रतीतिबलायातं तत्र तस्य संसर्गतया भाने प्रामाणिके
संसर्गविधया लक्षणं लघुतरं भवति, प्रकारमुद्रया तत्र तावत्पदार्थनिवेशे तु गुरुतरं
लक्षणम् । प्रकृतलक्षणे चमत्कारत्ववत्त्वं काव्यत्वमित्यत्र स्वविशिष्टेत्यादिसंसर्गः ।
अत्र स्वं चमत्कारत्वम्, तद्विशिष्टः चमत्कारः, तन्निष्ठजन्यता निरूपिता जनकता-
ऽर्थविषयकभावनाविशेषे, तत्रावच्छेदकीभूतोऽर्थः, तत्प्रतिपादकत्वं काव्य इति काव्येन
चमत्कारत्वस्य स्वविशिष्टेत्यादिपरम्परासम्बन्ध उक्तः । अनेन संसर्गेण काव्यं
चमत्कारत्ववत्, तत्त्वं च काव्यत्वमिति लक्षणार्थः । अस्य संसर्गत्वं तु 'काव्यं
चमत्कारववद्' इत्यादिप्रतीतिसाक्षिकमेव, नान्यथा । तदाकारा च प्रतीतिर्न
प्रामाणिकी । अत एतादृशपरम्परायाः संसर्गत्वकल्पनं न युक्तमिति सत्यपि लाघवे
तस्य प्रमाणाऽननुगृहीततया गुरुतरमपि द्वितीयलक्षणमेव वरमिति विदुषां विमर्शः ॥
इदानीं काव्यप्रकाशकारोक्तं काव्यलक्षणं दूषयितुमुपक्रमते—यत्त्वित्या-
दिना । अनलंकृती पुनः क्वापीत्यस्यार्थतः संग्राहकं सालङ्काराविति । माना-
भावादिति । अयमर्थः—'लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे', 'अर्थन्वान्यप्रमाणत्वाद्'
प्राचीन आलङ्कारिक (काव्यप्रकाशकार) मानते हैं कि दोषों से रहित, गुणयुक्त
एवम् अलङ्कारविशिष्ट शब्द और अर्थ दोनों ही काव्य हैं । इस विषय में निम्न-
लिखित विचार किया जा रहा है—
शब्दार्थद्वय काव्यशब्द का वाच्यार्थ नहीं हो सकता । शब्दनिष्ठ शक्ति द्वारा
प्रतिपादित अर्थ ही वाच्यार्थ कहलाता है । किस शब्द में किस अर्थ को प्रकट करने
वाली शक्ति है—यह निर्णय मुख्यतः शिष्टव्यवहार से होता है । काव्यपद में शब्दार्थ-
युगल को प्रकट करने की शक्ति का ग्राहक (निर्णायक) कोई शिष्टव्यवहार तो है
नहीं । ऐसी स्थिति में काव्यपद को शब्दार्थद्वय का वाचक नहीं माना जा सकता ।
वस्तुतः सार्वजनीन व्यवहार तो शब्दार्थद्वय के विपरीत शब्दविशेष, अर्थात् रमणी-
यार्थप्रतिपादक शब्द, को प्रकट करने वाली शक्ति को ही काव्यपदनिष्ठ सिद्ध करते ।
उदाहरणार्थ—'काव्यमुच्चैः पठ्यते', 'काव्यादर्थोऽवगम्यते' और 'काव्यं श्रुतमर्थो न
ज्ञातः' इत्यादि व्यवहार हैं । इनसे स्पष्ट है कि काव्यपद शब्दविशेषमात्र मे शक्त
व्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च ।
व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत् ? स्यादप्येवम्, यदि
इत्यादिसिद्धान्तात् कस्य शब्दस्य कोऽर्थ इत्यत्र शिष्टव्यवहार एव प्रमाणम् ।
तथा च काव्यशब्दस्य शब्दार्थयुगलवाचकत्वं तत्समर्थकशिष्टव्यवहाररूपप्रमाणाऽभा-
वान्न सम्भवतीति । द्वित्रशिष्टव्यवहारस्य च न प्रमाणत्वम्, प्रमासाधनत्वाभावादिति
कालिदास एवाह—‘सर्वज्ञस्याऽप्येकस्याभ्युपगमो न निर्णयाय’ इति । अत्रैकपदमल्पा-
र्थकम् । अनादिवृद्धव्यवहारस्यैवार्थनिर्णायकत्वनियमादेकव्यवहारे तथात्वाभावादिति
निष्कर्षः । एतावता साधकप्रमाणाभाव उक्तः । सम्प्रति बाधकप्रमाणमप्यऽह—
काव्यमित्यादिना । पठ्यत इति । पाठश्च शब्दस्यैव नार्थस्येति सिद्धं काव्यस्य शब्द-
मात्रपरत्वम् । काव्यादित्यादि । काव्यस्य ज्ञातस्यैवार्थबोधकतया तस्य शब्दार्थोभय-
परत्वे काव्यज्ञानेनार्थस्यापि ज्ञानात् किमन्यदवशिष्यते यस्यावबोधः कार्यः स्यादिति
तात्पर्यम् । प्रत्युत = शब्दार्थयुगलवाचकत्वविपर्ययेण । शब्दविशेषस्यैवेति ।
अयमाशयः—आदिकविना स्वयमेव—
“भविष्यदुत्तरं काव्यं जगुस्तुस्तौ कुशीलवौ”
इति वदता काव्यस्य शब्दमात्रपरत्वे व्यवस्थापिते परस्ताच्च विश्वजनीनव्यवहारेण
तथात्वे समर्थिते न शब्दमात्रपरत्वं काव्यशब्दस्यापह्लोतुं कश्चिद्रीष्टे । यद्यपि क्वचि-
त्सादिव्यवहारस्यापि दृष्टमर्थनिर्णायकत्वं तथापि तत्प्रायेण यदृच्छाशब्द एव, तत्रापि
बहुतरशिष्टसमर्थने सत्येवेति तदभावे न काव्यशब्दस्य शब्दार्थोभयपरत्वं युक्तमिति ।
उक्तव्यवहारमन्यथा व्याचक्षाण आशङ्कते—व्यवहार इति । लक्षणया = एकदे-
शलक्षणया । तथा च नोक्तव्यवहारस्य बाधकत्वमित्याशयः प्रश्नस्य । न केवलं बाधक-
प्रमाणाभावादिष्टसिद्धिः, साधकप्रमाणमपि तदर्थमपेक्षणीयमेव, तथा च साधकप्रमाणा-
भावे न काव्यशब्दस्य शब्दार्थोभयपरत्वं युक्तम्, ततश्च मुख्यार्थबाधाभावेन लक्षणाऽपि
न सङ्गच्छत इति प्रोक्तव्यवहारस्य मुख्यार्थपर्यवसायित्वे व्यवस्थिते न शब्दार्थपरत्वं
है, शब्दार्थद्वय में नहीं । यतः प्रथम व्यवहार मे काव्य के श्रवण की बात कही
गई है; श्रवण तो शब्दमात्र का सम्भव है, अर्थ का नहीं । द्वितीय व्यवहार मे
काव्यशब्द से हेत्वर्थक पञ्चमी और अर्थशब्द से प्रथमा दोनों की भिन्नता के प्रति-
पादक हैं । यह काव्यशब्द के शब्दमात्रपरक होने से ही सम्भव है । तृतीय व्यवहार
मे काव्य के श्रावणप्रत्यक्षज्ञान का विषय होने पर भी अर्थ के उक्त ज्ञान का विषय न
होने से दोनों की भिन्नता सिद्ध है । अतः उक्त व्यवहारों से काव्यशब्द की
शब्दमात्रबोधकता प्रमाणित है ।
उक्त व्यवहारों में शब्दमात्र में काव्यपद का प्रयोग एकदेश-लक्षणा से बताते हुए
काव्यपद के मुख्यार्थरूप मे शब्द और अर्थ को मानना भी असंगत है, क्योंकि यहाँ
१४ रसगङ्गाधरः
काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं
किमपि प्रमाणं स्यात् । तदेव तु न पश्यामः । विमतवाक्यं त्वश्रद्धेयमेव ।
इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्त-
व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्टे ?
एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम् । तदेवं शब्दविशेष-
स्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पि-
तस्य काव्यपदार्थस्य । एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा
तत्रापीयं दुरवस्था स्यात् ।
काव्यशब्दस्येत्याशयेन समाधत्ते—स्यादप्येवमित्यादिना सन्दर्भेण । दृढतरमिति ।
स्वसमबलस्वाधिकबलविपरीतप्रमाणाभाववदित्यर्थः । एतेन = प्रोक्तव्यवहारस्वरूपवि-
निगमकसत्त्वेन । विनिगमना चैकतरपक्षपातिनी युक्तिः, तस्या अभावात् । दुरवस्था
लाक्षणिकत्वाभ्युपगमस्वरूपा प्रकृते बोध्या ।
प्राचीनसमर्थनप्रकारान्तरं निराचष्टे—यत्त्वित्यादिना । आस्वादः, आस्वाद्यत
इत्यास्वादो रसः, ‘कृदभिहितो भावो द्रव्यवत् प्रकाशते’ इति नियमात् । तस्योद्बोध-
कत्वं व्यञ्जकत्वम्, न तु जनकत्वम्, रसस्य नित्यत्वेन तज्जननाऽसम्भवात् । तदाह—
रसव्यञ्जकतयेति । प्रकृते = काव्यलक्षणनिरूपणप्रसङ्गे । लक्षणीयत्वं काव्यलक्षण-
लक्षणा का आधार मुख्यार्थबाध नही है । यदि अन्य दृढतर प्रमाण से काव्यपद मे
शब्दार्थोभय की वाचकता प्रमाणित हो चुकी होती तब तो उक्त व्यवहारों में मुख्यार्थ
का बाध हो जाने से काव्यपद को शब्दमात्र मे लाक्षणिक माना जा सकता था ।
परन्तु वस्तुस्थिति ऐसी नहीं है । विरोधी प्राचीन आचार्य का वक्तव्य तो प्रमाण-
समर्थित न होने से श्रद्धायोग्य है हीं नहीं । अतः उक्तव्यवहारों मे काव्यपद को
लाक्षणिक कहना अयुक्त है । इस प्रकार जब शब्दार्थयुगल में काव्यपद की शक्ति
का ग्राहक कोई प्रमाण है ही नहीं तब उक्त व्यवहारस्वरूप प्रमाण से शब्दमात्र में
काव्य पद की शक्ति के निर्णय को कोई रोक नहीं सकता । “एकतरपक्ष समर्थक
युक्ति (= विनिगमना), अर्थात् काव्यपद की शक्ति शब्दमात्र मे है, अर्थ मे नही
अथवा अर्थमात्र में है, शब्द में नहीं, के समर्थक प्रमाण के अभाव मे शब्दार्थयुगल में
ही उसकी शक्ति सिद्ध हीती है—” यह मत भी उक्त रीति से ही निरस्त हो जाता
है । इस प्रकार काव्यपद के शब्दविशेषमात्रवाचक सिद्ध हो जाने पर उसी का
लक्षण बताना उचित है, किसी के कपोलकल्पित काव्यपदार्थ का नहीं । काव्य-
पदार्थनिर्णय की जो रीति है वही वेद, पुराण, इतिहास आदि के लक्षणों में
भी अपनानी चाहिए, नहीं तो 'वेदः पठितः', वेदस्यार्थो नाऽवगम्यते' इत्यादि
व्यवहारों की असंगति पूर्ववत् बनी रह जाएगी ।
प्रथमाननम् १५
यत्त्वास्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्ट-
मित्याहुः, तन्न। रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिक-
संमतत्वेन प्रकृते लक्षणीयत्वापत्तेः। किं बहुना, नाट्याङ्गानां सर्वेषामपि
प्रायशस्तथात्वेन तत्त्वापत्तिर्दुर्वारैव। एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्व-
मित्यपि परास्तम्।
अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम्, प्रत्येकपर्याप्तं वा ?
नाद्यः, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहार-
स्यापत्तेः। न द्वितीयः, एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेद-
शास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता।
घटकत्वम्। प्रायश इत्यनेन क्वचिन्नेपथ्यविधानादौ रसोद्बोधकत्वाभावः सूचितः।
तत्त्वापत्तिः = काव्यत्वापत्तिः। एतेन = रसोद्बोधकत्वस्याऽतिप्रसक्तत्वेन।
प्राचीनोक्तलक्षणे दोषान्तरमाह—अपि चेति। प्रवृत्तिनिमित्तम् = काव्यत्वम्।
व्यासज्यवृत्तीति। पर्याप्तिसम्बन्धेनानेकाधिकरणेष्ववस्थितं व्यासज्यवृत्तीत्युच्यते।
यथा द्वित्वसंख्या समवायेन प्रत्येकं वर्त्तमानाऽपि पर्याप्तिसम्बन्धेन द्वयोरेव वर्त्तते, नै-
कत्र। यस्य च सम्बन्धः स तत्प्रतियोगी, यत्र च सम्बन्धः सोऽनुयोगी तस्य सम्बन्धस्य।
द्वित्वस्य पर्याप्तिर्द्वयोरिति द्वित्वं पर्याप्तिप्रतियोगि, द्रव्ये चानुयोगिनी। एवं त्रित्वा-
दिष्वपि बोध्यम्। अत एवैकत्वाऽनवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं व्यासज्य-
वृत्तित्वमुच्यते। एतद्विपर्ययेण चैकत्वाऽवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं
प्रत्येकपर्याप्तत्वमुच्यते। काव्यत्वस्य व्यासज्यवृत्तित्वे दोषमाह—नाद्य इत्यादिना।
द्वितीये दोषमाह—न द्वितीय इत्यादिना। काव्यद्वयेति। एकं काव्यत्वं शब्दे, अपरं
च तदर्थे इति द्वित्वं काव्यत्वस्येति तदाधारभूतकाव्यस्याऽपि द्वित्वमित्यर्थः। प्रकृतमु-
अलौकिक आस्वाद (रस) का उद्बोधक ही काव्य है, अतः शब्द और अर्थ दोनों
ही काव्य हैं, क्योंकि उक्त आस्वादोद्बोधकता दोनों ही मे समानरूप से है-ऐसा कुछ
लोग कहते। किन्तु यह भी असंगत है। कारण है कि तब तो राग को भी काव्य-
लक्षण मे समाविष्ट करना होगा, क्योंकि राग को भी ध्वनिकार आदि सभी
आलङ्कारिकों ने रसोद्बोधक माना ही है। एवञ्च उक्त लक्षण मे न्यूनता आ जाएगी।
अधिक कहने की आवश्यकता नहीं, उक्त मत की असंगति के लिए इतना ही कहना
पर्याप्त होगा कि उसके अनुसार तो बहुत से नाट्याङ्गों के भी रसोद्बोधक होने से
उन्हें भी लक्षण मे समाविष्ट करना पड़ जाएगा। अतः उक्त पक्ष अश्रद्धेय है। इसी
से 'रसोद्बोधसमर्थ तत्त्व ही काव्यलक्षण का लक्ष्य है' यह मत भी निरस्त हो जाता;
क्योंकि उक्त न्यूनता इस मत मे भी पूर्ववत् बनी हुई है।
इस प्रसङ्ग मे यह भी विचारणीय है कि काव्य शब्द का प्रवृत्तिनिमित्त काव्यत्व
१६ रसगङ्गाधरः
लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति
काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधि निषेधजीवना-
पसंहरन्नाह —तस्मादिति ।
सगुणौ सालङ्कारावित्यादि निराचष्टे—लक्षण इत्यादिना । आदिपदेनात्र दोषा-
ऽभावो ग्राह्यः । उदितं मण्डलं विधोरित्यादौ न काव्यत्वमिति भामहोक्तं प्रकाश-
कृदिष्टं च खण्डयितुं तत्र काव्यत्वाधायकं व्यङ्ग्यार्थमाह—दूतीत्यादिना । अत्रापि
वक्तृबोद्धव्यादिवैशिष्ट्येन व्यङ्ग्यार्थप्रतीतेः काव्यत्वं दुरपह्नवमिति सन्दर्भशयः ।
तदाह दण्डी—
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इतीदमपि साध्वेव कालावस्थानिवेदने ।। इति ।।
दूतीत्यादिवचनमित्यं योजनीयम्—अभिसारिकां प्रति दूत्युदीरि
ऽभावादिपरे ‘गतोऽस्तमर्कः’ इत्यादौ चाव्याप्त्यापत्तेः । न चेदमकाव्य-
मिति शक्यं वदितुम्, काव्यतया पराभिमतस्यापि तथा वक्तुं शक्य-
व्यङ्ग्यो भवितुमर्हत्येव । एवमग्रेऽपि यथासम्भवं व्यङ्ग्यार्था ऊहनीयाः । विरहिण्यादी-
त्यादिशब्देन यथासम्भवं सख्यादीनां ग्रहणम् । जीवनाऽभावादीत्यादिशब्देन च यथा-
यथं रमणागमनकालादिः संग्राह्यः । इत्यादावित्यतः परं गुणालंकारादिरहित इति
पूरणीयम् । अव्याप्तिश्चात्र काव्यलक्षणस्य गुणालङ्कारादिघटितस्य । अत्रालङ्काराभा-
वप्रतिपादनेन हेत्वलङ्कारः पण्डितराजाऽभिमतो नेति ज्ञायते । नाप्यत्र दोषाऽभावोऽपि,
उभयत्रैव विधेयाऽविमर्शस्य सत्त्वादित्यपि बोध्यम् । किञ्चैवं लक्षणेऽलङ्कारदोषा-
भाववत्यपि गुणहीने काव्येऽव्याप्तिः । एवमेवैकस्यचनाभावे तदितरसत्त्वेऽप्यन्याप्तिरि-
त्यपि विवेचनीयम् । न चेदमित्यनेन भामहाद्युक्तिं निरस्यतीति पूर्वमेवोक्तम् ।
वदितुमिति । काव्यत्वहेतुभूतस्य चमत्कारस्य तत्र सत्त्वान तद्विपर्यये युक्त्यभावा-
दित्यर्थः । युक्तिं विनाऽप्यकाव्यत्वाङ्गीकारे त्वाह—काव्यतयेत्यादिना । पराभिम-
मतस्य = प्रकाशकाराद्यभिमतकाव्यविषये । तथा = अकाव्यमिति । गुणालङ्कारादि-
विशिष्टे तदविशिष्टे च चमत्कारिणि वाक्ये काव्यशब्दव्यवहारस्य प्रसिद्धत्वेन चमत्का-
रित्वमेवाऽव्यभिचारि काव्यजीवितम्, तच्च ‘उदितं मण्डलं विधोः’ इत्यादावपि
गई है वह भी उचित नहीं है, क्योंकि गुणालंकारादि से रहित होने पर भी 'उदित
मण्डलं विधोः' (चन्द्रोदय हो चुका) तथा 'गतोऽस्तमर्कः' (सूर्यास्त हो गया) आदि
काव्यों में उक्त लक्षण की अव्याप्ति हो जाएगी। इन वाक्यों का काव्यत्व तो प्रमाणित
है हीं, क्योंकि वक्तृ-बोद्धव्य आदि के वैशिष्ट्य के कारण इन वाक्यों में भी चमत्कार-
जनक व्यङ्ग्य अर्थ की बोधकता है। यदि प्रथम वाक्य दूती द्वारा अभिसारिका
को कहा गया हो तो इससे अभिसरण का विधान, अभिसारिका द्वारा दूती से कहे
जाने पर प्रकाशाधिक्य के कारण दूसरों द्वारा देखे जाने की सम्भावना से अभिसरण
का निषेध और विरहिणी द्वारा अपनी सखी या किसी अन्य अन्तरङ्ग व्यक्ति से कहे
जाने पर विरह की उत्कटता तथा रमण के आने के समय आदि व्यङ्ग्यार्थ प्रकट
होते ही हैं। इसी तरह दूसरे वाक्य से, दूती द्वारा अभिसारिका से कहे जाने पर,
अभिसरणकाल आदि व्यङ्ग्यार्थ की भी प्रतीति होती ही हैं। यथासम्भव अन्यान्य
चमत्कारजनक व्यङ्ग्यार्थ भी हो सकते हैं। ऐसी स्थिति में इन काव्यों में गुणालङ्का-
रादिघटित काव्य-लक्षण की अव्याप्ति सुस्पष्ट है। अतः गुणालङ्कारादि का निवेश
अनुचित हैं। ये वाक्य काव्य हैं ही नहीं, अतः इनमें काव्य-लक्षण की अव्याप्ति इष्ट
है—यह तो कहा नहीं जा सकता, क्योंकि जब इनसे चमत्कारजनक व्यङ्ग्यार्थ
का प्रतिपादन होता है तो फिर इन्हे काव्य न कहना सम्भव नहीं। अन्यथा प्राचीन-
१८ रसगङ्गाधरः
त्वात् । काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव । गुणत्वालंकारत्वा-
देरननुगमाच्च ।
दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वा-
योगाच्च । न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्ट-
समानमित्यतस्तस्यापि काव्यत्वमस्त्येवेत्याशयवानाह—काव्यजीवितमित्यादि । ‘यः
कौमारहरः' इत्यादौ काव्यत्वस्यालङ्कारविरहेऽपि स्वयमभ्युपगमाच्चैतदेव युक्तमित्यपि
बोध्यम् । ननु तत्रापि कथञ्चिदलङ्कारादयः सन्त्येवेत्यत आह—गुणत्वादीति ।
गुणानामलंकाराणां चानिश्चिततया गुणत्वादेरननुगमान्न तेन रूपेण गुणादीनां लक्षणे
प्रवेशः, सर्वगुणप्रवेशेऽसम्भवः, तद्व्यक्तित्वेन प्रवेशे तु परस्पराभावेन व्यभिचार
इति तात्पर्यम् ।
इदानीमदोषाविति विशिष्य निराचष्टे—दुष्टमित्यादिना । दुष्टं काव्यमिदं पद्य-
मित्यनेन पद्ये दोषयुक्तकाव्यत्वं विधीयते । तत्र यदि दोषयुक्तस्य काव्यत्वमेव न प्रकाश-
कृन्मते, काव्यस्य च दोषयुक्तत्वं नेति तर्हि तन्मत एतादृशव्यवहारानुपपत्तिः । ननु
प्रकृत व्यवहारे काव्यपदं लक्षणया यत्किञ्चल्लक्षणविशिष्टकाव्यवदाभासमानवा-
क्यपरमिति न व्यवहारानुपपत्तिरित्यत्राह—बाधकं विनेत्यादि । मुख्यार्थस्य बाधे
हि लक्षणा भवति । प्रकृते च विधेयाऽविमर्शादोषयुक्तेऽपि 'न्यक्कारो ह्ययमेव मे यदरयः'
इत्यादौ काव्यत्वस्य ध्वनिकारादिसम्मतत्वेन काव्यपदमुख्यार्थस्य स्पष्टं दुष्टपदार्थे-
नाऽन्वये बाधकाभावात्तात्पर्यानुपपत्त्यभावश्चेति न लक्षणा शक्याऽऽश्रयितुमिति भावः ।
काव्यत्वस्याऽव्याप्यवृत्तित्वमङ्गीकृत्य कृतामाशङ्कां निरस्यति—नचेत्यादिना ।
अयम्भावः—काव्यत्वं संयोगादिवदव्याप्यवृत्ति । अव्याप्यवृत्तित्वं च तस्यैव यः स्वा-
धिकरणे एकदेशेन विद्यमानः सन्देशान्तरेणाऽविद्यमानः । यथा वृक्षे कपिसंयोगः
शाखाविशेषाऽवच्छेदेन वर्त्तमानः सन्नपि शाखान्तरमूलाद्यवच्छेदेनावर्त्तमानोऽव्याप्य-
वृत्ती । यस्यैकस्मिन्ने वाधिकरणे देशभेदेन भावाऽभावौ सोऽव्याप्यवृत्तीति तात्पर्यम् ।
सम्मत काव्यों को भी अकाव्य कहा जा सकता है, जिससे उनमें काव्य-लक्षण की
संगति से अतिव्याप्ति दोष उनके लक्षण में अपरिहार्य हो जायेगा । साथ ही, गुणों
और अलंकारों में अनुगत किसी गुणत्व और अलंकारत्व धर्मों के सिद्ध न होने से
गुणांलंकारादिघटित काव्य-लक्षणं का अनुगम (=स्पष्टप्रतिपत्ति) भी न हो
सकेगा ।
काव्य-लक्षण में 'अदोषौ' यह अंश भी अनुचित है, क्योंकि 'दुष्टं काव्यमिदं
पद्यम्' यह व्यवहार सुप्रसिद्ध है । इससे काव्य का दोषयुक्त होना भी प्रमाणित
होता है । अतः ऐसे काव्यों में 'अदोषौ' पद से घटित लक्षण की अव्याप्ति हो
जाएगी ।
प्रथमाननम् १९
'मिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरुहो विहंगम-
संयोगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न
काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया
अत एव स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वमव्याप्यवृत्तित्वमिति परिष्कुर्वन्ति।
यस्याभावः स प्रतियोगी। अत्र वेदान्तमते यद्यपि शाखाविशेषस्यैवाधिकरणत्वं न तु
तद्वतो वृक्षस्येति संयोगो नाव्याप्यवृत्ति तथापि वृक्षः कपिसंयोगीत्यादिप्रतीतेर्वृक्ष
एवाधिकरणं कपिसंयोगस्य, शाखादिस्त्वधिकरणतावच्छेदक एव, शाखादौ सप्तम्यु-
पत्तिश्चाधिकरणतावच्छेदकेऽधिकरणत्वारोपात् 'शरीरे मे वेदना' इति वदिति
न्यायमतेन शङ्कासमाधाने बोद्धव्ये। तदेवं काव्यत्वस्याप्यव्याप्यवृत्तितया तस्य चैकत्रै-
वाधिकरणे पद्ये भावाऽभावयोरधिकरणताऽवच्छेदकभेदेन विरोधाऽभावान्न दुष्टं
काव्यमिदं पद्यमित्यत्र पद्ये काव्यपददुष्टपदार्थान्वये बाधः। समानविषयत्वे हि
विरोधः, विरोधे च दुर्बलं बलीयसा बाध्यते वस्तुतः। प्रकृते तु काव्यत्वस्य दोषरहितां-
शावच्छेदेन दुष्टत्वस्य च तदितरांशाऽवच्छेदेनैकत पद्ये सत्त्वेप्यधिकरणतावच्छेदक-
भेदेन समानविषयत्वाभावान्न विरोधः, विरोधाभावाच्च न तदुभयान्वये बाध्यबाधक-
भाव इत्यस्मन्मतेऽपि नानुषपत्तिरुक्तव्यवहारस्येति शङ्कार्थः। ये त्वत्र शङ्काग्रन्थं
दोषमात्रेऽव्याप्यवृत्तित्वपरं व्याचक्षते ते न युक्ताः, दोषस्य तथात्वेऽपि केवलं तदव्याप्य-
उक्त व्यवहार में जो वाक्य दोषयुक्त होने से काव्य नहीं है किन्तु दोषरहितत्व से
भिन्न काव्यलक्षणों के सम्बन्ध के कारण काव्यवत् प्रतीत-काव्याभास है उसी के लिए
काव्य शब्द का वक्ता के द्वारा लाक्षणिक प्रयोग हुआ है—यह कथन भी अनुचित है,
क्योंकि मुख्यार्थबाध के बिना लक्षणा नहीं मानी जा सकती। 'न्यक्कारो ह्ययमेव मे
यदरयः' इत्यादि पद्य में विधेयाऽविमर्श दोष रहने पर भी काव्यत्व ध्वनिकारादि-
सम्मत है। एवञ्च काव्यात्मक पद्य के लिए दोषयुक्त होना भी सम्भव है। ऐसी दशा
में काव्य शब्द के मुख्यार्थ के साथ 'दुष्ट' शब्दार्थ के अन्वय में किसी बाधा के
न रहने से उक्त व्यवहार में काव्य शब्द को लाक्षणिक कहना असंगत है। साथ ही,
यह लक्षणा रूढिमूला तो है नहीं और कोई प्रयोजनविशेष भी इसमें नहीं दिखता।
इस प्रसङ्ग से यह भी नहीं कहा जा सकता कि एक ही वृक्ष में अंशविशेष में
पक्षिसंयोग और अंशान्तर में पक्षिसंयोगाभाव के समान एक ही पद्य में अंशविशेष
में दोष और निर्दुष्ट अंशान्तर में काव्यत्व होने से 'वृक्षः पक्षिसंयोगी तदभाववांश्च'
के समान 'इदं पद्यं दुष्टं काव्यं (च)' इस व्यवहार में कोई अनुपपत्ति नहीं है, क्योंकि
'मूले वृक्षः पक्षिसंयोगी, न शाखायाम्' इस प्रामाणिक प्रतीति के आधार पर वृक्ष में
अंशविशेष मे पक्षिसंयोग और अंशान्तर मे पक्षिसंयोगाभाव से संयोग के अव्याप्य-
४ २०
२० रसगङ्गाधरः
अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानाम् हारादिवदुपस्कार-
काणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्च।
यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्व-
लंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकवि-
संप्रदायस्याकुलीभावप्रसङ्गात्। तथा च जलप्रवाहवेगनिपतनोत्पतन-
वृत्तित्वस्य प्रकृतानुपयोगात्, अन्यथा दोषयुक्तस्यापि काव्यत्वं प्रसक्तं भवेदिति नेष्टसिद्धि-
रनया शङ्कया। अत एव ग्रन्थकृताऽपि काव्यत्वस्याऽव्याप्यवृत्तित्वसमर्थको यो व्यव-
हारः 'इदं पद्यं पूर्वार्धे काव्यम् उत्तरार्धे तु न काव्यम्' इति तस्यैव निराकरणमनुभव-
विरुद्धतया कृतम्। दोषस्याव्याप्यवृत्ततानिराकरणं तु नार्थः, तथासति बहुव्याकोप इत्यलं
परपक्षदूषणोद्भावनेन। तस्येत्यनेन काव्यत्वं परामृश्यते। सन्दर्भश्च व्याख्यातप्रायः।
किञ्च श्रुतिकटुत्वादिदोषाणां सर्वांशेन काव्यनिघ्नत्वात्तत्र काव्यत्वस्याव्याप्यवृत्ति-
तामाश्रित्यापि दुष्टस्याऽकाव्यत्वाभ्युपगमोऽनुपपन्न इत्याद्यपि विभावनीयमत्र प्रसङ्गे।
सगुणादिपदप्रतिपाद्यं गुणादिवैशिष्ट्यमपि शब्दशरीरके काव्ये नोपपद्यत इत्याह—
शौर्यादिवदित्यादि। आत्मधर्माणामुपस्कारकाणां चेति द्वयमपि हेतुगर्भं विशेषणम्।
यतो गुणा आत्मधर्मा यतश्चालङ्कारा उपस्कारकत्वेन शरीरानवयवा अत एषां काव्य-
शरीरघटकत्वानुपपत्तिरित्यर्थः।
विश्वनाथोक्तं काव्यलक्षणं दूषयितुं प्रथममर्थतस्तदनुवदति—यत्त्वित्यादिना।
वृत्तित्व के¹ सिद्ध होने पर भी 'इदं पद्यमस्मिन्नंशे निर्दुष्टम् = काव्यम्, अंशान्तरे च
दुष्टम् = अकाव्यम्' इस प्रतीति के प्रामाणिक न होने से काव्य का अव्याप्यवृत्तित्व,
अर्थात् पद्य के निर्दुष्ट अंशमात्र मे काव्यत्व का अस्तित्व, सिद्ध नहीं होता। साथ
ही, शौर्य आदि के समान काव्य की आत्मा (व्यङ्ग्यार्थ) के धर्म गुणों और शरीर के
आगन्तुक शोभाधायक अलङ्कारों को काव्यशरीर के अङ्गभूत तत्त्व कहा भी नहीं
जा सकता।
साहित्यदर्पण में विश्वनाथ ने यह निर्णय किया है कि काव्य वहीं है जो रसवान्
हो, अर्थात् रसोद्बोधक हो। किन्तु यह निर्णय अयुक्त है क्योंकि तब तो वस्तुप्रधान
(जहाँ वस्तु व्यङ्ग्य हो) और अलङ्कारप्रधान (जहाँ अलङ्कार व्यङ्ग्य हो) जो काव्य
हैं वे उनके अनुसार काव्य न हो सकेंगे। वे काव्य हैं भी नहीं—यह तो कहा नहीं
जा सकता, क्योंकि वैसा कहने पर तो महाकवियों की वर्णन-परम्परा हीं उच्छिन्न
१. एक ही अधिकरण के किसी अंश में जिसका अभाव और दूसरे अंश मे भाव
हो उसे 'अव्याप्यवृत्ती' कहते। अव्याप्य = अपने अधिकरण के सर्वांश को
व्याप्त किये बिना, वृत्ती = रहने वाला पदार्थ जो हो।
प्रथमाननम् २१
भ्रमणानि कविभिर्वर्णितानि कपिबालादिविलसितानि च । न च तत्रापि
यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम् । ईदृशरसस्पर्शस्य
'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थ-
मात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक् ॥
तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानु-
कूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया
तन्नेत्यादिना खण्डनम् । परम्परयेति यथाकथञ्चिदित्यस्यैव विवरणम् । अङ्गरस-
विभावादितयाऽङ्गिरसस्पर्शित्वमत्र विवक्षितम् परम्परयेत्यनेन । स्वरसेन तु कपि-
विलसितादेरपि साक्षादेव सम्बन्धः । शेषं स्पष्टम् ॥
सम्प्रति लक्षितस्य कविकर्मणः काव्यस्य कारणं निरूपयति—तस्येत्यादिना ।
केवलेत्यनेन प्रतिभाया व्युत्पत्त्यभ्यासाऽसहकृतत्वं बोधयन् व्युत्पत्त्यभ्यासप्रतिभात्रितय-
पर्याप्तत्वं कारणत्वस्य निराचष्टे । लोकोत्तरवर्णनानिपुणताविशिष्टं काव्यं प्रति त्रित-
यस्य कारणत्वमित्यपरे । कविगतेत्यनेन प्रतिभायाः काव्यनिर्माणानुकूलतास्वरूप-
मुपलक्षणमाचष्टे । प्रतिभां वर्णयति—काव्येत्यादिना । अत्र यथावसरमिति
पूरणीयम् । कविगतेत्यनेन दर्शितं विवृणोति—तद्गतमिति । तत्पदेन प्रतिभा
ग्राह्या । कारणतावच्छेदकतयेति । अत्र प्रतिभानिष्ठा काव्यकारणता किञ्चि-
द्धर्माऽवच्छिन्ना, कारणतात्वात्, दण्डादिनिष्ठघटकारणतावदित्यनेन प्रयोगेण प्रतिभा-
हो जाएगी, क्योंकि उन्होंने अपने काव्यों में केवल रसोद्बोधक तत्त्वों का ही नहीं
अपितु जल-प्रवाह, वेग से गिरने, वेग से उछलने, चमत्कारपूर्ण भ्रमण, बन्दरों और
बालकों की आकर्षक लीलाओं का भी वर्णन किया ही है। ये साक्षात् रसोद्बोधक
तो हैं नहीं । ऐसी स्थिति में इन्हें अकाव्य कहना होगा, जो नितान्त अनुचित है।
ये वर्णन भी परम्परा रसोद्बोधक होने से काव्य हैं—यह मानने पर तो 'गौश्चलति'
आदि वाक्यों को भी काव्य कहना होगा, क्योंकि विश्व के समस्त पदार्थों के यथा-
सम्भव विभाव, अनुभाव तथा व्यभिचारिभावों में किसी न किसी वर्ग में आ जाने
से सब में परम्परा रसोद्बोधकता है हीं। ऐसी स्थिति में 'गौश्चलति' आदि
वाक्यों का काव्यत्व मानना ही पड़ जाएगा । अतः साहित्यदर्पणकार का मत भी
उपादेय नहीं है ।
काव्य का हेतु प्रतिभामात्र है, व्युत्पत्ति तथा अभ्यास से सहकृत प्रतिभा नहीं ।
उचित अवसर पर काव्यनिर्माण के लिए उपयोगी चमत्कारजनक पदार्थ और उसके
प्रतिपादक योग्य पद की कवि के ज्ञान में उपस्थिति को ही प्रतिभा कहते । उस
प्रतिभा मे रहने वाला प्रतिभात्व धर्म प्रतिभानिष्ठ काव्य की कारणता के अवच्छेदक
२२ रसगङ्गाधरः
सिद्धो जातिविशेष उपाधिरूपं वाऽखण्डम्। तस्याश्च हेतुः क्वचिद्देवता-
महापुरुषप्रसादादिजन्यमदृष्टम्। क्वचिच्च विलक्षणव्युत्पत्तिकव्यकरणा-
स्वस्य सिद्धिः, ततश्च 'प्रतिभात्वं जातिः, नित्यत्वे सत्यनेकसमवेतत्वाद्' इत्यनुमानेन
तस्य जातित्वसिद्धिर्बोध्या। उपाधिर्वाऽखण्डमिति। यस्य निर्वचनं न सम्भवति
स उपाधिरखण्डः। तथा च विप्रतिपन्नत्वात् जातेस्तत्स्वरूपस्य च ये प्रकृतप्रतिभा-
निष्ठं प्रतिभात्वं जातिरूपं न मन्यन्ते तन्मतेनेदमखण्डोपाधिः। अयं च जातितुल्य-
योगक्षेमत्वात्कारणताया अवच्छेदकः। नौगेशभट्टास्तु समस्तमेवाखण्डोपाधिं जातिं
मन्वाना अखण्डमिति पाठं चिन्त्यं निर्दिशन्तः सखण्डमिति पाठमभिप्रयन्ति। यद्वा
तन्मते उपाधिमात्रस्य सखण्डत्वेनोपाधिर्वेत्येतावन्मात्रमेव पठनीयम्। एतन्मते च
चमत्कारप्रयोजकत्वं वैलक्षण्यं वाऽवच्छेदकमित्याद्यनुगमः कारणतायाः कर्त्तव्यः।
प्रतिभाहेतुं निरूपयति--तस्याश्चेत्यादिना। प्रतिभाया इत्यर्थः। क्वचित्=
व्युत्पत्त्यभ्यासरहिते पुरुषे। क्वचिच्च = अदृष्टाभावविशिष्टव्युत्पत्त्यभ्यासविशिष्टे
के रूप अनुमित एक जाति है। कारण में जो कारणता रहती वह कारणनिष्ठ
किसी अन्यूनानतिरिक्तवृत्ती धर्मान्तर से अवच्छिन्न होती है और वह धर्मान्तर उस
कारणता का अवच्छेदक होता है। जैसे-दण्ड घट का कारण है, अतः दण्ड मे
घटनिष्ठ कार्यता से निरूपित, कारणता है। उस कारणता का अवच्छेदक उससे
न्यून अथवा अधिक देश मे रहने वाला तद्दण्डत्व अथवा पृथिवीत्वादि नही हो
सकता, अपितु जितने में कारणता रहती उतने मे ही रहने वाला और उससे अधिक
मे न रहने वाला (अन्यूनानतिरिक्तवृत्ती) दण्डत्व नामक धर्म ही होता है। यह
दण्डत्व नित्य और अनेक ( सभी ) दण्डों मे समवाय सम्बन्ध से विद्यमान
(अनेकसमवेत) होने से जातिस्वरूप है। इसी तरह प्रतिभा मे जो काव्यनिरूपित
कारणता है उसका अवच्छेदक प्रतिभानिष्ठ कारणता से न्यूनदेश में अथवा अधिक
देश मे न रहने वाला प्रतिभात्व धर्म है और वह नित्य एवं सभी प्रतिभाओं मे
समवाय सम्बन्ध से विद्यमान होने से एक जाति है। किन्तु जाति का लक्षण
सभी शास्त्रों में एक नहीं है और अद्वैतवादी वेदान्ती तो जातिनामक कोई पदार्थ
मानते भी नहीं, क्योंकि उनके मत मे ब्रह्म से भिन्न सबके सब पदार्थ मिथ्या और
अनित्य हैं। अतः उक्त प्रतिभात्व को एक अखण्ड उपाधि, अर्थात् खण्डों में विभक्त
न होने वाला-निर्वचन के अयोग्य धर्म, भी कहा जा सकता है। नागेश भट्ट तो
किसी भी उपाधि को अखण्ड मानते हीं नहीं। अतः उनके अनुसार यह प्रतिभात्व
सखण्ड उपाधि है।
प्रथमाननम् २३
भ्यासौ । न तुत्रयमेव, बालादेस्तौ विनापि केवलान्महापुरुषप्रसादादपि
प्रतिभोत्पत्तेः । न च तत्र, तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्, गौर-
पुरुषे च । अदृष्टादित्रितयसमुदिते प्रतिभाकारणत्वं निरस्यति- न तु त्रयमेवेति ।
अत्रैवकारेण क्वचित्केवलेनादृष्टेन क्वचिच्च त्रितयेन प्रतिभोत्पद्यत इत्यभ्युपेयम् ।
त्रितयघटकमदृष्टं च केवलादृष्टविलक्षणमेवेत्यपि नागेशमते बोध्यम् । पण्डितराज-
स्त्वदृष्टस्य तत्रैव कारणत्वं मन्यते यत्र दृष्टेन कारणेन प्रतिबन्धकाऽसमवहितेन
कार्योत्पादो न व्याख्येय इति नैतन्मते त्रितयं क्वचिदपि कारणं प्रतिभायाः । यत्र
च व्युत्पत्त्यभ्याससत्त्वेऽपि कार्याऽभावस्तत्र दृष्टं तदभावे चादृष्टं प्रतिबन्धकं
कल्पनीयम्, कार्योत्पादानुकूलव्युत्पत्त्यभ्यासाऽभावो वेत्यनुपदमेव व्यक्तीभविष्यति ।
त्रितयस्य कारणत्वाऽभावेऽदृष्टमात्रस्य च कारणत्वे युक्तिमाह—बालादेरित्या-
दिना । प्रसादादिति । प्रसादजन्यादृष्टादित्यर्थः । यद्यप्यदृष्टस्य सर्वत्र व्यापार-
रूपकारणत्वमेव, व्यापारेण च व्यापारिणो नाऽन्यथासिद्धिस्तथापि व्युत्पत्त्यभ्यासाऽ-
सहकृतत्वमात्राभिप्रायेण फलाऽयोगव्यवच्छेदेन वा केवलस्याऽदृष्टस्य प्रतिभाकारणत्व-
मुक्तं नाऽयुक्तमिति बोध्यम् । तत्र = बालादौ । जन्मान्तरीयव्युत्पत्त्यभ्यासकल्पनाऽभावे
उस काव्यकारणीभूत प्रतिभा का उत्पादक कहीं देवता या महापुरुष की कृपा
से अथवा तपस्या आदि से उत्पन्न विलक्षण अदृष्ट है । कहीं लौकिक एवं शास्त्रीय
व्युत्पत्ति और काव्यनिर्माण का अभ्यास ये दोनो मिलकर भी काव्यविशेषनिर्माण
के कारणीभूत प्रतिभा का उत्पादन करते । किन्तु ये दोनो प्रतिभाएँ भिन्न भिन्न
कारण से उत्पन्न होने से परस्पर-विलक्षण हैं । अतः इन दोनों प्रतिभाओं से उत्पन्न
काव्य भी परस्पर-विलक्षण ही होंगे, एक स्तर के नहीं । अदृष्ट, व्युत्पत्ति और
अभ्यास तीनों मिलकर प्रतिभा को उत्पन्न करते — यह तो माना नहीं जा सकता,
क्योंकि महापुरुष आदि के प्रसाद से उत्पन्न अदृष्ट मात्र से कुछ बाल-कवियों में
काव्य-निर्माणानुकूल प्रतिभा पाई जाती है। बाल-कवियों में वर्तमान प्रतिभा के कारण
अदृष्ट के साथ-साथ पूर्वजन्मजात व्युत्पत्ति और अभ्यास भी हैं—ऐसा कहना उचित
नहीं है । इसका एक कारण तो यह है कि पूर्वजन्मजात व्युत्पत्ति और अभ्यास के
प्रत्यक्ष सिद्ध न होने से उनकी सिद्धि हेतु प्रमाणान्तर की कल्पना करनी होगी, और
जन्मान्तरीय कर्म के अदृष्टद्वारा ही कारण होने से उक्त व्युत्पत्त्यादि से जन्य
अदृष्ट को भी व्यापार कारण के रूप मे मानना ही होगा । इससे इस पक्ष मे गौरव
दोष स्पष्ट है । दूसरे, उक्त स्थल मे व्युत्पत्त्यादि को भी अदृष्ट के साथ-साथ
प्रतिभा का कारण सिद्ध करने वाला कोई दृढतर प्रमाण है भी नही । प्रतिभा-
स्वरूप कार्य को हेतु मान कर उसके कारणीभूत व्युत्पत्त्यादि का अनुमान भी नहीं
२४ रसगङ्गाधरः
वान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च । लोके हि बलवता प्रमाणेनाऽऽग-
मादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय
जन्मान्तरीयमन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते । अन्यथा तु
व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते ।
हेतुः--गौरवादिति । तत्रादृष्टमात्रेण कार्योत्पत्तौ तदतिरिक्तयोस्तयोः कारणत्वा-
भ्युपगमे गौरवादित्यर्थः । यद्वा जन्मान्तरीययोस्तयोः प्रत्यक्षमनुपलम्भादनुमानादिना
तत्कल्पने गौरवादित्यर्थः । ननु प्रमाणसिद्धेऽर्थे गौरवमकिञ्चित्करमित्यत आह--
मानाऽभावादिति । तयोर्बालकविप्रतिभाकारणत्वे दृढतरप्रमाणाऽभावादित्यर्थः ।
कार्यहेतुकमनुमानमेव प्रमाणमित्यत आह—कार्यस्येत्यादि । कार्यस्य प्रतिभाया
अन्यथा = अदृष्टमात्रेणैवोपपत्तेस्तदन्यथाऽनुपपत्तिमूलकानुमानस्य प्रसराभावादित्या-
शयः । यद्यपि जन्मान्तरीयव्युत्पत्त्यभ्यासयोरदृष्टद्वारेणैव कारणत्वं सम्भवदुक्तिकमि-
त्यत्राप्यदृष्टजन्यैव प्रतिभा प्रतीयते तथापि व्यापारेण व्यापारिणोऽन्यथासिद्धत्वा-
भावाज्जन्मान्तरीययोस्तयोः प्रतिभाकारणत्वोक्तिः पूर्वपक्षिणो न विरुध्यते । अत
एवोक्तं गौरवं जन्मान्तरीयव्युत्पत्त्यादितज्जन्यादृष्टकल्पनेन वरं व्याख्येयम् ।
कार्यान्यथोपपत्तिमेव विवृणोति—लोक इत्यादिना । व्यभिचारस्य = कारणाभावे-
ऽपि कार्यभाव इत्याकारस्य व्यतिरेकव्यभिचारस्य कारणताविघातकस्य । अन्यथाऽनु-
पपत्त्या = ऐहिककारणाभावे जन्मान्तरीयस्याऽपि कारणस्याऽनभ्युपगमे कार्योत्पत्त्यनु-
पपत्त्या । कारणं धर्माधर्मादि = कारणीभूतं कर्मादि तज्जन्यं द्वारभूतं धर्माधर्मादि च ।
किया जा सकता, क्योंकि प्रतिभास्वरूप कार्य की जन्मान्तरीय व्युत्पत्त्यादि के
बिना भी देवादिप्रसादजन्य अदृष्टमात्र से उत्पत्ति हो जाने से उक्त प्रतिभा में
व्युत्पत्त्यादिकार्यत्व ही सिद्ध नही होता । तात्पर्य यह है कि लोक-व्यवहार मे
जन्मान्तरीय किसी पदार्थ को कारण और उससे उत्पन्न अदृष्ट को व्यापार-कारण
तभी माना जाता जब उस पदार्थ मे किसी कार्य की कारणता श्रुति-स्मृति आदि
अबाधित प्रमाण से सिद्ध हो और वह कारणीभूत पदार्थ प्रकृतजन्म में उपलब्ध न
हो । किन्तु यदि किसी पदार्थ मे किसी कार्य की कारणता किसी अविप्रतिपन्न प्रमाण
से निर्णीत न हो तो उस पदार्थ और उस कार्य के बीच व्यतिरेक-व्यभिचार¹ होने से
उस पदार्थ मे कारणता के सिद्ध न होने से जन्मान्तरीय उस पदार्थ मे कारणता
का निश्चय भ्रान्त ही होता, यथार्थ नहीं ।
१. जिसे कारण मानना अभीष्ट हो उसके बिना हीं कार्य की उत्पत्ति होने
पर व्यतिरेक-व्यभिचार होता है—'कारणत्वेनाऽभिमताऽभावेऽपि कार्यत्वा-
ऽभिमतोत्पत्तिः ।'
प्रथमाननम् २५
नापि केवलमदृष्टमेव कारणमित्यपि शक्यं वदितुम् । कियन्तंचित्कालं
काव्यं कर्तुमशक्नुवतः कथमपि संजातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः
प्रादुर्भावस्य दर्शनात् । तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः
प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति
कल्प्यते = अनुमीयते (नैयायिकादिमतेन), अर्थापत्त्या वा प्रमीयते (मीमांसकमतेन) ।
जन्मान्तरीयं कारणमिति प्रकृताऽभिप्रायेण, परमार्थतस्त्वैहिकस्यापि कारणस्य
कल्पनं भवत्येव । तत्र च कारणीभूतकर्मादितत्फलयोरानन्तर्याभावे कारणत्वोपपादक-
मदृष्टमपि कल्प्यमेवेति बोध्यम् । तदुक्तमाचार्यैः—
चिरध्वस्तं फलायालं न कर्माऽतिशयं विना ॥ इति ।
अन्यथा = कारणाऽकल्पने । व्यभिचारो व्यतिरेकव्यभिचारः । यद्यप्यन्वयव्य-
तिरेकाभ्यां कारणत्वावधारणं न सर्वसम्मतम्, तथापि तद्व्यभिचारयोः प्रत्येकं कार-
णताग्रहविघटकत्वं सम्प्रतिपन्नमेव सर्वेषाम् । निर्णयो निश्चयः प्रकृते, न तु पक्षप्रति-
पक्षविमर्शपूर्वकमर्थावधारणम्, तत्र प्रमात्वव्यवस्थापनेन भ्रमत्वाऽयोगात् ।
एतावता प्रबन्धेन व्युत्पत्त्यभ्यासाऽसहकृतादृष्टस्य प्रतिभाकारणत्वं व्यवस्थाप्य
व्युत्पत्त्यभ्यामयोरदृष्टाऽसहकृतयोः प्रतिभाकारणत्वं निर्णतुकामः पूर्वपक्षं निरस्यति —
नापीत्यादीना । कारणमित्यतः परं प्रतिभामात्रस्येति शेषः । अशक्नुवत इत्यनेन
तदानीं प्रतिभाऽभाववर्णनमुखेन तज्जनकादृष्टाऽभावः सूचितः । अदृष्टस्य = प्रतिभा-
जनकादृष्टविशेषस्य । प्रसक्तेरिति । अभिमतकारणसत्त्वे कार्योत्पत्तेरवश्यम्भावा-
यह भी नहीं कहा जा सकता कि प्रतिभा सर्वत्र अदृष्ट से ही उत्पन्न होती,
क्योंकि जो व्यक्ति कुछ समय तक काव्यनिर्माण नहीं कर पाता उसमें भी किसी
प्रकार व्युत्पत्ति और अभ्यास करने से प्रतिभा की उत्पत्ति देखी जाती है ।
यहाँ अदृष्ट के बिना ही केवल व्युत्पत्ति और अभ्यास से प्रतिभा की उत्पत्ति से यह
स्पष्ट है कि सर्वत्र अदृष्ट ही प्रतिभा का कारण नहीं होता । यदि उस व्यक्ति में
व्युत्पत्त्यादि के पूर्व भी प्रतिभाजनक अदृष्ट होता तो पहले ही प्रतिभा उत्पन्न
हो जाती और वह काव्यनिर्माण कर लेता । व्युत्पत्त्यभ्यास के पूर्व उसमें प्रतिभा-
जनक अदृष्ट के रहते हुए भी प्रतिभा की उत्पत्ति नहीं हो पाती, क्योंकि उसमें
कारणीभूत अदृष्ट के साथ-साथ प्रतिबन्धकीभूत अदृष्ट भी रहता जिसके प्रभाव से
कारणीभूत अदृष्ट प्रतिभा का उत्पादन कर नहीं पाता; जब व्युत्पत्त्यभ्यास से प्रति-
बन्धकीभूत अदृष्ट का सामर्थ्य अथवा स्वयम् वह अदृष्ट नष्ट हो जाता तब उसमें
कारणीभूत अदृष्ट से प्रतिभा उत्पन्न हो जाती—यह कहना भी युक्त नहीं हैं, क्योंकि
वैसे अनेक व्यक्तियों में अदृष्टमात्रकारणतावादी को कारणीभूत अदृष्टों के अतिरिक्त
प्रतिबन्धकीभूत अदृष्टों की कल्पना (अनुमिति) भी करनी पड़ेगी। किन्तु यह कल्पना
२६ रसगङ्गाधरः
वाच्यम् । तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया कॢप्तव्युत्पत्त्यभ्यासयो-
रेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी ।
दित्यर्थः । प्रतिबन्धकाभावे सत्येव कारणसत्त्वे कार्योत्पत्तेस्तत्र प्रतिबन्धकसत्त्वेन न
कार्योत्पत्तिर्न तु कारणीभूतादृष्टाभावेन, व्युत्पत्त्यभ्यासयोश्च जातयोस्ताभ्यां प्रतिबन्ध-
कादृष्टविनाशेन जायते पश्चात् प्रतिभा स्वजनकादृष्टेनापीत्याशङ्कां खण्डयति—न
चेत्यादिना । दृष्टप्रतिबन्धकाभावादाह—अदृष्टान्तरमिति । कारणीभूतादृष्ट-
विरोध्यदृष्टमित्यर्थः । व्युत्पत्त्यभ्यासोत्पत्तौ जायमानायां प्रतिभायामदृष्टजन्यत्वस्यानु-
पलव्धेर्जनकीभूतमदृष्टं प्रतिबन्धकीभूतमदृष्टं चेति द्वयमपि कल्प्यमेव, तत्र व्युत्पत्त्य-
भ्यासयोः (स्वमते प्रतिभाकारणत्वेन) परमते च प्रतिबन्धकीभूतादृष्टविनाशकत्वेन
क्लृप्तत्वात्तयोर्हेतुत्वमात्रं कल्प्यम्, परपक्षाऽभ्युपगमे तु अदृष्टद्वयकल्पनं व्युत्पत्त्यादौ
प्रतिबन्धकादृष्टनाशकत्वकल्पनं चेति गौरवमित्यतस्त्याज्य एष पक्ष इत्याशयवा-
नाह—अदृष्टद्वयेत्यादि । अदृष्टद्वयम् = कारणीभूतमेकं प्रतिबन्धकीभूतं चापर-
मित्यदृष्टद्वयम् । यत्र चाऽदृष्टसत्त्वेऽपि प्रतिबन्धकादृष्टवशात् कार्यविलम्बस्तत्र
कदाचिद् व्युत्पत्त्यादेरनन्तरं काव्योत्पत्तावपि तस्य प्रतिबन्धकनाश एवोपक्षीणत्वान्न
काव्यकारणत्वम् । अतः = लाघवानुगृहीतत्वेन । प्रागुक्तसरणिः = क्वचित् केवलमदृष्टं
क्वचिच्च व्युत्पत्त्यभ्यासाविति पक्षः । यत्र तु सत्यपि कारणीभूतेऽदृष्टे प्रतिभोत्पत्तौ
विलम्बः, जातायां वा प्रतिभायां काव्यनिर्माणे विलम्बस्तत्र दृष्टप्रतिबन्धकाभावे
प्रतिबन्धकादृष्टं वा कल्प्यम्, उद्बोधकाऽभावो वेति न काचिदनुपपत्तिः ।
नन्वदृष्टजन्यप्रतिभासत्त्वेऽपि व्युत्पत्त्यभ्यासजन्यप्रतिभाया अनुदयात् कारणत्वा-
भिमतसत्त्वेऽपि कार्यान्त्वाऽभितानुत्पत्तिरित्यन्वयव्यभिचारः, एवं प्रकृतादृष्टाभावेऽपि
व्युत्पत्त्यभ्यासाभ्यां प्रतिभोदयात् कारणत्वाभिमताऽभावेऽपि कार्यत्वाभिमतोत्पत्तिरिति
व्यतिरेकव्यभिचारोऽदृष्टप्रतिभयोः व्युत्पत्त्यभ्यासप्रतिभयोश्चेति कथं कारणताग्रहो-
अत्यन्त गौरवग्रस्त होने से उपेक्षणीय है । कल्पना-लाघव तो इसीमे है कि उभय-
सम्मत व्युत्पत्ति-अभ्यास को हीं उक्त स्थल मे प्रतिभा का कारण मान लिया जाय ।
अतः लाघवानुगृहीत पूर्वोक्त पक्ष ही अधिक उपयुक्त है कि प्रतिभा कहीं केवल
अदृष्ट से ओर कहीं व्युत्पत्ति और अभ्यास इन दोनों से उत्पन्न होती है ।
यदि कहीं प्रतिभाजनक अदृष्ट के रहते हुए भी काव्य-निर्माण मे विलम्ब के आधार
पर काव्यजनक प्रतिभा की उत्पत्ति मे विलम्ब सिद्ध हो तो वहाँ दृष्ट प्रतिबन्धक या
उसके अभाव मे अदृष्ट प्रतिबन्धक की कल्पना करनी चाहिए । अथवा अदृष्ट के
उद्बोधक की ही अनुपस्थिति मानकर व्याख्या करनी चाहिये ।
प्रथमाननम् २७
तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यता-
वच्छेदकम्, अतो न व्यभिचारः । प्रतिभात्वं च कवितायाः कारणता-
वच्छेदकम्, प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः ।
ऽदृष्टादावित्यत आह — तादृशादृष्टस्येत्यादि । अयमर्थः—तृणारणिमणिन्यायेन
कार्यवैजात्याभ्युपगमान्नोक्तव्यभिचारप्रसङ्गः । तथाहि तृणेऽरणौ मणौ च वह्निकारण-
त्वेऽपि यथा तृणजन्यवह्ने ररण्यादिजन्यवह्निभ्यां वैजात्येन न तत्र परस्परं कार्यकारण-
भावव्यभिचारः, तृणसत्त्वे तार्णवह्नेः, तृणाभावे तार्णवह्नयभावस्य चोपपत्ते स्तथैवा-
दृष्टजन्यप्रतिभायां व्युत्पत्त्यभ्यासजनितप्रतिभायां च वैजात्याद् यदाऽदृष्टं तदा स
प्रतिभाविशेष उत्पद्यते, यदा चाऽदृष्टाभावस्तदा स प्रतिभाविशेषो नोत्पद्यत इति
रीत्योक्तव्यभिचारनिराकरणे कारणत्वग्रहे न किञ्चिद् बाधकमिति । इदानीं प्रतिभा-
काव्ययोः कार्यकारणभावं निरूपयति—प्रतिभात्वमित्यादिना । प्रतिभा काव्य-
कारणमिति सामान्यतः काव्यत्वं कार्यतावच्छेदकम्, तन्निरूपितायाः प्रतिभानिष्ठ-
कारणतायाश्चावच्छेदकं प्रतिभात्वमित्यर्थः । परन्तु अदृष्टजन्यप्रतिभाजन्यस्य
व्युत्पत्त्यभ्यासजन्यप्रतिभाजन्यस्य च काव्यस्य परस्परविलक्षणत्वेनाऽदृष्टजन्य-
प्रतिभाविशेषसत्त्वाऽसत्त्वयोः व्युत्पत्त्यभ्यासजन्यप्रतिभाजन्यकाव्याऽसत्त्वसत्त्व-
योरन्वयव्यतिरेकव्यभिचारौ स्फुटाविति कथं कारणताग्रहस्तयोरित्यत आह—
प्रतिभागतवैलण्यमेवेत्यादि । वैलक्षण्यं च कार्यनिष्ठोत्तमोत्तमत्वादिसमनुकूलमुत्तमो-
त्तमत्वाधिकमेव । अत्र यथा कार्यकारणयोर्वैलक्षण्यं कार्यतावच्छेदकं तथैवादृष्टादि-
कारणेष्वपि अदृष्टत्वादिव्याप्यं वैलक्षण्यं कार्यवैलक्षण्यानुकूलं कल्प्यम् । अतो न
इस पक्ष में अदृष्टादि और प्रतिभा के बीच व्यतिरेक-व्यभिचार आपाततः
अवश्य प्रतीत होता है, क्योंकि अदृष्टरूपी कारण के अभाव मे भी व्युत्पत्त्यभ्यास-
द्वय कारण से और व्युत्पत्त्यादिस्वरूप कारण के अभाव मे भी अदृष्टात्मक कारण से
प्रतिभा की उत्पत्ति हो ही जाती है । किन्तु विचार करने पर यह दोष नहीं रह
जाता । कारण यह है कि अदृष्टजन्य प्रतिभा और व्युत्पत्त्यादिजन्य प्रतिभा उसी
प्रकार परस्पर-विलक्षण—भिन्न भिन्न हैं जिस प्रकार तृण से उत्पन्न, मणि से उत्पन्न
और अरणिमन्थन से उत्पन्न अग्नि परस्पर-विलक्षण हैं । अतः जैसे ‘तृणसत्त्वे
तार्णवह्न्युत्पत्तिः’ यह अन्वय और ‘तृणाऽभावे तार्णवह्नयभावः’ यह व्यतिरेक भी
उपपन्न हैं उसी प्रकार ‘अदृष्टसत्त्वे तज्जन्यप्रतिभाविशेषोत्पत्तिः’ यह अन्वय
और ‘अदृष्टाऽभावे तज्जन्यप्रतिभाविशेषाऽभावः’ यह व्यतिरेक बन जाते हैं । इसी
तरह व्युत्पत्त्यभ्यासजन्य प्रतिभाविशेष के साथ व्युत्पत्त्यभ्यास के अन्वय-व्यतिरेक
भी उपपन्न हैं । फलतः उक्त व्यतिरेक-व्यभिचार नहीं होता । उभयविध प्रतिभा
में जो दो कार्यताएं हैं उनके अवच्छेदक भी उन दोनों मे रहने वाले ‘वैलक्षण्य’
२८ रसगङ्गाधरः
न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति
वाच्यम् । तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानव-
कश्चिद् दोषः । अन्वयव्यभिचारं निराचष्टे—न चेत्यादिना । मानाऽभावेनेति ।
बैलक्षण्यं प्रतिभोत्पादनानुकूलोऽतिशयविशेषः कार्यदर्शनानुमेयः, तद्विषयकानुमित्यभावेन ।
अयमर्थः—वैलक्ष्ण्यस्यातीन्द्रियत्वेन कयोर्व्युत्पत्त्यभ्यासयोस्तद्वैलक्ष्ण्यं वर्त्तत
इति निर्णयः कार्यहेतुकानुमानेनैव करणीयः। प्रकृते च प्रतिभास्वरूपकार्याऽभावेन तद-
नुमानं न प्रक्रमते । प्रमाणान्तरं चात्राऽसम्भवि । तथा च वैलक्षण्यसाधकप्रमाणाऽभावे
न तादृशं वैलक्षण्यं तथाविधव्युत्पत्त्यभ्यासयोः प्रसिध्यति । कारणतावच्छेदकाऽभावे
च कारणतैव तादृशव्युत्पत्त्यभ्यासयोर्नास्तीति तत्र प्रतिभाऽनुत्पत्तिरिष्टैवेति नान्वय-
व्यभिचारः, कारणत्वाऽभिमताऽभावे कार्यत्वाऽभिमताऽभावस्येष्टत्वादिति । यत्र
पुनर्व्युत्पत्त्यभ्यासयोर्विलम्बेन प्रतिभोत्पत्तिस्तत्र दृष्टाऽभावे जनकत्वप्रतिबन्धकं किम-
ही क्रमशः हैं । प्रतिभाओं में रहने वाला प्रतिभात्व धर्म प्रतिभानिष्ठ काव्यनिरूपित
कारणता का अवच्छेदक है । वस्तुतः दो प्रतिभाओं से उत्पन्न काव्य भी द्विविध ही
होते । अतः प्रतिभाओं मे जैसे अदृष्टादिनिष्ठकारणतानिरूपित कार्यताओं के अव-
च्छेदक क्रमशः दोनो वैलक्षण्य होते उसी प्रकार प्रतिभाओं में जो काव्यनिष्ठकार्य-
तानिरूपित कारणताएं हैं उनके अवच्छेदक प्रतिभाद्वयनिष्ठ दोनों वैलक्षण्य ही क्रमशः
होते, उभयप्रतिभासाधारण प्रतिभात्व नहीं । इसी प्रकार उभयविध काव्यों मे जो
कार्यताएं हैं उनके अवच्छेदक भी क्रमशः उभयनिष्ठ वैलक्षण्यद्वय ही हैं, उभयकाव्य-
साधारण काव्यत्व नहीं । अब प्रश्न यह है कि जब व्युत्पत्ति शौर अभ्यास के रहने
पर भी प्रतिभा की उत्पत्ति नहीं होती तो ‘व्युत्पत्त्यभ्याससत्त्वेऽपि प्रतिभोत्पत्त्यभावः’
यह अन्वयव्यभिचार क्यों नहीं होता । इसके उत्तर मे यह कहा जा सकता है कि
कारणतावच्छेदक से अवच्छिन्न पदार्थ मे ही कारणता रहती है; व्युत्पत्त्यभ्यासनिष्ठ
प्रतिभाविशेषनिरूपित कारणता का अवच्छेदक, सभी व्युत्पत्ति-अभ्यासों से प्रतिभा
की उत्पत्ति न होने से, विशेष प्रकार के (=प्रतिभोत्पादनसमर्थ) व्युत्पत्त्यभ्यास-
निष्ठा वैलक्षण्य है; वह वैलक्षण्यस्वरूप कारणतावच्छेदक प्रतिभोत्पादन में असमर्थ
व्युत्पत्त्यभ्यास में नहीं रहता, अतः उसमे कारणता भी नहीं रहती; अत एव
प्रतिभा की उत्पत्ति उस व्युत्पत्त्यभ्यास से नहीं हो पाती । उक्त वैलक्षण्य के न
रहने मे कारण यही है कि उसके रहने मे कोई प्रमाण नहीं है । तात्पर्य यह है कि
वैलक्षण्य के भाव (अथवा अभाव) का ज्ञान प्रत्यक्ष प्रमाण से हो नहीं सकता,
क्योंकि वैलक्षण्य अतीन्द्रिय है । अतः उसके भाव का निर्णय कार्यहेतुक अनुमान से
ही सम्भव है । प्रकृत स्थल मे जब कार्य उत्पन्न ही नहीं होता तो कार्यहेतुक
च्छिन्नत्वात्। पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः।
प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः
शक्तिमात्रहेतुतावादिनश्चाविशिष्टा। प्रतिवादिना मन्त्रादिभिः कृते कतिपय-
दिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य
दर्शनात्॥
प्यदृष्टं कल्प्यमेवेत्याह—पापेत्यादि। वाशब्दोऽत्र समुच्चये। प्रतिभाऽनन्तरं काव्य-
निर्माणविलम्बेऽप्यैषैव गतिः। एतावतोक्तान्वयव्यभिचारप्रदर्शनमुखेन कार्यात्यन्ताभावेन
कार्यविलम्बेन च जनकीभूताऽदृष्टाऽभावतदुद्बोधविलम्बसाधनद्वारेणादृष्टव्युत्पत्त्य-
भ्यासत्रितयसाधारणमेव प्रतिभाकारणत्वं पर्यवस्यतीति पूर्वपक्षिण आकूतं निरस्तं
वेदितव्यम्, प्रतिभाऽत्यन्ताभावे कारणीभूतव्युत्पत्त्यभ्यासाभावकल्पनेन प्रतिभाविलम्बे
चादृष्टविशेषस्य प्रतिबन्धकत्वकल्पनेनैवोपपत्तावदृष्टस्य तत्रापि कारणत्वकल्पने
गौरवादिति निष्कर्षः। जनकत्वेनेदृशस्थलेऽदृष्टकल्पनाऽयुक्तत्वेऽपि प्रतिबन्धकी-
भूताऽदृष्टकल्पनमुभयसम्मतत्वात् प्रामाणिकत्वाच्च न गौरवपराहतमित्याह—
प्रतिबन्धकाऽभावस्येत्यादिना। शक्तिः = अदृष्टम्। यद्वाऽदृष्टाऽसहकृतत्वरूपमेव
वैलक्षण्यम्, तच्चैवंविधस्थलेऽपीति कारणतावच्छेदकावच्छिन्नयोर्व्युत्पत्त्यभ्यास-
स्वरूपयोः कारणयोः सद्भावेऽपि कथं न प्रतिभोत्पत्तिरित्यत्रोपपत्तिमाह—
पापविशेषस्येत्यादि। शेषं कृतव्याख्यानम् ॥
अनुमान की, जो तादृशवैलक्षण्य को मानने मे साधक प्रमाण और न मानने में
बाधक प्रमाण होता, तो कोई सङ्गति ही नहीं। इस प्रकार, वैलक्षण्य-साधक प्रमाण
न होने से उक्त वैलक्षण्य का अभाव प्रमाणित हो जाता है। यदि कहीं व्युत्पत्त्य-
भ्यास के बाद बिलम्ब से प्रतिभा की उत्पत्ति होती तो वहाँ कार्योत्पत्तिप्रतिबन्धक
अदृष्ट की कल्पना कर विलम्ब का उपपादन करना चाहिए। प्रतिबन्धक के रहते
हुई कार्य की उत्पत्ति न होने से प्रतिबन्धकाऽभाव को भी प्रसिद्ध कारण के विशेषण
के रूप में (प्रतिबन्धकाभावविशिष्ट कारण) अथवा स्वतन्त्र रूप में एक कारण
मानना ही है। प्रतिबन्धकाभाव को कार्य का अन्यतम कारण तो शक्ति (= अदृष्ट),
व्युत्पत्ति और अभ्यास—इन तीनों को समुदित रूप में काव्य का कारण मानने
वाले पूर्वपक्षो को भी कहना ही होगा, क्योंकि उक्त कारणत्रय के रहने पर भी
मन्त्रादि द्वारा कुछ दिनों के लिए वाक्स्तम्भन कर दिये जाने पर अनेक महाकाव्यों
के रचयिता भी उतने दिनों तक काव्यनिर्माण नहीं कर पाते। इसकी व्याख्या
प्रतिबन्धकाभाव को कारण माने बिना असम्भव है। अतः उभयसम्मत एवं प्रामाणिक
होने से प्रतिबन्धकाभाव में कारणता मानने में कोई दोष नहीं रह जाता।
तच्चोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।
शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्तस्तदाद्यम् ॥
कमपीति चमत्कृतिभूमिम् । तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः ।
उक्तलक्षणं काव्यं विभजते—तच्चेत्यादिना । शब्दार्थावित्यादि । यत्र काव्ये
गुणीभावितात्मानौ शब्दार्थों कमप्यर्थं चमत्कारजनकमभिव्यङ्क्तस्तदुत्तमोत्तममित्य-
क्षरार्थोऽस्य सूत्रस्य । अर्थश्चात्र यथायथं वाच्यो लक्ष्यो व्यङ्ग्यश्च ग्राह्यः, यत्र
व्यङ्ग्यार्थेन व्यङ्ग्यार्थान्तरप्रतीतिर्यथा 'निश्शेषच्युतचन्दनम् इत्यादौ तत्र व्यङ्ग्य-
स्यापि स्वव्यङ्ग्यान्तरापेक्षया गुणीभावसम्भवात् । यद्वा सर्वत्रैव वाच्यार्थस्य गुणीभाव-
सम्भवात्तन्मात्रनिवेशेनैव संगतिः । अत एव ध्वन्यालोकवृत्त्यादौ वाच्यार्थमात्रस्य
गुणीभाव उक्तो ध्वनिकाव्ये । लक्ष्यव्यञ्जकान्तरव्यञ्जकव्यङ्ग्ययोर्वाच्यापेक्षया
प्राधान्येऽपि व्यङ्ग्यप्राधान्याभावान्नातिप्रसंगः ।
अत्र च शब्दार्थयोर्गुणीभावत्वोक्त्या व्यङ्ग्यस्य प्राधान्यं चमत्कारजनकत्वं चेति
द्वयमभिप्रेतम् । तत्र प्राधान्यमुपपादकत्वासमानाधिकरणमुपपाद्यत्वम्, विधेयत्वं
वा तादृशम्, उपपादकत्वमात्रं च गुणीभाव इत्यवधेयम् । अपराङ्गेऽपि शृङ्गारादेः
प्रकृष्टकरुणाद्युपपादकत्वमस्त्येव, विशेषणोपपादके विशिष्टोपपादकत्वस्य न्यायसिद्ध-
त्वात् । अतिशयचमत्कारजनकत्वरूपं तु प्राधान्यमत्र न विवक्षितम्, उत्तमकाव्ये
व्यङ्ग्यस्यातिशयचमत्कारित्वेपि तदप्राधान्योक्तेः । इदमुत्तमोत्तमकाव्यमेव ध्वनि-
काव्यमित्यप्युच्यते । तदुक्तं ध्वनिकारेण—
यत्राऽर्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः; काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ इति ।
अत्र च व्यञ्जकत्वेनैकतरप्राधान्यमन्यतरस्य चाऽप्राधान्यं सहकारित्वरूप-
मभिप्रेत्य विकल्पार्थकोऽपि वाशब्दस्तात्पर्यतः समुच्चयार्थ एवेति शब्दार्थयोर्द्वयोरेव
गुणभाव इत्याशयेन पण्डितराजेन द्वयोरेव तथात्वं दर्शितम् ।
तेनेति । चमत्कृतिभूमीति व्यङ्ग्यविशेषणेनेत्यर्थः । सहृदयैरपि दुःखवेद्यमति-
गूढम्, असहृदयैरप्यनायासवेद्यम् अतिस्फुटव्यङ्ग्यम् । 'कामिनीकुचकलशवद् गूढं
यह काव्य चार प्रकार का होता है—उत्तमोत्तम (ध्वनि), उत्तम, मध्यम और
अधम ।
शब्द और यथासम्भव वाच्य, लक्ष्य तथा व्यङ्ग्य अर्थ अपने को गौण बना कर
जहां किसी (चमत्कारजनक प्रधानीभूत व्यङ्ग्य) अर्थ की अभिव्यक्ति करते हों वह
आद्य, अर्थात् उत्तमोत्तम, काव्य है ॥
'किसी अर्थ' का अभिप्राय चमत्कारजनक अर्थ है । इससे 'अतिगूढव्यङ्ग्य' और
प्रथमाननम् ३१
अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वाररणाय गुणीभा-
वितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम् ।
चमत्करोति' इति प्रकाशोक्तौ तु गूढमित्यस्येषद्गूढम् इति तात्पर्यम् । उभयोरन-
योर्व्यङ्ग्यार्थस्योपपाद्यत्वेन प्राधान्ये सत्यपि तस्य चमत्कारकारणत्वाभावान्नोक्तोत्तमो-
त्तमकाव्यलक्षणाऽतिव्याप्तिरित्याशयः । असुन्दरव्यङ्ग्येऽप्यचमत्कारिणि प्रकृतविशेषणे-
नैव निरसनीयाऽतिव्याप्तिः । उदाहरणान्येषां काव्यप्रकाशादिभ्योऽवसेयानि । अभि-
प्रेतस्य व्यङ्ग्यप्राधान्यस्य व्यावत्त्र्यमाह-अपराङ्गेत्यादिना । न परो यस्मादिति
व्युत्पत्त्या मुख्यः प्रतिपाद्योऽर्थ एवाऽपरोत्र विवक्षितः, तत्पोषकमपराङ्गम्, 'अयं स
रसनोत्कर्षी' इत्यादौ यथा शृङ्गारः करुणस्य । अतोऽत्र शृङ्गारमादाय न ध्वनित्वम्,
तस्य चमत्कारित्वेपि प्रकृष्टकरुणोपपादकत्वात्, तत्राऽतिशयाऽऽधायकत्वेन तदुपपाद-
कत्वादिति तात्पर्यम् । इदन्तवधेयम्-अपराङ्गे व्यङ्ग्यान्तरव्यञ्जकव्यङ्ग्या-
पेक्षयोत्तमोत्तमत्वाभावेऽपि पार्यन्तिकव्यङ्ग्यस्य चमत्कारवत्त्वेनोत्तमोत्तमत्वमव्या-
हतम् । निमित्तभेदाच्चैकत्रोभयसमावेशे न विरोधः । एतच्चोत्तमकाव्यलक्षणघटका-
वधारणं व्याचक्षाणेन ग्रन्थकृताऽपि प्रतिपादयिष्यते । यत्र च वाच्यार्थस्यान्यथा-
ऽविश्रान्तस्य विश्रान्तये कश्चन व्यङ्ग्योऽर्थः प्रकल्प्यते तद्वाच्यसिद्ध्यङ्गव्यङ्ग्यं नामा-
न्यतमदगुणीभूतव्यङ्ग्यं काव्यं प्रकाशादावुक्तम् । 'राघवविरहज्वाला......' इत्यादि
पद्यमुत्तमकाव्योदाहरणभूत मस्योदाहरणम् । अनयोः सन्दिग्धप्राधान्यतुल्यप्राधान्यका-
क्त्वाक्षिप्तव्यङ्ग्यानाञ्च व्यङ्ग्यार्थस्य चमत्कारित्वेऽपि प्राधान्याभावान्नातिव्याप्तिः
प्रकृतलक्षणस्येत्यर्थः । व्यङ्ग्यार्थस्य प्राधान्यं लक्षणवाक्ये शब्दत अनुपात्तमपि
शब्दार्थयोर्गुणीभावितत्वोक्त्या गम्यत इत्याह-व्यङ्ग्यप्राधान्याऽभिप्रायकमिति ।
'अतिस्फुटव्यङ्ग्य' (तथा 'असुन्दरव्यङ्ग्य') नामक जो गुणीभूतव्यङ्ग्य काव्य के भेद
हैं उनमें इस उत्तमोत्तम काव्य के लक्षण की अतिव्याप्ति नहीं होती, क्योंकि इन
काव्यों में जो व्यङ्ग्यार्थ होते वे वाच्यार्थ की अपेक्षा अधिक चमत्कार को उत्पन्न
नहीं करते । 'अपराङ्ग' (जिसमें एक व्यङ्ग्य का उपपादन करने वाल दूसरा व्यङ्-
ग्यार्थ होता उसमें) और वाच्यार्थ के उपपादक व्यङ्ग्यार्थ की प्रतीति जहाँ होती उस
'वाच्यसिद्ध्यङ्ग' (एवम् 'सन्दिग्धप्राधान्यव्यङ्ग्य', 'तुल्यप्राधान्यव्यङ्ग्य' और 'काक्वा-
क्षिप्तव्यङ्ग्य) नामक मुणीभूतव्यङ्ग्यों में भी इस लक्षण की अतिव्याप्ति नहीं होती,
कारण इनमें व्यङ्ग्यार्थ के चमत्कारजनक होने पर भी उनकी (व्यङ्ग्यार्थ की)
वाच्यार्थापेक्ष प्रधानता नहीं होती । व्यङ्ग्यार्थ की प्रधानता लक्षणवाक्य में यद्यपि
स्पष्ट रूप में नहीं कही गई है तथापि लक्षणोक्त शब्दार्थ के गुणीभावित होने का
तात्पर्य व्यङ्ग्यार्थ की प्रधानता ही है ।