रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 313, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् २८१
अनुभावा
यद्यप्यत्रास्या एव स्मृतेः संचारिण्याः, नायिकारूपस्य विभावस्य
हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद् विप्रलम्भरसाभिव्यक्तौ
रसध्वनित्वं शक्यते वक्तुम्, तथापि स्मृतेरेवात्र पुरःस्फूर्तिकत्वाच्चमत्कारी-
त्वाच्च तद्ध्वनित्वमुक्तम् ।
तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेद-
स्मृतिबीजस्य बोधिकाः' इत्युक्तत्वात् । आक्षेपगम्या इति तु वाचकशब्दाभावात् ।
अस्य विप्रलम्भध्वनित्वमाशङ्क्य निराचष्टे—यद्यपीत्यादिना । हन्तपदगम्य-
स्येति निपातानां द्योतकत्वमिति मतानुसारेणोक्तम् । पुरःस्फूर्तिकत्वादिति तच्छब्द-
सामर्थ्यात् । चमत्कारित्वाच्चेति वचनस्वाभाव्यात् । तद्ध्वनित्वम्—स्मृति-
ध्वनित्वम् ।
स्मृतेरस्यास्तत्पदवाच्यतासंस्पर्शेण कथं ध्वनित्वमिति निरूपयति—तदादे-
रित्यादिना । बुद्धिस्थो यः प्रकारो घटत्वादिस्तदवच्छिन्ने घटादौ शक्तिरित्येकः
प्रसिद्धो नयः । अत्र च घटत्वादीनां प्रकाराणामानन्त्येन शक्यानन्त्यप्रसङ्गः, तं परि-
हर्तुं बुद्धिस्थत्वेनैकेन रूपेणानुगमान्न तदादिपदस्य नानार्थत्वापत्तिरिति बोध्यम् ।
तथा च पक्षेऽत्र बुद्धिस्थत्वं न शक्यं न वा शक्यतावच्छेदकम् अपि तु शक्यतावच्छेद-
कतावच्छेदकमिति स्पष्टम् । अत एवास्योपलक्षणत्वम् । शक्यतावच्छेदकपर्यनतस्य
शक्यत्वं तु प्रसिद्धम् । तथा चात्र पक्षे बुद्धेः शक्यकोटावप्रवेशान्न तत्पदेन बुद्धित्वेन
सामान्यरूपेणापि बुद्धिविशेषस्य स्मृतेर्वाच्यतासंस्पर्श इति सुव्यक्तमेव । यदा तु पूर्वोक्त-
प्रकारेण बुद्धिस्थत्वं शक्यतावच्छेदकतया शक्यमेव, न पुनः शक्यतावच्छेदकतावच्छेदक-
तयाऽशक्यम्, तदापि बुद्धित्वेन रूपेण स्मृतेस्तत्पदवाच्यत्वेऽपि स्मृतित्वेन विशेषरूपेण
आक्षेपलभ्य भ्रुकुटी का उन्नयन ओर शरीर में निश्चलता आदि इसके अनुभाव हैं
जिनसे स्मृतिस्वरूप चित्तवृत्ति ध्वनित होती है ।
यहाँ प्रश्न यह उठता कि इस पद्य से विप्रलम्भ शृङ्गार रस की ध्वनि क्यों नहीं
मानी जाती, कारण इसमें अभिव्यज्यमान स्मृतिस्वरूप सञ्चारिभाव, नायिकारूपी
आलम्बनविभाव और 'हन्त' इस निपात पद से गम्यमान हृदय-विकलतारूपी अनुभाव
के प्रस्तुत होने से इनके संयोग से विप्रलम्भ की ध्वनि की परिस्थिति तो है ही ।
फिर इसमें प्रधानरूप में स्मृति की ही ध्वनि क्यों मानी जाती ? इसका उत्तर यही
दिया गया है कि यहाँ शब्दसामर्थ्य से स्मृति की ही अभिव्यक्ति पहले होती और
वही स्मृति चमत्कारिणी है । इसीलिए यहाँ स्मृतिध्वनि ही मान्य है, विप्रलम्भ-
ध्वनि नही ।