सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 308, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 308

२७६ रसगङ्गाधरः
ङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं
सति गुणीभूतव्यङ्ग्यत्वापत्तिः, पृथग्विभावानुभावाभिव्यक्तस्यैव ( भावस्य )
गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । अत एव न नान्तरीयकस्य भावस्य
ध्वननं भवति । अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत् ।
नान्तरीयकस्यापि भावस्य प्रधानभावाङ्गभूतस्य व्यङ्ग्यत्वेन तमादाय गुणीभूत-
व्यङ्ग्यत्वं कथं न तत्र सम्भवति—इत्याशङ्कां निरस्यति—न चैवमित्यादिना ।
एषा चाशङ्का विवक्षावशाद्ध्वनेरपि गुणीभूतव्यङ्ग्यत्वं गुणीभूतव्यङ्ग्यस्यापि
ध्वनित्वमित्यभ्युपगच्छतां ध्वनिकारादीनां मतमनुसृत्य । स्वमते तु यथेच्छं
नान्तरीयकस्य पार्यन्तिकस्यैव वेति नावसरोऽस्या आशङ्कायाः । पृथग्वि-
त्यादि । पृथक् स्वतन्त्रावेकभावाभिव्यञ्जकभिन्नौ यौ विभावानुभावौ ताभ्याम-
भिव्यक्तस्यैव, न त्वेकविभावानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्येत्यर्थः ।
भावस्येत्यनन्तरं चमत्कारातिशयवत इति पूरणीयम् । अभिव्यञ्जकस्य च पृथक्त्वा-
न्नान्तरीयकत्वं न सम्भवतीति हेतोः क्वचित् पुस्तके ( काशीमुद्रिते ) पृथग्विभावानु-
भावाभिव्यक्तस्यैवातएवाऽनान्तरीयकस्य भावस्य गुणीभूतव्यङ्ग्यव्यपदेश-
हेतुत्वात् , अन्यथा गर्वादिध्वनेरुच्छेद एव स्यात् ! इति पाठोऽपि सम्य-
ग्वेव । अत एवेत्यादि । अत्र अत एव नान्तरीयकस्य भावस्य ध्वननं
भवति इति निर्णयसागरमुद्रितः पाठोऽसङ्गतत्वादस्माभिरुपेक्षितः । अत्र ध्वननम्
प्राधान्येनाभिव्यक्तिः । यद्यपि नान्तरीयकस्यात एवाङ्गभूतस्य भावस्याऽप्रधानस्य
( अतिशय-चमत्कार-युक्तता के कारण ) प्रधानता सुनिश्चित हो जाती वहाँ उसी
प्रधान भाव के अभिव्यञ्जक सामग्री से प्रधान भाव के पहले अभिव्यक्त होने वाला
नान्तरीयक भाव प्रधान भाव का अङ्ग हो जाता । फलतः उस नान्तरीयक भाव
की अभिव्यक्ति भी सुस्पष्ट रूप से नहीं हो पाती । इससे वह नान्तरीयक भाव
दुर्बल रूप में प्रतीत होता और उसमें प्रधान भाव के समान चमत्कारातिशय भी
नहीं होता । अतः ऐसा नान्तरीयक भाव यदि किसी ध्वन्यमान भाव का अङ्ग—
व्यञ्जक कदाचित् हो भी तो भी कोई अनुपपत्ति नहीं । इसके उदाहरण के रूप में
'गर्व' का प्राधान्येन अभिव्यञ्जन के लिए उससे पूर्व नान्तरीयक 'अमर्ष' का अभि-
व्यञ्जन या 'अमर्ष' का ही प्राधान्येन अभिव्यञ्जन से पूर्व उसी सामग्री से नान्त-
रीयक रूप में अभिव्यक्त 'गर्व' को लिया जा सकता है । अतः स्पष्ट है कि
नान्तरीयक भाव में वह चमत्कार नहीं होता जो प्रधानीभूत भाव में होता । अत
एव व्यङ्ग्य होने पर भी किसी नान्तरीयक भाव के आधार पर किसी काव्य को
'गुणीभूतव्यङ्ग्य' नहीं कहा जा सकता । 'गुणीभूतव्यङ्ग्य' तो तब कहा जाता है