सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 321, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 321

प्रथमाननम् २८९
*चेत्, तस्य धृत्युपयोगितयैवाऽभिव्यक्तेः ।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का ।
उदाहरणम्—
विधिवञ्चितया मया न यातं, सखि ! सङ्केतनिकेतनं प्रियस्य ।
अधुना बत ! किं विधातुकामो, मयि कामो नृपतिः पुनर्न जाने ॥
रूपेणैव ध्वननमत्र प्रतीयत इति कथमस्य पद्यस्य धृतिसंज्ञक-भावध्वनेरुदाहरणत्वमिति
प्रश्नः । तस्य चिन्ताऽभावरूपस्य वस्तुनो धृतिभावोपयोगितयैव तदुपकारितयैव तदङ्ग-
तयैवाभिव्यक्तिर्भवतीति धृतिरेवात्र प्रधानं, चिन्ताऽभावरूपं वस्तु गौणमिति भवतीदं
पद्यं धृतिभावध्वनेरुदाहरणमित्युत्तरम् ।
शङ्करं शङ्करं नत्वा रसगङ्गाधरं हरम् ।
अपूर्णां पूरये व्याख्यां रम्यां रसतरङ्गिणीम् ॥
शङ्काख्यं भावं लक्षयति—किमनिष्टेति । भाविनः स्वानिष्टस्यानिश्चितस्यापि
या आशङ्का मनसि जायते सैव शङ्काख्यो भावः । आशङ्कात्र सम्भावना । अनिष्टसम्भाव-
नायाः कारणरूपाः परक्रूरतादयः शङ्काया विभावः, वैवर्ण्यादिश्चानुभावः ।
विधीति । हे सखि ! भाग्यप्रतारितया मया नायिकया प्रियस्य संकेतभवनं
नैव गतम्, न स्वेच्छया विवेकपूर्वकमपि तु भाग्यवशादेवेति नाहमपराधिनीति ध्वनितम्
प्रियेत्यनेन प्रणयाथयत्वेन तत्रावश्यं गन्तुमुचितमिति च । अधुना हन्त ! भाग्यप्रेरणया
मया अपराधे कृते सति नृपतिः कामो राजा कामदेवः, शासकत्वाद् युवजनानां स राजेति
दण्डदायकः क्रूर इति ध्वन्यते । स किं विधातुकामो वर्तते इति न जाने, कठोरं दण्डं
दा यति, किं वा विधास्यतीति शङ्का । विधातुकाम इत्यत्र "तुंकाममनसो" रित्यादि-
वार्त्तिकेन मलोपः ।
माना गया ? उत्तर है कि यहाँ 'चिन्ता का अभाव' यह वस्तु प्रधान नहीं है, अपितु धृति-
भाव के उपकारक के रूप में गौण ही है । उसी रूप में चिन्ता के अभाव की अभिव्यक्ति
हुई है । अतः यहाँ भावध्वनि ही प्रधान है । वस्तु-भावध्वनि के पोषक होने से ही
चमत्कारक है ।
'किस प्रकार का अनिष्ट मुझे हो जायेगा ?' इस प्रकार की मानसिक भावना
को शंका नामक भाव कहते हैं । इसमें अनिश्चित अनिष्ट के सन्देह का चिन्तन रहता
है । यथा—
————
*किन्हीं अपरिहार्य कारणों से आचार्य डॉ० श्रीनारायण मिश्र जी द्वारा
सम्पादित व्याख्या समाप्त्यन्त तक सम्पन्न न हो पायी । अतः अवशिष्ट भाग की पूर्ति
आचार्य श्री डॉ० शशिनाथ झा जी द्वारा की गयी ।