रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
प्रथमाननम् २७५
विभावानुभावौ चात्र व्यञ्जकौ । न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने
व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपेक्ष्यते, तस्यैव प्राधान्यापत्तेः ।
वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीय-
सामग्रीव्यङ्ग्यत्वेन नान्तरीकतया तनिमानमावहतो व्यभिचार्यन्तरस्या-
विभावादिसामग्रीचर्वणया यथावरणभङ्गो न तथा विकलविभावादिसामग्रीचर्वणया।
सम्भवति, तथा तु सति रसानन्दभावानन्दयोस्तुल्यकक्ष्यत्वमनुभवविरुद्धं युक्तिविरुद्धं
चापतेत् । अतश्च यत्रापि देवादिविषयकरत्यादावापातः प्रतीयत आलम्बनादि-
सकलसामग्री तत्रापि फलबलादालम्बनादौ रसचर्वणाप्रयोजकालम्बनादिवैजात्यं
कल्पनीयमेवेति तत्रापि विकलैव सामग्री । यत्र पुनरालम्बनासम्भवो निर्विषयेषु
भावेषु तत्र सामग्रीव
२७६ रसगङ्गाधरः
ङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं
सति गुणीभूतव्यङ्ग्यत्वापत्तिः, पृथग्विभावानुभावाभिव्यक्तस्यैव ( भावस्य )
गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । अत एव न नान्तरीयकस्य भावस्य
ध्वननं भवति । अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत् ।
नान्तरीयकस्यापि भावस्य प्रधानभावाङ्गभूतस्य व्यङ्ग्यत्वेन तमादाय गुणीभूत-
व्यङ्ग्यत्वं कथं न तत्र सम्भवति—इत्याशङ्कां निरस्यति—न चैवमित्यादिना ।
एषा चाशङ्का विवक्षावशाद्ध्वनेरपि गुणीभूतव्यङ्ग्यत्वं गुणीभूतव्यङ्ग्यस्यापि
ध्वनित्वमित्यभ्युपगच्छतां ध्वनिकारादीनां मतमनुसृत्य । स्वमते तु यथेच्छं
नान्तरीयकस्य पार्यन्तिकस्यैव वेति नावसरोऽस्या आशङ्कायाः । पृथग्वि-
त्यादि । पृथक् स्वतन्त्रावेकभावाभिव्यञ्जकभिन्नौ यौ विभावानुभावौ ताभ्याम-
भिव्यक्तस्यैव, न त्वेकविभावानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्येत्यर्थः ।
भावस्येत्यनन्तरं चमत्कारातिशयवत इति पूरणीयम् । अभिव्यञ्जकस्य च पृथक्त्वा-
न्नान्तरीयकत्वं न सम्भवतीति हेतोः क्वचित् पुस्तके ( काशीमुद्रिते ) पृथग्विभावानु-
भावाभिव्यक्तस्यैवातएवाऽनान्तरीयकस्य भावस्य गुणीभूतव्यङ्ग्यव्यपदेश-
हेतुत्वात् , अन्यथा गर्वादिध्वनेरुच्छेद एव स्यात् ! इति पाठोऽपि सम्य-
ग्वेव । अत एवेत्यादि । अत्र अत एव नान्तरीयकस्य भावस्य ध्वननं
भवति इति निर्णयसागरमुद्रितः पाठोऽसङ्गतत्वादस्माभिरुपेक्षितः । अत्र ध्वननम्
प्राधान्येनाभिव्यक्तिः । यद्यपि नान्तरीयकस्यात एवाङ्गभूतस्य भावस्याऽप्रधानस्य
( अतिशय-चमत्कार-युक्तता के कारण ) प्रधानता सुनिश्चित हो जाती वहाँ उसी
प्रधान भाव के अभिव्यञ्जक सामग्री से प्रधान भाव के पहले अभिव्यक्त होने वाला
नान्तरीयक भाव प्रधान भाव का अङ्ग हो जाता । फलतः उस नान्तरीयक भाव
की अभिव्यक्ति भी सुस्पष्ट रूप से नहीं हो पाती । इससे वह नान्तरीयक भाव
दुर्बल रूप में प्रतीत होता और उसमें प्रधान भाव के समान चमत्कारातिशय भी
नहीं होता । अतः ऐसा नान्तरीयक भाव यदि किसी ध्वन्यमान भाव का अङ्ग—
व्यञ्जक कदाचित् हो भी तो भी कोई अनुपपत्ति नहीं । इसके उदाहरण के रूप में
'गर्व' का प्राधान्येन अभिव्यञ्जन के लिए उससे पूर्व नान्तरीयक 'अमर्ष' का अभि-
व्यञ्जन या 'अमर्ष' का ही प्राधान्येन अभिव्यञ्जन से पूर्व उसी सामग्री से नान्त-
रीयक रूप में अभिव्यक्त 'गर्व' को लिया जा सकता है । अतः स्पष्ट है कि
नान्तरीयक भाव में वह चमत्कार नहीं होता जो प्रधानीभूत भाव में होता । अत
एव व्यङ्ग्य होने पर भी किसी नान्तरीयक भाव के आधार पर किसी काव्य को
'गुणीभूतव्यङ्ग्य' नहीं कहा जा सकता । 'गुणीभूतव्यङ्ग्य' तो तब कहा जाता है
प्रथमाननम् २७७
विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथै-
वालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्संभवतस्तदा न वार्येते ।
भावान्तरापेक्षयाऽतिशयचमत्कारवत्त्वे गुणीभूतव्यङ्ग्यत्वापत्तिस्तथापि स्वमते नान्त-
रीयकस्य भावस्य चमत्कारातिशयवत्त्वं न कथञ्चिदभ्युपेयते, यथा गर्वादावमर्षस्य
अत एव 'नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्य' इत्यनुपदमेवोक्तम् ।
तत्र तनिमानमित्यस्य शैथिल्यमत एवाऽचमत्कारित्वमित्यर्थः । यद्यपि चात्र प्रधानी-
भूतस्य भावस्य चमत्कारातिशयजनकत्वेनोत्तमोत्तमकाव्यत्वम्, रसध्वनिस्थलेऽपि तथैव
तथापि सामग्रीवैकल्याद्विषयस्वभावाच्च भावध्वन्यादिस्थले न तावानानन्दो यावान्
रसध्वनिस्थले । अत उत्तमोत्तमत्वेऽप्युभयोः किञ्चित्तारतम्यमस्त्येव । विभागे
चैतत्तारतम्यं न बाधकमिति नोत्तमोत्तमत्वव्याघातो भावध्वनेरिति बोध्यम् ।
अन्यथेति । गुणीभूतस्य नान्तरीयकस्यापि भावस्य गुणीभूतव्यङ्ग्यव्यपदेशहेतु-
त्वाभ्युपगमे सतीत्यर्थः । उच्छेद इति । गर्वादिध्वनावप्यमर्षादिभावस्य नान्त-
रीयकस्य नियमेन व्यङ्ग्यतया तत्रापि तमादाय गुणीभूतव्यपदेश एव स्यान्न तु भाव-
ध्वनिव्यपदेश इत्याशयः ।
निमित्तेत्यादि कारणतावच्छेदकं च तद्व्यक्तित्वमेव । आलम्बनत्वादिना
कारणत्वं तु न घटते, निर्विषयाणां ग्लान्यादिभावानामालम्बनाभावेन तत्त्वेन कारणत्वे
व्यतिरेकव्यभिचारात् । अतो यत्रापि भावे देवादिविषयकरत्यादौ शङ्कादौ च सम्भव-
जब एक प्रधान भाव के व्यञ्जक विभावादि से भिन्न¹ विभावादि सामग्री से किसी
दूसरे भाव की अभिव्यक्ति हो और वह दूसरा भाव चमत्कारातिशययुक्त हो । ऐसी
स्थिति में यह दूसरा भाव नान्तरीयक नहीं, अपितु अनान्तरीयक होगा । अत
एव नान्तरीयक भाव की ध्वनि प्रधान रूप में अथवा चमत्कारातिशययुक्त भाव के रूप
में कथमपि सम्भव नहीं ।
व्यभिचारि-भाव के अभिव्यञ्जन में विभाव की कारणता विशेषरूप में
( विभाव अथवा आलम्बन-उद्दीपन के रूप में ) नहीं, अपितु एक निमित्त-
कारण के रूप में ही होती, न कि रस के अभिव्यञ्जन में जिस प्रकार विशेषरूप में
विभाव की कारणता होती उस प्रकार । यह विषय पहले भी स्पष्ट किया जा
चुका है । अतः मात्र उद्दीपन-विभावस्वरूप निमित्त कारण से, आलम्बन के बिना
भी, व्यभिचारि-भाव की अभिव्यक्ति हो ही सकती है । हाँ, यदि किसी भाव के
निमित्त कारण के रूप में आलम्बन और उद्दीपन दोनों ही सम्भव हों तो दोनों को
हीं निमित्त कारण मानना चाहिए ।
१. यह भिन्नता आंशिक रूप में ही प्रायः सम्भव है ।
२७८ रसगङ्गाधरः
हर्षादयस्तु --
हर्षस्मृतिब्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगवनिद्रामतिव्या-
घित्राससुप्तविबोधा मर्षावहित्थोन्मादमरणवितर्कविषादौत्सुक्या वेगजड-
तालस्यासूयापस्मारचपलताः । प्रतिपक्षकृताधिककारादिजन्मा निर्वेदश्चेति
त्रयस्त्रिंशद्व्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् ।
एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परास्तम् । उच्छृङ्खल-
ताया मुनिवचनपराहतत्वात् ।
तत्र
त्यालम्बनं तत्राप्यालम्वनस्य आलम्बनत्वेन न निमित्तत्वमपि तु तद्व्यक्तित्वेनैवेति
ज्ञेयम् । क्वचित्—सविषयकभावस्थले ।
भावान् परिगणयति—हर्षेत्यादिना । 'माङ्गलिकतया हर्षनिरूपणं प्रथमं
रोचते पण्डितराजाय' इति रसचन्द्रिका । काव्यविषयत्वाद्वा तथा कृतम् ।
मुनिवचनेत्यादि । यदि वात्सल्यमपि रसान्तरं स्यात्तर्हि सर्वज्ञेन मुनिना
तस्यापि स्थायिभावरूपेण पुत्रादिविषयकरतेर्गणना कृता स्यात्, न चैवमित्यतो न
वात्सल्यं रसान्तरम् । अत एव च पुत्रादिविषया रतिरपि भाव एव, न स्थायि-
भाव इत्याशयः ।
हर्ष आदि भाव निम्न-निर्दिष्ट हैं—
(१) हर्ष, (२) स्मृति, (३) ब्रीडा, (४) मोह, (५) धृति, (६) शङ्का, (७)
ग्लानि, (८) दैन्य, (९) चिन्ता (१०) मद, (११) श्रम, (१२) गर्व, (१३) निद्रा,
(१४) मति, (१५) व्याधि, (१६) त्रास, (१७) सुप्त, (१८) विबोध, (१९) अमर्ष,
(२०) अवहित्था, (२१) उग्रता, (२२) उन्माद, (२३) मरण, (२४) वितर्क, (२५)
विषाद, (२६) औत्सुक्य, (२७) आवेग, (२८) जड़ता, (२९) आलस्य, (३०) असूया,
(३१) अपस्मार और (३२) चपलता । शत्रु द्वारा धिक्कारने-ललकारने आदि से
उत्पन्न, (३३) निर्वेद—वैराग्य भी एक भाव है । इनके अतिरिक्त, गुरु-विषयक,
देव-विषयक, नृप-विषयक, और पुत्रादि-विषयक (३४) रति भी एक भाव है ।
इस प्रकार चौंतीस (३४) भाव हुए ।
कुछ लोग पुत्रादि-विषयक वात्सल्य को भी एक अन्य रस मानते । पुत्रादि-
विषयक रति इसका स्थायिभाव होना चाहिए था । किन्तु पुत्रादि-विषयक
रति का भरत मुनि द्वारा एक व्यभिचारि-भावरूप में परिगणन न किये जाने से इसे
स्थायिभाव मानकर वात्सल्य रस मानना उच्छृङ्खलता मात्र है । अतः वात्सल्य
को रस नहीं माना जा सकता ।
प्रथमाननम् २७९
इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः ।
तदुक्तम्--
'देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः ।
मनोरथाप्तिरप्राप्यमनोहरधनागमः ।।
अथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते ।
नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ।।
अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत् ।।' इति ॥
उदाहरणम् --
अवधौ दिवसावमानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ।
अत्रावधिकाले प्रियागमनं विभावः । मुखविकासोऽनुभावः ।
इष्टप्राप्त्यादीति । आदिशब्देनानिष्टनिवृत्त्यादिर्गृह्यत इति रसचन्द्रिका ।
तच्च तदैव शोभते यद्यनिष्टनिवृत्त्या दुःखाभावातिरिक्तं किमपि भावरूपं भवतीति
मन्यते । न चैवमनुभवसिद्धम् । अनिष्टनिवृत्त्यनन्तरं कस्यचनेष्टस्य प्राप्तौ जायमानं
सुखन्तु नानिष्टनिवृत्तिज यम् । अत एव स्वयमेव ग्रन्थकृदाहादिपदग्राह्यं
तदुक्तमिति ग्रन्थेन । प्रियसङ्गम इत्युपलक्षणं प्रियासंगमस्यापि । अप्राप्येति ।
दुष्प्राप्येत्यर्थः । दुष्प्राप्यानिष्टधननिवृत्त्यर्थं मनोहरेति धनविशेषणम् । सर्वेषामेतेषा-
मिष्टप्राप्तिरूपत्वेऽपि गोबलीवर्दन्यायेन ब्राह्मणवसिष्ठन्यायेन वा पृथगुपादानम् ।
अवधावित्यदिपद्यं स्पष्टार्थम् ।
प्रियागमनमित्यत्र आगमनमुत्तरपदम् । अनुभाव इति । आभ्यां हर्षो भावो
इष्ट वस्तु की प्राप्ति आदि से उत्पन्न सुखविशेषात्मक चित्तवृत्तिविशेष को
हर्ष कहते ।
यही बात संगीतरत्नाकर में कही गयी है—
"जिस चित्तवृत्ति-विशेष के विभाव होते हैं—देवता, राजा, गुरु और स्वामी
(पति) की प्रसन्नता; प्रिय के साथ मिलन; मनोरथ ( उत्कटेच्छाविषयीभूत वस्तु )
की प्राप्ति; उस प्रकार के धन का लाभ जो सरलता से प्राप्त करने योग्य नहीं होता
और पुत्र-पुत्री आदि की उत्पत्ति तथा अनुभाव होते—नेत्रों और मुख की प्रसन्नता;
प्रिय वचन; रोमाञ्च, अश्रु एवम् स्वेद (पसीना) आदि उसे ही हर्ष कहना चाहिए ।।"
इसका उदाहरण निम्नलिखित है—
"मेरे आगमन की अवधि जो सायं सन्ध्या थी उस समय घर के दरवाजे पर
अपनी आँखें टिका कर खड़ी मेरी प्रियतमा ने जब मुझे आया हुआ देखा तब उसका
२८० रसगङ्गाधरः
संस्कारजन्यं ज्ञानं स्मृतिः ॥
यथा—
तन्मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः ॥
चिन्ताविशेषोऽत्र विभावः । स्रस्तगात्रतानिश्चलत्वादय आक्षेपगम्या
व्यजत इत्यर्थः ॥
मुद्रणेऽतिविलम्बेन व्याख्या नष्टा पुरातनी ॥
साम्प्रतं समयाभावादक्षराथॊ निरूप्यते ॥
संस्कारजन्यमिति । संस्कारमात्रव्यापारकमित्यर्थः ।
तन्मञ्जु मन्देत्यादि । चिरविप्रयुक्तस्य नायकस्योक्तिरियम् । यदीयम्
उक्तिरात्मगता हसितादिस्वरूपविशेषज्ञानवन्मित्रकर्मिका वा तर्हि तत्पदं बुद्धिस्थ-
प्रकारावच्छिन्नबोधकम्, यदि तु अज्ञातहसितादिस्वरूपविशेषमित्रकर्मिका तर्हि तत्पदं
बुद्धिस्थत्वावच्छि
प्रथमाननम् २८१
अनुभावा
यद्यप्यत्रास्या एव स्मृतेः संचारिण्याः, नायिकारूपस्य विभावस्य
हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद् विप्रलम्भरसाभिव्यक्तौ
रसध्वनित्वं शक्यते वक्तुम्, तथापि स्मृतेरेवात्र पुरःस्फूर्तिकत्वाच्चमत्कारी-
त्वाच्च तद्ध्वनित्वमुक्तम् ।
तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेद-
स्मृतिबीजस्य बोधिकाः' इत्युक्तत्वात् । आक्षेपगम्या इति तु वाचकशब्दाभावात् ।
अस्य विप्रलम्भध्वनित्वमाशङ्क्य निराचष्टे—यद्यपीत्यादिना । हन्तपदगम्य-
स्येति निपातानां द्योतकत्वमिति मतानुसारेणोक्तम् । पुरःस्फूर्तिकत्वादिति तच्छब्द-
सामर्थ्यात् । चमत्कारित्वाच्चेति वचनस्वाभाव्यात् । तद्ध्वनित्वम्—स्मृति-
ध्वनित्वम् ।
स्मृतेरस्यास्तत्पदवाच्यतासंस्पर्शेण कथं ध्वनित्वमिति निरूपयति—तदादे-
रित्यादिना । बुद्धिस्थो यः प्रकारो घटत्वादिस्तदवच्छिन्ने घटादौ शक्तिरित्येकः
प्रसिद्धो नयः । अत्र च घटत्वादीनां प्रकाराणामानन्त्येन शक्यानन्त्यप्रसङ्गः, तं परि-
हर्तुं बुद्धिस्थत्वेनैकेन रूपेणानुगमान्न तदादिपदस्य नानार्थत्वापत्तिरिति बोध्यम् ।
तथा च पक्षेऽत्र बुद्धिस्थत्वं न शक्यं न वा शक्यतावच्छेदकम् अपि तु शक्यतावच्छेद-
कतावच्छेदकमिति स्पष्टम् । अत एवास्योपलक्षणत्वम् । शक्यतावच्छेदकपर्यनतस्य
शक्यत्वं तु प्रसिद्धम् । तथा चात्र पक्षे बुद्धेः शक्यकोटावप्रवेशान्न तत्पदेन बुद्धित्वेन
सामान्यरूपेणापि बुद्धिविशेषस्य स्मृतेर्वाच्यतासंस्पर्श इति सुव्यक्तमेव । यदा तु पूर्वोक्त-
प्रकारेण बुद्धिस्थत्वं शक्यतावच्छेदकतया शक्यमेव, न पुनः शक्यतावच्छेदकतावच्छेदक-
तयाऽशक्यम्, तदापि बुद्धित्वेन रूपेण स्मृतेस्तत्पदवाच्यत्वेऽपि स्मृतित्वेन विशेषरूपेण
आक्षेपलभ्य भ्रुकुटी का उन्नयन ओर शरीर में निश्चलता आदि इसके अनुभाव हैं
जिनसे स्मृतिस्वरूप चित्तवृत्ति ध्वनित होती है ।
यहाँ प्रश्न यह उठता कि इस पद्य से विप्रलम्भ शृङ्गार रस की ध्वनि क्यों नहीं
मानी जाती, कारण इसमें अभिव्यज्यमान स्मृतिस्वरूप सञ्चारिभाव, नायिकारूपी
आलम्बनविभाव और 'हन्त' इस निपात पद से गम्यमान हृदय-विकलतारूपी अनुभाव
के प्रस्तुत होने से इनके संयोग से विप्रलम्भ की ध्वनि की परिस्थिति तो है ही ।
फिर इसमें प्रधानरूप में स्मृति की ही ध्वनि क्यों मानी जाती ? इसका उत्तर यही
दिया गया है कि यहाँ शब्दसामर्थ्य से स्मृति की ही अभिव्यक्ति पहले होती और
वही स्मृति चमत्कारिणी है । इसीलिए यहाँ स्मृतिध्वनि ही मान्य है, विप्रलम्भ-
ध्वनि नही ।
क्तानुगमकतया न वाच्यतासंस्पर्शः। बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि
स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव ।
न वाच्यत्वसंस्पर्श इति तद्ध्वनित्वमाह—बुद्धिस्थत्वमित्यादिना । तथा च वाच्यता-
वच्छेदकव्यङ्ग्यतावच्छेदकयोर्भेदात् सामान्याकारेण वाच्याया अपि स्मृतेर्विशेषाकारेण
व्यङ्ग्यत्वं चमत्कारित्वाच्च ध्वनित्वमिति लभ्यते ।
यत् पुनः बुद्धिस्थत्वमिति प्रतीकमादायोक्तं रसचन्द्रिकायाम्—'परमिदं सर्वम-
सङ्गतमेव । यतः सर्वत्रैवोपस्थितौ शक्यतावच्छेदकं भासते, बुद्धिस्थत्वन्तु न कुत्रापि
घटादिपदजन्योपस्थितौ ।' इति तत्तु तत्पदजन्योपस्थितौ बुद्धिस्थत्वस्य शक्यता-
वच्छेदकतया भानमिति वदतो ग्रन्थकृतः किं विरुणद्धि इति न विद्मः । किञ्च कृत-
संकेतं मित्रादिकम्प्रति अधुना तत्र गन्तव्यमित्यादि वचनात् विशेषार्थकपदान्तरासम-
भिव्याहृततत्पदात् तटस्थस्य यो बोधस्तत्र बुद्धिस्थत्वादतिरिक्तं किं शक्यतावच्छेदकं
सम्भवतीत्यपि विभावनीयम् । तथा च लाघवात् सर्वत्रैव तत्पदघटितबोधे बुद्धिस्थत्व-
मेव शक्यतावच्छेदकमस्त्विति ग्रन्थकृतोऽभिप्रायः ।
इदं पुनरत्र विचिन्त्यताम्—पदार्थोपस्थितिपूर्वकस्यैव शब्दप्रयोगस्य वक्तृकर्त्तृकस्य
सम्भवात् पूर्वानुभूतपदार्थप्रतिपादकशब्दप्रयोगात्पूर्वं तदुपस्थितेरावश्यकत्वमिति
निर्विवादम् । न चैतादृशस्थलेषु पदार्थोपस्थितिर्वक्तुरनुभवरूपा, तस्याः संस्कारशेष-
त्वात् । तथा च या बुद्धिस्तत्पदस्य शक्यतावच्छेदिका तद्घटिका वा सा
स्मृतिरूपापीतिपरिशेषाद् वाच्यत्वमेवान्ततः स्मृतेरिति भावरूपायाः स्मृतेस्तत्पदाघटित-
पुनः प्रश्न उठ सकता है कि 'तत्' आदि सर्वनाम शब्दों के वाच्य अर्थ के अन्त-
र्गत स्मृति के आ जाने से उसे व्यङ्ग्य कैसे माना जा सकता । इसके उत्तर में
ग्रन्थकार ने—उक्त सर्वनाम शब्दों की शक्ति किस अर्थ मे है और उसमें स्मृति का
समावेश है अथवा नहीं, यदि है भी तो किस रूप में है—एक बुद्धि के रूप में अथवा
स्मृति के रूप में—इसका विचार कर यह स्पष्ट किया है कि जिस रूप में स्मृति के
वाच्य होने पर उसे व्यङ्ग्य मानना असम्भव है उस रूप में स्मृति 'तत्' आदि पदों
का वाच्य नहीं है, अतः उसे व्यङ्ग्य मानने में कोई आपत्ति नहीं उठती। यहाँ 'तत्'
आदि पदों की शक्ति के विषय में प्रथमतः यह मत प्रस्तुत किया गया है कि इनकी
शक्ति बुद्धिस्थ जो (घटत्व-पटत्व) आदि प्रकार—विशेषण हैं, उनसे अवच्छिन्न-विशिष्ट
(घट-पट आदि) पदार्थों में है। इस मत में बुद्धिस्थत्व शक्यतावच्छेदकीभूत घटत्व-
पटत्व आदि नाना प्रकारों का अनुगमक है, स्वयं में यह न शक्य है और न शक्यता-
वच्छेदक। बुद्धिस्थत्व को शक्यतावच्छेदक का अनुगमक (उपलक्षण) न मानने पर
शक्यतावच्छेदकों के और उनके कारण शक्यों के भी नानात्व के कारण एक-एक शक्य
प्रथमाननम् २८३
तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् ।
एतेन भावानां पदव्यङ्ग्यत्वे न वैचित्र्यमिति परास्तम् । सायंतनाम्बु-
जोपमानेन नयनयोत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या
आनन्दमग्नताप्रकाशः ।
मुदाहरणान्तरं मृग्यम् । श्रोतुस्तत्पदश्रवणानन्तरं वक्तृकर्त्तृकपूर्वानुभवविषयस्यैव
पदार्थस्य प्रतीतिरिति यदि विभाव्यते तर्हि स्मृतेर्न सामान्येनापि तत्पदवाच्यत्वम् ।
तथापि स्मृतेरपि संस्कारजनकत्वमिति गुरुतरं पक्षान्तरमादाय कथंचित्संगमनीयो
ग्रन्थः ।
अत्रेदपि विवेचनीयम्—'शयिता सविधे' इत्यादिपद्यविवरणावसरे 'कथमपि
वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालङ्कारिकैः स्वीकारात्' इत्यभिद-
धतो ग्रन्थकृतो वचनमिदं प्रकृतेऽन्यत्र च साहङ्कारेत्यादिपद्यव्याख्यानावसरे निबद्धं
विरुद्धम् । अत एव चास्माभिरपि पूर्वमेवमेवोक्तम् । परन्तु सामान्याकारविशेषा-
कारप्रतीत्योर्वैलक्षण्यं परीक्षकोपदेशसहकृतरत्नादिप्रत्यक्षवन्निर्विवादम् । अत एव
प्रकृतेऽपि तथोक्तं ग्रन्थकारेण । अत एव च 'शयिता सविधे' इत्यादिपद्यव्याख्याना-
वसरेऽपि 'कथमपि वाच्यवृत्ति' इत्यादिपूर्वाचार्यप्रसिद्धपक्षमुपस्थाप्यान्ते 'चुम्बनेच्छायाः
... अचमत्कारित्वाच्च' इति सन्दर्भेण प्रकारान्तरमुक्तम् । अत्र च 'व्यङ्ग्यताव-
में एक-एक शक्ति माननी होगी जिसका परिणाम एक-एक 'तत्' आदि सर्वनाम
शब्द में नाना शक्तियों का अपरिहार्य अभ्युपगम होगा । इससे प्राप्त गौरव का
परिहार, अर्थात् शक्ति-नानात्व का निवारण, करने के लिए आवश्यक है कि उन
शक्यतावच्छेदकों का अनुगमक एक बुद्धिस्थत्व को माना जाय । तब तो बुद्धिस्थ
रूप में सभी प्रकारों—शक्यतावच्छेदकों की एक रूप में ही उपस्थिति और प्रतीति
होगी और इस प्रकार एक ही शक्ति सभी शक्यतावच्छेदकों और उनसे विशिष्ट
शक्यों की उपस्थिति तथा प्रतीति में पर्याप्त हो जायेगी । इस प्रथम मत के अनुसार
अनुगमक बुद्धिस्थत्व के अन्तर्गत स्मृति का समावेश होने पर भी इसे वाच्य नहीं
कहा जा सकता, क्योंकि वाच्यता शक्य और शक्यतावच्छेदक तक ही सीमित है,
उनसे अतिरिक्त में नहीं । अतः इस मत में उक्त पद्य में स्मृति को व्यङ्ग्य
मानने में कोई दोष नहीं है । द्वितीय मत यह है कि 'तत्' आदि सर्वनामों की
को शक्ति बुद्धिस्थत्वविशिष्ट बुद्धिस्थ पदार्थों में है । इस मत में बुद्धिस्थत्व शक्यता-
वच्छेदक होगा और बुद्धिस्थ पदार्थ शक्य । इनमें शक्यतावच्छेदकीभूत बुद्धिस्थत्व
और शक्य—बुद्धिस्थ के घटक बुद्धि के अन्तर्गत स्मृति एक बुद्धि के रूप में
अवश्य आती, किन्तु बुद्धिविशेष स्मृति के रूप में नहीं । अतः बुद्धित्वविशिष्ट
४. नव रस लक्षण, स्थायी भाव, विभाव-अनुभाव-व्यभिचारी भाव एवं प्रथम आनन उपसंहार
२८४ रसगङ्गाधरः
दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥
च्छेदकतया भासमानजात्यादिरूपेण यत्र वाच्यता तत्रैवाचमत्कारिता । पूर्वोदाहरणे
हि मनोरथत्वेच्छात्वयोर्घटत्वकलशत्ववदेकतया तेनैव रूपेण वाच्यताऽस्तीति न दोषः ।'
इति मर्मप्रकाशोक्तं मतान्तरमपि चिन्त्यमेव ।
तस्याः = स्मृतेः । कुर्वद्रूपत्वं कार्यजननसामर्थ्यं तच्च प्रकृते स्मृतिव्यञ्जकत्व-
मेव तदादिपदे प्रसिद्धमिति भावः । तेन च कुर्वद्रूपेण पदेन चमत्कारकारिणा तद्-
घटितवाक्यस्यापि तथात्वं विज्ञेयम् । यदाहुर्ध्वनिकृतः –
विच्छित्तिशोभिनेकेन भूषणेनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥ इति ।
प्रत्युदाहरणम्—दरानमदिति । दरमीषदानमन् कन्धरबन्धो यस्मिन्
(तमङ्गनायाः सङ्गम), अथ च ईषन्निमिलिते स्निग्धे विलोचने अब्जे इव मनोज्ञे यत्र
तम् अनल्पनिःश्वासभरेणालसमङ्गं यस्यास्तस्तस्या अङ्गनायाः प्रियतमायाः सङ्गं चिरं
स्मरामीत्यर्थः ।
स्मृति में वाच्यता आने पर भी स्मृतित्वविशिष्ट स्मृति में, जिसमें व्यङ्ग्यता अभिप्रेत
है, वाच्यता नहीं है। इस प्रकार स्मृति को व्यङ्ग्य कहना सर्वथा उचित है।
इस विषय में विशेष विचार संस्कृतटीका में द्रष्टव्य हैं।
उक्त स्मृति की अभिव्यञ्जना यद्यपि पूरे पद्यात्मक वाक्य से होती हुई प्रतीत
होती तथापि पद्यान्तर्गत 'तत्', 'तानि' और 'सा' इन तोन पदों में स्मृतिव्यञ्जन-
सामर्थ्य की उत्कटता के कारण यहाँ स्मृति को पद से ही व्यङ्ग्य समझना चाहिए।
अत एत्र यह मत निरस्त हो जाता है कि हर्षादि भावों के पद-व्यङ्ग्य होने पर
उनमें चमत्कार नहीं रह जाता ।
इस पद्य से प्रसङ्गात् नायिका की आनन्दमग्नता भी उसकी आँखों के उत्तरोत्तर
अधिकाधिक संकोच प्राप्त करते जाने की व्यञ्जना द्वारा ध्वनित होती है। संकोच
की अभिव्यक्ति सायंकालिक कमल से आँखों की उपमा से होती है।
अब एक प्रत्युदाहरण भी द्रष्टव्य है—
“मैं प्रियतमा के साथ हुए उस समागम का स्मरण चिरकाल करता रहता हूँ
जिसमें उसकी गर्दन कुछ झुकी हुई थी, उसके आकर्षक नयन-कमल लज्जा से कुछ
संकुचित हो गये थे और उसका सारा शरीर रतिश्रमजन्य अत्यधिक निःश्वास से
अलसाया हुआ था ॥”
प्रथमाननम् २५५
इत्यत्र स्मृतिर्न भावः, स्वशब्देन निवेदनादव्यङ्ग्यत्वात् । नापि स्मरणा-
लङ्कारः, सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालङ्कारत्वम्,
अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव
सुन्दरत्वात्कथंचिद्रसपर्यवसायी ।
स्त्रीणां पुरुषमुखावलोकनादेः, पुंसां च प्रतिज्ञाभङ्गपराभवादुत्पन्नो
वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा ।
यथा—
कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दमालोकमाना ।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकितनतनताङ्गी सद्म सद्यो विवेश ॥
स्वशब्देन = स्मरणवाचकस्मरामीतिशब्देन । अव्यङ्ग्यत्वादिति । व्यङ्ग्य-
स्यैव व्यभिचारिणो भावत्वादिति भावलक्षणेनैव प्रतिपादितत्वादिति तात्पर्यम् ।
कथञ्चिदिति । नायिकास्वरूपालम्बनविभावातिरिक्तानुभावादीनामनवबोधादि-
त्याशयेनेदमुक्तम् ।
व्रीडां लक्षयति—स्त्रीणामिति । अधोमुखत्वादीत्यत्र आत्मगोपनं नखविलेख-
नादिकं च आदिपदग्राह्यम् ।
नायकः स्वमित्रं व्याहरति—कुचेत्यादि । कुचौ कलशाविव पीनोन्नती इति
नायक द्वारा अपने मित्र से कहे गये इस पद्य में स्मृति 'स्मरामि' इस क्रिया पद
का वाच्य है, व्यङ्ग्य नहीं। अतः यहाँ इसे भाव नहीं कहा जा सकता । इसे
स्मरणालङ्कार कहना भी सम्भव नहीं, क्योंकि सादृश्यदर्शनजन्य स्मृति ही अलङ्कार
होती । यहाँ तो स्मृति नायिका-विषयक पुनः-पुनः चिन्तन से जन्य है। यह
अलङ्कारिकों का सिद्धान्त है कि सादृश्यदर्शनजन्य स्मृति अलङ्कार है, और व्यङ्ग्य
होने पर भाव । नायिकास्वरूप आलम्बन विभाव के आकर्षक होने से विप्र-
लम्भ शृङ्गार-व्यञ्जक सामग्री के अभाव में भी किसी तरह यहाँ विप्रलम्भ की
व्यञ्जना मानी जा सकती है ।
स्त्रियों में पुरुषों के मुखदर्शन आदि से और पुरुषों में प्रतिज्ञाभङ्ग, शत्रुकृत पराभव
आदि से उत्पन्न वह विशेष प्रकार की चित्तवृत्ति 'व्रीडा' (लज्जा) कहलाती जिससे
मुख विवर्ण हो जाता, नीचे झुक जाता ॥
उदाहरण देखिए—
"अपने कलशतुल्य विशाल एवम् उन्नत कुचों के बीच मेरे द्वारा किये गये नख-
२८६ रसगङ्गाधरः
अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षताव-
लोकनजन्यहर्षविद्योतकतत्पुलकादेर्दर्शनं च विभावः। सद्यः सदनप्रवेशोऽनु-
भावः।
यथा वा -
निरुद्ध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने।
मयि स्मिताद्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव॥
पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव। प्रिय-
कुचकलशौ तयोर्युगमिति भावः। बाला नवोढा नायिका। चकितेत्यनेन
त्रासोऽपि व्यज्यते।
प्रियस्येति कर्त्तरि षष्ठी। तेन = प्रियेण।
निरुद्ध्येत्यादि। तरसाऽतिशीघ्रं यान्तीं पलायमानां कपोतीं निरुध्य कूजतः
कपोतस्य पुरो ददाने मयि सति सा मुग्धा मम कामुकत्वमधि
प्रथमाननम् २८७
कतृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः ।
भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः ।
‘अवस्थान्तरशवलिता सा तथा’ इति तु नव्याः ।
उदाहरणम्—
विरहण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥
अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः ।
यथा वा—
त्रासहर्षयोरनुभावयोरवर्णनादिदमुक्तमिति रसचन्द्रिका । अप्राधान्येनेति युक्ततरं
प्रतीमः । आद्ये चकितेत्यनेनानुभावस्य वर्णनेऽपि विभावस्यावर्णनात्, अन्त्ये
चोभयोर्वर्णनेऽपि नभवाम्बभूवेतिप्रधानीभूतायां क्रियाया हर्षस्य न्यग्भावापादनादिति
बोध्यम् ।
मोहलक्षणमाह--भयेत्यादिना । अवस्थान्तर=उन्मादः, सा = प्रोक्ता चित्तवृत्तिः ।
विरहेणेत्यादि । विकलहृदयेति सापेक्षत्वेऽपि चैत्रस्य गुरुकुलमितिवत्समासः ।
तम् = प्रियम् ।
के लिए अनुकूल ही पड़ती उसी प्रकार द्वितीय उदाहरण में व्यज्यमान हर्ष की थोड़ी-
सी मात्रा भी प्रधानीभूत व्रीडा के अनुकूल ही है । यहाँ द्वितीय उदाहरण में कबूतर
के सामने प्रियतम द्वारा कबूतरी का समर्पण विभाव है और वदन का झुकाना अनु-
भाव । इन सबसे व्रीडा-स्वरूप भाव की व्यञ्जना होती ॥
भय और इष्टजन-वियोग आदि से उत्पन्न होने वाली और वस्तु के यथार्थस्वरूप
का निर्णय न करने वाली चित्तवृत्ति को मोह कहा जाता ।
किन्तु कुछ नवीन आचार्य उत्कटतावस्था को प्राप्त उन्मत्तता नामक चित्तवृत्ति
को ही मोह कहते ।
इसका उदाहरण यह है--
“विरह से विकल हृदय वाली मुग्धा नायिका बार-बार 'प्रियतम ! प्रियतम !'
यह विलाप कर रही थी । इसलिए पास आ जाने पर मुझे इस तरह देख रही थी
मानो वह मुझे पहचानती ही न हो ॥”
यहाँ प्रियतम का उत्कट वियोग विभाव है और इन्द्रय की विकलता ( अपने
विषय के अवधारण के सामर्थ्य का अभाव ) एवम् निर्लज्जता आदि अनुभाव हैं जिनसे
मोह व्यञ्जित होता ॥
दूसरा उदाहरण भी देखिये—
२८८ रसगङ्गाधरः
शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः ।
नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्र ॥
लोभ शोक · भयादिजनितोपप्लवनिर्वारणकारणीभूतश्चित्तवृत्तिविशेषो
धृति ॥
उदाहरणम्--
संतापयामि हृदयं धावं धावं धरातले किमहम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ।।
अत्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलाद्युपशमोऽनुभावः । ननु चोत्त-
रार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति
शुण्डादण्डमित्यादि । कान्तापेत इत्यनेन विभावः प्रदर्शितः । अनुभावा-
श्चाक्षेपगम्याः ।
धृतिलक्षणम्--लोभेत्यादि । जनिपर्यन्तमुपप्लवविशेषणम् ।
संतापयामीत्याद्युदाहरणं धृतेः । धावं धावमित्याभीक्ष्ण्ये णमुल्, धावित्वा
धावित्वेत्यर्थः । अर्थः स्पष्टः । उत्तरार्धे कारणवर्णनम् ।
विवेकम्पत्तिः श्रुतं शास्त्रीयं ज्ञानं तस्य च सम्पत्तिः विवेकश्रुतसम्पत्तिः ।
वस्तुनः--चिन्ताभावस्य । अभावस्य तुच्छस्यापि रसालङ्कारभिन्नत्वाद् वस्तुत्व-
"गजराज अपनी प्रियतमा हथिनी के वियोग से इतना किंकर्त्तव्यविमूढ़ हो चुका
है कि अपनी सूँड को कुण्डलाकार बना और आँखों को सिकोड़कर वह नदी-तट पर
खड़ा होकर भी न तो पानी पी रहा और न ही कमलों को ही अस्त-व्यस्त कर
रहा है ॥"
यहाँ भी प्रिया-वियोग विभाव हैं और नदी-तट पर खड़ा होकर पानी न पीना
आदि अनुभाव जिन सबसे गजेन्द्रगत मोह की अभिव्यञ्जना होती ॥
लोभ, शोक और भय आदि से उत्पन्न होने वाली अशान्ति को उत्पन्न होने से
रोकने वाली चित्तवृत्ति धृति है ॥
इसका उदाहरण देखिए--
"इस धरातल पर इधर-उधर भाग-दौड़कर अपने हृदय को मैं क्यों सन्तप्त करूं
जब परमेश्वर नन्दकुमार-भगवान् श्रीकृष्ण मेरे सर पर हाथ रखे हुए हैं !!"
यहाँ ( आक्षेपगम्य ) विवेकज्ञान, शास्त्राध्ययन-मनन आदि विभाव हैं और
चित्तचाञ्चल्य आदि का अभाव अनुभाव । इन सबसे धृति अभिव्यक्त होती ।
अब प्रश्न यह है कि जब उत्तरार्ध से 'फिर मुझे कैसी चिन्ता' इस प्रकार
निश्चिन्ततास्वरूप वस्तु की व्यञ्जना होती तब इसमें धृति को व्यङ्ग्य भाव कैसे
प्रथमाननम् २८९
*चेत्, तस्य धृत्युपयोगितयैवाऽभिव्यक्तेः ।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का ।
उदाहरणम्—
विधिवञ्चितया मया न यातं, सखि ! सङ्केतनिकेतनं प्रियस्य ।
अधुना बत ! किं विधातुकामो, मयि कामो नृपतिः पुनर्न जाने ॥
रूपेणैव ध्वननमत्र प्रतीयत इति कथमस्य पद्यस्य धृतिसंज्ञक-भावध्वनेरुदाहरणत्वमिति
प्रश्नः । तस्य चिन्ताऽभावरूपस्य वस्तुनो धृतिभावोपयोगितयैव तदुपकारितयैव तदङ्ग-
तयैवाभिव्यक्तिर्भवतीति धृतिरेवात्र प्रधानं, चिन्ताऽभावरूपं वस्तु गौणमिति भवतीदं
पद्यं धृतिभावध्वनेरुदाहरणमित्युत्तरम् ।
शङ्करं शङ्करं नत्वा रसगङ्गाधरं हरम् ।
अपूर्णां पूरये व्याख्यां रम्यां रसतरङ्गिणीम् ॥
शङ्काख्यं भावं लक्षयति—किमनिष्टेति । भाविनः स्वानिष्टस्यानिश्चितस्यापि
या आशङ्का मनसि जायते सैव शङ्काख्यो भावः । आशङ्कात्र सम्भावना । अनिष्टसम्भाव-
नायाः कारणरूपाः परक्रूरतादयः शङ्काया विभावः, वैवर्ण्यादिश्चानुभावः ।
विधीति । हे सखि ! भाग्यप्रतारितया मया नायिकया प्रियस्य संकेतभवनं
नैव गतम्, न स्वेच्छया विवेकपूर्वकमपि तु भाग्यवशादेवेति नाहमपराधिनीति ध्वनितम्
प्रियेत्यनेन प्रणयाथयत्वेन तत्रावश्यं गन्तुमुचितमिति च । अधुना हन्त ! भाग्यप्रेरणया
मया अपराधे कृते सति नृपतिः कामो राजा कामदेवः, शासकत्वाद् युवजनानां स राजेति
दण्डदायकः क्रूर इति ध्वन्यते । स किं विधातुकामो वर्तते इति न जाने, कठोरं दण्डं
दा यति, किं वा विधास्यतीति शङ्का । विधातुकाम इत्यत्र "तुंकाममनसो" रित्यादि-
वार्त्तिकेन मलोपः ।
माना गया ? उत्तर है कि यहाँ 'चिन्ता का अभाव' यह वस्तु प्रधान नहीं है, अपितु धृति-
भाव के उपकारक के रूप में गौण ही है । उसी रूप में चिन्ता के अभाव की अभिव्यक्ति
हुई है । अतः यहाँ भावध्वनि ही प्रधान है । वस्तु-भावध्वनि के पोषक होने से ही
चमत्कारक है ।
'किस प्रकार का अनिष्ट मुझे हो जायेगा ?' इस प्रकार की मानसिक भावना
को शंका नामक भाव कहते हैं । इसमें अनिश्चित अनिष्ट के सन्देह का चिन्तन रहता
है । यथा—
————
*किन्हीं अपरिहार्य कारणों से आचार्य डॉ० श्रीनारायण मिश्र जी द्वारा
सम्पादित व्याख्या समाप्त्यन्त तक सम्पन्न न हो पायी । अतः अवशिष्ट भाग की पूर्ति
आचार्य श्री डॉ० शशिनाथ झा जी द्वारा की गयी ।
२९० रसगङ्गाधरः
अत्र राजापराधो विभावः । मुखवैवर्ण्यदय आक्षेप्या अनुभावाः । इयं
तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता ।
आधिव्याधिजन्य-बलहानिप्रभवो वैवर्ण्य-शिथिलाङ्गत्त्वदृग्भ्रमणादि-
हेतुर्दुःखविशेषो ग्लानिः ।
यथा -
शयिता शैवल-शयने, सुपमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे, सत्कुरुते मधुरवीक्षणैरेव ॥
अत्र प्रियविरहो विभावः । मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना
प्रत्युद्गम-चरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्क्यः,
कारणाभावात् ।
अत्रोदाहरणे राज्ञः कामदेवस्य ( तं प्रति ) अपराधो नायिकाकृतः शङ्काख्य-
भावस्य कारणत्वाद् विभावः साक्षादुक्त एव । नायिकाया मुखविवर्णत्वादयः साक्षादनुक्ता
अपि आक्षेपलभ्याः शङ्कायाः कार्यरूपा अनुभावाः । साक्षादुक्तं कारणं दृष्ट्वा तत्कार्यस्या-
नुमानलभ्यत्वमाक्षेप्यत्वम् । शङ्काख्यभावस्य चिन्ताख्यभावतो वैशिष्ट्यं दर्शयति-
इयमिति । इयं शङ्का, भयकष्टादिकमुत्पाद्य कम्प-मुखवैवर्ण्यादिकं जनयति,
चिन्ता तु नैव जनयतीत्यनयोर्भेदः ।
ग्लानिलक्षणमाह-आधिव्याधीति । मानसिक-शारीरिकदुःखेन शरीरे या
बलस्य हानिस्तदुत्पन्नं दुःखमेव ग्लानिभावश्चित्तवृत्तिविशेष एव । तयैव ग्लान्या देहे
विवर्णता-शिथिलतानयनभ्रमणानुत्साहादयो जायन्ते ।
ग्लानिभावमुदाहरति-शयितेति । सुषमा परमा शोभैव शेषा यस्याः सा विर-
हिणी द्वितीयाचन्द्रलेखा इव सूक्ष्मावयववती अतिक्षीणा शारीरिकदुःखयुक्तेति यावत्,
शैवलशयने शयिता मानस-शारीरतापशमनाय शैवालतल्पे शयिता न तूपविष्टा बलहीना-
त्वात्, प्रियं रमणम् सविधे समीपे आगतमपि मधुरदृष्ट्यैव सत्कुरुते, प्रत्युत्थानादिश्व-
सामर्थ्यात् ।
हे सखि ! भाग्य से वञ्चित होने ( भाग्य के साथ न देने ) के कारण मैं प्रिय
के द्वारा संकेतित स्थान पर नहीं जा सकी । 'हाय ! अब न जाने राजा कामदेव मेरे
विषय में क्या करना चाहता हैं' । स्वेच्छा से नहीं, दुर्भाग्यवश मैं अपराधिनी हो गई ।
राजा स्वभावतः क्रूर होते हैं । कामराज कहीं दण्ड न दे दें, इसकी शङ्का है ।
इस शंका का विभाव राजा के प्रति अपराध है, अनुक्त भी मुखविवर्णतादि
आक्षेपलभ्य अनुभाव है । यह शंका 'भय आदि उत्पन्न कर' कम्प आदि ला देती है,
चिन्ता ऐसा नहीं करती है । अतः शंका चिन्ता से भिन्न है ।
मानसिक एवं शारीरिक दुःख के कारण हुई दुर्बलता से उत्पन्न दुःखविशेष को
प्रथमाननम् २९१
केचित्तु व्याध्यादिप्रभव-बलनाशं ग्लानिमाहुः । तेषां मते चित्तवृत्त्यात्म-
केषु भावेषु नाशरूपायो ग्लानेः कथं समावेश इति ध्येयम् । यद्यपि—
बलस्यापचयो ग्लानिराधिव्याधि-समुद्भवः ।
इतिलक्षणवाक्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुप-
पत्त्या बलनाशजन्यं दुःखमेव वलापचयशब्देन विवक्षितम् ।
विरहेति । विरहजन्याधिसम्भूतबलहानिरित्युक्तिरुचितेति कविशेखरचरणाः ।
श्रम इति । ननु श्रमेण परिक्लान्तापि प्रत्युद्गमादिकरणेऽसमर्था भवतीति प्रस्तुतोदा-
हरणेन श्रमभावस्यैव प्रतीतिरस्त्विति चेन्न, बहुतरशरीरायासहूपश्रमप्रतिपादककारणोप-
न्यासाभावात् ।
बलनाशमिति । बलाभावस्य चित्तवृत्तित्वाभावात् कथं भावत्वम् । भावस्य
चित्तवृत्त्यात्मकता अन्यैः स्वीकृता इत्याशयादिदमुक्तम् । यद्यपि भरतमुनिना तादृशबला-
पचयरूपैव ग्लानिरुक्ता । तत्रापचयेन नाशस्यैव प्रतीतिर्भवति, तथापि तेनैव पूर्वं भावस्य
चित्तवृत्तित्वं कथितम्, तदनुरोधेनात्र तन्नाशजन्यं दुःखमेव ज्ञेयम् ।
ग्लानि कहते हैं, जो मुख की विवर्णता अङ्ग की शिथिलता, आँखों का घूमना आदि
का कारण है । यथा—
परम सौन्दर्यमात्र शेष है, जिसमें ऐसी नवीन चन्द्रलेखा के समान क्षीण गात्र-
वाली नायिका शैवाल के बिछौने पर पड़ी हुई, समीप में आये हुए भी प्रिय का सत्कार
मधुर दृष्टि से ही करती है । ( शैवालशयन से, मन एवं शरीर का ताप है, जिसे शान्त
कर रही हैं, ऐसा ध्वनित होता है और मधुरदृष्टि से ही स्वागत से ध्वनित होता है कि
वह उठने में भी असमर्था है ।)
यहाँ ध्वनित प्रियविरह ( से उत्पन्न बलहानि ) ग्लानि का विभाव है, 'मधुर-
वीक्षणैरेव' में एव शब्द से बोध में आते हुए अगवानी करना, पैर पर गिरना,
आलिङ्गन देना आदि के अभाव ( नहीं करना ) अनुभाव हैं ।
इस पद्य में अगवानी आदि करने में अक्षमता से श्रमभाव व्यक्त होता है, ऐसा
नहीं कह सकते, क्योंकि श्रम के कारण 'बहुतरशरीरायास' का यहाँ अभाव है ।
कोई आचार्य 'व्याधि आदि से उत्पन्न बलनाश' को ही ग्लानि कहते हैं। उनके
मत में चित्तवृत्ति स्वरूप भावों में नाशरूप ( जो चित्तवृत्ति नहीं है ) ग्लानि का
समावेश कैसे होगा ? यह विचारणीय है । ( आचार्यों ने सभी भावों को चित्त में रहने
वाला ही माना है ) । यद्यपि "आधि-व्याधि से उत्पन्न बल की क्षीणता को ग्लानि
कहते हैं"—ऐसा भरतमुनिकृत लक्षण के 'अपचय' शब्द से नाश ही समझा जाता है,
तथापि उनके द्वारा पूर्व में कहे हुए ( चित्तवृत्तिविशेषो भावः ) वचन की अनुपपत्ति के
२१ र०
२९२ रसगङ्गाधरः
दुःख-दारिद्र्यापराधादि-जनितः स्वापकर्ष-भाषणादिहेतुश्चित्तवृत्ति-
विशेषो दैन्यम्।
उदाहरणम्—
हतकेन मया वनान्तरे, वनजाक्षी सहसा विवासिता।
अधुना मम कुत्र सा सती, पतितस्येव परा सरस्वती॥
सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः। अत्र सीतापरि-
त्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः। पतितसाम्यरूप-स्वापकर्षभाषण-
मनुभावः। यदाहुः—
दैन्यं भावं निरूपयांत—दुःखेति। स्वोयदुःखादिकारणेन यद् "अहं पातकी"-
त्यादिभाषणद्वारा वकीयहीनत्वं प्रकाश्यते तेन दैन्यो भावश्चित्तवृत्तिविशेषो व्यज्यते।
उदाहरति—हतकेनेति। सीतापरित्यागानन्तरं रामस्योक्तिरियम्। हतकेन
औचित्य-हननकर्त्रा हतभाग्येन वा, मया रामेण, वनजाक्षी जलजाक्षी कमलनयना अति-
कोमलाङ्गीति भावः, 'पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः, सहसा झटिति
अविचारिततयैव वनान्तरे सुदूरे वने, निर्वासिता ! अधुना सम्प्रति स्वोयघोरापराधे ज्ञाते
सति मयि सा निर्दोषा, सती पतिव्रता सीता, पतितस्य भ्रष्टस्य विप्रस्य, परा सर्वोत्कृष्टः
सरस्वती श्रुतिरिव, मम कुत्र भविष्यति ? यथा पतितैः श्रुतिर्नैव प्राप्यते तथैव सा
मत्सम्पर्कवती नैव भवितुमर्हतीति भावः। स्वस्मिन् पतितवदपकर्षप्रतिपादकं वचनं
दैन्यभावं प्रकाशयति।
अत्रेति। अपराघोऽत्र विभावः। साक्षादपराधस्तेन च दुःखं व्यज्यते। वस्तुतो
नापराधमात्रेण स्वापकर्षभाषणं सम्भवति, अपि तु स्वापराधजन्यदुःखेनैवेति दैन्यलक्षणे
'दारिद्र्यापराधादिसमुत्पन्नदुःखजनित' इत्येव कथनं युज्यते। अत एव 'तज्जन्यं दुःखं
वेति' पक्षान्तरमुक्तम्।
कारण बल के नाश से उत्पन्न दुःख ही यहाँ 'बलापचय' शब्द से विवक्षित है, ऐसा
जानना चाहिए।
दुःख, दरिद्रता, अपराध आदि के कारण उत्पन्न अपनी हीनता को प्रकाशित
करने वाली अपनी उक्ति का कारण जो चित्तवृत्ति उसे दैन्य भाव कहते हैं। उदाहरण-
अभागां मैंने पहले कमल-नयना कोमलाङ्गी सीता को बिना विचारे ही सुदूर
बन में निर्वासित कर दिया ! अब पतित व्यक्ति की श्रुति (वेद) के समान वह
पतिव्रता मेरी कहाँ हो सकती है।
सीता के परित्याग करने के बाद भगवान् रामचन्द्र की यह उक्ति है। यहाँ
सीतापरित्याग रूप अपराध या उस अपराध से उत्पन्न दुःख विभाव हैं और 'पतित के
प्रथमाननम् २९३
चित्तौत्सुक्यान्मनस्तापाद् दौर्गत्याच्च विभावतः ।
अनुभावात्तु शिरसोऽभ्यावृत्तेर्गात्रगौरवात् ॥
देहोपस्करत्यागाद् दैन्यं भावं विभावयेत् ॥ इति ।
दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत् ॥ इति च ।
अत्र हतकेन मया विवासिता, न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव
परिपोषः, न तु शूद्राद्युपमया । यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना
कृतम्, पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव
तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकृतेति तस्य पतितेन साम्यम् । तस्याश्च
श्रुत्येत्युपमालङ्कारो दैन्यमेवालङ्कुरुते ।
चित्तौत्सुक्येति । चित्तस्य औत्सुक्यं, मनोव्यथा, दौर्गत्यं दरिद्रता चेति
दैन्यभावस्य विभावाः, शिरसोऽभ्यावृत्तिः पुनःपुनर्धूननं, देहशैथिल्यं, देहप्रसाधनत्यागश्चेति
अनुभावाः तैभ्यो दैन्यं भावं विभावयेद् जानीयात् । दौर्गत्यादेर्दारिद्र्यादिकारणाद् यद्
अनौजस्यम् ओजोहीनता, सैव दैन्यं यद् मुखमालिन्यादि करोतीति ।
अत्रेति । पूर्वोक्तोदाहरणे मयेत्यनेन मयैव न तु विधिनेति व्यज्यते । तदर्थस्य
पतितसादृश्येनैव परिपुष्टिर्भवति, न तु शूद्रसादृश्यकथनेन 'वृषलस्येव' इत्यनुमितपाठ-
कल्पनेन । जात्यैव शूद्रत्वेनैव "न स्त्रीशूद्रौ वेदमधीयाताम्" इत्यागमबोधितेनैव वेद-
शून्यत्वं शूद्रस्य जन्मनैव विधिना विहितम् । पतितो द्विजातिस्तु विधिना स्वभावेन,
स्वजात्यैव श्रुतिप्राप्त्यधिकारीकृतः, परन्तु स पतितः स्वकीय-पापाचरणेनैव स्वतः श्रुतिं
दूरीकृत्य तादृशपावनवस्तुतो विहीनो भवतीति । तथैव रामोऽपि सीतायाः पतित्वेन
स्वतः सुलभां तां स्वीयाविवेकाद् दूरीकृत्य तदनधिकारी संवृत्त इति रामे पतितद्विजाति-
समान' इस प्रकार का अपने विषय में हीनता के प्रतिपादक वचन अनुभाव हैं। इन्हीं-
से दैन्य संज्ञक भाव अभिव्यक्त हो रहा है । ऐसा ही प्राचीनाचार्यों ने कहा है—
मन की उत्सुकता, मनस्ताप और दरिद्रता इन विभावों से तथा सर को बार
बार हिलाने, देह का भारीपन और शरीर के प्रसाधन का त्याग, इन अनुभावों से दैन्य
भाव को जाने । और यह भी कहते हैं कि दरिद्रता आदि के कारण जो दुर्बलता (ओज-
स्विता का अभाव ) हो जाती है, वही दैन्य भाव है जो मुखमलिनतादि का कारण है ।
यहाँ 'अभागा मैंने सीता को निर्वासित कर दिया, न कि विधाता ने' इस अर्थ
की परिपुष्टि पतितसादृश्य से ही होती है, न कि शूद्रादि के सादृश्य से । क्योंकि शूद्र के
लिए जन्म से ही या जाति से ही वेद को दुर्लभ कर दिया विधातां ने, पर पतित
ब्राह्मणादि के लिए विधाता ने स्वाभाविक रूप से वेद को यद्यपि सुलभ कर दिया है,
तथापि उसी पतित ने उस प्रकार के पाप करके स्वतः वेद को दूर कर दिया । अतः
२९४ रसगङ्गाधरः
तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्व-कृतज्ञत्व,-
निर्दयत्व दयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेति स्मृत्या च
लेशतः प्रतीयमानया ।
इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनितो ध्यानपरपर्यायो वैवर्ण्य-भूलेखनाऽ-
धोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता ।
सादृश्यं संघटते । तस्याश्च सीतायास्तु श्रुतिसादृश्यमिति उपमालङ्कारोऽत्र स्फुटतया
वाच्यो व्यङ्ग्यं दैन्यमलङ्करोति । व्यङ्ग्यप्राधान्यादत्रोत्तमकाव्यतैवति । दैन्यभावोदाहरण-
त्वमस्य भवत्येव ।
मयेति । वनवासेऽपि सीतया अत्यक्तोऽहं, तादृशेनात्यक्तेन मयेत्युपादानलक्षणया
'स्वसिद्धये पराक्षेप' इत्युक्तलक्षणशक्त्या ज्ञायते । तेन लक्ष्यार्थेन रामे कृतघ्नत्व-निर्दयत्व-
गर्हितत्वादिध